वीथी प्रहसनं चापि स्वप्रसङ्गेऽभिधास्यते ॥ ६ ॥
वीथ्यङ्गान्यामुखाङ्गत्वादुच्यन्तेऽत्रैव तत् पुनः ।
सूत्रधारो नटीं ब्रूते मारिपं वा विदूषकम् ॥ ७ ॥
स्वकार्यं प्रस्तुताक्षेपि चित्रोक्त्या यत् तदामुखम् ।
प्रस्तावना वा तत्र स्युः कथोद्धातः प्रवृत्तकम् ॥ ८ ॥
प्रयोगातिशयश्चाथ वीथ्यङ्गानि त्रयोदश ।

वीथीप्रहसनयोरिहानभिधाने हेतुमाह वीथी प्रहसनं चापीति । वीथ्यङ्गानां त्विहैवाभिधाने हेतुमाह वीथ्यङ्गानिति । वीथ्यङ्गानामेवामुखाङ्गत्वादभिधानं चेत् कीदृशं 705तच्चामुखम् । तत्राह तत् पुनरिति । तदेव प्रस्ताव139 नेत्यप्युच्यत इत्याह प्रस्तावना वेति । तत्रेति । कथोद्धातः प्रवृत्तकं प्रयोगातिशयश्च त्रयोदश वीथ्यङ्गानि च भवेयुरित्यर्थः ।

  1. Tri.MS. and M.G.T. read tarhi āmukham. Gr.MS. reads kīdṛśaṃ syād āmukham. T.MS. reads what is given in the text.