अथाङ्कास्यम्—
अङ्कान्त एव पात्रमङ्कान्तपात्रम् । तेन विश्लिष्टस्योत्तराङ्कमुखस्य सूचनं तद्वशेनोत्तराङ्कावतारोऽङ्कास्यमिति । यथा वीरचरिते द्वितीयाङ्कान्ते—
भगवन्तौ वसिष्ठविश्वामित्रौ भवतः सभार्गवानाह्वयतः । क्व भगवन्तौ ? महाराजदशरथस्यान्तिके । तदनुरोधात् तत्रैव गच्छामः ।455
नन्वङ्कमध्ये प्रविष्टमङ्कान्तं यावदनुवर्तमानमपि पात्रमङ्कान्तपात्रमिति वक्तुं शक्यते यथाङ्कावतारे तत्राह अङ्कान्त एवेति । वक्ष्यमाणाङ्कार्थसूचनाय अङ्कान्ते एव प्रविष्टं पात्रमङ्कान्तपात्रमित्यर्थः । विश्लिष्टस्येति । अङ्कावतारत्वं मा प्रसाङ्क्षीदित्युक्तस्य विच्छेदस्य विवरणमित्युक्तं भवति456 । उत्तराङ्कमुखस्येत्यनेन आस्यशब्दं समञ्जसयति । मुखस्यावयवो ह्यास्यम् । तस्माद् येन दष्टो भवति पूर्वाङ्कस्तदङ्कास्यमित्युक्तं भवति । तद्वशेनाङ्कावतार इति फलितमर्थमाह ।