अथ विहृतम्—
प्राप्तकालं न यद् व्रूयाद् व्रीडया विहृतं हि तत् ।
प्राप्तावसरस्यापि वाक्यस्य लज्जया यदवचनं तद् विहृतम् । यथा—
अमरु॰ श्लो॰ १३६पादाङ्गुष्ठेन भूमिं किसलयरुचिना सापदेशं लिखन्ती
भूयो भूयः क्षिपन्ती मयि सितशबले लोचने लोलतारे ।
121 वक्त्रं ह्रीनम्रमीषत्स्फुरदधरपुटं वाक्यगर्भं दधाना
यन्मां नोवाच किंचित् स्मृतमपि646 हृदये मानसं तद् दुनोति ॥
-
N.S.P. sthitam api.
↩