अथ कान्तिः—
626मन्मथाप्यायितच्छाया सैव कान्तिरिति स्मृता ॥ ३५ ॥
शोभैव रागावतारघनीकृता कान्तिः । यथा—
उन्मीलद्वदनेन्दुदीप्तिविसरैर्दूरे समुत्सारितं
भिन्नं पीनकुचस्थलस्य च रुचा हस्तप्रभाभिर्हतम् ।
एतस्याः कलविङ्कण्ठकदलीकल्पं मिलत्कौतुका-
दप्राप्ताङ्गसुखं रुषेव सहसा केशेषु लग्नं तमः ॥
यथा हि महाश्वेतावर्णनावसरे भट्टबाणस्य ।
मिलत्कौतुकादिति । अङ्गसुखप्राप्तिकौतुकात् मिलदित्यर्थः ।627