अथ परिवर्तकः—
प्रारब्धोत्थानकार्यान्यकरणात् परिवर्तकः ॥ ५५ ॥
प्रस्तुतस्योद्योगकार्यस्य परित्यागेन कार्यान्तरकरणं=परिवर्तकः ।
यथा वीरचरिते—
भगवन्, परिरम्भणमिति प्रस्तुतप्रतीपमेतत् ।
हेरम्बदन्तमुसलोल्लिखितैकभित्ति
वक्षो विशाखविशिखव्रणलाञ्छनं मे ।
रोमाञ्चकञ्चुकितमद्भुतवीरलाभाद्
यत् सत्यमद्य परिरब्धुमिवेच्छति त्वाम् ॥669
इत्यादि ।रामः
- २।३८↩