136 पूर्वं रज्यतेऽस्मिन्निति पूर्वरङ्गः 695उत्थापनादिप्रयोगः । नाट्यशालायां तात्स्थ्यात् । प्रथमं प्रयोगे तद् उत्थापनादौ पूर्वरङ्गत्वम् । तं विधाय विनिर्गते प्रथमं सूत्रधारे तद्वदेव वैष्णवस्थानकादिना प्रविश्यान्यो नटः काव्यार्थं स्थापयेत् । स च काव्यार्थस्थापनात् सूचनात् स्थापकः ।

पूर्वरङ्गशब्दार्थमाह पूर्वं रज्यतेऽस्मिन्निति। अभिनयात् पूर्वं सामाजिकैरुत्थापनादिप्रयोगे हि 696रज्यत इति । तर्हि नाट्यशालायां कथं पूर्वरङ्गशब्दप्रयोगः । तत्राह तात्स्थ्यादिति697 । तत्स्थः खलूत्थापनादिप्रयोगः । तेनेदं तात्स्थ्यमादाय नाट्यशालापि तथोच्यत इति । वैष्णवस्थानकादिना698विष्णुसंबन्धवेषप्रभृतिना ।

दिव्यमर्त्ये स तद्रूपो मिश्रमन्यतरस्तयोः ।
सूचयेद् वस्तु बीजं वा मुखं पात्रमथापि वा ॥ ३ ॥

स स्थापको दिव्यं वस्तु दिव्यो भूत्वा मर्त्यं च मर्त्यरूपो भूत्वा मिश्रं च दिव्यमर्त्ययोरन्यतरो भूत्वा सूचयेत् । वस्तु बीजं मुखं पात्रं वा ।

दिव्यमर्त्ये इति। शुद्धदिव्यं वस्तु शुद्धदिव्यो भूत्वा मर्त्यं वस्तु मर्त्यो भूत्वा मिश्रं वस्तु दिव्यमर्त्ययोरन्यतरो भूत्वा=दिव्यो मर्त्यो वा भुत्वा सूचयेत् । सूचयंश्च तत्रापि वस्तु बीजं मुखं पात्रं वा सूचयेदित्यर्थः । तथा व्याचष्टे स स्थापक इत्यादिना

वस्तु यथोदात्तराघवे—

रामो मूर्ध्नि निधाय काननमगान्मालामिवाज्ञां गुरो- स्तद्भक्त्या भरतेन राज्यमखिलं मात्रा सहैवोज्झितम् ।
तौ सुग्रीवविभीषणावनुगतौ नीतौ परां संपदं प्रोद्वृत्ता दशकंधरप्रभृतयो ध्वस्ताः समस्ता द्विषः ॥

  1. Up to nāṭyaśālāyāṃ tātsthyāt is clear in A.T.A. The next line is not very clear. N.S.P. reads here pūrvaraṅgo nāṭyaśālā. tatsthaprathamaprayogavyutthāpanādau pūrvaraṅgatā. A.T.A. reading seems to be confirmed by Bh. Nṛ.

  2. Only T.M.S. reads prayoge ’bhirajyata iti. See >Nāṭyaśāstra (G.O.S.) V. 22, etc. and Abhinavabhāratī on page 216.

  3. N.S.P. does not give it. But according to Bh.Nṛ. it seems it has to be.

  4. See also Abhinavabhāratī under X. 53.