अथ वासकसज्जा—
मुदा वासकसज्जा स्वं मण्डयत्येष्यति प्रिये ॥ २४ ॥
स्वमात्मानं वेश्म च हर्षेण भूषयत्येष्यति प्रिये वासकसज्जा । यथा—
निजपाणिपल्लवतलस्खलनादभिनासिकाविवरमुत्पतितैः ।
अपरा परीक्ष्य शनकैर्मुमुदे मुखवासमास्यकमलश्वसनैः ॥596
स्वशब्दस्य आत्मवाचित्वमात्मीयवाचित्वं चाङ्गीकृत्याह स्वमात्मानं वेश्म चेति ।
- शिशु॰ ९ । ५२↩