अथ भेदान्तराणि—
104 स्वाधीनपतिका, वासकसज्जा, विरहोत्कण्ठिता, खण्डिता, कलहान्तरिता, विप्रलब्धा, प्रोषितप्रिया, अभिसारिका इत्यष्टौ स्वस्त्रीप्रभृतीनामवस्थाः । नायिकाप्रभृतीनामप्यवस्थारूपत्वे सत्यवस्थान्तराभिधानं पूर्वासां धर्मित्वप्रतिपादनाय । अष्टाविति न्यूनाधिकव्यवच्छेदः । न च वासकसज्जादेः स्वाधीनपतिकादावन्तर्भावः । अनासन्नप्रियत्वात् । वासकसज्जाया न स्वाधीनपतिकात्वम् । यदि चैष्यत्प्रियापि स्वाधीनपतिका 590प्रोषितप्रियापि स्वाधीनपतिका तदा प्रोषितप्रियापि न पृथग्वाच्या । न चेयता 591व्यवधानेनासत्तिरियता त्वनासत्तिरिति नियन्तुं शक्यम् । न चाविदितप्रियव्यलीकायाः खण्डितात्वं, नापि प्रवृत्तरतिभोगेच्छायाः प्रोषितप्रियात्वं, स्वयमगमनान्नायकं प्रत्यप्रयोजकत्वान्नाभिसारिकात्वम् । एवमुत्कण्ठिताप्यन्यैव पूर्वाभ्यः । औचित्यप्राप्तप्रियागमनसमयातिवृत्तिविधुरा न वासकसज्जा । तथा विप्रलब्धापि वासकसज्जावदन्यैव पूर्वाभ्यः । उक्त्वा नायात इति प्रतारणाधिक्याच्च वासकसज्जोत्कण्ठितयोः पृथक् । कलहान्तरिता तु यद्यपि विदितव्यलीका तथाप्यगृहीतप्रियानुनया पश्चात्तापप्रकाशितप्रसादा पृथगेव खण्डितायाः । तत् स्थितमेतदष्टाववस्था इति ।
आसामिति स्वस्त्रीप्रभृतीनां संग्रह इति दर्शयति स्वस्त्रीप्रभृतीनामवस्था इति । ननु नायकनायिकाप्रभृतिशब्दानामपि गुणापादितावस्थावचनत्वादासां भेद एव वक्तव्यः । पुनः किमवस्थाग्रहणेन । तत्राह नायिकाप्रभृतीनामपीति । शब्दाधिक्यमर्थाधिक्यफलमिति न्यायात् नायिकाप्रभृतीनां धर्मिणीनां स्वाधीनपतिकात्वादयः कथं धर्मा भवेयुरिति पुनस्तद्ग्रहणम् । अन्यथा हि यस्या नायिकात्वमवस्था, तस्या एव स्वाधीनपतिकात्वमिति 592अवस्थावन्त एव एते भेदा अपि धर्मा भवेयुः, न पुनर्नायिकानामिति । ननु स्वरूपालोचनेनैव एषामष्टत्वे सिद्धे पुनः किमष्टत्वग्रहणेन । तत्राह अष्टाविति 593न्यूनाधिकव्यवच्छेद इति । न्यूनत्वमेवाशङ्क्य समादधाति न चेत्यादिना । ननु विशेषे गोत्वादौ चतुष्पात्त्वस्यानन्तर्भावेऽपि105 विशेषान्तर्भावो दृष्ट इति मन्वानो वासकसज्जायाः स्वाधीनपतिकायां नान्तर्भाव इत्याह वासकसज्जाया न स्वाधीनपतिकात्वमिति । अनासन्नप्रियत्वादित्येव हेतुः । तमिमं विपक्षे बाधकोपन्यासेन द्रढयति यदि चेति । आसत्तिविशेषात् तयोरस्तु नियम इति चेत् तत्राह न चेति । तर्हि खण्डितायामन्तर्भावो भविष्यति । तत्राह न चाविदितेति । सा हि विदितप्रियव्यलीका । इयं तु नैवमित्यर्थः । तर्हि अनासन्नप्रियत्वादेव प्रोषितप्रियायामन्तर्भावो भविष्यति । तत्राह नापीति । इयं तु प्रवृत्तरतिभोगेच्छा । तस्यास्तु प्रियः प्रोषित इति ज्ञानात् सा न प्रवृत्तरतीच्छा । तर्हि अभिसारिकायामन्तर्भावो भविष्यति । तत्राह स्वयमिति । अभिसरन्ती अभिसारयन्ती वा हि अभिसारिका । वासकसज्जायास्तु अभिसरणे कर्तृत्वं प्रयोजकत्वं च नास्तीत्यर्थः । वासकसज्जां परिसमाप्य उत्कण्ठिताया भेदमाह एवमिति । वासकसज्जान्यायेनेत्यर्थः । तर्हि तस्या वासकसज्जायामन्तर्भावो भविष्यति । तत्राह औचित्येति । उत्कण्ठिता हि औचित्यप्राप्तया प्रियागमसमयातिवृत्त्या खिद्यते । वासकसज्जा तु न तथेति । एवमुत्कण्ठितामपि परिसमाप्य विप्रलब्धाया भेदमतिदिशति तथेति । तर्हि वासकसज्जोत्कण्ठितयोरेवान्तर्भावो विप्रलब्धाया भविष्यति ।594 तत्राह उक्त्वेति । आगमिष्यामीत्युक्त्वापि अनागतः प्रियो यस्याः सा विप्रलब्धा न वासकसज्जा । उत्कण्ठिता तु यद्यपि विदितप्रियव्यलीका, तथापि ततो विप्रलब्धायां प्रियप्रतारणमधिकम् । ततो595 वासकसज्जोत्कण्ठितयोः पृथक् विप्रलब्धेत्यर्थः । ननु कलहान्तरिताया विदितप्रियव्यलीकत्वात् खण्डितायामन्तर्भावो भविष्यति । तत्राह कलहान्तरितेति । प्रियव्यलीकवेदने समानेऽपि खण्डिताकलहान्तरितयोः, सा खण्डिता गृहीतप्रियानुनया । इयं कलहान्तरिता तु अगृहीतप्रियानुनया सती गते प्रिये पश्चात्तापेन प्रकाशितप्रसादा भवति । अतः खण्डितायाः कलहान्तरिता पृथगेवेत्यर्थः । तेन न्यूनताभावद् अष्टसंख्यावत्त्वमस्त्येवेत्याह तदिति ।
-
N.S.P. omits proṣitapriyāpi svādhīnapatikā tadā.
↩ -
N.S.P. vyavadhānenāsattir iti niyantum, etc.
↩ -
It is not clear. T.MS., Gr.MS. and M.G.T. read avasthāvata eva. Tri.MS. gives as avasthā. ata eva ete, etc.
↩ -
Only Gr.MS. gives this pratīka. In T.MS. it is missing.
↩ -
The portion from tarhi to tato is missing in T.MS. and Gr.MS.
↩ -
The portion from tarhi to tato is missing in T.MS. and Gr.MS.
↩