प्रासङ्गिकमपि पताका-प्रकरीभेदाद् द्विविधमित्याह—
पताकाप्रकरीभेदाद् द्विविधत्वं प्रपद्यते102
सानुबन्धं पताकाख्यं प्रकरी च प्रदेशभाक् ॥ १३ ॥
दूरं यदनुवर्तते प्रासङ्गकं सा पताका, सुग्रीवादिवृत्तान्तवत् । पताकेवासाधारणनायकचिह्नवत् तदुपकारित्वात् । यदल्पं = 103दूरं नानुवर्तते सा प्रकरी, श्रावणादिवृत्तान्तवत् ।