नियताप्तिमाह—

अपायाभावतः प्राप्तिर्नियताप्तिः सुनिश्चिता ॥ २१ ॥

अपायाभावादवधारितैकान्ता फलप्राप्तिर्नियताप्तिरिति । यथा रत्नावल्याम्—

विदूषकः

140सागरिका उण दुक्करं 141जीविस्सदि ।142

इत्युपक्रम्य,

143किं ण उपायं चिंतेसि ।

इत्यनन्तरम्,
राजा

वयस्य, देवीप्रसादनं मुक्त्वा नान्यमत्रोपायं पश्यामि ।144

इत्यनन्तराङ्कार्थबिन्दुनानेन देवीलक्षणापायस्य प्रसादनेन निवारणान्नियता फलप्राप्तिः सूचितेति ।

19 अर्थप्रकृतीनामिति । बीजादीनामर्थप्रकृतीनामवस्थाभिः पञ्चभिर्योगात् यथासंख्यं संधयो भवन्ति । बीजस्यारम्भेणान्वयो मुखसंधिः । बिन्दोः प्रयत्नेनान्वयः प्रतिमुखसंधिः । पताकायाः प्राप्त्याशयान्वयो गर्भसंधिः । यद्यप्यनियतैव पताका, तथापि यदा पताका भवति तदानीमवस्थापर्वणा प्राप्त्याशया145 योगात् तन्निबन्धनगर्भसंधिर्भवति । यदा तु सा नास्ति तदानीं गर्भसंधिः146 केवला प्राप्त्याशा भवतीति । एवमुपर्यपि नेयम् ।

  1. ‘सागरिका पुनः दुष्करं जीविष्यति ।’ इति च्छाया.

  2. The edition of the Ratnā:alī to which I had access has different readings here.

  3. पृ० १२४
  4. ‘किं नोपायं चिन्तयसि ।’ इति च्छाया.

  5. पृ० १२५
  6. Gr.MS. and Tri.MS. read what is given in the text. T.MS. and M.G.T. read as prāptyāśāyogāt.

  7. This reading garbhasaṃdhiḥ kevalā prāptyāśā bhavatīti is found in M.G.T. Tri.MS. reads as garbhasaṃdhiṃ kevalaprāptyāśā bhavatīti. T.MS. and Gr.MS. seem to read garbhasaṃdhiṃ vinā. The reading garbhasaṃdhiḥ kevalā prāptyāśā bhavatīti seems to me to be preferable. See the Introduction for a discussion on the arthaprakṛtis, avasthās and saṃdhis.