अथ विभ्रमः—
विभ्रमस्त्वरया काले भूषास्थानविपर्ययः ।
यथा—
अभ्युद्गते शशिनि पेशलकान्तदूतीसंलापसंवलितलोचनमानसाभिः ।
अग्राहि मण्डनविधिर्विपरितभूषाविन्यासहासितसखीजनमङ्गनाभिः ॥
यथा वा ममैव—
श्रुत्वायातं बहिः कान्तमसमाप्तविभूषया ।
भालेऽञ्जनं दृशोर्लाक्षा कपोले तिलकः कृतः ॥