रूपकेषु तु—

रक्तैव त्वप्रहसने नैषा दिव्यनृपाश्रये ।

प्रहसनवर्जिते प्रकरणादौ रक्तैवैषा विधेया । यथा मृच्छकटिकायां वसन्तसेना चारुदत्तस्य । प्रहसने त्वरक्तापि हास्यहेतुत्वात् । नाटकादौ तु दिव्यनृपनायकाश्रये नैव विधेया ।

सूत्रस्थाप्रहसनेतिविशेषणफलं विवृणोति प्रहसने त्वरक्तापीति । नैषा दिव्यनृपाश्रये इति शुद्धदिव्ये गणिका निषिध्यते । तेन दिव्यमर्त्ये विक्रमोर्वशीयादौ गणिका भवत्येवेति ।