अथ वीथी—
वीथीवद् वीथी मार्गः । अङ्गादीनामुपपत्तिः784 भाणवत् कार्या विशेषस्तु रसः शृङ्गारोऽपरिपूर्णत्वाद्भूयसा सूच्यः । रसान्तराण्यपि स्तोकं स्पर्शनीयानि । कैशिकी वृत्तिरिह रसौचित्यादेवेति । शेषं स्पष्टम् ।
वीथी तु भाणवत् कार्या । विशेषस्तु कैशिकी वृत्तिः । संध्यङ्गानि च अङ्काश्च भाणवत् कार्याः । रसः शृङ्गारः । रसान्तराणि च स्वल्पानि164 विधातव्यानि । प्रस्तावनाकथितैरुद्धात्यकादिभिः अङ्गैर्युक्ता । पात्राणि च बहूनि । एवं विधातव्या वीथी । तथा दर्शयति वीथी त्विति ।
-
N.S.P. aṅgānāṃ paṅktir vā.
↩