अथ वाक्केली—

विनिवृत्त्यास्य वाक्केली द्विस्त्रिः प्रत्युक्तितोऽपि वा ॥ १७ ॥

अस्येतिवाक्यस्य प्रक्रान्तस्य साकाङ्क्षस्य विनिवर्तनं = वाक्केली । द्विस्त्रिर्वा उक्तिप्रत्युक्तयः । तत्राद्या यथोत्तरचरिते—

वासन्ती
त्वं जीवितं त्वमसि मे हृदयं द्वितीयं त्वं कौमुदी नयनयोरमृतं त्वमङ्गे ।
इत्यादिभिः प्रियशतैरनुरुध्य मुग्धां तामेव शान्तमथवा किमतः परेण ॥728

144 उक्तिप्रत्युक्तितो यथा रत्नवल्याम्—

विदूषकः

729भोदि मअणिए, मं पि एदं चच्चरिं सिक्खावेहि ।730

मदनिका

731हदास, ण क्खु एसा चच्चरी । दुवदिखंडअं क्खु एदं ।

विदूषकः

732भोदि, किं एदिणा खंडेण मोदआ करिअंति ।

मदनिका

733145 णहि । पढिअदि क्खु एदं ।

इत्यादि ।

अस्येति सर्वनाम्ना निर्देष्टव्यान्तराभावान्निर्देश्यं वाक्यमित्याह अस्येति ।734

  1. ३।२७
  2. ‘भवति मदनिके, मामप्येतां चर्चरीं शिक्षय ।’ इति च्छाया.
  3. पृ॰ २४
  4. ‘हताश, न खल्वेषा चर्चरी । द्विपदीखण्डकं खल्वेतत् ।’ इति च्छाया.
  5. ‘भवति, किमेतेन खण्डेन मोदकाः क्रियन्ते ।’ इति च्छाया.
  6. ‘नहि । पठ्यते खल्वेतत् ।’ इति च्छाया.
  7. B.M. notes his difference of opinion from Dhanika in the interpretation of the sarvanāman, asya here.

    Notes 132 to 137 are not given. But the serial number of the subsequent Notes (which are in the text already printed) is not changed, in order to avoid complications and confusion.