अन्यदवस्थापञ्चकमाह—

अवस्थाः पञ्च कार्यस्य प्रारब्धस्य फलार्थिभिः ।
आरम्भयत्नप्राप्त्याशानियताप्तिफलागमाः ॥ १९ ॥

अर्थप्रकृतिव्यतिरिक्तं संप्रत्यवस्थापञ्चकमुच्यत इति दर्शयति अन्यदिति ।