तत्र सखी । यथा—

मृगशिशुदृशस्तस्यास्तापं कथं कथयामि ते दहनपतिता दृष्टा मूर्तिर्मया न हि चैन्दवी ।
इति तु विदितं नारीरूपः स लोकदृशां सुधा तव शठतया शिल्पोत्कर्षो विधेर्विघटिष्यते ॥

यथा च—610

सच्चं जाणइ दट्टुं सरिसम्मि जणम्मि जुज्जए राओ ।
मरउ ण तुमं भणिस्सं मरणं पि सलाहणिज्जं से ॥611

  1. ‘सत्यं जानाति द्रष्टुं सदृशे जने युज्यते रागः ।
    म्रियतां न त्वां भणिष्यामि मरणमपि श्लाघनीयमस्याः ॥’

    इति च्छाया.

  2. गाथा॰ १ । १२