अथ वस्तूत्थापनम्—
मायाद्युत्थापितं वस्तु वस्तूत्थापनमिष्यते ।
यथोदात्तराघवे—
इत्यादि ।जीयन्ते जयिनोऽपि सान्द्रतिमिरव्रातैर्वियद्व्यापिभि-
र्भास्वन्तः सकला रवेरपि 672कराः कस्मादकस्मादमी ।
एतैश्चोग्रकबन्धरन्ध्ररुधिरैराध्मायमानोदरा
मुञ्चन्त्याननकन्दरानलमुचस्तीव्रारवाः फेरवाः ॥
-
N.S.P. rucaḥ instead of karāḥ.
↩