तत्र—

मुग्धा नववयःकामा रतौ वामा मृदुः क्रुधि ।

प्रथमावतीर्णतारुण्यमन्मथा रमणे वामशीला सुखोपायप्रसादना मुग्धनायिका ।

मुग्धेतिसूत्रस्यायमर्थः । यस्या वयश्च कामश्च नूतनो भवति, या च रतौ वामा भवति,556 क्रोधेऽपि557 मृदुर्भवति, सा मुग्धेति । तथैव व्याचष्टे प्रथमावतीर्णेत्यादिना ।

  1. yā ca ratau vāmā bhavati is missing in T.MS. M.G.T. reads yathā ca instead of yā ca.

  2. Only Gr.MS. reads krodhe ’pi, whereas others read without api.