122 स्पष्टम् । एवं तत्तत्कार्यान्तरेषु सहायान्तराणि योज्यानि । यदाह—

अन्तःपुरे वर्षवराः किराता मूकवामनाः ॥ ४४ ॥
म्लेच्छाभीरशकाराद्याः स्वस्वकार्योपयोगिनः ।

शकारः=राज्ञः श्यालो हीनजातिः ।

विशेषान्तरमाह—

ज्येष्ठमध्याधमत्वेन सर्वेषां च त्रिरूपता ॥ ४५ ॥
तारतम्याद् यथोक्तानां गुणानां चोत्तमादिता ।

एवं प्रागुक्तानां नायकनायिकादूतदूतीमन्त्रिपुरोहितादीनामुत्तममध्यमाधमभावेन त्रिरूपता । उत्तमादिभावश्च न गुणसंख्योपचयापचयेन किं तर्हि गुणातिशयतारतम्येन ।

उत्तमादिभावश्चेति । यदि हि गुणसंख्योपचयापचयभावेन उत्तमादिभावो भवेत् तर्हि सर्वेषां नायकानां न भवेत् । अनुनायकादिभावो हि गुणसंख्यापचयेनैव । ततो गुणाद्यतिशयतारतम्येनैव उत्तमादिभाव इत्यर्थः ।

एवं नाट्ये विधातव्यो नायकः 648सपरिच्छदः ॥ ४६ ॥

उक्तो नायकः, तद्व्यापारस्तूच्यते—

तद्व्यापारात्मिका वृत्तिश्चतुर्धा तत्र कैशिकी ।
गीतनृत्यविलासाद्यैर्मृदुः649 शृङ्गारचेष्टितैः ॥ ४७ ॥

  1. ‘सपरिग्रहः’ इति पाठः.
  2. The portion from mṛduḥ śṛṅgāraceṣṭitaiḥ up to kāmaphalāvacchinno vyāpāraḥ is missing in A.T.A.