अथ विलासः—

तात्कालिको विशेषस्तु विलासोऽङ्गक्रियादिषु ।

दयितावलोकनादिकालेऽङ्गे क्रियायां वचने च सातिशयविशेषोत्पत्तिः=विलासः । यथा मालतीमाधवे—

अत्रान्तरे किमपि वाग्विभवातिवृत्तवैचित्र्यमुल्लसितविभ्रममायताक्ष्याः ।
तद्भूरिसात्विकविकारविशेषरम्यमाचार्यकं विजयि मान्मथमाविरासीत ॥641

  1. १।२९