यथा छद्मना वालिवधो मायुराजेनोदात्तराघवे758 ।
अनौचित्यरसविरोधपरिहारपरिशुद्धं कृतसूचनीयदर्शनीयवस्तुविभागं फलानुसारेणोपक्लृप्तवीजबिन्दुपताकाप्रकरीकार्यलक्षणार्थप्रकृतिकं पञ्चावस्थानुगुण्येन पञ्चधा विभजेत् । पुनरपि चैकैकस्य भागस्य 759 वादश त्रयोदश पुनर्द्वादश त्रयोदश चतुर्दशेत्येवमङ्गसंज्ञया संधीनां विभागान् कुर्यात् ।
आद्यन्तमेवं निश्चित्येत्यंशस्य व्याख्यानम् अनौचित्येत्यादि । पञ्चधा तद् विभज्य चेत्यंशस्य व्याख्यानं फलानुसारेणेति । खण्डशः संधिसंज्ञांस्तानित्याद्यंशस्य व्याख्यानं पुनरपि चेति। एवं पञ्चधा विभक्तान् संधिसंज्ञांस्तान् पुनरपि चाङ्गानुकूल्येन द्वादश, त्रयोदश, द्वादश, त्रयोदश, चतुर्दश, इत्येवं खण्डयेदित्युक्तं भवतीति ।