वस्तु यथोदात्तराघवे— रामो मूर्ध्नि निधाय काननमगान्मालामिवाज्ञां गुरो- स्तद्भक्त्या भरतेन राज्यमखिलं मात्रा सहैवोज्झितम् । तौ सुग्रीवविभीषणावनुगतौ नीतौ परां संपदं प्रोद्वृत्ता दशकंधरप्रभृतयो ध्वस्ताः समस्ता द्विषः ॥
137 बीजं यथा रत्नावल्याम्— द्वीपादन्यस्मादपि मध्यादपि जलनिधेर्दिशोऽप्यन्तात् । आनीय झटिति घटयति विधिरभिमतमभिमुखीभूतः ॥699
मुखं यथा— आसादितप्रकटनिर्मलचन्द्रहासः प्राप्तः शरत्समय एष विशुद्धकान्तः उत्खाय गाढतमसं घनकालमुग्रं रामो दशास्यमिव संभृतबन्धुजीवः ॥
पात्रं यथा शाकुन्तले— तवास्मि गीतरागेण हारिणा प्रसभं हृतः । एष राजेव दुष्यन्तः सारङ्गेणातिरंहसा ॥700
Generating a file for download may take up to a few minutes. Please wait.
This dialog should close automatically when the download has completed.