अथ शान्तः—
विनयादिनेतृसामान्यगुणयोगी धीरशान्तः । द्विजादिक इति विप्रवणिक्सचिवादीनां प्रकरनेतॄणामुपलक्षणम् । विवक्षितं चैतत् । तेन नैश्चिन्त्यादिगुणयोगेऽपि499 विप्रादीनां शान्ततैव न लालित्यम् । यथा मालतीमाधवमृच्छकटिकादौ माधव-चारुदत्तादिः ।
गुणोपाधयः खल्वमी शान्तादयः शब्दाः । तेनाह सामान्यगुणयोगीति । सामान्यगुणो नायकमात्रगामी गुणः । द्विजादिशब्दः प्रकरणनायकानामुपलक्षणमिति501 । विप्रवणिक्सचिवपुरोहितामात्यसार्थवाहादयः प्रकरणनायकाः । ननु गुणोपाधयः खल्वमी शब्दाः । तेन लालित्यादिहेतुभूतगुणयोगे सति किं विप्रादिर्धीरललितो न भवति । यतो नृपतावेव धीरललितत्वादयो व्यवस्थाप्यन्ते । तत्राह विवक्षितं चैतदिति । यद्धीरशान्तो द्बिजादीक एव, न तु क्षत्रियादिरिति तद् विवक्षितमित्यर्थः ।