140 अथ 710प्रवृत्तकम्—

कालसाम्यसमाक्षिप्तप्रवेशः स्यात् प्रवृत्तकम् ॥ १० ॥

प्रवृत्तकालसमानगुणवर्णनया सूचितपात्रप्रवेशः=प्रवृत्तकम् । यथा—

आसादितप्रकटनिर्मलचन्द्रहासः प्राप्तः शरत्समय एष विशुद्धकान्तः ।
उत्खाय गाढतमसं घनकालमुग्रं रामो दशास्यमिव संभृतबन्धुजीवः ॥
ततः प्रविशति यथानिर्दिष्टो रामः

  1. This is spelt in both ways as pravṛttakam and pravartakam.