साधारणस्त्री गणिका कलाप्रागल्भ्यधौर्त्ययुक् ॥ २१ ॥

तद्व्यवहारो विस्तरतः शास्त्रान्तरे निदर्शितः । दिङ्मात्रं तु—

छन्नकामसुखार्थाज्ञस्वतन्त्राहंयुपण्डकान् ।
रक्तेव रञ्जयेदाढ्यान् निःस्वान् मात्रा विवासयेत् ॥ २२ ॥

103 छन्नं ये कामयन्ते ते छन्नकामाः श्रोत्रियवणिग्लिङ्गिप्रभृतयः, सुखार्थः= अप्रयासावाप्तधनः सुखप्रयोजनो वा, अज्ञः=मूर्खः, स्वतन्त्रः = निरङ्‏कुशः, अहंयुः = अहंकृतः, पण्डकः = 589बालषण्डादिः, एतान् बहुवित्तान् रक्तेव रञ्जयेदर्थार्थम् । तत्प्रधानत्वात्तद्‏वृत्तेः । गृहीतार्थान् कुट्टिन्यादिना निष्कासयेत् पुनः प्रतिसंधानाय । इदं तासामौत्सर्गिकं रूपम् ।

छन्नकाम इत्यत्र कामस्य छन्नत्वे प्रवृत्त्यनुपपत्तेः छन्नत्वं क्रियाविशेषणमित्याह छन्नं ये कामयन्त इति । सुखार्थ इत्यत्र अर्थशब्दः प्रयोजनवाची धनवाची वेत्याह अप्रयासावाप्तधन इत्यादिना । पण्डकशब्दः स्त्र्ययोग्यतामात्रवचन इत्याह पण्डको बालषण्डादिरिति । वस्तुतो रागविरहे कारणमाह अर्थार्थमिति । स्वयमनिष्कासने कारणमाह >पुनः प्रतिसंधानायेति । आसां रूपस्य क्वचिदपवादं वक्तुमाह इदं तासामिति ।

  1. N.S.P. vātapaṇḍādiḥ.