154
अथ प्रकरणे वृत्तमुत्पाद्यं लोकसंश्रयम् ।
अमात्यविप्रवणिजामेकं कुर्याच्च नायकम् ॥ ३९ ॥
धीरप्रशान्तं सोपायं धर्मकामार्थतत्परम् ।
शेषं नाटकवत् संधिपवेशकरसादिकम् ॥ ४० ॥

कविबुद्धिविरचितमितिवृत्तम् । लोकसंश्रयमनुदात्तममात्याद्यन्यतमधीरप्रशान्तनायकं विपदन्तरितार्थसिद्धिं कुर्यात् । प्रकरणे मन्त्री अमात्य एव । सार्थवाहो वणिग्विशेष एवेति । स्पष्टमन्यत् ।

प्रकरणलक्षणस्य व्याख्यानं कविबुद्धिविरचितमित्यादि । ननु प्रदेशान्तरे मन्त्री च प्रकरणनायक इत्युक्तम् । इह तु मन्त्री नोक्त इत्याशङ्क्याह मन्त्री अमात्य एवेति । अमात्य एव मन्त्रयुक्तः सन् मन्त्रीत्युच्यत इत्यर्थः । इह तु वणिजो नायकत्वमुक्तम् । सार्थवाहस्य तु किं नोच्यत इत्याकाङ्क्षायामाह सार्थवाहेति ।