अथ विच्छित्तिः—

आकल्परचनाल्पापि विच्छित्तिः कान्तिपोषकृत् ॥ ३८ ॥

118 स्तोकोऽपि वेषो बहुतरकमनीयताकारी=विच्छित्तिः । यथा कुमारसंभवे—

कर्णार्पितो लोध्रकषायरूक्षे गोरोचनाभेदनितान्तगौरे ।
तस्याः कपोले परभागलाभाद् बबन्ध चक्षूंषि यवप्ररोहः ॥642

  1. ७।१७