17

प्रारम्भेऽस्मिन् स्वामिनो वृद्धिहेतौ दैवे चेत्थं दत्तहस्तावलम्बे ।129
इत्यादिना सचिवायत्तसिद्धेर्वत्सराजस्य कार्यारम्भो यौगंधरायणमुखेन दर्शितः ।

कार्यसिद्धिहेतोः प्रयत्नादन्यः किमारम्भो नामावस्थान्तरमस्ति । तत्राह इदमहमिति । इदमहं संपादयामीति मनसा संकल्प्य हि कश्चित् कार्यार्थं व्याप्रियते । तस्मात् स संकल्प एव प्रयत्नपूर्वभावी कार्यारम्भ इत्युच्यते । तद्दर्शितम् औत्सुक्यमात्रमिति । अत एव हि 130 कार्यसाधनेच्छामात्रमाद्यप्रवृत्तिरित्युच्यते इति । ननु फलभोक्तुर्वत्सराजस्यैव कार्यारम्भेण भवितव्यम् । किमत्र यौगंधरायणेन । तत्राह सचिवायत्तसिद्धेरिति । यथा यजमानेन वृतानामृत्विजां व्यापारो यजमानस्य फलहेतुर्भवति तद्वत् वत्सराजसचिवव्यापारोऽपि वत्सराजस्य131 व्यापारो भवति । तदायत्तसिद्धित्वात् तस्येति ।

अथ प्रयत्नः—

प्रयत्नस्तु तदप्राप्तौ व्यापारोऽतित्वरान्वितः ॥ २० ॥

तस्य फलस्याप्राप्तौ 132सत्यामुपाययोजनादिरूपश्चेष्टाविशेषः प्रयत्नः । यथा रत्नावल्यामालेख्याभिलेखनादिर्वत्सराजसमागमोपायः—

सागरिकः

133तहवि मे णत्थि134 अण्णो दंसणोवाओ त्ति जहतह आलिहिअ जहासमीहिअं करिस्सं ।135

इत्यादिना प्रतिपादितः ।

प्राप्त्याशामाह—

उपायापायशङ्काभ्यां प्राप्त्याशा प्राप्तिसंभवः ।

  1. १।८
  2. M.G.T. reads kāryasādhake kasyecchāmātram. Gr.MS. reads kāryasādhakasyecchāmātra (?) tv ādyā prakṛtir ity ucyate iti.

  3. Tri.MS. which has skipped over some lines before (see Note 49) starts again here, and reads vyāpārasyaiva.

  4. N.S.P. omits satyām.

  5. ‘तथापि मे नास्त्यन्यो दर्शनोपाय इति यथातथालिख्य यथासमीहितं करिष्यामि ।’ इति च्छाया.

  6. There are different readings in the edition of the Ratnā:alī to which I had access.

  7. रत्ना० पृ० ४६