अथ गाम्भीर्यम्—

गाम्भीर्यं यत्प्रभावेन विकारो नोपलक्ष्यते ॥ १२ ॥

मृदुविकारोपलम्भाद्विकारानुपलब्धिरन्येति माधुर्यादन्यद्गाम्भीर्यम् । यथा—

आहूतस्याभिषेकाय विसृष्टस्य वनाय च ।
न मया लक्षितस्तस्य स्वल्पोऽप्याकारविप्लवः ॥

90 ननु सत्यपि महति विकारहेतौ मृदुर्विकारो माधुर्यमित्युक्तम् । विकारच्छादको महान् गुणो गाम्भीर्यमित्युच्यते । तेन माधुर्यगाम्भीर्ययोरैक्यमेव प्राप्तम् । तत्राह मृदुविकारोपलम्भादिति । पूर्वत्र उपलभ्यमानोऽपि विकारो मृदुरित्येतावत् । उत्तरत्र विकारोपलम्भ एव नास्ति । तेन माधुर्यगाम्भीर्ययोर्नैकत्वमिति ।