15 तत्साधनं व्युत्पादयति—
स्तोकोद्दिष्टः कार्यसाधकः 116परस्तादनेकप्रकारं विस्तारी हेतुविशेषो बीजवद् बीजम् । यथा रत्नावल्यां वत्सराजस्य रत्नावलीप्राप्तिहेतुरनुकूलदैवो यौगंधरायणव्यापारो विष्कम्भके न्यस्तः 117—
कः संदेहः ।
यथा च वेणीसंहारे द्रौपदीकेशसंयमनहेतुर्भीमक्रोधोपचितो120 युधिष्ठिरोत्साहो बीजमिति । तच्च महाकार्यावान्तरकार्यहेतुभेदादनेकप्रकारमिति ।
उद्देशगतमल्पत्वमिति दर्शयति स्तोकोद्दिष्टस्त्विति । बीजवद् बीजमिति बीजशब्दस्य गौणतामाह ।