विशेषान्तरमाह—

ज्येष्ठमध्याधमत्वेन सर्वेषां च त्रिरूपता ॥ ४५ ॥
तारतम्याद् यथोक्तानां गुणानां चोत्तमादिता ।

एवं प्रागुक्तानां नायकनायिकादूतदूतीमन्त्रिपुरोहितादीनामुत्तममध्यमाधमभावेन त्रिरूपता । उत्तमादिभावश्च न गुणसंख्योपचयापचयेन किं तर्हि गुणातिशयतारतम्येन ।

उत्तमादिभावश्चेति । यदि हि गुणसंख्योपचयापचयभावेन उत्तमादिभावो भवेत् तर्हि सर्वेषां नायकानां न भवेत् । अनुनायकादिभावो हि गुणसंख्यापचयेनैव । ततो गुणाद्यतिशयतारतम्येनैव उत्तमादिभाव इत्यर्थः ।