अथ किलकिञ्चितम्—
क्रोधाश्रुहर्षभीत्यादेः संकरः किलकिञ्चितम् ॥ ३९ ॥
यथा ममैव—
रतिक्रीडाद्यूते कथमपि समासाद्य समयं
मया लब्धे तस्याः क्वणितकलकण्ठार्धमधरे ।
कृतभ्रूभङ्गासौ प्रकटितविलक्षार्धरुदित-
स्मितक्रोधोद्भ्रान्तं पुनरपि विदध्यान्मयि मुखम् ॥