अथ व्याहारः—

अन्यार्थमेव व्याहारो हास्यलोभकरं वचः ॥ २० ॥

यथा मालविकाग्निमित्रे लास्यप्रयोगावसाने—

मालविका निर्गन्तुमिच्छति
विदूषकः

753मा दाव । उवएससुद्धा गमिस्ससि ।754

इत्युपक्रमे
गणदासः
विदूषकं प्रति

आर्य, उच्यतां यस्त्वया क्रमभेदो लक्षितः ।

विदूषकः

755पढमं पच्चूसे बम्हणस्स पूआ भोदि । सा तए लंघिदा ।

सर्वे स्मयन्ते
इत्यादिना नायकस्य विश्रब्धनायिकादर्शनप्रयुक्तेन हास्यलोभकारिणा वचनेन व्याहारः ।

  1. ‘मा तावत् । उपदेशशुद्धा गमिष्यसि ।’ इति च्छाया.
  2. पृ॰ २८–३०
  3. ‘प्रथमं प्रत्यूषे ब्राह्मणस्य पूजा भवति । सा ताया लङ्घिता ।’ इति च्छाया.