तृतीयः परार्थानुमानपरिच्छेदः ।
स्वार्थ-परार्थानुमानयोः स्वार्थं व्याख्याय परार्थ व्याख्यातुकाम आह--
त्रिरूपलिङ्गाख्यानं 815परार्थमनुमानम् ॥ १ ॥
त्रिरूपलिङ्गाख्यानमिति । त्रीणि रूपाणि--अन्वय-व्यतिरेक-पक्षधर्मत्वसंज्ञकानि यस्य
तत् त्रिरूपम् । त्रिरूपं च 816तल्लिङ्गं च तस्याख्यानम् । आख्यायते प्रकाश्यतेऽनेनेति—
त्रिरूपं 817लिङ्गमिति आख्यानम् । किं पुनस्तत् ? वचनम् । वचनेन हि त्रिरूपं818 लिङ्गमा
ख्यायते । परस्मायिदं 819परार्थम् ॥
ननु 820च सम्यग्ज्ञानात्मकमनुमानमुक्तम् । तत् किमर्थं संप्रति वचनात्मकमनुमान
मुच्यत इत्याह--
कारणे कार्योपचारात् ॥ २ ॥
कारणे कार्योपचारादिति । 821त्रिरूपलिङ्गाभिधानात् त्रिरूपलिङ्गस्मृतिरुत्पद्यते822 ।
स्मृतेश्चानुमानम् । 823तस्माद् अनुमानस्य परम्परया त्रिरूपलिङ्गाभिधानं कारणम् । तस्मिन्
कारणे वचने कार्यस्य अनुमानस्योपचारः समारोपः क्रियते । ततः समारोपात् कारणं वचन-
त्रिरूपं लिङ्गं ज्ञातमपि वक्तुमविदुषो बालस्य व्युत्पादनार्थं त्रिरूपलिङ्गाख्यानलक्षणं
यत्परार्थमनुमानमुक्तं तद् व्याख्यातुं स्वार्थेत्यादिना प्रस्तौति । द्वयो रूपयोरभिधानादेकस्य
गम्यमानत्वादाख्यायते प्रकाश्यतेऽनेनेति त्रिरूपं लिङ्गमिति विवृतं न त्वभिधीयतेऽनेनेति ।
अभिधेयस्य गम्यमानस्य च प्रकाश्यत्वं तुल्यमिति प्रकाश्यते इत्यनेन द्वयोः सङ्ग्रहः ।
येनार्थक्रमेणात्मनः परोक्षार्थज्ञानमुत्पन्नं तेनैव क्रमेण परसन्ताने लिङ्गिज्ञानोत्पिपादयिषया
त्रिरूपस्य लिङ्गस्य ख्यापकं यद् वचनं तत्परार्थमनुमानमिति द्रष्टव्यम् ॥
कारणे वचने कार्यस्य ज्ञानस्योपचारात् समारोपात् ।
कथं पुनर्वचनस्यानुमानहेतुत्वमित्याह--त्रिरूपेति ।
151
मनुमानशब्देनोच्यते । औपचारिकं824 वचनमनुमानम्, न मुख्यमित्यर्थः । न यावत्825 किंचिदु
पचारादनुमानशब्देन वक्तुं शक्यं तावत् सर्वं व्याख्येयम् । किन्त्वनुमानं व्याख्यातुकामेनानु
मानस्वरूपस्य826 व्याख्येयत्वान्निमित्तं व्याख्येयम् । निमित्तं च त्रिरूपं लिङ्गम् । तच्च स्वयं
वा प्रतीतमनुमानस्य निमित्तं भवति, परेण वा प्रतिपादितं भवति827 । तस्माल्लिङ्गस्य स्वरूपं
828च व्याख्येयम्, तत्प्रतिपादकश्च शब्दः । तत्र स्वरूपं स्वार्थानुमाने व्याख्यातम् । प्रतिपाद
कश्च829 शब्द इह व्याख्येयः । ततः प्रतिपादकं शब्दमवश्यं वक्तव्यं दर्शयन् अनुमानशब्दे
नोक्तवानाचार्य इति परमार्थः ॥
परार्थानुमानस्य प्रकारभेदं दर्शयितुमाह--
तद् द्विविधम् ॥ ३ ॥
ननु च त्रिरूपलिङ्गाभिधानादवगते सति धर्मिणि लिङ्गं ज्ञायते । तस्य तु व्याप्तिः
स्मर्यते । तत्कथं त्रिरूपलिङ्गवचनात् तत्स्मृतिरुत्पद्यते इत्युच्यत इति चेत् । उच्यते ।
गृह्यमाणमपि धूमादिवस्तु न तावल्लिङ्गं यावद् वह्न्यादिसाध्याविनाभूततया न ज्ञायते ।
तथात्वं च तस्य न तदा ग्राह्यमपि तु पूर्वगृहीतमेव स्मर्त्तव्यमिति सूक्तं त्रिरूपलिङ्गस्मृति
रुत्पद्यत इति । स्मृतेरिति पक्षधर्मग्रहणसहिताया इति द्रष्टव्यम् ।
अयमर्थः--वचनमपि त्रिरूपं लिङ्गं स्मरयत् परोक्षार्थज्ञानस्य परम्परया कारणं भवदु
पचारादनुमानमुच्यत इति ।
अथाबाधितत्वाद्यपि लिङ्गस्य लक्षणमित्याचक्षते केचिदिति विप्रतिपत्तिदर्शनात् तद्व्यु
त्पादनं युक्तम्, न तु तद्वचनम्, तस्य विप्रतिपत्त्यभावादिति चेत् । न अत्राप्यव्याप्तिव्यति
रेकाभ्यां निगदन्तो विप्रतिपन्ना इत्यस्यापि व्युत्पादनं न्याय्यम् ।
अथाऽपि स्यात्, यदि परम्परयाऽनुमानहेतुत्वेन वचनमुपचारादनुमानमिति व्युत्पाद्यते
तर्हि जिज्ञासास्वास्थ्यादिकमपि परम्परयाऽनुमानहेतुत्वादनुमानशब्देन वक्तुं शक्यमिति तदपि
किं नोच्यत इत्याह--न यावदिति ।
ननु स्वास्थ्यादिकमपि निमित्तमिति तदवस्थो दोषः । न । निमित्तं व्याख्पेयमित्य
व्यहितमसाधारणं निमित्तमाख्येयमित्यर्थः ।
ननु स्वयं प्रतीतं लिङ्गमनुमानस्य निमित्तम् । तत्किं तद्वचनेन व्याख्यातेनेत्याह—
तच्चेति । चो यस्मादर्थे । वाशब्दो विकल्पार्थः । यतः परेण प्रतिपादितमपि तल्लिङ्ग
मनुमानस्य निमित्तं ततस्तस्मादवश्यं वक्तव्यं प्र58a तिपादकं लिङ्गप्रतिपादकं वचनं दर्शयन्न
नुमानशब्देनोक्तवानाचार्यः ।
152
तद् द्विविधमिति । तदिति परार्थानुमानम् । द्वौ विधौ प्रकारौ यस्य तद् द्विविधम् ॥
कुतो द्विविधमित्याह--
प्रयोगभेदात् ॥ ४ ॥
प्रयोगस्य शब्दव्यापारस्य भेदात् । प्रयुक्तिः प्रयोगोर्थाभिधानम् । शब्दस्यार्थाभि
धानव्यापारभेदाद् द्विविधमनुमानम् ॥
तदेवाभिधानव्यापारनिबन्धनं830 द्वैविध्यं दर्शयितुमाह--
साधर्म्यवद्वैधर्म्यवच्चेति831 ॥ ५ ॥
साधर्म्यवद्वैधर्म्मवच्चेति । समानो धर्मोऽस्य832 सोऽयं सधर्मा । तस्य भावः साधर्म्यम् ।
विसदृशो धर्मोऽस्य विधर्मा । विधर्मणो भावो वैधर्म्यम् । दृष्टान्तधर्मिणा सह साध्यधर्मिणः
सादृश्यं हेतुकृतं साधर्म्यमुच्यते । असादृश्यं च हेतुकृतं वैधर्म्यंमुच्यते । 833तत्र यस्य साधन
वाक्यस्य साधर्म्यमभिधेयं तत् साधर्म्यवत् । यथा--यत कृतकं तदनित्यं यथा घटः, तथा च
कृतकः शब्द इत्यत्र कृतकत्वकृतं दृष्टान्तसाध्यधर्मिणोः सादृश्यमभिधेयम् । यस्य तु वैधर्म्यम
भिघेयं तद् वैधर्म्यवत् । यथा--यन्नित्यं तदकृतकं दृष्टं यथाकाशम् । शब्दस्तु कृतक इति
834कृतकत्वाऽकृतकत्वकृतं शब्दाकाशयोः साध्यदृष्टान्तधर्मिणोरसादृश्यमिहाभिधेयम् ॥
यद्यनयोः प्रयोगयोरभिधेयं भिन्नं कथं तर्हि त्रिरूपं लिङ्गमभिन्नं प्रकाश्यमित्याह--
नानयोरर्थतः कश्चिद्भेदः ॥ ६ ॥
नानयोरर्थत इति अर्थः प्रयोजनम्835 । यत् प्रयोजनं प्रकाशयितव्यं वस्तु उद्दिश्या
नुमाने प्रयुज्येते, ततः 836प्रयोजनादनयोर्न भेदः कश्चित् । त्रिरूपं हि लिङ्गं प्रकाशयितव्यम् ।
तदुद्दिश्य द्वे अप्येते प्रयुज्येते । द्वाभ्यामपि त्रिरूपं लिङ्गं प्रकाश्यत एव । ततः प्रकाश
यितव्यं प्रयोजनमनयोरभिन्नम् । तथा च न ततो भेदः कश्चित् ॥
अनेनैतदाह-न स्वास्थ्यादि प्रतिपन्नमपि परोक्षार्थप्रतिपादकं येन तदुच्येत । तद्वचन
मवश्यं दर्शयितव्यमनुमानशब्देनाभिलप्येत । स्वयमशक्तमपि तु हेतुवचनं परोक्षप्रकाशनवस्तुसू
चकत्वादनुमानशब्देनोक्तमिति । इति परमार्थ एवमस्योपचारस्य परमः प्रकृष्टोऽर्थः प्रयोजनम् ॥
विधशब्देन च विगृह्णतोऽभिप्रायः प्रागेव प्रदर्शितः ॥
अभिधानमर्थप्रकाशनम् ॥
153
अभिधेयभेदोऽपि तर्हि न स्यादित्याह--
अन्यत्र प्रयोगभेदात् ॥ ७ ॥
अन्यत्र प्रयोगभेदादिति । प्रयोगोऽभिधानं वाचकत्वम् । वाचकत्वभेदादन्यो भेदः
प्रयोजनकृतो नास्तीत्यर्थः ।
एतदुक्तं भवति । अन्यदभिधेयमन्यत् प्रकाश्यं प्रयोजनम् । तत्राभिघेयापेक्षया
वाचकत्वं भिद्यते । प्रकाश्यं त्वभिन्नम् । अन्वये हि कथिते वक्ष्यमाणेन न्यायेन व्यतिरेक
गतिर्भवति । व्यतिरेके चान्वयगतिः । ततस्त्रिरूपं लिङ्गं प्रकाश्यमभिन्नम् । न च यत्राभि
धेयभेदस्तत्र सामर्थ्यगम्योऽप्यर्थो837 भिद्यते । यस्मात् पीनो देवदत्तो दिवा न भुङ्क्ते पीनो
देवदत्तो रात्रौ भुङ्क्ते इत्यनयोर्वाक्ययोरभिधेयभेदेपि गम्यमानमेकमेव838 तद्वदिहाभिधेयभेदेपि
गम्यसानं वस्त्वेकमेव ॥
केन कस्य किं कृतं च साधर्म्यं वैधर्म्यं चेत्याह--दृष्टान्तेति । सादृश्यं हेतुकृतमिति
हेतुसद्भावद्वारकम् । असादृश्यं च हेतुकृतमिति हेतुसद्भावासद्भावद्वारकं द्रष्टव्यम् । वतुबर्थं
प्रयोजयितुमाह--तत्रेति वाक्योपन्यासे । यस्य वाक्यस्य साधर्म्य सादृश्यमभिधेयमस्ति ।
एतदेवोदाहरणेन दर्शयन्नाह--यथेति । यत्कृतकमिति । यद् यद् कृतकमिति वीप्सार्थों
विवक्षितः, तदित्यत्रापि । तथा च कृतकः शब्द इति पक्षधर्मताकथनमिदम् । न त्वेवं
पक्षधर्मो दर्शनीयः । कृतकश्च शब्दः इत्येतावतैव गतार्थत्वेन तथाशब्दस्य वैयर्थ्यात् । ततः
कृतकश्च शब्दः इत्येव दर्शनीयः । इतरथा परेषामिवोपनयप्रयोगः स्यात् । स चायुक्त
इति । यन्नित्यमिति साध्याभावानुवादस्तदकृतकमिति साधनाभावविधिः ॥
अभिधेयं भिन्नमिति ब्रुवतोऽयमाशयः--साधर्म्यवत्प्रयोगस्यान्वयः पक्षधर्मता चाभिधेया ।
अभिन्नं साधारणं प्रकाश्यं द्वयोः प्रयोगयोः ।
अर्थः प्रयोजनवाच्याचार्येणोक्तो नाभिधेयवाचीति दर्शयति यदुद्दिश्येति स्पष्टयन्
प्रयुज्यतेऽनेनेति प्रयोजनं साधनवाक्यस्य प्रवर्त्तकं लिङ्गवस्तूक्तं न फलं प्रयोजनमिति दर्शयति ।
प्रकाशयितव्यं रूपत्रययोगिलिङ्गं तच्चाभिन्नं साधारणं द्वयोरपि प्रयोगयोः, द्वाभ्यामपि तस्यैव
प्रतिपादनात् । अनुमानहेतुत्वादनुमाने साधर्म्यवैधर्म्यवती वाक्ये कथिते । तत इति प्रयोजन-
समानाधिकरणं न हेतुपदमेतत् ॥
नन्वभिधेयमेव प्रकाश्यं तत्कथं प्रकाश्याभेद इत्याशङ्क्याह--एतदुक्तं भवतीति ।
अन्यत्प्रकाश्यमिति सामर्थ्यगम्यं प्रकाश्यम् । न तु तत्राभिधाव्यापार इत्याकूतम् । तत्रेति
वाक्योपक्षेपे ।
यदि साधर्म्यवद्वाक्येऽन्वयोऽभिधेयस्तर्हि कथं व्यतिरेकः प्रकाश्यतां गतः ? बैधर्म्यवाक्ये तत्र साधर्म्यवत्प्रोगः839--यदुपलब्धिलक्षणप्राप्तं सन्नोपलभ्यते सोऽस तत्रेति तयोः साधर्म्यवैधर्म्यवतोरनुमानयोः साधर्म्यवत् 842तावदुहारन्ननुपलब्धिमाह—
154
द्व्यवहारविषयः सिद्धः । यथाऽन्यः कश्रिद् दृष्टः शशविषाणादिः । नोपलभ्यते
च क्वचित् प्रदेशविशेष840 उपलब्धिलक्षणप्राप्तो घट841 इत्यनुपलब्धिप्रयोगः ॥ ८ ॥
यदित्यादिना । यदुपलब्धिलक्षणप्राप्तं--यद् दृश्यं सन्नोपलभ्यते इत्यनेन दृश्यानुपलम्भोऽ
नूद्यते । सोऽसद्व्यवहारविषयः843 सिद्धः--तदसदिति व्यवहर्तव्यमित्यर्थः । अनेनासद्व्यवहार
योग्यत्वस्य844 विधिः कृतः । ततश्चासद्व्यवहारयोग्यत्वे845 दृश्यानुपलम्भो नियतः कथितः ।
दृश्यमनुपलब्धमसद्व्यवहारयोग्यमेवेत्यर्थः । साधनस्य च साध्येऽर्थे नियतत्वकथनं व्याप्ति-
च यदि व्यतिरेकोऽभिधेयः, कथमन्वयः प्रकाश्यतामापन्न इत्याह--अन्वय इति । हिर्यस्मात् ।
वक्ष्यमाणेन साधर्म्येणापि ही त्यादिना प्रतिपादयिष्यमाणेन न्यायेन युक्ता ।
स्यान्मतम्--ययोरभिधेयं भिन्नं तयोः सामर्थ्यगम्यमप्यवश्यं भिद्यते--यथा गङ्गायां
घोषः, कूपे गर्गकुलमित्याशङ्क्याह--न चेति । चो यस्मादर्थे । अर्थः प्रयोजनं यदुद्दिश्य
प्रवृत्तं वाक्यम् ।
उपपत्तिमाह--यस्मादिति । एकस्य वाक्यस्य दिवा भोजनाभावोऽभिधेयोऽन्यस्य
रात्रिभोजनमित्यनयोर्वाक्य58b योरभिधेयभेदोऽस्ति । तस्मिन् सत्यपि यथा भोजनविशिष्टं
देवदत्तस्य पीनत्वं प्रतिपाद्यं न भिद्यते तद्वदत्राभिधेयस्यान्वयपक्षधर्मतालक्षणस्य व्यतिरेक
पक्षधर्मतालक्षणस्य भेदेऽपि गम्यमानमेकमभिन्नम् ।
अथ गम्ययानं सामर्थ्यात् प्रतीयमानमुच्यते । तच्च दृष्टान्तदार्ष्टान्तिकयोर्भिद्यत एव ।
तथाहि दिवा भोजननिषेधवाक्यस्य गम्यमानं रात्रिभोजनं रात्रिभोजनविधानवाक्यस्य तु
गम्यमानं दिवा भोजननिषेधनम्, तथा दार्ष्टान्तिकेपि साधन 846 वद् वाक्ये व्यतिरेको
गम्यमानो वैधर्म्यवद्वाक्ये चान्वयो गम्यमानः । यदेकस्याभिधेयं तदेकस्य गम्यमानम्, यदन्यस्य
गम्यमानं तदितरस्याभिधेयमिति संक्षेपः । ततः कथमुच्यते वाक्ययोर्गम्यमानमेकमिति ।
किन्नोच्यते ? गम्यमानशब्दस्येहान्यार्थस्य विवक्षितत्वात् । तथाहि गम्यमानशब्देनात्राभिधेयं
सामर्थ्यप्रकाश्यञ्च । यत्तु द्वयं प्रतीयमानतामात्रेणोपाधिना विवक्षितं तच्च दृष्टान्तवाक्ययो
र्भोजननिमित्तपीनत्वलक्षणं दार्ष्टान्तिकवाक्ययोश्चान्वयतिरेकपक्षधर्मतात्मकरूपत्रययोगलिङ्ग
लक्षणमेकमभिन्नमित्यनवद्यमेतत् ॥
साधर्म्यमभिधेयं यस्य विद्यते तदुदाहरणेन दर्शयन्ननुपलब्धिमाह । तावच्छब्दः क्रमे । कथनम् । यथोक्तम् व्याप्ति847 र्व्यापकस्य तत्र भाव एव, व्याप्यस्य 848वा तत्रैव भावः इति । संप्रति व्याप्तिं कथयित्वा दृश्यानुपलम्भस्य पक्षधर्मत्वं दर्शयितुमाह--नोपलभ्यते चेति ।
155
हेतु० पृ० ५३ व्याप्तिसाधनस्य प्रमाणस्य विषयो दृष्टान्तः । तमेव दर्शयितुमाह--यथान्य
इति । साध्यधर्मिणोऽन्यो दृष्टान्त इत्यर्थः । दृष्ट इति प्रमाणेन849 निश्चितः । शशविषाणं हि
न चक्षुषा विषयीकृतम् अपि तु प्रमाणेन दृश्यानुपलम्भेनासद्व्यवहारयोग्यं विज्ञातम् ।
शशविषाणमादिर्यस्यासद्व्यवहारविषयस्य स तथोक्तः । शशविषाणादौ हि दृश्यानुपलम्भ
मात्रनिमित्तोऽसद्वयवहारः850 प्रमाणेन सिद्धः । तत एव851 प्रमाणादनेन852 वाक्येनाभिधीयमाना
व्याप्तिर्ज्ञातव्या ।
स च द्विरावृत्त्याऽनुपलब्धिमित्यत्रापि द्रष्टव्यः । तेनायमर्थः--साधर्म्यवत्तावदुदाहरन्ननुप
लब्धिमाह । पश्चाद् वैधर्म्यवदुदाहरन् वक्ष्यति । तथाऽनुपलब्धिं तावदाह पश्चात्स्वभावकार्ये
वक्ष्यतीति ।
नन्वाचार्येणैव साधर्म्यवद् वैधर्म्यवच्चोदाहृतमत्रेति किमिति धर्मोत्तरेण--यथा यत्कृतक
मित्यादिना साधर्म्यवद् वैधर्म्यवच्चोदाहृतं प्रागिति चेत् । नैष दोषः । दृष्टान्तसाध्यधर्मिणोः
सादृश्याख्यं साधर्म्यम्, वैसदृश्याख्यं वैधर्म्यं च हेतुद्वारकमेव न तु सामान्येन, अन्यथा प्रतियोग्य
पेक्षयाऽपि साधर्म्यं वैधर्म्यं च केनचिदाकारेणास्तीति न तन्निराकृतं स्यादिति दर्शयितुं तदुदा
हृतम्, न त्वाचार्येण नोदाहृतमित्युदाहृतमिति । तेनात्राप्याचार्यीये निदर्शने हेतुकृतमेव
तत्प्रत्येतव्यं व्यवस्थितम् ।
असद्व्यवहारः--असदिति ज्ञानमसदित्यभिधानं निःशङ्का च गमागमादिका प्रवृत्तिः ।
यतो दृश्यानुपलम्भोऽभूदतोऽसद्व्यवहारयोग्यत्वं विहितम् । ततस्तस्मात् । चोऽवधारणे ।
अयमाशयः--यदनूद्यते तद् व्याप्यम् । यद् विधीयते तद् व्यापकम् । व्याप्यं च
व्यापके नियतं भवतीति । एवमुत्तरत्राप्यनुवादविधिक्रमो द्रष्टव्यः ।
अथ द्व्यवयवे साधनवाक्ये दर्शयितव्ये व्याप्तिः पक्षधर्मता च दर्शनीया । न चात्र
व्याप्तिरुपदर्शिता, केवलमनुवादविधिक्रमो दर्शितः, पक्षधर्मता च दर्शयिष्यते । तत्कथं परिपूर्णं
साधनवाक्यमिदं भविष्यतीत्याशङ्क्याह--साधनस्येति । चो हेतौ ।
ननु परोक्षार्थप्रतिपत्तौ सर्वथाऽनुपयोगी दृष्टान्तस्तत्किं तेनाख्यातेनेत्याह व्याप्तीति । प्रदेश एकदेशः पृथिव्याः । स एव विशिष्यतेऽन्यस्मादिति विशेषः एकः । प्रदेशविशेष स्वभावहेतोः साधर्म्यवन्तं प्रयोगं दर्शयितुमाह-- तथा स्वभावहेतोः प्रयोगः--यत् सत् तत् सर्वमनित्यम्, यथा घटादि तथेति । यथाऽनुपलब्धेस्तथा स्वभावहेतोः साधर्म्यवान् प्रयोग इत्यर्थः । यत् सदिति
व्याप्यव्यापकधर्मलक्षणा 59a व्याप्तिः साध्यते निश्चीयते येन प्रमाणेन तस्य विषयो यत्र
156
इत्येकस्मिन् प्रदेशे । क्वचिदिति । प्रतिपत्तुः प्रत्यक्ष853 एकोऽपि प्रदेशः । स एवाभाव
व्यवहाराधिकरणं यः प्रतिपत्तुः प्रत्यक्षो नान्यः । उपलब्धिलक्षणप्राप्त इति दृश्यः । यथा
चासतोऽपि घटस्य समारोपितमुपलब्धिलक्षणप्राप्तत्वं तथा व्याख्यातम् ॥
रिति शुद्धस्य854 स्वभावहेतोः प्रयोगः ॥ ९ ॥
प्रवृत्तं प्रमाणं साध्यसाधनयोर्व्याप्तिमवस्यति । स च विषयो दृष्टो निश्चितः साध्यसाधनयो
रन्तोऽवसानं यथायोगं नियतत्वनियमविषयत्वनिपुणो यस्मिन्निति व्युत्पत्त्या दृष्टान्तशब्दोऽ
भिलप्यः । तमेव ख्यापयितुमाहाचार्यः । अनेनैतदाकूतम्--व्याप्तिसाधकप्रमाणस्याधिकरणतां
गच्छन् दृष्टान्तः साधनावयवस्य व्याप्तेः प्रतिपत्त्यङ्गम् । न तु साक्षात्साधनस्य । नापि
साध्यसिद्धेः । तद्वचनमपि तत्स्मारकत्वेन साधनवाक्य उपयुज्यते । अत एव वचनसाधन
वाक्यस्यावयवोऽथ च प्रयोक्तव्य इति । कुतोऽन्य इत्याह--साध्यधर्मिण इति । शशवि
षाणादेश्च व्याप्तिसाधकप्रमाणाधिकरणत्वेन दृष्टान्तरूपत्वाद् दृष्टान्त इत्यर्थ इति स्पष्टयति ।
ननु दृष्टश्चक्षुषा ज्ञात इति किं न व्याख्यायते ? किं पुनरेवं व्याख्यायत इत्याह—
शशेति । हीति यस्मात् । विषयीकृतं विज्ञातमिति चातीते निष्ठां प्रयुञ्जानः प्राग्भावि
व्याप्तिग्रहणं दर्शयति । कथं पुनः शशविषाणादि दृष्टान्तो येन सा ख्याप्यत इत्याह--शशेति ।
हिर्यस्मात् । दृश्यानुपलम्भ एव तन्मात्रं तन्निमित्तं यस्य स तथा । अनेन व्याप्तिसाधक
प्रमाणाधिकरणत्वात्तस्य दृष्टान्तरूपतामाह । किं तत्प्रमाणं येन तत्र प्रवृत्तेन दृश्यानुपलम्भा
भावव्यवहारयोग्यत्वयोर्व्याप्तिः साध्यत इति चेत् । उच्यते । वादन्यायोक्तेन न्यायेन बुद्धिव्य
पदेशाभावादेरसद्व्यवहारानिमित्तत्वेन निमित्तान्तराभावे दृश्यानुपलम्भ एवान्यनिरपेक्षो
निमित्तम् । यच्च यन्मात्रनिमित्तं तत्तस्मिन् सति भवति । यथा बीजादिसामग्रीमात्रनि
मित्तोऽङ्कुरः सति तस्मिन् भवति । दृश्यानुपलम्भमात्रनिमित्तश्चासद्व्यवहार इत्यनुमानं तत्र
प्रबृत्तं साध्यसाधनयोर्व्याप्तिमवस्यतीति ।
अनेन वाक्येन यदुपलब्धिलक्षणप्राप्तमित्यादिनाऽभिधीयमाना प्रकाश्यमाना । तत एव
प्राक्प्रवृत्तादनन्तरोक्तादनुमानात्मनः प्रमाणाद् व्याप्तिर्ज्ञातव्या ।
एतदुक्तं भवति तत्प्रमाणसिद्धैव व्याप्तिरनेन वाक्येन स्मर्यत इति ॥
स्वभावेत्यादिना स्वभावहेतोः साधर्म्यवत्प्रयोगं विवरितुमुपक्रमते । सर्वशब्दस्याऽ
शेषताऽर्थः । तयैव प्रतिपादितया साधनस्य साध्यायत्तताख्यो यो नियमः स प्रतिपादितो
157
सत्त्वमनूद्य तत् सर्वमनित्यमित्यनित्यत्वं विधीयते । सर्वग्रहणं च नियमार्थम् । सर्वमनित्यम् ।
न किञ्चिन्नानित्यम् । यत् सत् तदनित्यमेव । अनित्यत्वादन्यत्र नित्यत्वे सत्त्वं नास्तीत्येवं
सत्त्वमनित्यत्वे साध्ये नियतं ख्यापितं भवति । तथा च सति व्याप्तिप्रदर्शनवाक्यमिदम् ।
यथा घटादिरिति 855व्याप्तिसाधकस्य प्रमाणस्य विषयकथनमेतत् । शुद्धस्येति निर्विशेषणस्य
स्वभावस्य 856प्रयोगः ।
सविशेषणं दर्शयितुमाह--
यदुत्पत्तिमत् तदनित्यमिति स्वभावभूतधर्मभेदेन स्वभावस्य प्रयोगः ॥ १० ॥
यदुत्पत्तिमदिति ।857 उत्पतिः स्वरूपलाभो858 यस्यास्ति तद् उत्पत्तिमत् । उत्पत्ति
मित्त्वमनूद्य तदनित्यमित्यनित्यत्वविधिः859 । तथा च सत्युत्पत्तिमत्त्वमनित्यत्वे नियतमाख्यातम् ।
स्वभावं860 भूतः 861तदात्मको धर्मः । तस्य भेदेन । भेदं हेतूकृत्य प्रयोगः । 862अनुत्प
न्नेभ्यो हि व्यावृत्तिमाश्रित्योत्पन्नो भाव863 इत्युच्यते । सैव व्यावृत्तिर्यदा व्यावृत्त्यन्तरनिरपेक्षा
वक्तुमिष्यते तदा व्यतिरेकिणीव निर्दिश्यते--भावस्य उत्पत्तिरिति । तया च व्यति
रिक्तयेवोत्पत्त्या विशिष्टं864 वस्तु उत्पत्तिमदुक्तम् । तेन स्वभावभूतेन धर्मेण कल्पितभेदेन
भवतीति नियमख्यापनार्थं सर्वग्रहणं भवति । अन्यथा निःशेषत्वानुपपत्तेरिति । सर्वमित्या
द्यस्यैव स्पस्टीकरणम् । तथा च सति नियतत्वनियमविषयत्वख्यापनप्रकारे सति । इदं
वाक्यं यत्सत्तदनित्यमित्यात्मकम् । व्याप्तिसाधकस्य प्रमाणस्येति यस्य क्रमाक्रमाऽयोगो न तस्य
क्वचित्सामर्थ्यं यथाऽऽकाशकुशेशयस्य । अस्ति चाक्षणिके स इति व्यापकानुपलम्भसम्भवस्या
नुमानस्येति द्रष्टव्यम् । एतच्च बहुवाच्यमन्यत्र विपञ्चितं नेहाप्रकृतत्वात्प्रतन्यते ।
कथं पुनरुत्पत्तिर्भावस्य विशेषणमित्याह--स्वभावमिति । स्वभावं भूतः प्राप्त इति विशिष्टः स्वभावः प्रयुक्तो द्रष्टव्यः ॥ यत् कृतकं तदनित्यमित्युपाधिभेदेन ॥ ११ ॥ यत् कृतकमिति कृतकत्वमनूद्य अनित्यत्वं विधीयत इति 865अनित्यत्वे नियतं कृतकत्व 866इह कदाचिच्छुद्ध एवार्थ उच्यते, कदाचिदव्यतिरिक्तेन विशेषणेन विशिष्टः कदाचि
कर्त्तरि निष्ठा द्वितीयापाणिनि २. १. २४.इति योगविभागा59b त्समासः । अस्यैव
स्पष्टीकरणं तदात्मक इति । यदि स्वभावः कथं विशेषणम्, भेदेन तस्य दर्शनाद् इत्याह—
158
मुक्तम् । अतो व्याप्तिरनित्यत्वेन कृतकत्वस्य दर्शिता । उपाधिभेदेन स्वभावस्य प्रयोग इति
संबन्धः । उपाधिर्विशेषणम् । तस्य भेदेन भिन्नेनोपाधिना विशिष्टः स्वभावः प्रयुक्त इत्यर्थः ।
द्व्यतिरिक्तेन । देवदत्त इति शुद्धः, लम्बकर्ण इत्यभिन्नकर्णद्वयविशिष्टः, चित्रगुरिति व्यति
रिक्तचित्रगवीविशिष्टः । तद्वत् सत्त्वं शुद्धम्, उत्पतिमत्त्वमव्यतिरिक्तविशेषणम्, कृतकत्वं
व्यतिरिक्तविशेषणम् ॥
तस्येति । भेदेन विशेष्याव्यतिरिक्ततया विशेषकत्वलक्षणेन विकल्पसन्दर्शितेन । स्वभावभूतः
स्वभावात्मको धर्म इति च परमार्थाभिप्रायेणोक्तम् । भेदेनेतीयं तृतीया हेताविति दर्शयन्नाह—
भेदमिति । व्यवहारसिद्धं भेदमुत्पत्तुः सकाशादन्यत्वं हेतूकृत्य निबन्धनीकृत्य प्रयोगः सवि
शेषणस्य स्वभावहेतोरिति प्रकरणात् ।
कल्पनयाऽपि कथं भेदो येनोत्पत्त्या विशिष्टमुत्पत्तिमदुच्यत इत्याह--अनुत्पन्नेभ्य
इति । हिर्यस्मात् । अनुत्पन्नेभ्य आकाशादिभ्यो व्यावृत्तिं व्यवच्छेदमाश्रित्य परिकल्प्य ।
यदि व्यावृत्त्याश्रयेणोत्पन्नो भाव उच्यते तर्हि कथमुत्पत्तिरस्येति प्रयोग इत्याह--सैवेति ।
व्यावृत्त्यन्तरं महत्त्वादि तन्निरपेक्षा वक्तुमिष्यते यदा तदा । तेन परमार्थः स्वभावभूते
नोत्पत्त्याख्येन धर्मेण कल्पितः समारोपितो भेदोऽर्थान्तरत्वं यस्य ये867न अव्यतिरिक्तेन
विशेषणेन विशिष्टस्य स्वभावहेतोः प्रयोग इत्यर्थः ।
पूर्वमव्यतिरिक्तविशेषणविशिष्टस्य स्वभावस्य प्रयोगः । अधुना तु भिन्नविशेषण
विशिष्टस्येति भेदस्तदाह--भिन्नेनेति । यद्वा भिन्नेन पूर्वस्मादन्यादृशेन सङ्केतवशादन्तर्भा
वितेन, न तु विद्यमानस्ववाचकेन । अत एवायमन्यतो भिद्यते प्रयोगः ।
इहेति परप्रतिपादनार्थे शब्दप्रयोगे । शुद्धो निर्विशेषणः । अथ किमेकोऽर्थः शुद्धः
कदाचिदव्यतिरिक्तोपाधिना विशिष्टः; कदाचिद् व्यतिरिक्तविशेषणविशिष्टो दृष्टः शिष्टैः
प्रयुज्यमानो येनैवमुच्यमानं परभागं पुष्णातीत्याह--देवदत्त इति । वक्ष्यमाणतद्वत्शब्दात्
यद्वत्शब्दोऽत्र द्रष्टव्यः । चित्रा चासौ गौश्चेति गोरतद्धितलुकि पाणिनि ५. ४. ६२ इति
टच्, टित्वाङ्ङीप् तया विशिष्टः । यथाक्रममेव दृष्टान्तदार्ष्टान्तिकयोजना कार्या ।
चित्रगुशब्देन कृतकशब्दस्य साम्यं नास्तीति मन्वानः पर आह--ननु चेति । कारणा नां ननु च चित्रगुशब्दे व्यतिरिक्तस्य विशेषणस्य वाचकश्चित्रशब्दो गोशब्दश्चास्ति । अपेक्षितपरव्यापारो हि भावः स्वभावनिष्पत्तौ कृतक इति ॥ १२ ॥ अपेक्षितेति । परेषां कारणानां व्यापारः स्वभावस्य निष्पत्तौ--निष्पत्त्यर्थमपेक्षितः क्वचित्तु870 प्रतीयमानं विशेषणं यथा कृत इत्युक्ते हतुभिरित्यतत् प्रतायते । तत्र871 एवं प्रत्ययभेदभेदित्वादयोऽपि872 द्रष्टव्याः ॥ १३ ॥ प्रयुज्यमानस्व873 शब्दश्च यथा प्रत्ययभेदभेदिशब्दे874 प्रत्ययभेदशब्दः875 । यथा च876 प्रत्ययानां कारणानां भेदो विशेषस्तेन प्रत्ययकालाभेदेनं भेत्तुं शीलं यस्यस प्रत्ययभेदभेदी
व्यापारो नियतप्राग्भाव स्तदतिरेकिणो व्यापारस्याभावात् । ननु च कृतकशब्दे न विशेषण
वाचिशब्दोऽस्तीति यदुक्तं तत्तदवदस्थमेवेत्याह--यद्यपीति । अन्तर्भावितं प्रकाशितम् । कथं
159
कृतकशब्दे तु निर्विशेषणवाचिनः शब्दस्य प्रयोगोस्तीत्याशङ्क्याह--
परव्यापारो यन स तथोक्तः । हीति यस्मादर्थे । यस्मादपेक्षितपरव्यापारः कृतक उच्यते
तस्माद् व्यतिरिक्तेन विशेषणेन विशिष्टः स्वभाव उच्यते । यद्यपि व्यतिरिक्तं विशेषणपदं
न868 प्रयुक्तं तथापि कृतकशब्देनैव व्यतिरिक्तं 869विशेषणपदमन्तर्भावितम् । अत एव
संज्ञाप्रकारोऽयं कृतकशब्दो यस्मात् संज्ञायामयं कन्प्रत्ययो विहितः । यत्र च विशेषणमन्तर्भा
व्यते तत्र विशेषणपदं न प्रयुज्यते ।
च हेतुशब्दः प्रयुज्यते, कदाचिन्न वा प्रयुज्यते ॥
कृतकशब्दो भिन्नविशेषणस्वभावाभिधायी एवं प्रत्ययभेदभेदित्वमादिर्येषां प्रयत्नान्तरीय
कत्वादीनां तेऽपि स्वभावहेतोः प्रयोगा भिन्नविशेषणस्वभावाभिधायिनो द्रष्टव्याः ।
शब्दस्तस्य भावः प्रत्ययभेदभेदित्वम् । ततः प्रत्ययभेदभेदित्वाच्छब्दस्य कृतकत्वं साध्यते ।
प्रयत्नानन्तरीयकत्वादनित्यत्वम्877 । तत्र प्रत्ययभेदशब्दो व्यतिरिक्तविशेषणाभिधायी
प्रत्ययभेदभेदिशब्दे प्रयुक्तः । प्रयत्नानन्तरीयकशब्दे च प्रयत्नशब्दः ।
पुनः कृतकशब्देनान्तर्भावितमित्याह--यस्मादिति । संज्ञायां नाम्नि कन्प्रत्ययो विहितस्त
स्मादन्तर्भावितमिति । अत एव संज्ञाया कनो विधानादेवायं कृतकशब्दः संज्ञाप्रकारः संज्ञा
विशेषः संज्ञाशब्द इति यावात् ।
अन्तर्भावेऽपि कथं विशेषणपदाप्रयोग इत्याह--यत्रेति । चो यस्मादर्थे । अथावसि तदेवं त्रिविधः स्वभावहेतुप्रयोगो879 दर्शितः शुद्धोऽव्यतिरिक्तविशेषणो व्यतिरिक्त 880एवमर्थं चैतदाख्यातम्--वाचकभेदान्मा भूत् कस्यचित्स्वभावहेतावपि प्रयुक्ते 881सन्नुत्पत्तिमान् कृतको वा शब्द इति पक्षधर्मोपदर्शनम्882 ॥ १४ ॥ अथ किमेते स्वभावहेतवः सिद्धसम्बन्धे स्वभावे साध्ये प्रयोक्तव्या आहोस्विदसिद्ध सर्व एते साधनधर्मा यथास्वं प्रमाणौः सिद्धसाधनधर्ममात्रानुवन्ध एव सर्व एत इति । गमकत्वात् साधनानि, पराश्रितत्वाच्च धर्माः, साधनधर्मा एव
तस्याप्यस्ति प्रयोगो यथा कृतक इत्युक्ते हेतुनेति प्रतीतावपि हेतुशब्दप्रयोग इत्याह--क्वचि
दिति । तुः पूर्वस्माद् वैधर्म्यं 878 । प्रतीयमानं स्वत उत्पादायोगात् सामर्थ्यादवसीयमानम् ।
160
विशेषणश्च ।
व्यामोह इति ॥
सम्बन्ध इत्याशङ्क्य सिद्धसम्बन्धे प्रयोक्तव्या इति दर्शयितुमाह--
साध्यधर्मेऽवगन्तव्याः ॥ १५ ॥
अयमस्याशयः--न कृतकशब्देन प्रतिपादितस्यार्थस्य अन्यथानुपपत्त्या हेतुव्यापारोऽत्र
प्रतीयते येनात्रापि विशेषण 60a पदस्य प्रयोगो वक्तुरिच्छातः स्याद् वा न वा किन्तु स्वोत्पत्ता
वपेक्षितपरव्यापारस्यैवार्थस्येदं नामेति कुतोऽनयोः साम्यमिति ।
एवं तावत्कश्चिद् विशेषणभूतोऽर्थोऽर्थात्प्रतीयमानः स्वशब्देनोच्यते न वा वक्तुरिच्छा
वशादिति प्रतिपाद्य कश्चित्पुनर्विशेषणभूतोऽर्थः प्रतीयमानोऽप्यवश्यं स्वशब्देनोपादेय इति
दर्शयितुमाह--प्रयुज्यमानेति । प्रयुज्यमान उपादीयमानः । स्वशब्दः स्ववाचको यस्य
विशेषणरूपस्यार्थस्य स तथोक्तः । कोऽसावीदृश इत्याह--यथेति । प्रत्ययभेदः प्रत्ययभेद
लक्षणोऽर्थो विशेषणात्माऽवश्यं स्ववाचकेन प्रत्ययभेदशब्देनाभिधीयत इति प्रकरणात् ।
भेत्तुं भिदां गन्तुं । कस्मिन् साध्ये साधनमिदमित्याह--शब्दस्येति । एतच्च
मीमांसकादीनां प्रति द्रष्टव्यम् ।
तदेवमित्यादिनोपसंहारः । स्वभावहेतोः साधर्म्यवत्प्रयोगमात्रे दर्शयितव्ये किमनेकस्य
स्वभावहेतोः प्रयोगो दर्शित इत्याशङ्क्य फलमस्योपदर्शयन्नाह--एवमर्थं चैतदिति । एवं
वक्ष्यमाणकोऽर्थः प्रयोजनं यस्येति विग्रहः कार्यः । चोऽवधारणे हेतौ वा । एतदिति त्रैविध्यम् ।
एवमर्थं चैतत् हेतुजातमिति क्वचित्पाठस्तत्र च जातं वृन्दं द्रष्टव्यम् । तमेवार्थं वाचकेत्यादिना
दर्शयति । वाचके व्यामोहो भ्रमस्तस्मात् । कस्यचित्प्रतिपत्तुः स्वभावहेतावपि प्रयुक्ते
व्यामोहो नायं स्वभावः इति विपर्ययज्ञानम् ।
एतदुक्तं भवति--यदि त्रयाणामन्यतम उपादीयेत तदा कदाचिदन्येनान्यथा प्रयुक्ते साधनधर्ममात्रम् । मात्रशब्देनाधिकस्यापेक्षणीयस्य निरासः । तस्यानुबन्धोऽनुगमनमन्वयः । तदयं परमार्थः--न हेतुः प्रदीपवद् योग्यतया गमकोऽपि तु नान्तरीयकतया विनि
स्वभावहेतौ शास्त्रोक्तस्वभावहेतुवाचकभिन्नत्वात् नायं स्वभाववाचकः इति वाचके
161
सिद्धः साधनधर्ममात्रानुबन्धो यस्य स तथोक्तः । केन सिद्ध इत्याह--यथास्वं प्रमाणैरिति883 ।
यस्य साध्यधर्मस्य यदात्मीयं प्रमाणं तेनैव प्रमाणेन सिद्ध इत्यर्थः । स्वभावहेतूनां च बहुभे
दत्वात् संबन्धसाधनान्यपि प्रमाणानि बहूनीति प्रमाणैरिति बहुवचननिर्देशः । गमयित
व्यत्वात् साध्यः, पराश्रितत्वाच्च धर्मः साध्यधर्मः ।
श्चितः884 । साध्याविनाभावित्वनिश्चयनमेव885 हि हेतोः साध्यप्रतिपादनव्यापारो नान्यः
कश्चित् ।
व्यामुह्य नायं स्वभावः इति साधनेऽपि व्यामुह्येत । स व्यामोहो मा भूदित्येतदर्थं त्रिविधः
स्वभावहेतुरुक्तः ।
अथेति सम्बोधने । सिद्धो निश्चितः सम्बन्धस्तादात्म्यलक्षणो यस्य तस्मिन् । यस्य
साध्यधर्मस्य यदात्मीयमिति येन प्रमाणेन यस्य साध्यस्य साधनव्यापकत्वं निश्चीयते ।
तदेव तस्येत्यभिप्रायेणोक्तम् । व्यक्तिभेदविवक्षया बहूनीत्युक्तम् ।
साध्यसाधनयोः सम्बन्धो वास्तवोऽस्तु । किं तन्निश्चयेनेत्याह--तदयमिति । यत
एवं तत्तस्मादयमभिधास्यमानस्तात्पर्यार्थः सर्व इत्यादेर्वाक्यस्य । प्रदीपो वैधर्म्यदृष्टान्तः ।
योग्यतया तथाशक्यतया ।
ननु परोक्षार्थप्रतिपादनव्यापारसमावेशाद् हेतुर्गमकः तत्किं साध्यनान्तरीयकत्वनिश्चयेने 887प्रथमं बाधकेन प्रमाणेन साध्यप्रतिबन्धो निश्चेतव्यो हेतोः । पुनरनुमानकाले888 तत्र सामान्यस्मरणं लिङ्गज्ञानम्893 । विशिष्टस्य तु शब्दगतकृतकत्वस्या894 ऽनित्य यद्येवं सम्बन्धो निश्चेतव्यः साध्यस्य साधनेन सह । साधनधर्ममात्रानुबन्धस्तु 896तस्यैव तत्स्वभावत्वात् ॥ १६ ॥ तस्यैवेति सिद्धसाधनधर्ममात्रानुबन्धस्य । तत्स्वभावत्वादिति साधनधर्मरवभावत्वात् । भवतु ईदृश एव स्वभावः । स्वभाव एव तु साध्ये कस्माद्धेतुप्रयोगः ? स्वभावस्य च897 हेतुत्वात् ॥ १७ ॥ स्वभावस्य च898 हेतुत्वात् । स्वभाव एव899 इह हेतुः प्रक्रान्तः । तस्मात् स एव यदि साध्यधर्मः साधनस्य स्वभावः901 स्यात् प्रतिज्ञार्थैकदेशस्तर्हि हेतुः स्यादित्याह-- वस्तुतस्तयोस्तादात्म्यम्902 ॥ १८ ॥ वस्तुत इति । वस्तुतः परमार्थतः साध्यसाधनयोस्तादात्म्यम् । समारोपितस्तु
त्याह--साध्येति । हिर्यस्मादर्थे । साध्याविनाभावित्वनिश्चयनमत्रापीदमेतत्स्वभावमिति
निश्चयः । तदेव हेतोः प्रतिपादनव्यापारः परोक्षार्थप्रतिपादनलक्षणो व्यापारः परोक्षार्थप्रतिपा
दकत्वमित्यर्थः । यद्येवमनिश्चितसम्बन्धेऽपि साध्यधर्मे साधनधर्मस्तन्नान्तरीयकतया निश्चेतुं
शक्य इति किं सिद्धसम्बन्धेन साध्येनानुसृतेनेत्याह--प्रथममिति । प्रथमं हेतुप्रयोगात्प्राक्,
बाधकेन साध्यविपर्ययो हेतो60b 886 ... ... ...
... ... ...
... ... ...
... ... ...
...61a साध्यसाधनभाव इति चेत् । यद्दर्शनद्वारायातावेतौ कृतकत्वानित्यत्वविकल्पौ
व्यावृत्तिनिष्ठौ परमार्थतस्तस्य तादात्म्यादित्युक्तप्रायमित्यदोषः । तादात्म्यावसायः कुत इति चेद्
विपर्यये वाधकप्रमाणवशात् । तत एव तर्हि साध्यं सिद्धमिति किं साध्यत इति चेत् । न ।
ततो धर्म्यनवच्छेदेन प्लवमानाकारायाः प्रतीतेरप्रवृत्त्यङ्गस्योदयात् । यत्पुनरियं घर्मकालविशे
162
साधनं साध्य889 नान्तरीयकं सामान्येन स्मर्तव्यम् । कृतकत्वं नामानित्य890 स्वभावमिति सामा
न्येन स्मृतमर्थ891 पुनर्विशेषे योजयति--इदमपि कृतकत्वं शब्दे वर्तमानमनित्य892 स्वभावमेवेति ।
त्वस्वभावस्य स्मरणमनुमानज्ञानम्895 । तथा च सत्यविनाभावित्वज्ञानमेव परोक्षार्थ
प्रतिपादकत्वं नाम । तेन निश्चिततन्मात्रानुबन्धे साध्यधर्मे स्वभावहेतवः प्रयोक्तव्या
नान्यत्रेत्युक्तम् ॥
साध्यस्य कस्मान्निश्चितो मृग्यत इत्याह--
यो हि साध्यधर्मः साधनधर्ममात्रानुबन्धवात् स एव तस्य साधनधर्मस्य स्वभावो नान्यः ॥
साध्यः कर्तव्यः यः साधनस्य स्वभावः स्यात् । साधनधर्ममात्रानुबन्धवांश्च900 स्वभावो नान्यः ॥
साध्यसाधनभेदः903 । साध्यसाधनभावो हि निश्चयारूढे रूपे । निश्चयारूढं च रूपं समारोपितेन
षानवच्छेदेन तदात्मताप्रतीतिः प्रवृत्त्यङ्गमियमस्मादेव लिङ्गादिति किमवद्यम् ? एवं सत्त्वहेता
वपि द्रष्टव्यम् । एतच्चोक्तमपि स्वार्थानुमानेऽधिकाभिधानार्थं पुनरुक्तमिहेति द्रष्टव्यम् ॥
163
भेदेनेतरेतरव्यावृत्तिकृतेन भिन्नमिति अन्यत् साधनम्, अन्यत् साध्यम् । दूराद्धि शाखादिमानर्थो
बृक्ष इति निश्चीयते न शिंशपेति । अथ च स एव वृक्षः सैव शिंशपा । तस्मादभिन्नमपि वस्तु
निश्चयो भिन्नमादर्शयति व्यावृत्तिभेदेन । तस्मान्निश्चयारूढरूपापेक्षया अन्यत् साधनम अन्यत्
साध्यम् । अतो न प्रतिज्ञार्थैकदेशो हेतुः । वास्तवं च तादात्म्यमिति ॥
कस्मात् पुनः साधनधर्ममात्रानुबन्ध्येव904 साध्यः स्वभावो नान्य इत्याह--
तन्निष्पत्तावनिष्पन्नस्य तत्स्वभावत्वाभावात्905 ॥ १९ ॥
तन्निष्पत्ताविति । यो हि यन्नानुबध्नाति स906 तन्निष्पत्तावनिष्पन्नः । तस्य तन्निष्पत्ता
वनिष्पन्नस्य साधनस्वभावत्वमयुक्तम् । यतो निष्पत्त्यनिष्पत्ती भावाभावरूपे । भावाभावौ
च परस्परपरिहारेण स्थितौ । यदि च पूर्वनिष्पन्नस्य, अनिष्पन्नस्य चैक्यं भवेदेकस्यैवार्थस्य
भावाभावौ स्यातां युगपत् । न च विरुद्धयोर्भावाभावयोरैक्यं युज्यते, विरुद्धधर्मसंसर्गात्मक
त्वादेकत्वाभावस्य ।907
किञ्च पश्चादुत्पद्यमानं पूर्वनिष्पन्नाद्भिन्नहेतुकम् । हेतुभेदपूर्वकश्च कार्यभेदः । ततो
निष्पन्नानिष्पन्नयोर्विरुद्धधर्मसंसर्गात्मको भेदो भेदहेतुश्च कारणभेद इति कुत एकत्वम् ?
तस्मात् साधनधर्ममात्रानुबन्ध्येव साध्यः स्वभावो नान्यः ॥
मा भूत् पश्चान्निष्पन्नः पूर्वजस्य स्वभावः । साध्यस्तु कस्मान्न भवतीत्याह--
व्यभिचारसंभवाच्च ॥ २० ॥
908व्यभिचारेत्यादि । पूर्वजेन पश्चान्निष्पन्नस्य व्यभिचारः परित्यागो यस्तस्य संभवाच्च
ननु किमस्य सम्भवोऽस्ति यदुतैकात्मन एवैका व्यावृत्तिर्निश्चीयते नेतरेत्याह--दूरादिति ।
हिर्यस्मात् । अथ चेति निपातसमुदायः प्रतिपिपादयिषितपरमार्थद्योतकः । वृक्षः शिंशपेति
चोपलक्षणमेतत् ।
तस्मादित्यादिनोपसंहारः । वास्तवं वस्तुस्वरूपादागतमसमारोपितमित्यर्थः । तुशब्दार्थ
श्चकारः ॥
यः साध्यधर्मो यं साधनधर्मं नानुबध्नाति, नानुगच्छति, तस्मिन् सति नियमेन नोपति ठत
इति यावत् । कस्मात् तत्स्वभावत्वमयुक्तमित्याह--यत इति । भवतां भावाभावरूपे तथाऽपि
किं तयोस्तत्स्वभावत्वमित्याह--भावेति । चो यस्मादर्थे । यदिच्छ909ति चशब्दो
वक्तव्यान्तरसमुच्चये ।
164
न पूर्वनिष्पन्नस्य पश्चान्निष्पन्नः साध्यः । तस्मात् साधनधर्ममात्रानुबन्ध्येव910 स्वभावः । स
एव च साध्यः । तथा च सिद्धसाधनधर्ममात्रानुबन्ध एव स्वभावे स्वभावहेतवः प्रयोक्तव्या
इति स्थितम् ॥
कार्यहेतोः911 प्रयोगः--यत्र धूमस्तत्राग्निः । यथा महानसादौ । अस्ति
चेह धूम इति ॥ २१ ॥
कार्यहेतोः प्रयोगः । साधर्म्यवानिति प्रकरणादपेक्षणीयम् । यत्र धूम इति धूममनूद्य
तत्राग्निरित्यग्ने912 र्विधिः । तथा च 913नियमार्थः पूर्ववदवगन्तव्यः । तदनेन कार्यकारणभावनिमित्ता
व्याप्तिर्दर्शिता ।
व्याप्तिसाधनप्रमाणविषयं दर्शयितुमाह--यथा महानसादाविति । महानसादौ हि
प्रत्यक्षानुपलम्भाभ्यां कार्यकारणभावात्माविनाभावो निश्चितः ।
अस्ति चेहेति साध्यधर्मिणि पक्षधर्मोपसंहारः ॥
इहापि सिद्ध एव कार्यकारणभावे कारणे साध्ये 914कार्यहेतुर्वक्तव्यः ॥ २२ ॥
इहापीति । न केवलं स्वभावहेताविहापि कार्यहेतौ915 । सिद्ध एवेति निश्चिते कार्य
कारणत्वे । कार्यकारणभाव916 निश्चयो ह्यवश्यं कर्तव्यः । यतो न योग्यतया हेतुर्गमकोऽपि तु
नान्तरीयकत्वादित्युक्तम् ॥
एवं विरुद्धधर्मसंसर्गात्मकभेदं प्रतिपाद्य तस्य हेतुं कारणभेदं प्रतिपादयितुमाह—
किञ्चेति निपातसमुदायो वक्तव्यान्तरसमुच्चये । पूर्वनिष्पन्नवस्तुहेतुकत्वे तदैवोत्पत्तिप्रसङ्गेन
पश्चादुत्पादायोगादिति भावो भिन्नहेतुकमिति ब्रुवतः । भिन्नहेतुकत्वेऽपि कथं भेद इत्याह—
हेतुभेदेति । चो हेतौ । तत इत्यादिनोऽपसंहारः । तस्मादित्यादिनाऽऽद्यस्योपसंहारः ॥
पूर्वस्मिन् काले जातः पूर्वजः । व्यभिचारस्तदन्तरेणाऽपि केवलस्य स्थितिः । चोऽस्व
भावतापेक्षयाऽसाध्यतां समुच्चिनोति । तस्मादित्यादिना साधनधर्ममात्रानुबन्धिनस्तत्स्वभावत्वं
साधनस्वभावत्वञ्चोपसंहरति । चशब्दः साध्य इत्यस्यानन्तरं तत्स्वभावत्वापेक्षया साध्यत्वं
समुच्चिनोति । तथा च तन्निष्पत्तावेव निष्पन्नस्य तादात्म्ये तन्मात्रानुबन्धिन एव च साध्यत्वे सति ॥
165
साधर्म्यवान्स्वभावकार्यानुपलम्भानां प्रयोगो दर्शितः । वैधर्म्यवन्तं दर्शयितुमाह--
वैधर्म्यवतः917 प्रयोगः--यत् सदुपलब्धिलक्षणप्राप्तं तदुपलभ्यत
एव । यथा नीलादिविशेषः । न चैवमिहोपलब्धिलक्षणप्राप्तस्य सत
उपलब्धिर्घटस्येत्यनुपलब्धिप्रयोगः ॥ २३ ॥
वैधर्म्यवत 918इति यत् सदुपलब्धिलक्षणप्राप्तमिति यत् सत् दृश्यमित्यस्तित्वानुवादः ।
तदुपलभ्यत इत्युपलम्भविधिः । 919तदनेन दृश्यस्य सत्त्वं दर्शनविषयत्वेन व्याप्तं कथितम्,
असत्त्वनिवृत्तिश्च सत्त्वम । अनुपलम्भनिवृत्तिश्च उपलम्भः । तेन साध्यनिवृत्त्यनुवादेन
साधननिवृत्तिर्विहिता । तथा च920 साध्यनिवृत्तिः साधननिवृत्तौ नियतत्वात् साधननिवृत्त्या
व्याप्ता कथिता । यदि च धर्मिणि साध्यधर्मो न भवेद् 921हेतुरपि न भवेत् । 922हेत्वभावेन
923साध्याभावस्य व्याप्तत्वात् । अस्ति च हेतुः924 । अतो व्यापकस्य साधनाभा925 वस्याभावाद्
व्याप्यस्य926 साध्याभावस्याभाव इति साध्यगति927 र्भवति । ततो वैधर्म्यप्रयोगे साधनाभावे
साध्याभावो928 नियतो दर्शनीयः सर्वत्रिति न्यायः ॥
प्रकरणात्साधर्म्यवत्प्रयोगदर्शनप्रस्तावात् । तथा चेति धूमानुवादेनाग्निविधाने सतीत्यर्थः ।
नियमोऽव्यभिचारः, तल्लक्षणोऽर्थः प्रतिपाद्यतयाऽभिधेयः प्रयोजनं वाऽस्य--यत्र धूम इत्यादेः
प्रयोगस्येति प्रस्तावात्, सोऽनुगन्तव्यः प्रत्येतव्यः । पूर्ववदनुपलब्ध्यादिवत् ।
एतदेव व्यनक्ति तदिति यत एवं तत्तस्मात् । व्याप्तिरविनाभावः, साध्यनियतत्वं
साधनस्येति यावत् । दर्शिता प्रदर्शिता । किंनिमित्ता सेत्याह--कार्येति ।
अयमाशयः--व्याप्तिः खलुः प्रतिबन्धः साध्यायत्तत्वम् । तच्चार्थान्तरस्यार्थान्तरे प्रति
बद्धत्वं कार्यकारणभाववशादिति स एव निमित्तं तस्य, अनर्थान्तरस्य तु तादा61b त्म्यम् ।
महानसः सूपकारशाला । आदिशब्देनायस्कारकुट्यादेर्ग्रहणम् । किं तत्र व्याप्तिसाधकं
प्रमाणं यदपेक्षया तस्य विषयत्वमित्याह--प्रत्यक्षेति । हिर्यस्मादर्थे । प्रत्यक्षानुपलम्भानां
प्रत्येकं जात्येकत्वविवक्षया प्रत्यक्षानुपलम्भाभ्यामित्युक्तम् । परमार्थतस्तु त्रिभिरनुपलम्भैर्द्वाभ्यां
प्रत्यक्षाभ्यामित्यवसेयम् । कार्यकारणभावादात्मा निश्चयारूढः स्वभावो यस्येति विग्रहः कार्योऽ
न्यथा युक्तिविरोधः स्ववचनविरोधश्चाऽस्य स्यात् । अविनाभावोऽव्यभिचारः साध्यायत्तता
साधनस्येति यावत् ।
पक्षधर्मस्योपसंहारो ढौकनं तत्र सत्त्वप्रदर्शनमित्यर्थः ॥
166
स्वभावहेतोर्वैधर्म्यप्रयोगमाह--
असत्यनित्यत्वे नास्त्येव929 सत्त्वमुत्पत्तिमत्त्वं कृतकत्वं वा ।930
संश्च शब्द उत्पत्तिमान् कृतको वेति स्वभावहेतोः प्रयोगः ॥ २४ ॥
असत्यनित्यत्व इति । इहानित्यत्वस्य साध्यस्याभावो हेतोरभावे नियत931 उच्यते ।
तेन हेत्वभावेन932 साध्याभावो व्याप्त933 उक्तस्त्रिष्वपि स्वभावहेतुषु । सन्नुत्पत्तिमान् कृतको
वा शब्द इति त्रयाणामपि पक्षधर्मत्वप्रदर्शनम् । इह934 च साधनाभावस्य व्यापकस्याभाव
उक्तः । ततो व्याप्योऽपि साध्याभावो निवर्तत935 इति साध्यगतिः ॥
कार्यहेतोर्वैध936 र्म्यवत्प्रयोगमाह--
असत्यग्नौ न भवत्येव धूमः ।
अत्र चास्ति धूम937 इति कार्यहेतोः प्रयोगः ॥ २५ ॥
असत्यग्नाविति । इहापि938 वह्न्यभावो धूमाभावेन व्याप्त उक्तः । 939अस्ति
चात्र धूम इति व्यापकस्य धूमाभावस्याभाव उक्तः । ततो व्याप्यस्य वह्न्यभावस्याभावे
साध्यगतिः ॥
ननु च साधर्म्यवति940 व्यतिरेको नोक्तः । वैधर्म्यवति चान्वयः । तत् कथमेतत्
त्रिरूपलिङ्गाख्यानमित्याह--
दृष्टान्तदार्ष्टान्तिकयोर्हेतुसद्भावासद्भावद्वारकं वैधर्म्यं विद्यते प्रतिपाद्यतया यस्य
तं दर्शयितुमाह वार्तिककारः ।
तथा चेति साध्यनिवृत्त्यनुवादेन साधननिवृत्तिप्रकारे सतीत्यर्थः । साध्यनिवृत्तिरभावः
साधनस्य निवृत्त्याऽभावेन व्याप्ता आत्मनियतीकृता कथिता प्रकाशिता । कुत इत्याह—
साधनस्य निवृत्तावभावे नियतत्वादव्यभिचारित्वात्साध्यनिवृत्तेरिति प्रक्रमात् । यतो यत्र
साध्याभावस्तन्नियतत्वमस्य । इमामेव व्याप्तिं व्यनक्ति यदीति । चो हेतौ । धर्मिणीत्यनेन
धर्मिमात्रमुपदर्शयन् सर्वोपसंहारवतीं व्याप्तिमाह । कुतः पुनः साध्याभावे साधनाभाव इत्याह—
हेत्वभावेनेति । अस्ति हेतुर्श्दृयानुपलम्भः । अनेन व्यापकस्य साधनाभावलक्षणस्याभावो दर्शितः ।
अतो व्यापकाभावात्साध्याभावः सद्व्यवहारयोग्यत्वलक्षणो व्याप्यो निवर्त्तते । यत एवम्
167
साधर्म्येणापि हि प्रयोगेऽर्थाद्वधर्म्यगतिरिति941 ॥ २६ ॥
साधर्म्येणेति । साधर्म्येणापि अभिधेयेन युक्ते प्रयोगे क्रियमाणे अर्थात्942 सामर्थ्यात्
वैधर्म्यस्य व्यतिरेकस्य गतिर्भवतीति943 । हीति यस्मात् । तस्मात् त्रिरूपलिङ्गाख्यानमेतत्944 ।
यदि नाम व्यतिरेकोऽन्वयवता945 नोक्तस्तथापि अन्वयवचनसामर्थ्यादेवावसीयते ॥
कथम् ?
असति तस्मिन् साध्येन हेतोरन्वयाभावात् ॥ २७ ॥
असति तस्मिन् व्यतिरेके946 947बुद्ध्याध्यवसिते साध्येन हेतोरन्वयस्य 948बुद्ध्याध्यवसित-949
स्याभावात् । 950साध्ये नियतं साधनमन्वयवाक्यादवस्यता साध्याभावे साधनं नाशङ्कनीयम् ।
इतिस्तस्मात् । साध्यस्यासद्व्यवहारयोग्यत्वस्य गतिरवसायो भवति, सर्वत्र हेतुत्रयवैधर्म्य
प्रयोगे ॥
स्वभावहेतुमधिकृत्याह--स्वभावेति । वैधर्म्यप्रतिपादकः प्रयोगस्तथोक्तः । कथं पुनरत्र
साध्यनिश्चयो जायत इत्याह--इहेति स्वभावहेतुप्रयोगत्रये । चो यस्मात् साधनाभावस्य
सत्त्वादिनिवृत्तेरभावः सत्त्वादिविधिरुक्तः । ततस्तस्मात् । व्याप्योऽपि क्षणिकत्वाभावोऽपि ।
अपिः साधनाभावनिवृत्त्यपेक्षया साध्याभावनिवृत्तिं समुच्चिनोति । यत एवमितिस्तस्मात् ।
साध्यस्य क्षणिकत्वस्य गतिर्निश्चय इति ॥
कार्यहेतुमुद्दिश्याह--कार्येति । न केवलं पूर्वयोरित्यपिशब्दः । धूमाभावस्याभावो धूमसत्तैव
प्रतिषेधप्रतिषेधस्य विधिरूपत्वादेवं पूर्वत्रापि विज्ञेयम् । ततो व्यापकस्य घूमाभावस्याभावात्
व्याप्यस्य वह्र्यभावस्याभाव952 न्यायसिद्धे सति ॥
न केवलं व्यतिरेकेणाभिधेयेन युक्त इत्यपिशब्दः । अभिधेयेन साक्षादभिधाविश्राम
विषयेण । सामर्थ्यादन्यथाऽनुपपत्तेः ।
एतदिह ज्ञातव्यम्--अन्वयव्यतिरेकयोर्भेदस्य व्यावृत्तिनिबन्धनत्वाद् वस्तुतस्तादात्म्यात्
स्वभावहेतुजानुमानबलादितरप्रतीतिर्न त्वन्यथाऽनुपपत्तिलक्षणार्थापत्तिरनेनोच्यत इति ।
168
इतरथा 953साध्यनियतमेव न प्रतीतं स्यात् । साध्याभावे च साधनाभावगतिर्व्यतिरेकगतिः ।
अतः साध्यनियतस्य साधनस्याभिधानसामर्थ्यादन्वयवाक्येऽवसितो व्यतिरेकः ॥
तथा वैधर्म्येणाप्यन्वयगतिः ॥ २८ ॥
तथेति । यथाऽन्वयवाक्ये तथाऽर्थादेव वैधर्म्येण प्रयोगेऽन्वयस्यानभिधीयमानस्यापि गतिः ॥
कथम् ?
असति तस्मिन् साध्याभावे हेत्वभावस्यासिद्धेः ॥ २९ ॥
असति तस्मिन् अन्वये बुद्धिगृहीते 954साध्याभावे हेत्वभावस्यासिद्धेरनवसायात् ।
हेत्वभावे साध्याभावं नियतं व्यतिरेकवाक्यादवस्यता हेतुसंभवे साध्याभावो नाशङ्कनीयः ।
इतरथा हेत्वभावे955 नियतो957 न स्यात् प्रतीतः । हेतुसत्त्वे च साध्यसत्त्व958 गतिरन्वयगतिः ।
अतः साधनाभाव959 नियतस्य साध्याभावस्याभिधानसामर्थ्याद् व्यतिरेकवाक्येऽन्वयगतिः ॥
एतदेव दर्शयितुमाह--यदि नामेति । विशेषाभिधाननिमित्ताभ्युपगमे चायं निपात
समुदायः । अन्वयवताऽन्वयेनाभिधेयेन युक्ते प्रयोगेणेति प्रस्तावात् । अन्वयवचनसामर्थ्यादन्व
62a याभिधानबलात् ॥
अभिप्रायमजानानः पर आह--कथमिति ।
असतीत्यादि सिद्धान्तवादी । अभिधेयतया स्थित इत्याशङ्कामपाकर्त्तुमाह--बुद्ध्येति ।
तादात्म्यतदुत्पत्तिनिबन्धने प्रतिबन्धेन प्रतिबद्धत्वात्साधनमिदं साध्याभावे न भवत्येवेति बुद्धयाऽ
ध्यवसिते विषयीकृतेऽसति । साध्येन हेतोरन्वयस्य--अन्वीयमानत्वस्य--यत्र साधनं तत्र
सर्वत्रावश्यं साध्यमित्येवंरूपस्य बुद्ध्याऽध्यवसितस्येत्येतदन्वयवाक्योपस्थापितया बुद्ध्या गृहीत
स्याभावादभावप्रसङ्गादित्यर्थः ।
एतदुक्तं भवति । यदि साध्याभावेऽपि साधनं स्यात् तदा यत्रैवादः साध्याभावेऽपि
वृत्तमिष्यते तत्रैव तत्साधनमप्यस्ति न च साध्यमिति कथं यत्र यत्र साधनधर्मस्तत्र तत्र साध्यधर्म
इति सर्वोपसंहारेणान्वय उक्तः स्यादिति । तस्माद् हेतोरन्वयाभावाद् हेतोः साध्ये नियतं
साध्याविनाभाविसाधनमन्वयवाक्वादिवा960स्यता प्रतियता साध्याभावे साधनं नाशङ्कनीयं
न सन्देहनीयम् । आशङ्कानिषेधेन च विपर्ययोऽत्यन्तं निषिद्धः ।
कथं पुनस्तेनैवं नाशङ्कनीयमित्याह--इतरथेति--अतोऽन्येन प्रकारेण । अस्तु साध्याभावे यदि नामाकाशादौ साध्याभावे साधनाभावस्तथापि किमिति हेतुसंभवे साध्यसंभव न हि स्वभावप्रतिबन्धेऽसत्येकस्य निवृत्तावपरस्य नियमेन नहीति । 961स्वभावेन प्रतिबन्धो यस्तस्मिन्नसत्येकस्य साध्यस्य निवृत्त्या नापरस्य स च द्विप्रकारः सर्वस्य । तादात्म्यलक्षणस्तदुत्पत्तिलक्षणश्चे
साधनाभावावसायो व्यतिरेकस्तु कथं प्रतीयत इत्याह--साध्येति । चो यस्मादर्थे । यत
169
इत्याह--
निवृत्तिः ॥ ३० ॥
साधनस्य नियमेन युक्ता नियमवती निवृत्तिः ॥
त्युक्तम् ॥ ३१ ॥
एवमतो हेतोरित्यादिनोपसंहारः । असति व्यतिरेके प्रतिबन्धानाक्षेपादन्वयस्यैवासत्त्वादसतश्च
सत्त्वेन तत्प्रतिपादनायोगात्प्रेक्षावतामन्वयवचनमेव न प्रयुक्तं स्यादिति समुदायार्थः ॥
वैधर्म्येणाभिधेयेन युक्त इत्यध्याहारः । प्रयोगे साधनवाचकशब्दसमूहे ॥
कथमिति परः ।
असतीत्यादि सिद्धान्तवादी । बुद्धिगृहीत इति बुद्ध्यन्तरगृहीत इति ग्राह्यम् । एतदेव
प्रतिपादयन्नाह--हेत्वभाव इति । इतरथा हेतुसद्भावे साध्याभावसम्भवप्रकारे सति नियतो न
स्यात्प्रतीतः साध्याभाव इति शेषः ।
मा भून्नियतोऽनुगतः किं नश्छिन्नमित्याह--हेतुसत्त्वे इति । चः समुच्चये ।
अयमाशयः--सति साधनेऽवश्यं साध्यमित्येवंलक्षणोऽन्वयोऽस्त्येव । केवलं व्यतिरेक
वाक्यान्न प्रतीयत इत्युच्यते पूर्वपक्षवादिना । यदा च हेत्वभावे न नियतः साध्याभावः सम्भाव्यत
इति कुतो यत्र यत्र साधनं तत्र तत्र साध्यमित्येवंरूपोऽन्वयः सिद्ध्येत् । तत्रैवं सम्भावना
विषये हेतुभावेऽपि साध्याभावादिति ।
यत एवमतोऽस्माद् हेतोरित्यादिनोपसंहारः । अत्राप्ययमाशयः--यदि यत्र साधनं
तत्रावश्यं साध्यमिति न स्यात्तदा तत्रैव तावदसत्यपि साध्ये साधनं वृत्तमिति कुतः साध्याभावे
साधनं न वर्त्तत इत्येवंरूपो व्यतिरेकः सिद्ध्येदिति ॥
अत्राभिप्रायमपरिज्ञायमानः 962 प्राह--यदि नामेति ।
नहीत्यादि प्रतिविधानमाचार्यीयं नहीत्यादिना व्याचष्टे । अयं च मौलो हिशब्दः
पश्चाद् व्याख्यास्यते । नियमेनावश्यंतया । या चावश्यं भाविनी निवृत्तिः सा नियमेन युक्ता
भवतीत्यर्थकथनमेतत् ॥
170
स च स्वभावप्रतिबन्धो द्विप्रकारः सर्वस्य 963प्रतिबद्धस्य । तादात्म्यं लक्षणं निमित्तं यस्य
स तथोक्तः । तदुत्पत्तिर्लक्षणं निमित्तं यस्य स तथोक्तः । यो यत्र प्रतिबद्धस्तस्य स
प्रतिबन्धविषयोऽर्थः स्वभावः कारणं वा स्यात् । अन्यस्मिन् प्रतिबद्धत्वानुपपत्तेः । तस्माद्
द्विप्रकारः स इत्युक्तम् । स च सार्ध्येऽर्थे लिङ्गस्य इत्यत्रान्तरेऽभिहितः ॥
तेनं हि निवृत्तिं कथयता प्रतिबन्धो दर्शनीयः । तस्मात् निवृत्ति
वचनमाक्षिप्तप्रतिबन्धोपदर्शनभेव भवति । यच्च प्रतिबन्धोपदर्शनं 964तदेवान्व
यवचनमित्येकेनापि वाक्येनान्वयमुखेन व्यतिरेकमुखेन वा प्रयुक्तेन सपक्षासप
क्षयोर्लिङ्गस्य सदसत्त्वख्यापनं 965कृतं भवतीति नावश्यं वाक्यद्वयप्रयोगः ॥ ३२ ॥
966हिर्यस्मादर्थे । यस्मात् स्वभावप्रतिबन्धे निवर्त्यनिवर्तकभावस्तेन967 साध्यस्य निवृत्तौ
साधनस्य968 निवृत्तिं कथयता प्रतिबन्धो निवर्त्यनिवर्तकयोर्दर्शनीयः । यदि हि साधनं साध्ये
प्रतिबद्धं भवेद् एवं साध्यनिवृत्तौ 969तन्नियमेन निवर्तेत । यतश्च तस्य प्रतिबन्धो दर्शनीयः
तस्मात् साध्यनिवृत्तौ यत् साधननिवृत्तिवचनं970 तेनाक्षिप्तं प्रतिबन्धोपदर्शनम् । यच्च
तदाक्षिप्तं971 प्रतिबन्धोपदर्शनं तदेवान्वयवचनम् । प्रतिबन्धश्चेदवश्यं दर्शयितव्यो न वक्त
व्यस्तर्ह्यन्वयः । यस्माद् दृष्टान्ते प्रमाणेन प्रतिबन्धो972 दर्श्यमान एवान्वयो नापरः कश्चित्,
अथ स्वभावप्रतिबन्धश्चेदेकनिवृत्तावपरनिवृत्तिनिबन्धनं तदा कार्यहेतोरेव व्यतिरेको न
स्वभावहेतो62b रिति973...तस्यासौ न तर्हि कार्यंहेतावित्याह--स चेति । चो यस्मादर्थे ।
स्वभावेन प्रतिबन्धः प्रतिबद्धत्वं साध्यायत्तत्वम् । कस्यासावित्याशङ्कायामाह--प्रतिबद्धस्य
साधनस्य । सर्वस्येत्यनेन व्याप्तिं दर्शयति । तत्र संयोगादिनिमित्तशङ्काव्युदासायाभिमतं
द्वितं974दर्शयन्नाह--तादात्म्यमित्यादि । लक्ष्यतेऽनेनेति लक्षणम् । अत एवाह निमित्तमिति
किम्पुनस्तेन स्वभावेन975...मित्याह--अन्यस्मिन्नस्वभावेऽकारणे च । संयोगसमवाययोः
प्रमाणबाधितत्वेन निमित्तत्वानुपपत्तेरिति भावः । यत एवं तस्माद् हेतोः । स इति
प्रतिबन्धः ॥
पूर्वकं हिशब्दमिदानीं यथायोगं व्याचष्टे--हिरिति यस्मादर्थवृत्तिं हिशब्दम् । अस्य तस्मान्निवर्त्यनिवर्तकयोः976 प्रतिबन्धो ज्ञातव्यः । तथा चान्वय एव ज्ञातो भवति । इति अन्वयो मुखमुपायोऽभिधेयत्वाद् यस्य तद् अन्वयमुखं वाक्यम् । एवं व्यतिरेको मुखं अर्थगत्यर्थो हि शब्दप्रयोगः । अर्थश्चेदवगतः, किं शब्दप्रयोगेण ? 980एकमेवान्वयवाक्यं अनुपलब्धावपि--यत् सद् उपर्लाब्धलक्षणप्राप्तं तद् उपलभ्यत
171
शब्दो हेतौ । यस्मादन्वयेऽपि977 व्यतिरेकगतिः व्यतिरेके चान्वयगतिः, तस्माद् एकेनापि सपक्षे
चासपक्षे च सत्त्वासत्त्वयोः ख्यापनं कृतम् ।
978यस्येति । इति979 हेतौ । यस्मादेकेनापि वाक्येन द्वयगतिस्तस्मादेकस्मिन् साधनवाक्ये
द्वयोरन्वयव्यतिरेकवाक्ययोरवश्यमेव प्रयोगो न कर्त्तव्यः ।
व्यतिरेकवाक्यं वा प्रयोक्तव्यम् ॥
एवेत्युक्ते--अनुपलभ्यमानं तादृशमसदिति प्रतीतेरन्वयसिद्धिः ॥ ३३ ॥
हिशब्दस्य अर्थं कृत्वा शब्दपदार्थकस्या981...एवमुक्ते वक्ष्यमाणे च सर्वत्र द्रष्टव्यम् ।
अमुमेव यस्मादर्थमपेक्ष्य तेनेति योजयितुमिति दर्शयितुमाह--यस्मादिति । एतच्च नहीत्यादि
वाक्यस्य प्रकाश्यमर्थं गृहीत्वोक्तं न त्वभिधेयम्, निवृत्तिनिषेधस्यैव तत्राभिधेयत्वात् ।
ननु प्रतिबन्धः प्रतिबद्धत्वम् । स च निवर्त्तमानस्यैव न निवर्त्तकस्य । यदि हीत्यादिना
च982...दर्शयिष्यति । तत्कथमिह निवर्त्यनिवर्त्तकयोरित्युक्तम् । सत्यम् । केवलमत्र
प्रतिबन्धशब्देन प्रतिबद्धत्वं प्रतिबन्धविषयत्वं च विवक्षितम् ।
तेनायमर्थः । प्रतिबन्धविषये प्रतिबद्धत्वं दर्शनीयम् । तथा च न कश्चिद् दोषः ।
कस्मात्पुनः प्रतिबन्धो दर्शनीय इत्याशङ्क्याह--यदीति । हीति यस्मात् । तेन
व्यतिरेकवचनेनाक्षिप्तं प्रकाशितं । प्रतिबन्धस्तादात्म्यतदुत्पत्तिनिबन्धनं दर्शयष्यिते प्रकाश्यतेऽ
नेनेति तथा । प्रतिबन्धोऽवश्यदर्शयितव्योऽन्यथा व्यतिरेकस्यैवासिद्धेरिति भावः । भवतु
तत्तथा--यदिति । चोऽवधारणे । तदयमर्थः--यदेवाक्षिप्तप्रतिबन्धोपदर्शनं तदेवान्वयवचन
मन्वयप्रकाशनम् ।
ननूपदर्श्यतां प्रतिबन्धो983...स कथं तेनोक्तो भवतीत्याह--प्रतिबन्ध इति । यद्यवश्यं
दर्शयितव्यो नियमेन ख्यापनीयस्तर्हि न वक्तव्यः प्रतिपादयितव्योऽन्वयः ।
ननु च दृष्टान्तेन प्रतिबन्धसाधनकेन प्रमाणेन केवलं प्रतिबन्धः प्रदर्श्यते, न त्वन्वयः ।
तत्कथं वक्तव्यस्तेन वाक्येनेत्याह--यस्मादिति । तस्य तादात्म्यनिबन्धनस्य तदुत्पत्तिनिबन्धनस्य
वाऽन्वयात्मकत्वादिति भावः ॥
172
अनुपलब्धावपि व्यतिरेकेणो984 क्तेनान्वयगतिः । यत् सद् उपलब्धिलक्षणप्राप्तमिति
साध्यस्य--असद्व्यवहारयोग्यत्वस्य निवृत्तिं दृश्यसत्त्व985 रूपामाह । तदुपलभ्यत एवेत्यनुपलम्भस्य
निवृत्तिमुपलम्भरूपामाह । तदनेन साध्यनिवृत्तिः साधननिवृत्त्या व्याप्ता दर्शिता । यदि च
साधनसंभवेपि 986साध्यनिवृत्तिर्भवेत् न साधनाभावेन987 व्याप्ता भवेत् । अतो व्याप्तिं988 प्रति
पद्यमानेन साधनसंभवः साध्यसंभवेन व्याप्तः प्रतिपत्तव्यः । अत एवाह--अनुपलभ्यमानं
तादृशमिति दृश्यमसदिति प्रतीतेः989 संप्रत्ययाद् अन्वयसिद्धिरिति ॥
द्वयोरप्यनयोः प्रयोगयो990र्नावश्यं पक्षनिर्देशः ॥ ३४ ॥
यतश्च साधनं साध्यधर्मप्रतिबद्धं तादात्म्य-ददुत्पत्तिभ्यां प्रतिपत्तव्यं द्वयोरपि प्रयोगयोः,
तस्मात् पक्षोऽवश्यमेव न निर्देश्यः । यत् साधनं साध्यनियतं प्रतीतं तत एव साध्यधर्मिणि
दृष्टात्991 साध्यप्रतीतिः । अतो न किंचित् साध्यनिर्देशेनेति ॥
निवृत्तिवचनं चैतदुपलक्षणं द्रष्टव्यम् । तेनान्वयवचनेपि सर्वं यथायोगं द्रष्टव्यम् ।
यस्मादेवमनुवादविधिक्रमस्तत् तस्मादनेन वाक्येन दर्शिता प्रकाशिता । भवत्वभाक्यो
र्व्याप्यव्यापकभावस्तथाप्यन्वयः कथं सिद्ध्यतीत्याह--यदीति । चो हेतौ । न व्याप्ता भवेत्
साध्यनिवृत्तिरिति प्रकृतत्वात् ॥
तस्मात्पक्षोवश्यमेव न निर्देश्य इत्यनेन नावश्यं पक्षनिर्देश इत्यस्यार्थः कथितः ।
एवञ्च व्याचक्षाणेन यत्कैश्चित्स्वयूथ्यैर्विद्वस्यमानैः अवश्यं पक्षनिर्देशो न; किन्तर्हि ?
कदाचिन्निर्देशः, कदाचिन्न इति व्याख्यातं तदपहस्तितं द्रष्टव्यम् । कदाचिदपि तस्य प्रयोगार्हत्वे
प्रतिज्ञायाः साधनाङ्गत्वप्रसङ्गात् । तथात्वे च वादन्यायस्य63a 992 विरोधः स्यात् ।
नन्वसति साध्यनिर्देशे कुतस्तदवगतिर्येन तदनिर्देश इत्याशङ्क्याह--यदिति । साध्य
नियतं साध्यनान्तरीयकम् । प्रतिबन्धसाधकेन प्रमाणेनेति बुद्धिस्थम् । तत एव साधनात्
धर्मिणि विवादास्पदीभूते दृष्टात् प्रमाणेनावगतात् साध्यस्य धर्मधर्मिसमुदायस्य प्रतीतिर्भवति ।
एतदुक्तं भवति...प्रतीतार्थप्रतिपादकेन कर्त्तव्यमिति । शङ्कराचार्य...ईश्वर
कारणे...विशेषः प्रतीयेतेत्यादिना वाक्यप्रबन्धेन विरुद्धशङ्काव्यवच्छेदार्थं साध्यवचनमिति
समाधानात् । तथाहि तस्य प्रबन्धस्यायमर्थः--असति साध्यवचने यत् कृतकं तद् सर्वमनित्यं
173
यथाः...कुतश्चिद् भ्रान्तिनिमित्तादीदृशं व्याप्तिवचनं संभाव्यते । अथ तथाविधा
भिप्रायो वक्ता कृतकत्वं प्रयुञ्जानः तस्य नित्यत्वेन व्याप्तिं ब्रूयात् । तदयुक्तम् । यतस्त
योर्व्याप्तिं ब्रुवाणो...कथयेत्...चेत् साधन... ... ...
साधनविकलः साध्यविकलो वा मा भूद् दृष्टान्त इति यत् कृतकं तदनित्यमिति प्रयोगोपि विरुद्ध
वाद्येव द्रष्टव्यः । ... तदेतद्भौ ताख्यानं किमत्र ब्रूमः तथा हि कः खलु प्रेक्षावान्
साधनविकलं विहायसं साध्यविकलं च कुम्भमालोचयितुमीशानोऽभिप्रेतनित्यत्वविरुद्धेनानित्य
त्वेन साध्ये 993 विकलतया कुम्भसन्निभ एव घटे व्याप्तिं दर्शयेत् । भ्रान्त्या चेत् ।
साधनवैकल्यमाकाशस्य... ...वाऽभिप्रेतेन नित्यत्वेन कृतकत्वस्य व्याप्निं न
प्रदर्शयेत् । तत्र साधनवैकल्यम्, कुम्भे च साध्यवैकल्य...कुम्भतुल्येपि घटे व्यामुह्यति,
भ्रान्तेर्नियतनिमित्तत्वादिति चेत् । एवं तर्हि पक्षवचनेपि कथं...संभाव्यत्वात् ।
...समानोपि विसंवादनाभिप्रायो न...। न चाप्युत्पत्तौ न चान्यदास्यान्यादृशं
वचनमिदानीं तु द्रुतादिभेदभिन्नमित्यादिना प्रकारेण वचनविशेषेण ज्ञानेन कार्यभूतेनाविपरीतोऽ
भिप्रायोऽवधार्यते । तेन... ...तदनित्यमित्यभिधातरि...विशेषः । वचनसांकर्यान्नैवं
तत्र निश्चय इति चेत् । एतत् पक्षवचनेपि समानम् । एवं निश्चेतुं शक्येति तस्य तत्र
तथात्वावगमो भविष्यतीति चेत् सर्वं समानमन्यत्राऽविशेषात् । किञ्च स एवं वादी तपस्वी
...63b स्वयमेव तावद् दुष्यति । न हि कश्चित्साधनवादी प्रतिज्ञाहेतूदाहरणान्ये
वाभिधायोपरमते । किन्तर्हि ? निगमनमप्युपादत्ते--तस्मादनित्यः शब्द इति । एवमुक्ते
च कुतो नित्यत्वशङ्का, यतः कृतकत्वस्य विरुद्धता भवेत् ? ततश्च निगमनेनैव विरुद्धशङ्का
व्यवच्छेदस्य कृतत्वात्पक्षवचनमपार्थकम् । यदाहाक्षपादः994--साध्ये विपरीतशङ्काव्यवच्छेदार्थ
निगमनमिति । तथा हेतुवचनस्याप्यनुत्थानमायातम् । निगमनेऽनाश्वास इति चेद् । हन्त
प्रतिज्ञावचनेऽप्यनाश्वासस्तुल्यः । यत्तत्र समाधानं तन्निगमनेऽपि भविष्यति । तस्मात् तन्मतेऽपि
निगमनादेवाभिप्रेतसाध्यप्रतीतेर्न विरुद्धाशङ्कानिरासार्थं पक्षवचनं करणीयम् । तदयं यथा नाम
कश्चित् स्वाङ्गुलिज्वालया परं दिधक्षुः स परं दहेद्वा न वा, स्वाङ्गुलिदाहमेव तावदनुभवतीति
वृत्तान्तो जातः ।
यद्येवं निगमनमप्यपार्थकमापद्यत इति चेत् । अयमपरोऽस्तु दोषः । कथं नाम ताथागता
जयन्ति ? केवलं सति निगमने विरुद्धशङ्काव्यवच्छेदार्थं पक्षवचनं न कार्यम् । निगमनेनैव
तदाशङ्काव्यवच्छेदस्य कृतत्वादित्युच्यत इति ।
त्रिलोचनः पुनर्न्यायभाष्यटीकायामिदमवादीत्--साध्यवचनमसाधनाङ्गवचनं न भवति, 995एनमेवार्थमनुपलब्धिप्रयोगे दर्शयति-- यस्मात् साधर्म्यवत्प्रयोगेऽपि--यदुपलब्धिलक्षणप्राप्तं सन्नोपलभ्यते साधर्म्यवति प्रयोगेपि सामर्थ्यादेव नेह प्रदेशे997 घट इति भवति । किं पुनस्तत् सामर्थ्यमित्याह--यदुपलब्धिलक्षणप्राप्तं998 सन्नोपलभ्यते--इत्यनुपलम्भा
यतो विवादेषु परप्रतिपत्तिमधिकृत्य न प्रयोगनियमः शक्यः । पटुमन्दादिभावेन परप्रतिपत्तीना
मनवस्थानात् । तथा हि हेतुवचनादेव कश्चित्प्रत्येति । कश्चित्पुनरन्तरेणापि हेतुवचनं
वक्तृस्वरूपपरिशीलनात्प्रागेव शब्दनिष्पत्तेरोष्ठादिस्थानव्यापारोपलब्धेर्वक्तुरभिप्रेतमन्वेति ।
तस्मादनपेक्षितपरप्रतिपत्तिरेवायं ज्ञाता ज्ञानस्थमर्थं प्रतिपादयन्तं तस्य स्वप्रतिपत्त्याऽऽरूढस्यार्थस्य
174
सोऽसद्व्यवहारविषयः996 । नोपलभ्यते चात्रोपलब्धिलक्षणप्राप्तो घट इत्युक्ते
सामर्थ्यादेव नेह घट इति भवति ॥ ३५ ॥
नुवादः । सोऽसद्व्यवहारविषयः--इत्यसद्व्यवहारयोग्यत्वविधिः । तथा च सति दृश्यानु-
वाचकं शब्दं प्रयोक्तुमर्हति । स्वप्रतिपत्तिश्च लिङ्गजा ज्ञापनीयधर्मविशिष्टं धर्णिमभिनिविशते ।
तस्मात्परस्य विवादयित्रा ज्ञानस्थमर्थं परो बोद्धव्य इति स एव परं प्रत्युपाय इति ।
तदेतत्कार्पटिककर्णाटरटितमश्रद्धेयं धीमताम् । तथा हि--सत्यम्, स्वप्रतिपत्त्याऽऽरूढ
एवार्थः परस्मै प्रतिपाद्यते । केवलमिदमालोच्यताम्--किं पक्षधर्मवचनाद् व्याप्तिवचनसहिता
त्सोऽर्थः प्रतिपादितो भवति नवेति । प्रतिपादने किं प्रतीतप्रत्यायकेन तद्वचनेन कार्यम् ?
तावतो वचनात्तत्प्रतिपत्तिमपह्नवानेव 999 तु नापहनुतं नाम किञ्चिद् । अवश्यं चैतदन्यथा
स्वार्थानुमानकाले प्रतिज्ञावचनमन्तरेण कथं प्रतिपत्तिः स्यात् ? स्वप्रतिपत्तिकाले च यावतोऽ
थात्साध्यप्रतीतिरासीत् परार्थानुमानकालेऽपि तावत एव वचनमुपादेयम् । तत्र च न प्रज्ञापनीय
धर्मविशिष्टधर्मिदर्शनपूर्वकादिसाधनादिदर्शनात् साध्यप्रतीतिरासीत् । किन्तर्हि ? पक्ष
धर्मदर्शनात् तदविनाभावस्मरणसहितादिति तावत एव वचनं न्याय्यम् ।
अथोक्तं पटुमन्दादि भावेन परप्रतीतीनामनवस्थानान्न शक्यते प्रयोगनियमः कर्त्तुमिति ।
सत्यमुक्तम्64a केवलं स्ववधाय कृत्योत्थापनप्रायं तत् । यतः पटुमन्दादिभेदेन प्रति
पतृणामनेकप्रकारत्वात्स्यादपि कश्चिद् यः पञ्चावयवेऽपि वाक्ये प्रयुक्ते पूर्वं संशयजिज्ञासा
दिवचनमन्तरेण न बुद्ध्यते बोधयितव्यमिति तद्वचनस्याप्यवश्यप्रयोज्यत्वादवयवत्वादवगत
1000 पञ्चावयवत्वं साधनवाक्यस्य । अभ्युपगमे च गौड्.अकाश्मीरपुरुषविधायो 1001
पाख्यानं कुतूहलास्पदमवतरते । प्रतिज्ञाहेतूदाहरणोपनयनिगमनान्यवावयवा इति शास्त्रस्थिते
रपसिद्धान्तोऽपि दीप्ताज्ञः पार्थिव इव निगृहणाति ।
अथ किमस्य सम्भवोऽस्ति यो निर्दिष्टे हि साध्ये साधने वाऽभिहिते निदर्शिते चोदाहरणे
कृतेऽप्युपनये निगमिते च सर्वावयवव्यापारे साध्यं न बुध्यत इति ? ननु अस्यापि प्रतिपत्तुः
किमस्ति सम्भवो यत्र धर्मिणि साधनं बोधितः, तस्य साध्याविनाभावितां स्मरितोऽपि यस्तत्र
साध्यं नावबुध्यत इति ? सम्भवति बुद्धिमान्द्यादिति चेत् । सर्वं समानमिदमन्यत्राभिनिवेशा
दित्यलं विस्तरेण ।
175
पलम्भोऽसद्व्यवहारयोग्यत्वेन व्याप्तो दर्शितः । नोपलभ्यते च इत्यादिना1002 साध्यधर्मिणि
सत्त्वं लिङ्गस्य दर्शितम् । यदि च साध्यधर्मस्तत्र साध्यधर्मिणि न भवेत् साधनर्मोऽपि न
भवेत् । साध्यनियतत्वात् तस्य साधनधर्मस्येति सामर्थ्यम ॥
तथा वैधर्म्यवत्प्रयोगेऽपि--यः सद्व्यवहारविषय उपलब्धिलक्षणप्राप्तः,
स उपलभ्यत एव । न1003 तथाऽत्र तादृशो घट उपलभ्यत इत्युक्ते सामर्थ्या
देव नेह सद्व्यवहारविषय इति भवति ॥ ३६ ॥
यथा साधर्म्यवत्प्रयोगे तथा वैधर्म्यवत्प्रयोगेऽपि सामर्थ्यादेव नेह सद्व्यवहार1004विषयोऽस्ति
घट इति भवति ।
सामर्थ्य दर्शयितुमाह--यः सद्व्यवहारविषय इति विद्यमानः । उपलब्धिलक्षणप्राप्त इति
दृश्यः इत्येषा साध्यनिवृत्तिः । 1005स उपलभ्यत एवेति साधननिवृत्तिरिति । अनेन च1006 साध्य
निवृत्तिः साधननिवृत्त्या व्याप्ता दर्शिता । न तथेति--यथाऽन्यो दृश्य उपलभ्यते न तथात्र
प्रदेशे तादृश इति दृश्यो घट उपलभ्यत इति । अनेन साध्यनिवृत्तेर्व्यापिका निवृत्तिरसती
साध्यधर्मिणि दर्शिता । यदि च1007 साध्यधर्मः साध्यधर्मिणि न स्यात् साधनधर्मोऽपि1008 न भवेत् ।
तदपि1009न्यायभाष्यटीका-वातिंकयोर्विश्वरूपोद्योतकरावाहतुः पुरा विषयनिरूपण
पूर्वकमेव हि करणव्यापरणं दृष्टम् । करणं च साधन1010व्यापारयितव्यम् । अतो विषय
निरूपणं साध्यवचनेन क्रियते, अन्यथा करणप्रवर्त्तनस्याशक्यत्वादिति ।1011 तदपि न चतुरस्रम् ।
यतो यदि हेतुं प्रयुञ्जानेन विषयः सिसाधयिषितोऽर्थों निरूपयितव्यो बुद्धौ निवेशनीय इत्यभि
मतम्, तदाऽभ्युपगम एवोत्तरम् । नहि कश्चित् साध्यमनिश्चित्यैव परप्रतिपत्तये साधनवाक्य
मभिधत्ते । अथ वचनेन करणस्य हेतोः स विषयो दर्शयितव्य इति मतिः, तदा तेनैव तावद्
दर्शितेन कोऽर्थः ? यदि परस्य प्रतीतिरन्यथा न स्यात्सर्वं शोभेतेत्युत्तरमिति किं क्षुण्णक्षो
दीकरणेन ?
अध्ययनः पुना रुचिटीकायामिदमवोचत् धर्मविशिष्टस्य धर्मिणो निर्देशः क्रियते श्रोतु अस्ति च साधनधर्म इति सामर्थ्यम् ।1014 अतः सामर्थ्यात् नात्स्यत्र घट इति प्रतीतेर्न पक्षनिर्देशः । कीदृशः पुनः 1016पक्ष इति निर्देश्यः ? ॥ ३७ ॥ कीदृशः पुररर्थः पक्ष इति--अनेनशब्देन निर्देश्यो वक्तव्यः ? इत्याह-- स्वरूपेणैवेति साध्यत्वेनैव । स्वयमिति वादिना । इष्ट इति--नोक्त एवापि त्विष्टो अथ यदि 1020पक्षो न निर्देश्यः, कथमनिर्देश्यस्य लक्षणमुक्तम् ? न साधनवाक्यावय स्वरूपेणेष्ट इत्यस्य विवरणम-- स्वरूपेणेति साध्यत्वेनेष्टः ॥ ३९ ॥ साध्यत्वेनेष्ट इति । पक्षस्य साध्यत्वान्नापरमस्ति रूपम् । अतः स्वरूपं साध्यत्वमिति ॥ एवशब्दं विवरितुमाह-- स्वरूपेणैवेति साध्यत्बेनैवेष्टो1023 न साधनत्वेनापि ॥ ४० ॥ स्वरूपेणैवेति । ननु चैवशब्दः केवल एव प्रत्यवमर्ष्टव्यस्तत्1024 किमर्थं स्वरूपशब्देन
राश्वासनार्थम् । न त्वादौ धर्मविशिष्टस्य धर्मिणो निर्देशो युक्तः । अयुक्ततां 1012 तस्य
प्रतिपत्तावदृष्टत्वात् । तत्र प्रदेशमात्रमुपलभते, तत्स्थं च धर्मम् । ततोऽविनाभावं स्मरति ।
तदनन्तरं तदेवेदमिति परामृशति । ततो विशिष्टतां प्रदेशस्य प्रतिपद्यते, न त्वादेव 1013 ।
परामर्शस्य च स्वार्थपूर्वकत्वम् । न च स्वार्थे धर्मविशिष्टस्य धर्मिणो दर्शनमस्ति ।
तेन परप्रतिपत्तावपि न कार्यम् । आदौ तु क्रियते, प्रतिपाद्यस्यास्थोत्पादनार्थमिति ।
176
एवं कार्यस्वभावहेत्वोरपि सामर्थ्यात् संप्रत्यय इति न 1015पक्षनिर्देशः ॥
ऽपीत्यर्थः । एवंभूतः सन् प्रत्यक्षादिभिः अनिराकृतो 1019योऽर्थः स पक्ष इत्युच्यते ।
वत्वादस्य लक्षणमुक्तमपि त्वसाध्यं 1021केचित् साध्यम्, साध्यं चासाध्यं 1022केचित् प्रतिपन्नाः ।
तत् साध्यासाध्यविप्रतिपत्तिनिकारणार्थं पक्षलक्षणमुक्तम् ॥
तेन तु तपस्विना बहूक्तं समञ्जसं । केवलं प्रतिपत्तुराश्वासेनैवोत्पादितेन किं प्रयोजनम् ?
कथं चासौ सन्दिग्धार्थाभिधायिनः प्रतिज्ञावचनादास्थामुत्पादयतीति समीचीनं निरूपितम्!
आस्था खलु इदमेव मन्येऽथेत्यभिसम्प्रत्ययः । सा कथं वचनमात्राज्जायेत ? जातौ वा
साधनाद्यभिधानं न कथं वैयर्थ्यमश्नुवीतेत्यलं बहुना ॥
अत्र सामर्थ्यात्स्वयं शब्दस्य वादिनेति विवृतिः कृता न तु स्वयंशब्दस्य वादिनेत्यर्थः ।
एतच्चानन्तरमेव दर्शयिष्यते ॥
177
सह प्रत्यवमृष्टः ? उच्यते । एवशब्दो निपातो द्योतकः । पदान्तराभिहितस्यार्थस्य
विशेषं द्योतयति इति पदान्तरेण विशेष्यवाचिना सह निर्दिष्टः । न साधनत्वेनापीति । यत्
साधनत्वेन निर्दिष्टं तत् साधनत्वेनेष्टम् । असिद्धत्वाच्च1025 साध्यत्वेनापीष्टम् । तस्य
निवृत्त्यर्थ1026 एवशब्दः ॥
तदुदाहरति--
यथा शब्दस्यानित्यत्वे साध्ये चाक्षुषत्वं हेतुः, शब्देऽसिद्धत्वात्
साध्यम् । न पुनस्तदिह साध्यत्वेनैवेष्टम्1027, साधनत्वेनाभिधानात्1028 ॥ ४१ ॥
1029यथेति । शब्दस्यानित्यत्वे साध्ये चाक्षुषत्वं हेतुः शब्देऽसिद्धत्वात् साध्यम्--इत्यनेन
साध्यत्वेनेष्टिमाह ।
तद् इति चाक्षुषत्वम् । इहेति शब्दे । साध्यत्वेनैवेष्टम्--इति साध्यत्वेनेष्टिनियमा
भावमाह । साधनत्वेनाभिधानाद् इति--यतः साधनत्वेनाभिहितम्, अतः साधनत्वेनापीष्टम् ।
न साध्यत्वेनैवेति ॥
स्वयमित्यनेन स्वयंशब्दं व्याख्येयमुपक्षिप्य तस्यार्थमाह--
स्वयमिति वादिना ॥ ४२ ॥
वादिनेति । स्वयंशब्दो निपात आत्मन इति 1030षष्ठ्यन्तस्यात्मनेति च तृतीयान्त
स्याथ1031 वर्त्तते । तदिह तृतीयान्तस्यात्मशब्दस्यार्थे वृत्तः स्वयंशब्दः । आत्मशब्दश्च सम्बन्धि
शब्दः । वादी च प्रत्यासन्नः1032 । ततो यस्य वादिन आत्मा तृतीयार्थयुक्तः1033 स एव1034
तृतीयार्थयुक्तो निर्दिष्टो वादिनेति । न1035 तु स्वयंशब्दस्य वादिनेत्येष पर्यायः ॥
पक्षस्यानुमेयस्य ॥
स्वरूपशब्देनेति सहार्थे तृतीया ।
64b उच्यत इति सिद्धान्तवादी ।
यत्साधनत्वेनेष्टं तत्कथं साध्यत्वेनापीष्टं भवतीत्याह--असिद्धत्वादिति । चो यस्मात् ।
साध्यत्वेनेष्टोऽपि यदा साधनत्वेनोक्तस्त दाऽपक्ष इत्येवमर्थ एवशब्द इति समुदायार्थः ॥
178
कः पुनरसौ वादीत्याह--
यस्तदा साधनमाह ॥ ४३ ॥
यस्तदा--इति वादकाले साधनमाह । अनेकवादिसम्भवेऽपि1036 स्वयंशब्दवाच्यस्य
वादिनो विशेषणमेतत् ।
यद्येवं1037 वादिन इष्टः साध्यः--इत्युक्तम् । एतेन च किमुक्तेन ? अनेन1038 तदा
वादकाले तेन वादिना स्वयं यो धर्मः साधयितुमिष्टः स एव साध्यो1039 नेतरो 1040धर्म इत्युक्तं
भवति । वादिनोऽनिष्टधर्मसाध्यत्वनिवर्त्तनमस्य वचनस्य फलमिति यावत् ॥
अथ कस्मिन् सत्यन्यधर्मसाध्यत्वस्य1041 सम्भवो यन्निवृत्त्यर्थं 1042तद् वक्तव्यमित्याह--
एतेन यद्यपि क्वचिच्छास्त्रे स्थितः साधनमाह, तच्छास्त्रकारेण तस्मिन्
धर्मिएयनेकधर्माभ्युपगमेऽपि यस्तदा तेन वादिना1043 धर्मः स्वयं साधयितु-
तत्तस्मादर्थद्वयवृत्तित्वात् । इह पक्षलक्षणे स्वयंशब्दो गृहीत इति शेषः । तृतीया
प्रतिपाद्योऽर्थोऽत्रैषणकर्त्तृत्वम् । आत्मना इष्ट इत्यत्र तृतीयायाः कर्त्तरि विधानात् ॥
अनेकवादिसम्भवेऽपि शब्दगताकाशगुणत्वादिवादिभूयस्त्वेऽपि । वादित्वं च योग्यतया ।
न तु तदा स्वपरपक्षसिद्ध्यसिद्ध्यर्थवचनलक्षणवादप्रणेतारः । विशेषणं व्यवच्छेदकमेतद् यस्तदा
साधनमाहेति वचनम् ।
यद्येवमिति परः । अयं च निपातसमुदायोऽनिष्टापादनप्रारम्भे वर्त्तते । इत्युक्तमनेन
वाक्येनेति शेषः ।
उच्यतामेवं को दोष इत्याह--एतेनेति । चशब्दोऽपिशब्दस्यार्थे । शास्त्रकारेष्टमपि
वादीष्टं भवति । तत्कोऽतिशयोऽनेन प्रतिपादित इति चोदयितुराशयः । अनेनेति सिद्धान्तवादी ।
अनेन यस्तदा साधनमाहेति विशेषणावच्छिन्नेन स्वयंशब्देन ।
एतदुक्तं भवति । यच्छास्त्राभ्युपगमेनापि वादी क्वचित्साधनमभिधत्ते, तच्छास्त्रकारेण
तत्र यावदिष्टं तावच्चेत्तस्य साध्यत्वेनेष्टं तदेष्टमित्येव कृतं स्यात्, न तु स्वयमिति । नेतर
इति तच्छास्त्रकारेष्टोऽम्बरगुणत्वादिरिति बुद्धिस्थम् । वादिन इति आद्यस्यैव व्यक्तीकरणम् ॥
अथेत्यामन्त्रणे ।
179
मिष्टः, स एव साध्यो नेतर इत्युक्तं भवति ॥ ४४ ॥
तच्छास्त्रकारेणेति । यच्छास्त्रं तेन वादिनाऽभ्युपगतं तच्छास्त्रकारेण तस्मिन् साध्य
धर्मिणि अनेकस्य 1044धर्मस्याभ्युपगमे सति अन्यधर्मसाध्यत्वसम्भवः । तथाहि--शास्त्रं येनाभ्यु
पगतं 1045तत्सिद्धो धर्मः सर्व एव तेन साध्य इत्यस्ति विप्रतिपत्तिः । अनेनापास्यते । अनेक
धर्माभ्युपगमेऽपि सति स एव साध्यो यो वादिन इष्टो नान्य इति ।
ननु च शास्त्रानपेक्षं 1046वस्तुबलप्रवृत्तं लिङ्गम् । अतोऽनपेक्षणीयत्वान्न शास्त्रे
स्थित्वा वादः कर्त्तव्यः । सत्यम् । आहोपुरुषिकया तु यद्यपि क्वचिच्छास्त्रे स्थित इति
किञ्चिच्छास्त्रमभ्युपगतः साधनमाह, तथापि य एव तस्येष्टः स एव1047 साध्य1048 इति ज्ञापना
येदमुक्तम् ॥
इष्ट इतीष्टशब्दमुपक्षिप्य व्याचष्टे--
इष्ट इति यत्रार्थे विवादेन साधनमुपन्यस्तं तस्य सिद्धिमिच्छता
सो 1049ऽनुक्तोऽपि वचनेन साध्यः ॥ ४५ ॥
यत्रार्थ आत्मनि विरुद्धो वादः प्रक्रान्तः--नास्ति आत्मा--इत्यात्मप्रतिषेधवाद आत्म
सत्तावादविरुद्धः, विधिप्रतिषेधयोर्विरोधात् । तेन विवादेन हेतुना साधनमुपन्यस्तं तस्या
त्मार्थस्य सिद्धिं निश्चयम् इच्छता वादिना सोऽर्थः साध्य इत्युक्तं भवति इष्टशब्देन । यत्
तद् इत्युक्तं भवति इति ग्रहणमन्ते तदिहापेक्ष्य वाक्यं 1050समापयितव्यम् ।
यद्यपि परार्थानुमान उक्त एव साध्यो युक्तः, अनुक्तोपि 1051तु वचनेन साध्यः, सामर्थ्यो
क्तत्वात् तस्य ॥
इत्यस्ति विप्रतिपत्तिर्न्यायविरुद्धा प्रतिपत्तिः केषाञ्चित् । अनेनात्मविशेषणेनापास्यते ।
अनेकेत्यादिनोपसंहरति । अनेकधर्माभ्युपगमेऽपि शास्त्रकारस्य तत्र धर्मिण्यनेकधर्मोपगमे
सत्यपि । वादिन इत्यात्मन इति षष्ठ्यन्तस्यार्थे वृत्तं स्वयंशब्दमुपादाय ।
आहोपुरुषिकयाऽभ्युपगत इति कर्त्तरीयं निष्ठा ॥
विरुद्धः परस्य चाभिप्रेतविपरीतार्थोपस्थापको वादः स्वपरपक्षयोः सिद्ध्यसिद्ध्यर्थं
वचनम् । प्रक्रान्तः प्रवृत्तः । इत्युक्तं भवतीति नात्र श्रूयते तत्कथमेवं व्याख्यायत इत्याह—
यत्तदिति । लोकोक्तिश्चैषा । इहेष्टपदविवरणे । समापयितव्यं सङ्गतार्थं कर्त्तव्यम् ।
180
कुत एतदित्याह--
तदधिकरणत्वाद्विवादस्य ॥ ४६ ॥
1052तदिति सोऽर्थोऽधिकरणम् आश्रयो यस्य स तदधिकरणो विवादः । तस्य
भावस्तत्त्वम् । तस्मादिति ।
एतदुक्तं भवति--यस्माद्विवादं निराकर्त्तुमिच्छता वादिना साधनमुपन्यस्तं तस्माद्
यद् अधिकरणं विवादस्य तदेव साध्यम् । यतो विरुद्धं वादमपनेतुं साधनमुपन्यस्तं तच्चेत् न
साध्यं किमिदानीं 1053जातिनियतं किंचित् साध्यं स्यादिति ॥
अनुक्तमपि परार्थानुमाने साध्यमिष्टम् । 1054तदुदाहरति--
यथा परार्थाश्चक्षुरादयः संघातत्वाच्छयनासनाद्यङ्गवदिति । 1055अत्रात्मार्था
इत्यनुक्तावप्यात्मार्थता साध्या । 1057तेन नोक्तमात्रमेव साध्यम्--इत्युक्तं
भवति ॥ ४७ ॥
परार्था इति । चक्षुरादिर्येषां श्रोत्रादीनां ते1058 चक्षुरादय इति धर्मी । परस्मायिमे
परार्था इति साध्यं पारार्थ्यम् । सङ्घातत्वादिति हेतुः । व्याप्तिविषयप्रदर्शनं 1059च शयनासना
द्यङ्गवदिति । शयनमासनं च ते आदी1060 यस्य तच्छयनासनादि पुरुषोपभोगाङ्गं संघातरूपम् ।
तद्वदत्र 1061प्रमाणे यदप्यात्मार्थाश्चक्षुरादय इत्यात्मार्थता नोक्ता 1062अनुक्तावप्यात्मार्थता साध्या ।
अनुक्तोऽपि तु वचनेन । वचनेन साक्षादभिधाव्यापारविषयत्वमनापादितोऽपि ।
तुर्विशेषदीपने । साध्यः साध्य एव । कुत इत्याह--सामर्थ्योक्तत्वात्तस्य बुद्धिस्थस्यात्मादेः ।
एतदुक्तं भवति--परार्थानुमाने उक्तोऽर्थः साध्यः । उक्तश्च प्रकाशित उच्यते । प्रका
श्यमानता च साक्षादभिधाव्यापारविषयतया च सामर्थ्यगम्यतया च । उक्तम 1063 तु
प्रकाशितताख्या द्वयोरप्यविशिष्टेति ॥
कुत एतदिति सामर्थ्योक्तत्वमिति हेतोराह वार्त्तिककारः ।
181
तथा हि--सांख्येनोक्तम्--अस्ति आत्मा । तद्विरुद्धं बौद्धेनोक्तं--नास्त्यात्मेति । ततः
सांख्येन स्ववादविरुद्धं बौद्धवाद हेतूकृत्य विरुद्धवादनिराकरणाय स्ववादप्रतिष्ठापनाय च
साधनमुपन्यस्तम् । अतोऽनुक्तावप्यात्मार्थता1064 साध्या, 1065तदधिकरणत्वाद् विवादस्य ।1066 शयना
सनादिषु हि पुरुषोपभोगाङ्गेष्वात्मार्थत्वेनान्वयो1067 न प्रसिद्धः । सङ्घातत्वस्य 1068पारार्थ्यमात्रेण
तु सिद्धः । ततः परार्था इत्युक्तम् ।
चक्षुरादय इत्यत्रादिग्रहणाद्विज्ञानमपि1069 परार्थं साधयितुमिष्टम् । विज्ञानाच्च पर
आत्मैव स्यात् ।
1070परस्यार्थकारि विज्ञानं सेत्स्यतीति सामर्थ्यादात्मार्थत्वं सिध्यति चक्षुरादीनामिति मत्वा
परार्थग्रहणं कृतम् । तेनेष्ट1071 साध्यत्ववचनेन नोक्तमात्रम्, अपि तु प्रतिवादिनो विवादा
स्पदत्वाद् वादिनः1072 साधयितुमिष्टम्-उक्तम्, अनुक्तं वा प्रकरणगम्यं साध्यमित्युक्तं भवति ॥
यद्यपि तन्मूलो विवादस्तथापि अभिधाव्यापारविश्रामभूमिरेवार्थः साध्यः । न चात्मा
दिर्विवादाधिकरणम् । तथाभूतस्तत्कथं साध्य इत्याशङ् क्याह--एतदुक्तं भवतीति । यदा
त्मादि अधिकरणमास्पदं विवादस्य--अस्तीदं नास्तीदमित्यात्मकस्य परस्परविरुद्धस्य वादस्य ।
अत्रोपप65a त्तिमाह--यत इति । विरुद्धं स्वपक्षप्रत्यनीकं नास्तीदमिति वादम् । तद्
विरुद्धवादापनेतृहेतूपन्यासविषयं चेद् यदि न साध्यं न जिज्ञापयिषितमिदानीमेतस्मिन्नभ्युपगमे
किं जातिनियतं साध्यत्वजातिनियतं जातिवशं किञ्चिद् वस्तु साध्यं स्याद् भवितुमर्हति ।
क्षेपे किमः प्रयोगान्न किञ्चिदित्यर्थोऽवतिष्ठते ॥
अनुक्तमपि साक्षादभिधाव्यापाराविषयोऽपि । संहा 1073 तत्वादनेकरूपत्वात् । कालवि
शेषानपेक्षं चैतद् द्रष्टव्यम् । तेन क्रमेण युगपद् वा संहतं तदिति संहतरूपं विज्ञानमपि क्रमेणा
नेकरूपमतस्तत्रापि संहा 1074 तत्वं सिद्धिमिति तदप्यादिशब्देन सङ्गृहीतं धर्मि कर्त्तव्यम् । अत
एवानन्तरम् अत्रादिशब्दाद् विज्ञानमपि इति वक्ष्यते । अन्यथा तु चक्षुरादीनां विज्ञानलक्षण
परार्थतासिद्धावा 1075 पि नाभिप्रेतं सांख्यस्य सिद्ध्येत् । अनुक्तावप्यनभिधानेऽपि तस्येत्यर्थात् ।
क्वचित्पुनरनुक्ताप्यात्मार्थतेति पाठः । तत्रार्जवेनै व सम्बन्धः । साधनोपन्यासाश्रयत्वेन
प्रकृतत्वात्तस्या इति भावः ।
तथा हीत्यादिनैतदेव प्रतिपादयति । हेतूकृत्य निमित्तीकृत्य । चः फलसमुच्चये ।
अनुक्तावपीति पूर्ववद्वाच्यम् । यद्ययं तस्याभिप्रायस्तदाऽऽत्मार्था इत्येव किं न ब्रवीतीत्या
शङ्क्य येनाभिप्रायेणैवमवादीत्तं दर्शयितुमाह--शयनेति । हिर्यस्मादर्थे ।
182
अनिराकृत इति--एतल्लक्षणयोगेऽपि यः साधयितुमिष्टोऽप्यर्थः
प्रत्यक्षानुमानप्रतीतिस्ववचनैर्निराक्रियते, न स पक्ष1076 इति प्रदर्शनार्थम् ॥ ४८ ॥
अनिराकृत इति व्याख्येयम् । एतदिति--अनन्तरप्रक्रान्तं यत् पक्षलक्षणमुक्तं
साध्यत्वेनेष्टेत्यादि1077--एतल्लक्षणेन योगेऽप्यर्थो न पक्ष इति प्रदर्शनार्थम् 1078प्रतिपादनाय अनि
राकृतग्रह्णं कृतम् ।
कीदृशोऽर्थो न पक्षः साधयितुमिष्टोऽपीत्याह--यः साधयितुमिष्टोऽर्थः--प्रत्यक्षं चानुमानं
च प्रतीतिश्च स्ववचनं च--1079एतैर्निराक्रियते--विपरीतः साध्यते 1080न स पक्ष इति ॥
तत्र प्रत्यक्षनिराकृतो यथा--अश्रावणः शब्द इति ॥ ४९ ॥
तत्रेति । तेषु चतुर्षु प्रत्यक्षादिनिराकृतेषु1081 प्रत्यक्षनिराकृतः कीदृशः ? यथेति ।
यथाऽयं प्रत्यक्षनिराकृतस्तथाऽन्येऽपि द्रटव्या इति यथाशब्दार्थः ।
श्रवणेन ग्राह्यः श्रावणः । न श्रावणोऽश्रावणः । श्रोत्रेण न ग्राह्य इति प्रतिज्ञार्थः ।
श्रोत्राग्राह्यत्वं शब्दस्य प्रत्यक्षसिद्धेन श्रोत्र1082 ग्राह्यत्वेन बाध्यते ॥
ननु चक्षुरादीनां विज्ञानलक्षणपरार्थता सेत्स्यति । तत्कथमात्मार्थतासिद्धिरित्याह चक्षुरादय
इत्यत्रेति । तथापि कुतस्तत्सिद्धिरित्याह विज्ञानाच्चेति । चो यस्मात् । अथ विज्ञानस्यापि
धर्मित्वे कथमात्मार्थतासिद्धिरित्याशङ्क्य स्पष्टयितुमाह--परस्येति । सामर्थ्यादात्मार्थत्वं
सिद्ध्यति चक्षुरादीनामित्येवं मत्वा परार्थग्रहणं कृतं सांख्येनेति प्रस्तावात्, अध्याहारे वा,
तेषां विज्ञानार्थताया अपि सम्भाव्यत्वात् । तत् सिद्धैकं सामर्थ्यमित्याशङ्क्य परस्येति योज्यम् ।
अर्थकारि प्रयोजनकारि विज्ञानमपीति द्रष्टव्यम् । सेत्स्यतीति ब्रुवतोऽयं भावः ।
आदिशब्दाद् विज्ञानस्यापि तथात्वे साध्ये विज्ञानं परार्थकारि सेत्स्यतीति । इतिर्हेतौ । अनेन
सामर्ध्यं चक्षुरादीनामात्मार्थतासिद्धौ दर्शितम् ।
तेनेत्यस्य मूलस्य व्याख्यानमिष्टसाधन 1083 वचनेनेति वादिनः साधयितुमिच्छया
विषयीकृतम् ।
तच्च द्विविधमिति दर्शयन्नाह--उक्तमित्यादि । उक्तं साक्षादभिधाविषयीकृतम् ।
तद्विपरीतमनुक्तम् । कथं तर्हि तत्साध्यमित्याह--प्रकरणेति । प्रकरणेन साध्योपन्यासा
श्रयतया प्रकृतत्वेन गम्यं प्रकाश्यं साध्यं साध्यमेवेत्युक्तं भवति ॥
183
अनुमाननिराकृतो यथा--नित्यः शब्द इति ॥ ५० ॥
1084अनुमाननिराकृतो यथा1085 नित्यः शब्द इति । शब्दस्य प्रतिज्ञातं नित्यत्वम् अनित्य
त्वेनानुमानसिद्धेन निराक्रियते ॥
प्रतीतिनिराकृतो यथा--अचन्द्रः शशीति ॥ ५१ ॥
प्रतीत्या निराकृतः अचन्द्र इति चन्द्रशब्दवाच्यो न भवति शशीति प्रतिज्ञातार्थः ।1086
अयं च प्रतीत्या निराकृतः । प्रतीतोऽर्थ उच्यते विकल्पविज्ञानविषयः । प्रतीतिः प्रतीतत्वं
एतल्लक्षणयोगेऽपीत्यस्यार्थकथनमिदमेतल्लक्षणेन योगेऽप्यर्थ इति ।
ननु च प्रत्यक्षादिभिर्निराक्रियतेऽपसार्यत इति किल मतम् । न चाक्षा1087पसारणं
प्रत्यक्षादिधर्मोऽपि तु वस्तुव्यवस्थापनमित्याह--विपरीत इति ॥
श्रूयतेऽनेनेति श्रवणं श्रोत्रेन्द्रियं तेन ग्राह्यः उपलब्धः । तज्ज्ञानग्राह्यत्वाच्च तद्ग्राह्यत्व
मुक्तम् । नञा समासमाह--नेति । समस्तस्यार्थमाह--श्रोत्रेणेति । अयमस्याशयः—
अश्रावणः शब्दः--श्रोत्रजे65b न ज्ञानेन नानुभूयत इति यः प्रतिजानीते तस्य सा प्रतिज्ञा
श्रवणेन्द्रियजेन प्रत्यक्षेण शब्दालम्बनेन बाध्यते शब्दगताऽप्रतिभासनविपरीतस्य तत्प्रतिभासनस्य
तेनोपस्थापनादिति ।
एतेन तन्निराकृतम्, यदुद्द्योतकरेणोक्तम्1088--अश्रावणः शब्द इति प्रत्यक्षविरुद्धोदाहरणं
वर्णयति । न प्रत्यक्षस्य विषयो ज्ञातो नानुमानस्य । किं कारणम् ? इन्द्रियवृत्तीनाम
तीन्द्रियत्वात् । श्रावणत्वञ्चेन्द्रियवृत्तिः । सा कथं प्रत्यक्षा भविष्यति ? तस्मादनुमान
विरुद्धस्योदाहरणमिदम् । अनुष्णो वह्निः कृतकत्वादिति प्रत्यक्षविरुद्धस्येति ।
न ह्मश्रावणशब्देन शब्दाख्ये विषये ज्ञानोत्पत्तौ श्रोत्रेन्द्रियस्य वृत्तेरभावोऽभिमतो यस्य
वादिनस्तं प्रति शब्दविषयश्रवणेन्द्रियवृत्तेः प्रत्यक्षविरुद्धत्वात्प्रत्यक्षनिराकृतमिदमाचार्येणोक्तम्,
येनोच्यतेऽतीन्द्रियेन्द्रियवृत्तिः कथं प्रत्यक्षा येनेदमुदाहरणं संगच्छेतेति । किन्तर्हि ? यः
कश्चिद् व्यामोहमाहात्म्याद् यदेतच्छ्रोत्रग्राह्यं रूपमद्वयं तन्नास्तीति प्रतीजानीते तं वादिविशेषं
प्रतीति कथं न प्रत्यक्षविरुद्धोदाहरणमिदमिति ।
एतदुक्तं भवति । शब्दो नास्तीत्येवमपि ब्रुवाणस्यास्ति प्रत्यक्षबाधा । केवलं विषयो
निषेधोऽनेकमार्गः । शब्दो नास्ति व्यापितया नित्यतयेत्यादि । तत्रासति श्रावणशब्दे सर्वस्यैव
निषेधे प्रत्यक्षबाधा शङ्क्येत । श्रावणशब्देन तु श्रुतिमात्रग्राह्यमेव यद्रूपं तन्निषेधे प्रत्यक्ष
बाधा न तु सामान्यधर्मनिषेध इति ख्याप्यत इति ॥
184
विकल्पविज्ञानविषयत्वमुच्यते । तेन विकल्पज्ञानेन1089 प्रतीतिरूपेण शशिनश्चन्द्रशब्दवाच्यत्वं
सिद्धमेव । तथा हि--यद्विकल्प1090 विज्ञानग्राह्यं तच्छब्दाकारसंसर्गयोग्यम् । यच्छब्दाकारसंसर्ग
योग्यं तत् साङ्केतिकेन शब्देन वक्तुं शक्यम् । अतः प्रतीतिरूपेण विकल्पविज्ञानविषयत्वेन सिद्धं
चन्द्रशब्दवाच्यत्वमचन्द्रत्वस्य बाधकम् । स्वभावहेतुश्च प्रतीतिः । यस्माद्विकल्पविषयत्व
मात्रानुबन्धिनी साङ्केतिकशब्दवाच्यता, ततः स्वभावहेतुसिद्धं चन्द्रशब्दवाच्यत्वमवाच्यत्वस्य
बाधकं द्रष्टव्यम् ॥
प्रतीत्या विकल्पविज्ञानरूपेण विषयिणा विषयस्य निर्देशात् । एतदेव दर्शयति प्रतीत
इति । प्रतीत उच्यते व्यवह्रियते, साक्षात्कृतस्याप्यजाताध्यवसायस्य तथाव्यवहारा
भावादिति भावः । विषयिणा विषयगतो धर्म उक्त इति स्फुटयति प्रतीतिः प्रतीतत्वरूपेण
प्रतीतत्वमिति । तेन विकल्पज्ञानेनेति विकल्पविज्ञानविषयत्वेनेति ज्ञेयं प्रतीतिरूपेण ।
तथा हीत्यनेनैतदेवोपपादयति ।
भवतु शब्दाकारसंसर्गयोग्यत्वम् । तच्छब्दवाच्यता तु कथमित्याह--यदिति । अत
इत्यादिना प्रतीतेर्बाधकत्वं दर्शयति । अचन्द्रत्वस्याचन्द्रशब्दवाच्यत्वस्य । किंसाधनसिद्धमिदं
चन्द्रशब्दवाच्यत्वमित्याह--स्वभावेति । स्वभावहेतुलक्षणं योजयन्नाह--यस्मादिति । तत
इत्यादिनोपसंहारः ।
एवं तु प्रयोगो द्रष्टव्यः--योऽर्थो विकल्पविज्ञानविषयः स साङ्केतिकेन शब्देन वक्तुं
शक्यः । यथा शाखादिमानर्थो वृक्षशब्देन । विकल्पविज्ञानविषयश्च शशीति ।
इह केनचिच्छब्देन कस्यचिदभिधातुमशक्यत्वं वास्तवे प्रतिनियतार्थशब्दसम्बन्धे सति
स्यात् । स चान्यत्र प्रतिषिद्धः । पारिशेष्याज्ज्ञानात्मन्यारूढस्यार्थस्य शब्दसम्बन्धः कर्त्तुं
कस्य शक्यो यस्तेन शब्दाकारेण सह नैकस्मिन् ज्ञानेन संसृज्यते । अनियतार्थं च विज्ञानमिति
तदारूढोऽर्थस्तदभिधानाकारसंसर्गयोग्य एव । तस्मात्तेन शब्देनाभिधातुमशक्यत्वमतदाकार
संसर्गयोग्यत्वेन व्याप्तम् । व्या66a पकविरुद्धं च तदभिधानाकारसंसर्गयोग्यत्वम् । तेन
च विकल्पविज्ञानविषयत्वं व्याप्तम् । तदेवं विकल्पविज्ञानविषयत्वं तद्व्यापकविरुद्धव्याप्त
त्वात्तेनापि विरुद्ध्यते । ततश्च तद्विरुद्धेन शक्यत्वेन व्याप्त इति स्वभावहेतुः । तस्माद्
विकल्पविज्ञानविषयत्वमेव प्रतीतिः प्रसिद्धिर्व्यवहारश्चोच्यते । अनया प्रतीत्या यत्साधितं
शशिनश्चन्द्रशब्दवाच्यत्वं तत्स्वविरुद्धस्य तदनभिधेयत्वस्य बाधकं भवति । तेन प्रतीतेर्वि
कल्पविज्ञानलक्षणाया जातो धर्म इष्टशब्दाभिधेयत्वलक्षणस्तेनानभिधेयत्वस्य बाधनात्प्रतीति
बाधोच्यत इति परमार्थः ।
यद्वा प्रतीतेस्तथारूपाया जात एवेष्टशब्दाभिधेयत्वलक्षणो धर्मः प्रतीतिशब्देनोक्तः, स्ववचननिराकृतो यथा-नानुमानं प्रमाणम् ॥ ५२ ॥ स्ववचनं प्रतिज्ञार्थस्यात्मीयो वाचकः शब्दः । तेन निराकृतः प्रतिज्ञार्थो न साध्यः ।
185
यथा नानुमानं प्रमाणम्--इत्यत्र1091 अनुमानस्य प्रामाण्यनिषेधः प्रतिज्ञार्थः । स1092 नानुमानं
प्रमाणम्--इत्यनेन स्ववाचकेन वाक्येन बाध्यते । वाक्यं हि एतत् प्रयुज्यमानं वक्तुः
1093शाब्दप्रत्ययस्य सदर्थत्वमिष्टं सूचयति । तथाहि-मद्वाक्याद् योऽर्थसम्प्रत्ययस्तवोत्पद्यते सोऽसत्यार्थ
इति दर्शयन् वाक्यमेव नोच्चारयेद्वक्ता, वचनार्थश्चेदसत्यः परेण ज्ञातव्यो वचनमपार्थकम् ।
योऽपि हि सर्वं मिथ्या ब्रवीमीति1094 वक्ति सोऽप्यस्य वाक्यस्य सत्यार्थत्वमादर्शयन्नेव वाक्यमु
च्चारयति । यद्येतद्वाक्यं सत्यार्थमादर्शितम्, एवं वाक्यान्तराण्यात्मीयान्यसत्यार्थानि1095 दर्शितानि
भवन्ति । 1096एतदेव तु यद्यसत्यार्थम्, अन्यान्यसत्यार्भानि न दर्शितानि भवन्ति । ततश्च न
किञ्चिदुच्चारणस्य फलमिति नोच्चारयेत् । तस्माद्वाक्यप्रभवं वाक्यार्थालम्बनं विज्ञानं
सत्यार्थं दर्शयन्नेव वक्ता 1097वाक्यमुच्चारयति । तथा1098 च सति बाह्यवस्तुनान्तरीयकं शब्दं
दर्शयता शब्दजं विज्ञानं सत्यार्थं दर्शयितव्यम् । ततो बाह्यार्थकार्याच्छब्दादुत्पन्नं विज्ञानं
सत्यार्थमादर्शयता1099 कार्यलिङ्गजमनुमानं प्रमाणं शाब्दं दर्शितं भवति ।
प्रतीतिमात्रादेव सिद्धो योऽर्थः स इह बाधक इति दर्शयितुम् । एतच्च स्वभावहेतुत्वं कल्पित
मिष्टम्, न वास्तवम्, शशिनो विकल्पविज्ञानविषयत्वस्याऽऽध्यवसानिकत्वात् । अन्यथाऽनु
माननिराकृतान्नास्य पृथङ्निर्देशः स्यादिति ॥
स्वशब्देनात्मवचनेन प्रकृतत्वात्साध्यस्यात्मा गृह्यत इति अभिप्रायेणाह--प्रतिज्ञार्थ
स्यात्मीय इति । तेन निराकृत इति तदुपस्थापितेनानुमानप्रामाण्येन निराकृत इति द्रष्टव्यम् ।
कथं निराक्रियत इत्याह--वाक्यमिति । यस्माद् एतद् वाक्यं प्रयुज्यमानं सद् वक्तुः शाब्द
प्रत्ययस्य शब्दप्रभवस्य ज्ञानस्य सदर्थत्वं सत्यार्थत्वमिष्टं सूचयति प्रकाशयति ।
प्रयुक्तमपि कथं तथाकरोतीत्याह--तथा हीति । नोच्चारयेदुच्चारयितुं नार्हति, अपार्थ तस्मात् नानुमानं प्रमाणम्--इति ब्रुवता शाब्दस्य प्रत्ययस्यासन्नर्थो1100 ग्राह्य उक्तः । तदेवं स्ववचनानुमितेन सत्त्वेनासत्त्वं बाध्यमानं1105 स्ववचनेन बाधितमुक्तमित्ययमत्रार्थः । अन्ये त्वाहुः--अभिप्रायकार्याच्छब्दाज्जातं ज्ञानमभिप्रायालम्बनम् । सदर्थमिच्छतः
कत्वादिति बुद्धिस्थम् । वचनेत्यादिना त्वेतदेव व्यनक्ति-न सर्वं वचनं प्रयुज्यमानं तथाकारि यथा
सर्वं मिथ्या ब्रवीमीति वचनमित्याह--योऽपीति । हिर्यस्मात् । कथं तथादर्शयन्नुच्चारय
तीत्याह--यद्येतदित्यादि । भवतु वाक्यप्रभवं वाक्यार्थालम्बनं ज्ञानं सत्यार्थम्, तथापि कथ
मनुमानप्रामाण्यं वचनेनोपस्थाप्यते येनानुमानप्रामाण्यप्रतिषेधस्तद्वचनोपस्थापितानुमानप्रामाण्येन
186
असदर्थत्वमेव ह्यप्रामाण्यमुच्यते, नान्यत् । शब्दोच्चारणसामर्थ्याच्चार्थाविनाभावी स्वशब्दो
दर्शितः । तथा च 1101सन्नर्थो दर्शितः । 1102ततः 1103कल्पितादर्थकार्याच्छब्दाच्छाब्द1104 प्रत्ययार्थस्या
नुमितं सत्त्वं प्रतिज्ञायमानमसत्त्वं प्रतिबध्नाति ।
शब्दप्रयोगः । तेनाप्रामाण्यं प्रतिज्ञातं बाध्यत इति ।
निराक्रियमाणः स्ववचननिराकृतो भवतीत्याशङ्क्याह--तथा च सतीति--शब्दज्ञानस्य
सत्यार्थत्वप्रतिपादनाभिप्रायेण वाक्योच्चारणप्रकारे सति । बाह्यवस्तुनान्तरीयकं तदविना
भाविनं दर्शयता सत्यार्थं दर्शयितव्यं दर्शयितुं युज्यते शक्यत इत्यर्थः । यत एवं ततस्तस्मात् ।
बाह्यार्थकार्यादिति सति भेदे तदुत्पत्त्यैव नान्तरीयकत्वसम्भवादिति भावः । शाब्दमिति
प्रकृतत्वाज्ज्ञानं कार्यलिङ्गजं शब्दरूपकार्यलिङ्गजमिति हेतुभावेन विशेषणमनुमानं प्रमाणं दर्शितं
प्रकाशितं भवति ।
तस्मादित्यादिनोपसंहरति ।
नन्वनुमानस्याऽसन् ग्राह्य इति युज्यते वक्तुम् । तत्किं शाब्दस्य प्रत्ययस्येत्युवतमिति
चेत् । नैष दोषः । शाब्दस्यापि प्रत्ययस्योक्तेन न्यायेनानुमानत्वात् । सर्वानुमानप्रामाण्य
प्रतिषेधे चास्यापि प्रतिषिद्धत्वात् । अस्यैव चानुमानस्यानुमानप्रामाण्यप्रतिषेधलक्षणप्रतिज्ञार्थ
बाधकत्वादुपन्यासो युक्तरूपः ।
यद्येवमप्रामाण्यमुक्तम् तच्च बाध्य66b त इति वक्तुं युज्यते । तत्किमेवमुक्तमित्याह
असदर्थत्वमिति । हीति यस्मात् । आस्तामसन् ग्राह्योऽभिहितः किमत इत्याह--शब्देति ।
चो हेताववधारणे वा । शब्दोऽप्यतस्तथा दर्शितस्तथापि किमायातमित्याह--तथा चेति शब्दस्य
बाह्यार्थाविनाभाविप्रदर्शनप्रकारे सति सन्नर्थोऽध्यवसेयो दर्शितः । सदर्थत्वं प्रामाण्यलक्षणं
दर्शितमिति यावत् । तस्य सदर्थत्वं प्रदर्श्यतां बाधा तु कथमित्याह तत इति । शाब्दप्रत्ययस्य
योऽर्थो ज्ञाप्योऽनुमानप्रामाण्यलक्षणस्तस्यानेनैव शब्दलिङ्गेनानुमानेनानुमितं सत्त्वं कर्त्तृ प्रतिज्ञाय
मानमसदर्थमप्रामाण्यलक्षणं कर्मभूतं प्रतिबध्नाति । निराकरोतीति वक्तव्ये प्रतिबध्नातीति
ब्रुवाणः परमार्थतोऽस्यावास्तवत्वान्न बाधा किन्त्वेतदुपस्थापितेतरयोः परस्परप्रतिबन्ध इति
सूचयति ।
187
तदयुक्तम् । यत इह प्रतीतेः स्वभावहेतुत्वम्, स्ववचनस्य च कार्यहेतुत्वं कल्पितमिष्टम् ।
न वास्तवम्1106 अभिप्रायकार्यत्वं च वास्तवमेव शब्दस्य । ततस्तदिह न गृह्यते ।
किञ्च । यथा--अनुमानमनिच्छन्1107 वह्न्यव्यभिचारित्वं धूमस्य न प्रत्येति, तथा
शब्दस्याप्यभिप्रायाव्यभिचारित्वं न प्रत्येष्यति । बाह्यवस्तुप्रत्यायनाय च शब्दः प्रयुज्यते ।
तन्न शब्दस्याभिप्रायाविनाभावित्वाभ्युपगमपूर्वकः शब्दप्रयोगः । 1108अपि च, न स्वाभिप्राय
निवेदनाय शब्द उच्चार्यते, अपि तु बाह्य 1109सत्त्वप्रतिपादनाय, तस्माद् बाह्यवस्त्वविनाभावि
त्वाभ्युपगमपूर्वकः शब्दप्रयोगः । ततः पूर्वकमेव1110 व्याख्यातमनवद्यम्1111 ॥
इति चत्वारः पक्षाभासा निराकृता भवन्ति ॥ ५३ ॥
एवं1112च सति--अनिराकृतग्रहणेनानन्तरोक्ताश्चत्वारः पक्षवदाभासन्त इति पक्षाभासा
निरस्ता भवन्ति ॥
सम्प्रति पक्षलक्षणपदानि येषां व्यवच्छेदकानि तेषां व्यवछेदेन यादृशः 1113पक्षार्थो लभ्यते
तं दर्शयितुं व्यवच्छेद्यान् संक्षिप्य दर्शयति--
नन्वनुमानप्रामाण्यमसत्त्वं बाधते न तु स्ववचनं तत्कथं स्ववचननिराकृतोदाहरणमिद
मुक्तमित्याशङ्क्य स्ववचननिराकृत इत्यत्र यादृशोऽर्थो विवक्षितस्तं दर्शयति तदेवमिति ।
अत्रेति स्ववचननिराकृते । यथानुमानं न प्रमाणमित्यत्र ।
स्वाभिप्रायेणैव व्याख्याय अन्ये त्वित्यादिना पूर्वव्याख्यानं दूषयितुमाह । तुना स्वव्या
ख्यानाद् वैसदृश्यमाह ।
न वास्तवमिति ब्रुवतो यदीदं वास्तवमनुमानं स्यात्तदानुमाननिराकृतोदाहरणान्न 1114एवं सिद्धस्य, असिद्धस्यापि साधनत्वेनाभिमतस्य, स्वयं वादिना तदा एवम्--इत्यनन्तरोक्तक्रमेण1116 । सिद्धस्य विपर्ययेण विपरीतत्वेन हेतुना साध्यो यश्चायं पञ्चभिर्व्यवच्छेद्यै रहितोऽर्थोऽसिद्धो1117ऽसाधनं वादिनः स्वयं साधयितुमिष्ट त्रिरूपलिङ्गाख्यानं परिसमापय्य1119 प्रसङ्गागतं च पक्षलक्षणमभिधाय हेत्वाभासान् त्रिरूपलिङ्गाख्यानं परार्थानुमानमित्युक्तम् । तत्र त्रयाणां रूपाणामेक एतदुक्तं भवति--त्रिरूपलिङ्गं1120 वक्तुकामेन स्फुंट तद्वक्तव्यम् । एवं च तत् स्फुटमुक्तं
पृथगुच्येतेति । किञ्चेति वक्तव्यान्तराभ्युच्चये । बाह्यवस्तुप्रत्यायनाय चेति चकारोऽपि
वक्तव्यान्तरसमुच्चये । यत एवं ततस्मात् । स्वस्योच्चारयितुमभिप्रायो वक्तुकामता,
तदव्यभिचारित्वाभ्युपगमः पूर्वो यस्य तथा न भवति । पूर्वं बाह्यवस्तुप्रत्यायनायेत्यनेन
सामर्थ्यान्न स्वाभिप्रायप्रत्यायनायेत्युक्तमपि स्फुटं दर्शयितुं तन्न शब्दस्याभिप्रायाविनाभा
वित्वाभ्युपगमपूर्वकः शब्दप्रयोग इत्यनेन सामर्थ्याद् बाह्मवस्त्वविनाभावित्वाभ्युपगमपूर्वक इति
दर्शितमपि साक्षाद् दर्शयितुमपि चेत्यादिनोपक्रमते । अपि चेति पूर्वोक्तस्य वक्तव्यान्तर
द्योतकस्य स्पष्टीकरणम् । यत्राप्यसत्त्वप्रतिपादनाय शब्दः प्रयुज्यते तत्रापि विवक्षितसत्त्व
विविक्तस्यान्यसत्त्वस्य प्रतिपादनाद् बाह्यसत्त्वप्रतिपादनायेत्युक्तम् । यद्वा सत्त्वग्रहणस्योप
188
साधयितुमनिष्टस्य, उक्तमात्रस्य निराकृतस्य च विपर्ययेण साध्यः । तेनैव
स्वरूपेणाभिमतो वादिन इष्टोऽनिराकृतः पक्ष इति पक्षलक्षणमनवद्यं1115 दर्शितं
भवति ॥ ५४ ॥
द्रष्टव्यः । यस्मादर्थात् सिद्धोऽर्थो विपरीतः, स साध्य इत्यर्थः । सिद्धश्च विपरीतोऽसिद्धस्य ।
तस्माद् असिद्धः साध्यः । असिद्धोऽपि न सर्वोऽपि तु साधनत्वेनोक्तस्यासिद्धस्यापि विपर्ययेण ।
स्वर्य वादिना साधयितुमनिष्टस्य असिद्धस्य विपर्ययेण । तथा उक्तमात्रस्य असिद्धस्यापि
विपर्ययेण । तथा निराकृतस्यासिद्धस्यापि विपर्ययेण साध्यः ।
उक्तोऽनुक्तो वा प्रमाणैरनिराकृतः साध्यः, स एवासौ स्वरूपेणैव स्वयमिष्टोऽनिराकृत एतैः
पदैरुक्त इत्यर्थः । यश्चायं साध्यः स पक्ष 1118इति उच्यते । इतिशब्द एवमर्थे । एवं पक्ष
लक्षणमनवद्यमिति । अविद्यमानमवद्यं दोषो यस्य तदनवद्यम् । दर्शितं कथितम् ।
वक्तुकामस्तेषां प्रस्तावं रचयति त्रिरूपेत्यादिना--
स्यापि रूपस्यानुक्तौ साधनाभासः ॥ ५५ ॥
लक्षणत्वाद् बाह्यसत्त्वप्रतिपादनायेत्यपि द्रष्टव्यम् । सर्वथा न स्वाभिप्रायस्य सत्त्वमसत्त्वं वा
प्रतिपादयितुं शब्दप्रयोग इत्यने न हेतुम् । यत एवं ततस्तस्मात्पूर्वकमेव यन्मया व्याख्यात
मनवद्यमपगतदोषम् ॥
इति चत्वारः पक्षाभासा निराकृता भवन्तीति मूलं व्याचक्षाण आह--एवमिति ।
निरस्ता भवन्ति पक्षत्वेनेति प्रस्तावात् ॥
पक्ष इत्युच्यते व्यक्तीक्रियत इति व्युत्पत्त्येति भावः ॥
ननु त्रिरूपलिङ्गाख्यानं प्रकृतमुक्तमेव । तत् किं हेत्वाभासाख्यानमप्रकृतं क्रियत भवति यदि तच्च, तत्प्रतिरूपकं1121 चोच्यते । हेयज्ञाने1122 हि तद्विविक्तमुपादेयं सुज्ञातं भवतीति । तत्रेति तस्मिन् सति । त्रिरूपलिङ्गाख्याने परार्थानुमाने1124 सतीत्यर्थः । त्रयाणां रूपाणां उक्तावप्यसिद्धौ सन्देहे वा प्रतिपाद्यप्रतिपादकयोः ॥ ५६ ॥ न केवलमनुक्तावुक्तावप्यसिद्धौ सन्देहे वा । कस्येत्याह--प्रतिपाद्यस्य प्रतिवादिनः, अथ 1125कस्यैकस्यारूपस्यासिद्धौ सन्देहे1126 वा किंसंज्ञको हेत्वाभास इत्याह-- एकस्य रूपस्य धर्मिसम्बन्धस्यासिद्धौ सन्देहे 1127वाऽसिद्धो हेत्वाभासः ॥ ५७ ॥
189
त्रिरूपलिङ्गाख्यानं 1123परार्थमनुमानम् ३. १. इति प्राग् उक्तम् ।
मध्य एकस्याप्यनुक्तौ । अपिशब्दाद् द्वयोरपि । साधनस्य आभासः सदृशं साधनस्य, न
साधनमित्यर्थः । त्रयाणां रूपाणां न्यूनता नाम साधनदोषः ॥
प्रतिपादकस्य च वादिनो हेत्वाभासः ॥
इत्याशङ्क्याह--एतदुक्तं भवतीति । त्रिरूपलिङ्गाख्यानस्य स्फुटाभिधानार्थत्वं चोपलक्षणं
तेन विप्रतिपत्तिनिराकरणार्थं चेति द्रष्टव्यम्, सन्दिग्धविपक्षव्यावृत्तिकत्वादोष 1128
विप्रतिपत्तिदर्शनात् ।
सदृ67a शं साधनस्येत्यर्थकथनमेतद् । व्युत्पत्तिस्त्वाभासनमाभासः प्रतिभासः, साधन
स्येवाभासः प्रतिभासोऽस्येति तथा । न्यूनता ऊनत्वमपरिपूर्णता । कस्येत्याकाङ्क्षायामाह—
त्रयाणामिति । यस्मादेकस्य द्वयोर्वाऽनुक्तौ त्रीणि परिपूर्णं प्रतिपादितानि न भवन्ति तस्मा
त्त्रयाणां न्यूनतेत्यर्थः ।
ननु हीनाङ्गत्वं न साधनदोषः । विद्यमानेऽपि हि रूपत्रये द्वयोरेकस्य वा वक्त्राऽन
भिधाने सति न्यनतायाः सम्भवात् । तत्कथं वक्तृदोषः साधनदोष इत्युच्यत इति चेत् ।
सत्यम्; केवलं नात्र साधनशब्देन लिङ्गमभिप्रेतम् । किं तर्हि ? तत्प्रतिपादकं वाक्यं तस्य
चापरिपूर्णता दोषो भवत्येव । वक्तृदोषस्तु निमित्तमपरिपूर्णताया इति किमवद्यम् ?
एवमुपलक्षणार्थत्वादस्य यथाऽन्यतमेनापि रूपेण हीनत्वान्न्यूनता साधनदोषस्तथा हेतू
दाहरणादप्याधिक्यं साधनदोषो वार्त्तिककारस्याभिप्रेतो द्रष्टव्यः, उभयत्रापि त्वसाधनाङ्ग
वचनाद् वादिना निग्रहो विवक्षित इत्यपीति ॥
प्रतिपाद्यस्येत्यादिना प्रतिपाद्यप्रतिपादकशब्दयोरेवार्थं व्याचष्टे । आचार्यस्य तु
प्रतिपाद्यस्य प्रतिपादकस्य च प्रतिपाद्यप्रतिपादकयोश्चेति व्यस्तसमस्तनिर्देशोऽभिप्रेतः ।
190
एकस्य रूपस्येति । धर्मिणा सह सम्बन्धः धर्मिसम्बन्धः । धर्मिणि सत्त्वं हेतोः ।
तस्य असिद्धौ सन्देहे वा असिद्धसंज्ञाको हेत्वाभासः । असिद्धत्वादेव च धर्मिण्यप्रतिपत्तिहेतुः ।
न साध्यस्य, न विरुद्धस्य, न संशयस्य हेतुरपि त्वप्रतिपत्तिहेतुः । न कस्यचिदतः प्रतिपत्तिरिति
कृत्वा । अयं चार्थोऽसिद्धसंज्ञाकरणादेव प्रतिपत्तव्यः ॥
उदाहरणमाह--
यथा--अनित्यः शब्द इति साध्ये चाक्षुषत्वमुभयासिद्धम् ॥ ५८ ॥
यथेत्यादि । 1129अनित्यः शब्द इत्यनित्यत्वविशिष्टे शब्दे साध्ये चाक्षुषत्वं चक्षुर्ग्राह्यत्वं
शब्दे 1130द्वयोरपि वादिप्रतिवादिनोरसिद्धम् ॥
चेतनास्तरव इति साध्ये सर्वत्वगपहरणे मरणं1131 प्रतिवाद्यसिद्धम्, विज्ञानेन्द्रिया
युर्निरोधलक्षणस्य1132 मरणस्यानेनाभ्युपगमात्, तस्य च तरुष्वसम्भवात् ॥ ५९ ॥
चेतनास्तरव इति तरूणां चैतन्ये साध्ये । सर्वा त्वक् सर्वत्वक् । तस्या अपहरणे
सति मरणं दिगम्बरैरुपन्यस्तं प्रतिवादिनो बौद्धस्यासिद्धम् ।
कस्मादसिद्धमित्याह--विज्ञानं चेन्द्रियं चायुश्चेति द्वन्द्वः1133 । तत्र विज्ञानं1134 चक्षुरादि
जनितम्1135 । रूपादिविज्ञानोत्पत्त्या यदनुमितं 1136कायान्तर्भूतं चक्षुर्गोलकादिस्थितं1137 रूपं
अयं हेत्वाभासः कीदृशीं प्रतिपत्तिं प्रसूत इत्याह--असिद्धत्वादेवेति । तुशब्दार्थश्चकारः ।
कभमेतत्प्राप्यत इत्याह--अयञ्चेति । चो यस्मादर्थे । कस्याश्चिदपि प्रतिपत्तेहेतुतया न
सिद्ध इति असिद्ध उक्त इत्यभिप्रायः ॥
द्वयोरपि वादिप्रतिवादिनोरसिद्धमनिश्चितम् । अनेन व्यधिकरणासिद्धोऽप्युक्तो
द्रष्टव्यः । यथा राज्ञोऽयं प्रासादः, काकस्य कार्ष्ण्यादिति । तस्यापि कार्ष्ण्यस्य प्रासादे
धर्मिणि उभयोरसिद्धत्वात्, केवलं तत्रासिद्धोऽप्यर्थधर्मिगतत्वेनोपादानात् तथा व्यपदिश्यते ।
ननु व्यधिकरणमपि लिङ्गं गमकं दृष्टम् । यथा प्रत्यग्रशरावदर्शनं भ्रान्तिम त्
प्रत्यग्रशरावत्वस्य भ्रान्तिमच्चक्रवत्त्वे । अस्य च हेतुत्वाद् । देश एव हि धर्मी अविदूर
कुलालसम्बन्धित्वं साध्यम् तस्य च धर्मिणः प्रत्यग्रशरावसम्बन्धित्वं भ्रान्तिमच्चक्रसम्बन्धित्वञ्च
धर्मो भवत्येव । न त्वत्र कुलालस्य धर्मिणः सद्भावः साध्यते, येनैव तदुच्येतेति ।
तथा, विशेषणासिद्धविशेष्यासिद्धावप्यनेनैवोक्तौ द्रष्टव्यौ । यथाऽनित्यः शब्दोऽनभि तदिन्द्रियम् । आयुरिति लोके प्राणा 1138उच्यन्ते । न चागमसिद्धमिह युज्यते वक्तुम् । अतः यदि नामैवं तथापि कथमसिद्धमित्याह--तस्य च विज्ञानादिनिरोधात्मकस्य 1140तरुष्व ननु च शोषोऽपि मरणमुच्यते । स च तरुषु सिद्धः । सत्यम् । केवलं विज्ञान दिगम्बरस्तु साध्येन 1145व्याप्तमव्याप्तं1146 वा मरणमविविच्य मरणमात्रं हेतुमाह ।
191
1139प्राणस्वभावमायुरिह । तेषां निरोधो निवृत्तिः । स लक्षणं तत्त्वं यस्य तत् तथोक्तम् ।
तथाभूतस्य मरणस्य अनेन बौद्धेन प्रतिज्ञातत्वात् ।
सम्भवात् । सत्तापूर्वको निरोधः । ततश्च यो विज्ञाननिरोधं तरुष्विच्छेत् स कथं विज्ञानं
नेच्छेत् । तस्माद् विज्ञानानिष्टेर्निरोधोऽपि नेष्टस्तरुषु ।
सत्तया1141 व्याप्तं यत् मरणं तदिह हेतुः । विज्ञाननिरोधश्च तत्सत्तया व्याप्तः, न शोषमात्रम् ।
ततो1142 यन्मरणं1143 हेतुस्तत् तरुष्वसिद्धम् । यत्तु1144 सिद्धं शोषात्मकं तदहेतुः ।
तदस्य वादिनो हेतुभूतं1147 मरणं न ज्ञातम् । अज्ञानात् सिद्धं शोषरूपम्, शोषरूपस्य मरणस्य
तरुषु दर्शनात् । प्रतिवादिनस्तु ज्ञातमतोऽसिद्धम् । यदा तु वादिनोऽपि ज्ञातं तदा वादिनो
प्यसिद्धं स्यादिति न्यायः ॥
धेयत्वे सति प्रमेयत्वात् । अनित्यः शब्दः प्रमेयत्वे सति अनभिधेयत्वादिति विशेषणविशिष्टस्य
रूपस्य तत्र धर्मिणि द्वयोरपि वादिप्रतिवादिनोरसिद्धत्वात् । केवलं तत्रासिद्धो विशेषण
विशिष्टतयोपात्तस्य रूपस्य तथाऽसिद्धेस्तथा तथा व्यपदिश्यत इति ॥
चेतना इति । चेतयन्त इति चेतनाः । दिश एवाम्बरं येषामिति व्युत्पत्त्या दिगम्बराः
क्षपणका उच्यन्ते । तैः किम्प्रमाणसमधिगतमिन्द्रियमित्याह--रूपादीति । सत्स्वन्येषु
कारणेष्वव्यापृते चक्षुरादौ रूपादिज्ञानमनुत्पद्यमानं स्वोत्पत्तौ कारणा67b न्तरमपेक्षणीयं
सूचयति । प्रणिहिते तु चक्षुरादौ जायमानं तत्रस्थं तत् किमपि कारणमस्तीति ख्यापयति ।
अत एवाह--कायान्तर्भूतं कायाश्रितम् । सामान्येनोक्तं कायाश्रितत्वम् । विशिष्टज्ञानाभि
प्रायेणोक्तं विशिष्टाश्रयाश्रितत्वं दर्शयति चक्षुरिति । आदिशब्देन रसनादिपरिग्रहः ।
प्रसन्नार्थादेरपि सद्भावान्न गोलकादिरेवेन्द्रियमिति भावः । किमायुरित्याह--आयुरिति आयुः
शब्देनेत्यर्थः । लोके व्यवहर्त्तरि जने प्राणोऽन्तःशरीरे रसमलधातूनां प्रेरणादिहेतुरेकः सन्
क्रियाभेदोद 1148 पानादिसंज्ञां लभत इति तत्तदवस्थाविवक्षया प्राणा इति बहुवचनम् ।
नन्वागमे जीवितेन्द्रियमायुरित्युक्तम् । तत्किमेवं व्याख्यायत इत्याह--न चेति । अचेतनाः सुखादय इति साध्य उत्पत्तिमत्वम् अनित्यत्वं1149 वा सांख्यस्य अचेतनाः सुखादय इति--सुखमादिर्येषां दुःखादीनां ते सुखादयः । तेषामचैतन्ये साध्ये संदिग्धासिद्धं दर्शयितुमाह-- तथा स्वयं तदाश्रयणस्य वा संदेहेऽसिद्धः ॥ ६१ ॥ स्वयमिति हेतोरात्मनः सन्देहेऽसिद्धः । तदाश्रयणस्य 1155वेति--तस्य हेतोराश्रयणम्—
चोऽवधारणे हेतौ वा । यत एवमतः कारणात् । इह प्रमाणसिद्धवस्तूपदर्शनप्रस्तावे तथा
192
स्वयं वादिनोऽसिद्धम् ॥ ६० ॥
उत्पत्तिमत्त्वम्, अनित्यत्वं वा लिङ्गमुपन्यस्तम् । य उत्पत्तिमन्तोऽनित्या वा ते न चेतनाः ।
यथा रूपादयः । तथा चोत्पत्तिमन्तोऽनित्या वा सुखादयस्तस्मादचेतनाः । चैतन्यं तु पुरुषस्य
1150स्वरूपम् । अत्र चोत्पत्तिमत्त्वमनित्यत्वं वा पर्यायेण हेतुर्न युगपत् । तच्च द्वयमपि
सांख्यस्य वादिनो न सिद्धम् । परार्थो1151 हि हेतूपन्यासः । तेन यः परस्य सिद्धः स हेतु
र्वक्तव्यः । परस्य चासत उत्पाद उत्पत्तिमत्त्वम्, सतश्च निरन्वयो विनाशोऽनित्यत्वं सिद्धम् ।
तादृशं च द्वयमपि सांख्यस्यासिद्धम् । इहाप्यनित्यत्वोत्पत्तिमत्त्वसाधनाद् वादिनोऽसिद्धम् ।
यदि त्वनित्यत्वोत्पत्तिमत्त्वयोः 1152प्रामाण्यं वादिनो 1153ज्ञातं स्याद् 1154तदा वादिनोऽपि सिद्धं स्यात् ।
ततः प्रमाणापरिज्ञानादिदं वादिनोऽसिद्धम् ॥
आश्रीयतेऽस्मिन् हेतुरित्याश्रयणं हेतोर्व्यतिरिक्त आश्रयभूतः1156 साध्यधर्मी कथ्यते । तत्र हि
तस्यैव रूपस्य । विज्ञानसत्तया व्याप्तं यदिति यस्मिन् मरणेऽवश्यं प्रागासीद् विज्ञानम्, तद्
विज्ञानसत्तया व्याप्तमुक्तम् । तच्च श्वासोष्मपरिस्पन्दादिविगमलक्षणम् । दिगम्बरस्यापि
कथं सिद्धमित्याह--अज्ञानादिति । चैतन्याव्यभिचारिणो मरणस्याज्ञानात् । अनेनैतदाह—
यदि तेन साध्यव्याप्तं मरणं मरणशब्दमात्रसमतां बिभ्रतः शोषमात्राद् भेदेन विवेचितं स्यात्
केवलमज्ञानात्तत्सिद्धमुच्यत इति ।
एतदेवाह--यदा त्विति । एवमुत्तरत्रापि द्रष्टव्यम् ।
सुखमनुकूलवेदनीयम् । आदिशब्दादिच्छाद्वेषादिपरिग्रहः । पुरुषस्य सांख्यपरिकल्पित
स्यात्मनः । पुरुषश्चेतयते बुद्धिरध्यवस्यतीति सिद्धान्तात् । सांख्यस्य संख्यया पञ्च
विंशतितत्त्वानीत्यनया व्यवहरतीति सांख्यो योगरूढिश्चैषा, कपिल एव तथोच्यते ।
ननूत्पत्तिमत्त्वं कृतकत्वम् वा स्वसिद्धमेव तेनोपन्यसनीयमुपन्यस्तं च । तत्कथं वाद्यसिद्धते हेतुर्वर्त्तमानो गमकत्वेनाश्रीयते । तस्याश्रयणस्य सन्देहे सन्दिग्धः ॥ 1157आत्मना सन्दिह्यमानमुदाहर्त्तुमाह-- यथा बाष्पादिभावेन संदिह्यमानो भूतसङ्घातोऽग्निसिद्धावुपदिश्यमानः यथेति । बाष्प आदिर्यस्य स बाष्पादिः । तद्भावेन बाष्पादित्वेन संदिह्यमानो एतदुक्तं भवति--यदा धूमोऽपि बाष्पादित्वेन संदिग्धो भवति तदाऽसिद्धः, गमकरूपा आश्रयणासिद्धमुदाहरति-- यथेह निकुञ्जे1160 मयूरः केकायितादिति ॥ ६३ ॥ यथेति । इह निकुञ्ज इति धर्मी । पर्वतोपरिभागेन तिर्यङ्निर्गतेन प्रच्छादितो
त्याह--परार्थो हीति । हिर्यस्मात् । परार्थः परप्रतिपत्तिप्रयोजनः । निरन्वयः सर्वथोच्छेदः ।
193
1158संदिग्धासिद्धः ॥ ६२ ॥
भूतसंङ्घात इति भूतानां पृथिव्यादीनां संङ्घातः समूहः । अग्निसिद्धौ--अग्निसिद्ध्यर्थम् उपादी
यमानोऽसिद्धः ।
निश्चयात् । धूमतया निश्चितो 1159वह्निजन्यत्वाद् गमकः । यदा तु संदिग्धस्तदा न गमक
इत्यसिद्धताख्यो दोषः ॥
भूमागो निकुञ्जः । मयूर इति साध्यम् । केकायितादिति हेतुः । केकायितं--मयूरध्वनिः ॥
न तु विनष्टस्यापि सत्त्वरजस्तमोरूपेणानुगम इष्टः । न केवलं पूर्वमेवेत्यपिशब्दः । अनित्य
त्वोत्पत्तिमत्त्वयोर्यत्साधनं प्रमाणं तस्य 1161 ज्ञानादनिश्चयात् यदीत्यादिनैतदेव द्रढयति ॥
स्वयमित्यात्मन इति षष्ठ्यन्तस्यानुवर्त्तते । हेतोश्च प्रकृतत्वाद् हेतोरिति विवृणोति ।
आश्रीयते साधनत्वेनोपादीयते अस्मिन्निति ॥
यस्यात्मनः सन्देहः स आत्मना सन्दिह्यमानो भवतीत्यभिप्रायेणाह--आत्मना सन्दिह्य
मानमिति । आदिशब्देन नीहारादिपरिग्रहः ।
ननु यद्यसौ परमार्थतो धूमस्तदा सन्देहेऽपि किं न गमक इत्याह--एतदुक्तं भवतीति ।
किं तद् गमकं रूपं येनानिश्चित इत्याह--वह्नीति । यदा त्वित्यादिनोक्तमेव स्पष्टयति ।
तदा न गमक इति ब्रुवतश्चायमाशयो वह्निजन्यत्वस्यैव गमकत्वनिबन्धनस्य तदाऽनिश्चितत्वात् ।
एतेन सन्दिग्धविशेषणासिद्धः सन्दिग्धविशेष्यासिद्धश्चोक्तो द्रष्टव्यः 68a यथा 1162कथमयमाश्रयणासिद्ध इत्याह-- तदापातदेशविभ्रमे ॥ ६४ ॥ तदापात1163 इति । तस्य केकायितस्यापात 1164आगमनं तस्य देशः स उच्यते यस्माद धर्मिणोऽसिद्धावप्यसिद्धत्वमुदाहरति-- धर्म्यसिद्धावप्यसिद्धः--यथा सर्वगत आत्मेति साध्ये सर्वत्रोपलभ्य यथेति । सर्वस्मिन् गतः स्थितः सर्वगतो व्यापीति यावत् । व्यापित्व आत्मनः साध्ये तदिह बौद्धस्यात्मैव न सिद्धः, किमुत सर्वत्रोपलभ्यमानगुणत्वं सिध्येत् तस्येत्यसिद्धौ1168
षड्जादिसत्त्वसन्देहे मयूरशब्दोऽयं षड्जादिमत्त्वे सति अवर्णात्मकत्वात् । अवर्णात्मकत्वे सति
194
वेशादागच्छति केकायितम् । तस्य विभ्रमे व्यामोहे सत्ययमाश्रयणासिद्धः । निरन्तरेषु
वहुषु निकुञ्जेषु सत्सु यदा केकायितापातनिकुञ्जे1165 विभ्रमः--किमस्मान्निकुञ्जात् केकायित
मागतम् । आहोस्विदन्यस्मादिति1166, 1167तदायमाश्रयणासिद्ध इति ॥
मानगुणत्वम् ॥ ६५ ॥
सर्वत्रोपलभ्यमानगुणत्वं लिङ्गम् । सर्वत्र देश उपलभ्यमानाः सुखदुःखेच्छाद्वेषादयो गुणा
यस्यात्मनस्तस्य भावस्तत्त्वम् । न गुणा गुणिनमन्तरेण वर्त्तन्ते । गुणानां गुणिनि समवायात् ।
निष्क्रियश्चात्मा । ततश्च यदि व्यापी न भवेत् कथं दाक्षिणापथ उपलब्धाः सुखादयो मध्यदेश
उपलभ्येरन् । तस्मात् सर्वगत आत्मा ।
हेत्वाभासः । पूर्वमाश्रयणसंदेहेन धर्मिणि संदेह उक्तः । संप्रति त्वसिद्धो धर्म्युक्त इत्यन
नयोर्विशेषः ।
षड्जादिमत्त्वादिति । उभयत्रापि विशेषणविशिष्टस्य रूपस्य वादिप्रतिवादिनोर्द्वयोरप्यनिश्चित
त्वात्केवलं विशेषणसन्देहेन च विशेषणविशिष्टेन रूपेणासिद्ध इति तथा व्यपदिश्यत इति ॥
पर्वतोपरिभागेन तिर्यग्निर्गतेनेति च भूभाग इति चोपलक्षणं द्रष्टव्यम् । न तु तथाविध
एव निकुञ्जः, पर्वतगह्वरदेशस्यैव निकुञ्जशब्दाभिलप्य वात् ॥
यस्माद् देशादागच्छतीति वचनव्यक्त्या चोत्पन्नः शब्दश्चतुर्दिवक शब्दसन्तानं जनयति,
स च जलतरङ्गन्यायेन श्रोत्रदेशमागतो गृहीत इति दर्शयति ॥
द्वेषादीत्यत्रादिग्रहणेन बुद्धिप्रयत्नादीनां ग्रहणम् । सामान्यवान् गुणः संयोगविभागयो तदेवमेकस्य1170 रूपस्य 1171धर्मिसम्बद्धस्यासिद्धावसिद्धो हेत्वाभासः ॥ तथैकस्य रूपस्यासपक्षेऽसत्त्वस्यासिद्धावनैकान्तिको हेत्वाभासः ॥ ६६ ॥ 1172तथाऽपरस्यैकस्य रूपस्य--1173असपक्षेऽसत्त्वाख्यस्यासिद्धावनैकान्तिको हेत्वाभासः । एकोऽन्त एकान्तो निश्चयः । स प्रयोजनमस्येत्यैकान्तिकः1174 । नैकान्तिकोऽनैकान्तिकः ।
रनपेक्षो न कारणम् इति गुणलक्षणयोगाद् गुणाः । समवायात्समवेतत्वात् । प्रतिषिद्धानां
195
यस्मान्न साध्यस्य न विपर्ययस्य निश्चयोऽपि तु तद्विपरीतः संशयः । साध्येतरयोः संशयहेतु
रनैकान्तिक उक्तः ॥
च न समवाय इति । निष्क्रियत्वं च क्रियाया मूर्त्तद्रव्यवृत्तित्वात्, आत्मनश्चामर्त्तत्वादिति
सिद्धान्तस्थितेः ।
किमुतेति निपातः किम्पुनरित्यस्यार्थे वर्त्तते ।
आश्रयणासिद्धधर्म्यसिद्धयोः कियान् भेद इत्याशङ्क्य भेदमुपपादयन्नाह--पूर्वमिति ।
अयमर्थः--पूर्वं परमार्थतो विद्यमानोऽपि हेत्वाधाररूपतया सन्देहादनिश्चित इति तद् धर्म्यसिद्ध
उक्तः । सम्प्रति तु सर्वथैवासौ धर्मित्वेनासिद्ध उच्यत इति । धर्म्यसिद्ध एवाश्रयासिद्ध
उच्यत इति । तेन नाश्रयासिद्धो नाम अन्यः प्रभेदः ।
अन्यथासिद्धस्त्वसिद्ध एव न भवतीति न तस्यान्तर्भावश्चिन्त्यते । तथा ह्यन्यथासिद्ध
इति कोऽर्थः ? किमन्यथैव सिद्ध आहोस्वित् अन्यथाऽपि सिद्धः ? ननु यद्यन्यथैव, तदा
जिज्ञापयिषितविपर्ययेणैव सिद्ध उपपन्नो नानेन प्रकारेणेति विरुद्ध एव । अथान्यथाऽपि
सिद्धः, तदैतस्मादन्येनापि प्रकारेण सिद्धोऽयमित्ययमपि भविष्यति । न च साध्यमिति सन्दिग्ध
विपक्षव्यावृत्तिरनैकान्तिक एवेति ॥
अनैकान्तिकशब्दस्य व्युत्पत्तिमाह--एक इति । एक इति ब्रुवन्नेकस्ता1175सौ साध्य
लक्षणैकार्थविषयत्वादन्तश्च कथावसानहेतुत्वादाकाङ्क्षोपशमहेतुत्वाद् वेति दर्शयति । समस्तं
पदमर्थञ्चाह--एकान्तो निश्चय इति । साध्येतरयोरेकतरनिश्चयफल इत्यर्थः । तद्विरुद्धे
चायं नञ् द्रष्टव्यः । यस्मादित्यादिनैतदेव स्फुटयति । यस्माद्धेतोरित्यपादाने चेयं पञ्चमी ।
किन्तु तद्विपरीतो निश्चयविपरीतः यत्तदोर्नित्यमभिसम्बन्धात्स इति द्रष्टव्यम् । क्व संशय
इत्याह--साध्येति ।
यद्वा कथमनैकान्तिको भवतीत्याह--यस्मादिति हेतुपञ्चमी । ऐकान्तिकप्रतिषेधेनान्यः तमुदाहरति-- यथा शब्दस्यानित्यत्वादिके धर्मे साध्ये प्रमेयत्वादिको धर्मः सपक्ष यथेत्यादिना । अनित्यत्वमादिर्यस्याऽसौ1176 अनित्यत्वादिको धर्मः । आदिशब्दादप्रयत्ना तथाहि-अनित्यः शब्दः प्रमेयत्वात्1180 घटवद्-आकाशवदिति प्रमेयत्वं सपक्षविपक्षव्यापि । अप्रयत्नानन्तरीयकः शब्दोऽनित्यत्वात्, विद्युदाकाशवद् 1181घटवच्च--इत्यनित्यत्वं सपक्षै अनित्यत्वात् प्रयत्नानन्तरीयकः शब्दो घटवद् विद्युदाकाशवच्च--इत्यनित्यत्वं विपक्षैक नित्यः शब्दोऽमूर्त्तत्वाद् आकाशपरमाणुवत्,1187 कर्मघटवच्च । इत्यमूर्तत्वमुभयैक नित्यास्तु परमाणवो 1188वैशेषिकैरभ्युपगम्यन्ते । ततः सपक्षान्तर्गताः ।
प्रतिपत्तिहेतुरुक्तो नञेंत्यभिप्रायेणाह--संशयहेतुरिति । तेन नासिद्धस्य तथात्वप्रसङ्गः ।
अथवैकान्तनियतत्वादेक इत्यन्त इति च निश्चयः प्रोक्तः । तथाहि सर्वोऽयं पदार्थभेद
196
विपक्षयोः सर्वत्रैकदेशे वा वर्त्तमानः ॥ ६७ ॥
नन्तरीयकत्वं प्रयत्नानन्तरीयकत्वं 1177नित्यत्वं च परिगृह्यते । प्रमेयत्वम् आदिर्यस्य स
प्रमेयत्वादिकः । आदिशब्दादनित्यत्वम्, पुनरनित्यत्वम्, अमूर्त्तत्वं च 1178गृह्यते । शब्दस्य
धर्मिणोऽनित्यत्वादिके धर्मे साध्ये प्रमेयत्वादिको धर्मोऽनैकान्तिकः । चतुर्णामपि 1179हि विपक्षेऽ
सत्त्वमसिद्धम् ।
कदेशवृत्ति--विद्युदादावस्ति, नाकाशादौ; 1182विपक्षव्यापि--1183प्रयत्नानन्तरीयके सर्वत्र भावात्1184 ।
देशवृत्ति--विद्युदादावस्ति नाकाशादौ । सपक्षव्यापि1185 सर्वत्र प्रयत्नानन्तरीयके भावात्1186 ।
देशवृत्ति--उभयोरेकदेश आकाशे कर्मणि च वर्तते । परमाणौ तु सपक्षैकदेशे घटादौ च
विपक्षैकदेशे न वर्त्तते । मूर्त्तत्वात् घटपरमाणुप्रभृतीनाम् ।
एकस्मिन्ना1189न्तेऽवतिष्ठेते--नित्यो वाऽनित्यो वेत्यादिरूपेण । स प्रयोजनमस्य स तथा । न
तथाऽनैकान्तिकः ॥
विपक्षेऽसत्त्वमसिद्धं सर्वत्रेति द्रष्टव्यम् । 68b सदकारणवन्नित्यम् वै० सू० ४.
१. १. इति नित्यलक्षणयोगान्नित्या इष्टाः परमाणवः ॥
197
अस्य चतुर्विधस्य पक्षधर्मस्यासत्त्वमसिद्धं विपक्षे । ततोऽनैकान्तिकता ॥
तथा--अस्यैव रूपस्य संदेहेऽप्यनैकान्तिक एव ॥ ६८ ॥
यथा चास्य रूपस्यासिद्धावनैकान्तिकस्तथा अस्यैव विपक्षेऽसत्त्वाख्यस्य1190 रूपस्य संदेहे
ऽनैकान्तिकः ॥
तमुदाहरति--
यथाऽसर्वज्ञः कश्चिद्विवक्षितः पुरुषो रागादिमान् वेति साध्ये वक्तृत्वादिको
धर्मः सन्दिग्धविपक्षव्यावृत्तिकः ॥ ६९ ॥
यथेति । असर्वज्ञ इत्यसर्वज्ञत्वं साध्यम् । कश्चिद्विवक्षित इति वक्तुरभिप्रेतः पुरुषो
धर्मीं । रागा आदिर्यस्य द्वेषादेः स रागादिः । स यस्यास्ति स रागादिमान् इति द्वितीयं
साध्यम् । 1191वाग्रहणं रागादिमत्त्वस्य पृथक्साध्यत्वख्यापनार्थम् । ततोऽसर्वज्ञत्वे रागादिमत्त्वे
वा1192 साध्ये प्रकृते वक्तृत्वं--वचनशक्तिस्तदादिर्यस्योन्मेषनिमेषादेः स वक्तृत्वादिको धर्मोऽ
नैकान्तिकः ।
सन्दिग्धा1193 विपक्षा व्यावृत्तिर्यस्य स तथोक्तः । असर्वज्ञत्वे साध्ये सर्वज्ञत्वं विपक्षः ।
तत्र वचनादेः सत्त्वमसत्त्वं वा सन्दिग्धम् । अतो न ज्ञायते किं1194 वक्ता सर्वज्ञ उतासर्वज्ञ
इत्यनैकान्तिकं वक्तृत्वम् ।
ननु च सर्वज्ञो वक्ता नोपलभ्यते तत्कथं वचनं सर्वज्ञे सन्दिग्धम् ? अत एव
1195सर्वज्ञो वक्ता नोपलभ्यते इत्येवंप्रकारस्यानुपलभ्भस्यादृश्यात्मविषयत्वोन
1196संदेहहेतुत्वाद् ।1197 ततोऽसर्वज्ञविपर्ययाद्वक्तृत्वादेर्व्यावृत्तिः सन्दिग्धा ॥ ७० ॥
सर्वज्ञो वक्ता नोपलभ्यते इत्येवम्प्रकारस्य--1198एवंजातीयस्यानुपलम्भस्य संदेहहेतुत्वात् ।
कुत इत्याह--अदृश्य1199 आत्मा विषयो यस्य तस्य भावोऽदृश्यात्मविषयत्वं तेन सन्देहहेतुत्वम् ।
द्वेषादेरित्यादिग्रहणेन मोहादेर्ग्रहणम् ॥
अत एवानुपलम्भमात्रादेवेति सिद्धान्ती । अमुमेवार्थं मूलेन संस्यन्दयन्नाह--सर्वज्ञ इति ।
तेनादृश्यविषयत्वेन हेतुना सन्देहहेतुत्वं सन्देहहेतुत्वादिति । हेतुपञ्चमीमिदानीं व्याचष्टे—
यत इति ॥
198
यतोऽदृश्यविषयोऽनुपलम्भः1200 सन्देहहेतुर्न निश्चयहेतुस्ततोऽसर्वज्ञविपक्षात् सर्वज्ञाद् वक्तृत्वा
देर्व्यावृत्तिः सन्दिग्धा ॥
नानुपलम्भात् 1201सर्वज्ञे वक्तृत्वमसद्ब्रूमः । अपि तु सर्वंज्ञत्वेन सह वक्तृत्वस्य विरोधात् ।
एतन्न1202 ।
वक्तृत्वसर्वज्ञत्वयोर्विरोधाभावाच्च यः सर्वज्ञः स वक्ता न भवतीत्य
दर्शनेपि व्यतिरेको न सिध्यति, संदेहात् ॥ ७१ ॥
सर्वज्ञत्ववक्तृत्वयोर्विरोधो नास्ति । विरोधाभावाच्च कारणाद् व्यतिरेको न सिध्यति—
इति संबन्धः ।
व्याप्तिमन्तं व्यतिरेकं दर्शयति--यः सर्वज्ञ इति । साध्याभावरूपं सर्वज्ञत्वमनूद्य
1203 स वक्ता न भवति इति साधनस्य वक्तृत्वस्याभावो विधीयते । तेन साध्याभावः साधनाभावे
नियतत्वात् 1204साधनाभावेन व्याप्त उक्त इति । व्याप्तिमानीदृशो व्यतिरेको विरोधे सति
वक्तृत्वसर्वज्ञत्वयोः सिध्येत् । न चास्ति विरोधः । तस्मान्न सिध्यतीति1205 । कुत इत्याह—
संदेहात् । यतो विरोधाभावः, तस्मात् संदेहः । सन्देहाद् व्यतिरेकासिद्धिः ॥
कथं विरोधाभावः ?
द्विविधो हि पदार्थानां विरोधः ॥ ७२ ॥
1206हीति यस्माद् द्विविध एव विरोधो नान्यः, तस्मान्न वक्तृत्वसर्वंज्ञत्वयोर्विंरोधः ॥
कः पुनरसौ द्विविधो विरोध इत्याह--
अविकलकारणस्येति । अविकलानि समग्राणि कारणानि यस्य स तथोक्तः । यस्य
कारणवैकल्यादभावो न तस्य केनचिदपि विरोधगतिः । तदर्थम् अविकलकारणग्रहणम् ।
ननु च यस्यापि कारणसाकल्यं तस्यापि निवृत्तिरशक्या केनचिदपि कर्त्तुम् । तत्
कुतो विरोधगतिः ? एवं तर्हि अविकलकारणस्यापि यत्कृतात् कारणवैकल्याद् अभावस्तेन
विरोधगतिः ।
यस्येत्यादिनाऽविकलकारणस्य फलं वर्णयति । एवं तर्हीत्युत्तरम् । तर्हि तस्मिन्
काले । एवं बोद्धव्यमित्यर्थः । अपि सम्भावनायाम् । न्यायबलादेवं सम्भावयाम इत्यर्थः ।
विरोधस्य गतिः प्रतिपत्तिः ।
199
तथा च सति यो यस्य विरुद्धः स तस्य किञ्चित्कर एव । तथा हि--शीतस्पर्शस्य
जनको भूत्वा शीतस्पर्शान्तरजननशक्तिं प्रतिबध्नन् शीतस्पर्शस्य निवर्त्तको विरुद्धः । तस्माद्धेतु
वैकल्यकारी विरुद्धो जनक एक निवर्त्त्यस्य । सहानवस्थानविरोधश्चायम् । ततो विरुद्धयो
रेकस्मिन्नपि क्षणे सहावस्थानं परिहर्त्तव्यम् । दूरस्थयोर्विरोधाभावाच्च निकटस्थयोरेव
निवर्त्त्यनिवर्त्तकभावः ।
तस्माद्यो यस्य निवर्त्तकः स तं यदि परं तृतीये क्षणे निवर्त्तयति । प्रथमे क्षणे सन्निपत
न्नसमर्थावस्थाधानयोग्यो1209 भवति । द्वितीये विरुद्धमसमर्थं करोति । तृतीये त्वसमर्थे
निवृत्ते तद्देशमाक्रामति ।
तत्रालोको गतिधर्मा क्रमेण जलतरङ्गन्यायेन 1210देशमाक्रामन्1211 यदाऽन्धकारनिरन्तर-1212
मालोकक्षणं जनयति तदाऽऽलोकसमीपवर्त्तिनमन्धकारमसमर्थं जनयति । ततोऽसामर्थ्यं तस्प यस्य
समीपवर्त्त्यालोकः । 1213असमर्थे निवृत्ते 1214तद्देशो जायत आलोक इत्येवं क्रमेणाऽऽलोकेनान्ध
कारोऽपनेयः । तथोष्णस्पर्शेन शीतस्पर्शो निवर्त्तनीयः ।
किमतः सिद्धमित्याह--तथा चेति कारणवैकल्यकारिणो विरोधावगमप्रकारे सति ।
किञ्चित्करत्वमेव तथा हीत्यादिना दर्शयति । यथा चास्य जनकत्वं तथाऽनन्तरमेव व्यक्ती
करिष्यते ।
ननु किं कतिपयक्षणसहितयोः पश्चान्निवर्त्त्यनिवर्त्तकभावेन विरोधोऽथवाऽन्यथेत्या
शङ्क्याह--सहेति । चो यस्मात् ततस्तस्मात् । न केवलं बहुषु क्षणेष्वित्यपि शब्दः ।
सहावस्थानमेकत्र स्थितिः । निकटावस्थानं तु न परिहर्त्तव्यमिति बुद्धिस्थम् । परिहर्त्तव्यं नाङ्गी
कर्त्तव्यम् । तयोरेकस्मिन्नपि क्षणे सहस्थित्यभावात् कथमेवमङ्गीक्रियते ? अत एव । न
सहस्थितयोः पश्चाद् विरोध इति वा कृतमनेन ।
यद्येवं क्वचित्प्रदेशे वर्त्तमान आलोकस्त्रिलोकीव्यवस्थितानि तमांस्यनेनैव क्रमेणापनये यदा त्वालोकस्तत्रैवान्धकारदेशे जन्यते तदा यतः क्षणादन्धकारदेशस्यालोकस्य जनकः1215 अतश्च यस्मिन् क्षणे जनकस्ततस्तृतीये क्षणे निवृत्तो विरुद्धो यदि शीघ्रं निवर्त्तते । जन्यजनकभावच्च 1218सन्तानयोर्विरोधो न क्षणयोः । यद्यपि च न सन्तानो नाम वस्तु
दिति न क्वचित् तमांस्यवतिष्ठेरन्नित्याह--निकटस्थयोरिति ययोर्निवर्त्त्यनिवर्त्तकभावो दृष्ट
स्तयोर्निकटस्थयोरेव न तु निकटस्थयोरवश्यं निवर्त्त्यनिर्वर्त्तकभाव इत्यस्यार्थो द्रष्टव्यः । तयोरेव
कथं तथाभाव इत्याशङ्कायां दूरस्थायोरिति योज्यम् । चोऽवधारणे । यतः किञ्चित्करस्यैव
निवर्त्तकत्वं तस्माद् हेतोः परं प्रकृष्टं यथा भवति । एतदेवोपपादयन्नाह--प्रथम इति सन्नियत
न्निकटीभवन्निवर्त्तक इति प्रकरणात् । असमर्था चोपादेयक्षणनिर्माणे अशक्तावस्था यस्यान्ध
कारक्षणस्य तस्याऽऽधानमुत्पादनम्, तत्र योग्यः समर्थो भवति । द्वितीये क्षणे इत्यनुवर्त्तते ।
विरुद्धमन्धकारमसमर्थं सजातीयक्षणान्तरजननाक्षमं करोति । तृतीये क्षणेऽऽसमर्थे तस्मिन्
200
क्षणः उत्पद्यते तत एवान्धकारोऽन्धकारान्तरजननासमर्थ1216 उत्पन्नः । 1217ततोऽसमर्थावस्था
जनकत्वमेव निवर्त्तकत्वम् ।
तथापि सन्तानिनो वस्तुभूताः । ततोऽयं परमार्थः--न क्षणयोर्विरोधः । अपि तु बहूनां
वन्ध्यक्षणे निवृत्ते स्वरसतो निरुद्धे तद्देशं तस्यासमर्थक्षणस्य देशं स्थानमाक्रामति, तद्देशो
भवति निवर्त्तक इत्यर्थात् ।
इह कश्चिन्निवर्त्तक आलोको यामेव दिशमाक्रामति तद्दिग्वर्त्तिनमेव स्वविरुद्धं गति
क्रमेणैव निवर्त्तयति । कश्चित्पुनर्विरुद्धावष्टब्ध एव देशे समुत्पन्नमात्र एवानेकदिग्वर्त्तिनं विरुद्धं
झटिति निवर्त्तयति । तत्र न ज्ञायते कस्य कथं किञ्चित्करतया निवर्त्तकत्वमित्याह--तत्रेति
वाक्योपक्षेपे । देशमभिमतं स्थानमाक्रामंस्तद्देशो भवन्नालोक इत्यर्थः । अन्धकारनिरन्तर
मन्धकाराव्यवहितम् । आलोकसमीपवर्त्तिनमिति तज्जन्यमानालोकसमीपवर्त्तिनम् । असमर्थ
मन्धकारान्तरजननाशक्तं जनयति । यत एवं ततस्तस्य जनकत्वम् । ततस्तस्मात्समीप
वर्त्त्यालोक इति गतिधर्मेति द्रष्टव्यम् । असामर्थ्यं चो69a पादेयक्षणोपजननं प्रतीति
प्रस्तावादवसेयम् । असमर्थे तस्मिन्नन्धकारे निवृत्ते स्वरसतोवि1219रुद्धे सति । सोऽसमर्थान्ध
कारक्षणदेशो देशो यस्य स तथा जायते आलोकः । इतिस्तस्मात् । एवमनन्तरोक्तेन क्रमेण
परिपाट्या गतिधर्मालोकस्तद्देशाक्रमणाय सन्निपतन्नसमर्थावस्थाऽऽधानयोग्यो भवति । द्वितीये
क्षणेऽसमर्थं जनयति । तृतीये तद्देशो जायत इत्यनन्तरोक्तः क्रमो विभज्य योजनीयः ।
अमुमेव क्रममन्यत्रादिशन्नाह--तथेति । यथा--प्रालोकान्धकारयोर्निवर्त्त्यनिवर्त्तक
भावस्तेन प्रकारेण उष्णस्पर्शेन गतिधर्मेण दृष्टान्तवशाद् द्रष्टव्यम् ।
गतिधर्मणस्तावदालोकस्यायं क्रमः । विरुद्धाक्रान्तदेशमध्योत्पन्नस्य कीदृश इत्याह—
यदेति । तुर्विशेषणार्थः । यतः क्षणादालोकस्य जनकः क्षण उत्पद्यते । कीदृशस्यालोक
क्षणस्येत्याह--अन्धकारेति । अन्धकारदेशस्य निवर्त्त्याऽन्धकारसम्बन्धी देशो यस्य स तथा
तत एव तमोदेशालोकोत्पादक्षणयोरेकसामग्र्यधीनतामाह । यतोऽन्धकारदेशालोकहेतूत्पादकस्य
क्षणस्य वन्ध्यान्धकाराधायकत्वतो हेतोरविद्यमानं सजातीयजन्मनि सामर्थ्यं यस्या अवस्थाया
अन्धकारसम्बन्धिन्याः सा तथा । तज्जनकत्वमेवालोकस्येति प्रकरणात् ।
अत्रापि तृतीये क्षणे परं निवर्त्तकत्वमिति दर्शयन्नाह--अतश्चेति । चोऽवधारणे । अत्रापि क्षणानाम् । यतः सत्सु दहनक्षणेषु प्रवृत्ता अपि शीतक्षणा निवृत्तिधर्माणो भवन्तीति सन्तानयो
प्रथमे क्षणेऽन्धकारदेशालोकहेतूत्पादकः क्षणः समुद्भवन्नेवान्धकारासमर्थावस्थातद्देशालोकहेतुजनन
201
र्निवर्त्त्यनिवर्त्तकत्वनिमित्ते च विरोधे स्थिते सर्वेषां परमाणूनां सत्यप्येकदेशावस्थानाभावे न
विरोधः, इतरेतरसन्तानानिवर्त्तनात् तेषाम् । गतिधर्मा चालोको यां 1220दिशमाक्रामति
1221तद्दिग्वर्त्तिनो विरोधिसन्तानान् निवर्त्तयति । ततोऽपवरकैकदेशस्था प्रदीपप्रभाऽन्धकारनिकट
वर्त्तिव्यपि नान्धकारं निवर्त्तयति, 1222अन्धकाराक्रान्तायां दिश्यालोकक्षणान्तरजननासामर्थ्यात् ।
कारणासामर्थ्यहेतुत्वकृतं1223 सन्ताननिष्ठमेव विरोधं दर्शयता 1224भवत इति कृतम् । भवतः
प्रबन्धेन1225 प्रवर्त्तमानस्य1226 शीतस्पर्शसन्तानस्याभावोऽन्यस्योष्णसन्तानस्य भावे सतीति ।
योग्यो भवति । द्वितीयेऽन्धकारदेशालोकोत्पादकक्षणविरुद्धानन्धकारानसमर्थान् जनयति ।
तृतीये त्वसमर्थेषु निवृत्तेषु तद्देश आलोको जायत इति प्रत्येतव्यम् । तथा शीताक्रान्तदेश
मध्योत्पन्नेनोष्णस्पर्शेन स्थितधर्मणा तथैव शीतस्पर्शो निवर्त्तनीय इत्यपि द्रष्टव्यम् ।
ननु च येनालोकक्षणेन सन्निपति 1227 तान्धकारक्षणोऽसमर्थो जन्यते न तेन तद्देश
आक्रम्यते । येन चाक्रम्यते न तेनासमर्थो जन्यते । तथा योऽन्धकारस्तत्सन्निपतनकालभावी
नासौ तद्विरुद्धः । यश्चासमर्थस्तज्जन्मा सोऽपि तज्जन्यत्वादविरोधी । ये चानुत्पत्तिधर्माण
स्तेऽप्यसत्त्वात्कथं तैर्विरुद्धा इत्याशङ्क्याह--जन्यजनकभावादिति । चोऽवधारणे सन्तानयो
रित्यस्यानन्तरं द्रष्टव्यः ।
अयमाशयः--जन्यजनकभावविशेष एवायं निवर्त्त्यनिवर्त्तकभावः अर्वाग्दर्शी च न
क्षणयोः कार्यकारणभावं विभावयितुं विभवति । अपि तु सन्तानयोस्ततोऽन्धकारक्षणप्रबन्ध
मेकत्वेनावसाय निवर्त्त्यं विरुद्धमध्यवस्यालोकक्षणप्रबन्धं चैकत्वेनाधिमच्य तद्विरोधिन
मधिमुञ्चतीति ।
परमार्थदृष्ट्या चेदं क्षणोल्लेखेनाख्यायते । न तु लोकस्थित्याश्रयेण । न तर्हि पर
मार्थतो विरोध इति चेत् । किं वै कार्यकारणभावविशेष एवैवंविधो न विद्यते, येनैवं वक्तु
मध्यवसितो भवानिति ? एतच्चानन्तरमेव निरूपयिष्यते ।
ननु न सन्तानिव्यतिरेकेण सन्तानो नामान्यः सम्भवी । तत्कथं69b द्वयोः सन्तानयोर्विरोध
उच्यत इत्याह यद्यपीत्यनुमतौ । यतः सन्तानिनो वस्तुभूताः सन्ति ततो हेतोरयं वक्ष्यमाणकः ।
उपपत्तिमाह--यत इति । यस्माद् ग1228तक्षणप्रबन्धस्याभावान्निवृत्तिधर्मकत्वम् । तथा
यतः सत्स्वालोके1229क्षणेषु प्रवृत्ता अप्यन्धकारक्षणान्नि1230वृत्तिधर्माणो भवन्तीति द्रष्टव्यम् ।
अन्धकारादिक्षणप्रबन्धस्य1231 1232 आलोकादिक्षणप्रबन्धेन सह विरोध इति
प्रकरणार्थः ।
202
ये त्वाहुर्न विरोधो वास्तव इति त इदं वक्तव्याः--यथा न निष्पन्ने कार्ये कश्चिज्जन्य-
यदि येन सह यस्यैकदेशास्थितिर्न भवति तेन तस्य सहानवस्थानलक्षणो विरोधस्तर्हि
सर्व एव परमाणवः सप्रतिघत्वादन्योन्यदेशपरिहारेण वर्त्तन्त इति सर्वेषामेव परमाणूनामयं
विरोधः किन्न व्यवस्थाप्यत इत्याशङ्क्याह--सन्तानयोरिति । चोऽवधारणे । हेतुमाह—
इतरेतरेति । यतः सत्स्वपि तेषु सर्व एव सन्तानेन प्रवहन्ति ततः सन्तानाऽनिवर्त्तनं तेषाम् ।
ननु यद्यालोकान्धकारयोर्निवर्त्त्यनिवर्त्तकभावेन विरोधस्तर्हि प्रदीपमल्लिकातलवर्त्त्येव
वरकात्माण निवर्त्ती1233 अन्धकारस्तत्समीपवर्त्तिनाऽऽलोकेन किं न निवर्त्त्यत इत्याशङ्क्याह—
गतिधर्मेति । चो यस्मादर्थे । तद्दिग्वर्त्तिन एवेत्यर्थाद् द्रष्टव्यः । यतो यद्दिगभिमुखगति
रालोकस्तदाक्रम्यमाणदिग्वर्त्तिन एव विरोधिसन्तानान्निवर्त्तयति । ततस्तस्मात्कारणात् ।
कुतो न निवर्त्तयतीत्याह--अन्धकारेति । अन्धकाराक्रान्तायामित्यनेन दिशोऽन्त1234
काराक्रान्तत्वमालोकक्षणान्तराजननासामर्थ्यकारणं नोक्तम् । किन्तर्हि ? वास्तवानुवादः
कृतः । या सा दिगन्धकाराक्रान्ता दृश्यते तत्र तस्य तज्जननासामर्थ्यादित्यर्थः । अन्यथाऽ
न्धकाराक्रान्तत्वमेव तस्य न स्यात् । आलोकेन समीपवर्त्तिनाऽन्धकारापनयासम्भवादिति
कथमेनं संगच्छेत ।
अयमत्र परमार्थः--दृश्यते तावत्काचिदन्धकारमात्रा निकटस्थितेनाप्यालोकेनाऽनिवर्त्तिता ।
दृष्टश्चान्यस्याववरकवर्त्तिनोऽन्धकारप्रचयस्योच्छेदः । तस्मादालोकस्यालोकान्तरजननासामर्थ्य
मन्यत्र तु सामर्थ्यं तत्त्वचिन्तकैरचिन्त्यत्वात्प्रतीत्यसमुत्पादस्य कल्प्यत इति । अत एव ययो
र्जन्यजनकभावेन निवर्त्त्यनिवर्त्तकभावो नास्ति तयोः प्रदीपमल्लिकादितलवर्त्त्यन्धकारतदासन्ना
लोकयोर्नविरोधः । प्रायोवृत्त्या तु तौ विरोधेनावबुद्ध्येते । अत एव पूर्वं दूरस्थयोर्विंरोधा
भावाच्च निकटस्थयोरेव निवर्त्त्यंनिवर्त्तकभावः इत्युक्तम्, न तु निकटस्थयोर्निवर्त्त्यनिवर्त्तक
भाव एव इति । सति निवर्त्त्यनिवर्त्तकत्वे निकटस्थयोरेव, न तु निकटस्थयोरवश्यं निवर्त्त्य
निवर्त्तकभावः इति च व्याख्यातमेव ।
सम्प्रति जन्यजनकभावनिबन्धनं सन्तानगतमेव च विरोधं स्वयं प्रतिपादितमाचार्य
स्याप्यभिप्रेतमेतदिति दर्शयन्नाह--कारणैरिति 1235 । कारणस्य निवर्त्तयितव्यस्य शीत
स्पर्शादेर्यदसामर्थ्यं सजातीयक्षणनिर्माणेऽशक्तत्वं तत्र यद्धेतुत्वं निवर्त्तकस्य तत्कृतं तत्प्रयुक्तम् ।
अत एव सन्ताननिष्ठं सन्ताने क्षणप्रबन्धे निष्ठा व्यवस्थाप्यतया पर्यवसानं यस्य तं दर्शयता
प्रकाश70a यताऽऽचार्येणेत्यर्थात् ।
ये पुनः शान्तभद्रादयः--न तावदालोकादेरुत्पन्नेनान्धकारादिना विरोधः, तस्यातीत
त्वेनासत्त्वात् । न चोत्पित्सुना सह, तस्याप्यनागततयाऽसत्त्वात् । नाऽपि वर्त्तमानेन, तस्यापि
तज्जन्मतयाऽविरोधित्वात् । तस्मान्न विरोधो नाम द्विष्ठः सम्बन्धोऽस्ति । किन्तु काल्पनिक
एव । अत एवाचार्येण विरोधगतिरित्यभिधायि । न तु विरोध इति ।--इति व्याख्यात
वन्तस्तान् वचनभङ्ग्या निराचिकीर्षुराह--ये त्विति ।
जनकभावो नाम 1236द्विष्ठोऽस्ति । कारणपूर्विका तु कार्यंवृत्तिः1237 । अतो वास्तव एव ।
तद्वत् न निवृत्ते वस्तुनि कश्चित् 1238द्विष्ठो नाम विरोधोऽस्ति । दहननिमित्तं तु शीतस्पर्शस्य
1239क्षणान्तरजननासामर्थ्यम् । अतो1240 विरोधोऽपि वास्तव एव ॥
उदाहरणमाह--
शीतोष्णस्पर्शवत् ॥ ७४ ॥
1241शीतश्चोष्णश्च तावेव स्पर्शौ तयोरिव । शीतोष्णस्पर्शयोर्हिं पूर्ववद्विरोधो योजनीयः ॥
द्वितीयमपि विरोधं दर्शयितुमाह--
परस्परस्य1244 परिहारः परित्यागस्तेन स्थितं लक्षणं रूपं ययोस्तद्भावः परस्परपरिहार
स्थितलक्षणता1245 तया ।
इह यस्मिन् परिच्छिद्यमाने यद् व्यवच्छिद्यते तत् परिच्छिद्यमानमवच्छिद्यमान
परिहारेण स्थितरूपं द्रष्टव्यम् । नीले च परिच्छिद्यमाने ताद्रूप्यप्रच्युतिरवच्छिद्यते, तदव्य
वच्छेदे नीलापरिच्छेदप्रसङ्गात् । तस्माद्वस्तुनो भावाभावौ परस्परपरिहारेण स्थितरूपौ ।
नीलात्तु यदन्यद्रूपं तन्नीलाभावाव्यभिचारि । नीलस्य दृश्यस्य पीतादावुपलभ्यमानेऽनुपलम्भाद-
कारणपूर्विका कारणत्वेनाभिमतपदार्थसत्तापूर्विका कार्यंस्य कार्यत्वेनाभिमतस्य वृत्तिः
प्रवृत्तिर्भाव इति यावत् । तुर्विशेषणार्थः । यत एवमतो हेतोर्वास्तवः पारमार्थिकः । अन्यथा
कार्यकारणभावोऽप्यवास्तवोऽस्त्विति भावः ।
ननु किं कार्यकारणभावोऽपि द्विष्ठः सम्बन्धः कश्चिदिष्टो येनैवमुच्यत इति चेत् ।
न । कारणपूर्विकायाः कार्यवृत्तेर्वास्तवत्वात् । इहापि तर्हि दहनादिनिमित्तं शीतस्पर्शादे
र्जननासामर्थ्यं वास्तवमस्तु । न तु विरोधः सम्बन्ध इति चेत् । न । एतावतोऽन्यस्मात्कार्य
कारणभावादस्य कार्यकारणभावस्य विशेषरूपत्वाभ्युपगमात् । अस्माभिरपीदृश एव कार्य
कारणभावविशेषो विरोध इत्युच्यत इति कथमयमवास्तवः स्यादिति ॥
पूर्वंवत्पूर्वोपदर्शितवत् ॥
204
भावनिश्चयात् । यथा च नीलं1246 स्वाभावं परिहरति, 1247तद्वद् अभावाव्यभिचारि पीतादिक
मपीति1248 । तथा च भावाभावयोः साक्षाद्विरोधः,1249 वस्तुनोस्त्वन्योन्याभावाव्यभिचारित्वा
द्विरोधः ।
कस्य चान्यत्राभावावसायः ? यो नियताकारोऽर्थः,1250 तस्य । न त्वनियताकारः,1251
क्षणिकत्वादिवत् । क्षणिकत्वं हि सर्वेषां नीलादीनां स्वरूपात्मकम् । अतो न नियताकारम् ।
1252यतः क्षणिकत्वपरिहारेण न किञ्चिद् दृश्यते ।
ननु सर्वमेव वस्तु सत्त्वरजस्तमोरूपेणैकमिति कथमन्योन्यरूपपरित्याग इत्याह--इहेति ।
यद् व्यवच्छिद्यते यन्न परिच्छिद्यते । अपरिच्छेदस्यैव व्यवच्छेदरूपत्वात् । अवच्छिद्यमानपरि
हारेण व्यवच्छिद्यमानपरिहारेण स्थितं व्यवस्थितं रूपं स्वरूपं यस्य तत्तथा । किम्पुनरिदं
प्रसिद्धमित्याह--नीलमिति । चो यस्मात् । तदेव रूपं तद्रूपम्, तद्रूपमेव ताद्रूप्यम् तस्य प्रच्युति
रभावो व्यवहर्त्तव्यैकरूपः प्रसज्यप्रतिषेधात्मा तुच्छरूपः । उपपत्तिमाह--तदव्यवच्छेद इति ।
यत एवं तस्मात् कारणात् । यदि भावाभावयोर्विरोधः, न तर्हि नीलपीतयोः स स्यादित्याह—
नीलादिति । तुर्विशेषद्योतकः । अभावाव्यभिचारित्वमेव साधयन्नाह--नीलस्येति । भवत्येवं
नीलस्य पीतादावभावः, न तु तत्परिहारेण तद् व्यवस्थितमित्याह--यथेति । चो यस्मादर्थे ।
नीलं कर्त्तृ स्वाभावं स्वभावं 1253 स च मानभावश्च 1254 तं न व्यभिचरतीति तथा । एवं
सति किं व्यवस्थितमित्याह--तथा चेति नीलस्य साक्षात्स्वाभावपरिहारप्रकारे तदव्यभि
चारित्वादर्थान्तरपरिहारप्रकारे च सति ।
नतु 1255 यद् यदभावाव्यभिचारि य 1256 त्तत्तेन विरुद्ध्यते । तस्य न
तदात्मकत्वेनाभावावसायस्तादात्म्याभावआवसायफलत्वादन्यस्य विरोधस्य । तर्हिक्षणिकत्वमपि
नीलाभावाव्यभिचारित्वान्नीलेन विरुद्ध्यमानं न नीलात्मकं स्यात् । तदपि नीलाभाववदेव
अन्यथा क्षणिकत्वं नीलात्मतैव स्यात् । तथा च यावत्क्षणिकं तावन्नीलमिति कृत्स्ना त्रिलोकी
नीलैव स्यादिति मनसि निधायाह--कस्य चेति । तुशब्दार्थश्चकारः ।
परमु70b खेन प्रश्नं कृत्वा प्रश्नविसर्जनमाह--य इति । नियतस्य प्रतिनियतस्य
वस्तुन आकारः स्वरूपमिति विग्रहीतव्यम् । एतदेब व्यतिरेकमुखेणाह--न त्विति । न
पुनरनियतस्य सर्ववस्तुस्वरूपात्मकस्य । तदेव दर्शंयति--क्षणिकत्वादिवदिति । आदिशब्दात्पर
माणुमयत्वादिपरिग्रहः । अनेनैतदाह--अभावाव्यभिचारित्वेऽपि नियताकारेण तेन सममस्य
विरोधो नानियताकारेणेति ।
अनियताकारत्वमस्योपपादयन्नाह--क्षणिकत्वं हीति । हिर्यस्मादर्थे । सन्मात्रानु यद्येवमभावोऽपि न नियताकारः । 1257कथमनियताकारो नाम ? यावता वस्तुरूप
बन्धित्वात्क्षणिकस्येत्यभिप्रायः । यत एव्रमतः कारणात् । न त्वयमर्थः--नियतः प्रतिनियत
205
विविक्ताकारः कल्पितोऽभावः । ततो दृष्टं कल्पितं वा नियतं रूपमन्यत्रासदित्यवसीयते1258 ।
नानियतम् । एवं 1259नित्यत्वपिशाचादिरपि नियताकारः कल्पितो द्रष्टव्यः । एकात्मत्व-1260
विरोधश्चायम् । ययोर्हि 1261परस्परपरिहारेणावस्थानं तयोरेकत्वाभावः ।
आकारो यस्येति । एवं हि क्षणिकत्वादेरपि नियताकारत्वं स्यात् । तथाहि परमसङ्कुचित
कालवर्त्तिरूपत्वेन नियताकारत्वात् । धर्मोत्तरोऽपि क्षणिकत्वं हि सर्वेषां नीलादीनां स्वरूपात्मक
मिति ब्रुवाणो नियताकार इत्यत्र षष्ठीतत्पुरुषमभिव्यनक्ति इतरथा क्षणिकत्वस्य हि सर्वो
नीलादिः स्वरूपम् इत्यभिदध्यादिति । एवञ्चा 1262 क्षणिकस्यापि न नीलेऽभावावसायस्तस्य
सर्वनीलादिवस्त्वात्मकत्वेनानियताकारत्वात् । येन च क्षणिकं कल्पितं न तेन प्रतिनियत
वस्त्वात्मक 1263 कल्पितमत एव नीलग्राहि प्रत्यक्षं क्षणिकत्वाक्षणिकत्वयोरुदासीनं नीलमात्रे
प्रमाणम् । तथा च नीलस्याक्षणिकत्वपरिहारेणावस्थानं क्षणिकत्वसिद्धेः प्राङ् निश्चेतु
मशक्यमिति न्यायबलात्प्राप्तम् ।
एवञ्चाविरोधरूपविवेचके धर्मोत्तरे सत्त्यपि ये केचिद् द्विष्यमानजल्पमहोदधिप्रभृतयो
विरोधचोद्यपरिजिहीर्षया परस्परपरिहारस्थितलक्षणं विरोधं परिहारीकुर्वन्ति तैरयं कस्य चा
न्यत्राभावावसायः ।यो नियताकारो न त्वनियताकारः क्षणिकत्वादिरिति धर्मोत्तरस्य ग्रन्थो न
दृष्टो न चार्थस्य समीचीनिधिस 1264 ज्ञात इति लक्ष्यते ।
यद्ययमपरिहारः, कस्तत्र परिहार इति चेत् । यथैतत्परिह्रियते तथा विशेषाख्यान
एवास्माभिरभ्यधायीति तत एवापेक्षितव्यम् । इह पुनरप्रकृतत्वान्नोच्यत इति ।
यदि नियताकारं वस्तु परिहरति नानियताकारम्, तर्हि भावो नाभावं परिहृत्य तिष्ठेत्
तस्यानियताकारत्वाद् इत्याशङ्कमान आह--यद्येवमिति । एवञ्चेदभ्युपगम्यते तदेत्यर्थात् ।
न केवलं क्षणिकत्वादीत्यपि शब्दः । कथमिति सिद्धान्ती ।
यावतेति तृतीयान्तप्रतिनिरूपको निपातोऽत्र यस्मादित्यस्यार्थे वर्त्तते । वस्तुरूपविविक्तो
दृश्यनीलादिस्वभावरहित आकारो यस्येति विग्रहः ।
कल्पितग्रहणेनैतदाह--नाभावो नाम कश्चित् प्रमाणसिद्धोऽस्ति । केवलं कल्पिकया अत एव लाक्षणिकोऽयं विरोध उच्यते । लक्षणं रूपं वस्तूनां प्रयोजनमस्येति कृत्वा ।
बुद्ध्या तथा समारोपित इति । यत एवं तस्माद् दृष्टं प्रमाणावगतं कल्पितम् आगमाश्रयेणा
न्यथा वा समारोपितम् । अन्यत्र ततोऽन्यस्मिन्, नीलादौ वाऽनियतम्, न नीलाद्यात्मकं सत्
तत्रैवाऽसदि त्यवसीयते । अमुमेव न्यायमन्यत्रादिशन्ना71a ह--एवमिति । यथाऽभावो नियता
कार एव कल्पितो नानियताकार एवं नित्यत्वमपि सर्वकालावस्थायित्वलक्षणं नियताकारमेव
206
विरोधेन ह्यनेन वस्तुतत्त्वं विभक्तं व्यवस्थाप्यते । अत एव दृश्यमाने रूपे यन्निषिध्यते
तद् दृश्यमेवाभ्युपगम्य निषिध्यते । तथा हि--अभावोऽपि पिशाचोऽपि यदा पीते निषेद्धुमिष्यते
तदा दृश्यात्मतया निषेध्य इति दृश्यत्वमभ्युपगम्य दृश्यानुपलब्धेरेव निषेधः । तथा च सति
रूपे परिच्छिद्यमान एकस्मिंस्तदभावो दृश्यो व्यवच्छिद्यते । 1265यच्च तदभाववन्नियताकारं
कल्पितम्, न तु सर्वस्य नीलादेः । अक्षणिकत्वं तु सर्वस्य नीलादेः स्वरूपात्मकं सर्वस्यैवानेक
क्षणस्थायित्वात् । न चाक्षणिक एव नित्यः, सतोऽकारणस्याकाशादेः कियत एव तथात्वात् ।
तथा पिशाचत्वमप्यस्थिस्नायुमयसूचीवक्त्रादिरूपस्यैव स्वरूपं कल्पितमिति । तस्यापि नीला
कारत्वान्नीलादिना 1267 । अयं विरोधः । यद्वा नियतः प्रतिनियत आकारः स्वभावो यस्य
स तथा निषेधेनानियताकारः । तदा तु सर्वनीलाद्यनात्मकत्वसर्वनीलाद्यात्मकत्वे नियताकार
त्वामियताकारत्वे वाच्ये । तेन न क्षणिकत्वादौ नियताकारत्वस्य प्रसङ्गः । सर्देषां स्वरूपा
त्मकमिति च विवरणमर्थाभेदेन नेयमिति ।
ननु चानेनापि विरोधेन विरोधिनोः सहावस्थानं निषिध्यते । पूर्वेणापि परस्परपरि
हारावस्थानं प्रतिपाद्यत इति कथमन्योन्यानन्तर्भाव इत्याशङ्क्याह--एकात्मत्वेति । चो
यस्मादर्थे । विरुद्धयोरेकात्मनिषेधको विरोध एकात्मविरोध उक्तः । कथमस्य तथा
त्वमित्याह--ययोरिति । हिर्यस्मादर्थे ।
यत एतेन विरोधेन विरुद्धयोरेकात्मत्वं निषिध्यते अत एवास्मादेव कारणात् ।
कथमीदृशो विरोधो भवता लाक्षणिकशब्देनाभिधीयते इत्याह--लक्षणमिति । विभक्तस्वरूपं
प्रयोजनं व्यवस्थाप्यतया साध्यम्, प्रयुज्यते अनेन इति वा प्रयोजनं प्रयोजकस्य । इति
कृत्वा एवं व्युत्पाद्य ईदृश्या व्युत्पत्त्येति यावत् ।
कथमेतत्प्रयोजनमित्याह--विरोधेनेति । हीति यस्मात् । विभक्तमन्येन विभक्तं
यतोऽनेनेति विरोधेन नीलादेर्विभक्तरूपव्यवस्थापनादन्येन सहैकात्म्यं निषिध्यते । अत एवा
स्मादेव कारणात् । दृश्यमाने रूपे प्रतीयमाने वस्तुस्वरूपे यन्निषिध्यते दृश्यमानात्मकत्वेन
प्रतिषिध्यते ।
ननु दृश्ये वस्तुनि दृश्यान्तरस्य दृश्यत्वाभ्युपगमपूर्वको निषेधो युक्तो न त्वदृश्यस्येत्या
शङ्क्याह--तथा हीति । न केवलं भाव इत्यपिशब्दः । न केवलमभाव इत्यपिशब्दः ।
दृश्यात्मतया दृश्यपीतात्मतया निषेध्यो निषेधार्हः, नायं दृश्यमानः पीतः, अभावः, पिशाचो वा
ताद्रूप्येणाप्रतिभासनादित्येवं निषेधादित्यभिप्रायः । इतिर्हेतौ । दृश्यानुपलब्धेरेवान्यस्य
तादात्म्येनान्यस्मिन्निषेधः ।
अथ स्यात्प्रत्यक्षमेवात्र नीलस्य पीतात्मताऽभावव्यवहारं करोति । तत् किमेवमुच्यते ? रूपं तदपि दृश्यं व्यवच्छिद्यते । ततः स्वप्रच्युतिवत् प्रच्युतिमन्तोऽपि व्यवच्छिन्ना इति ये ततो भिन्नव्यापारौ विरोधौ । एकेन विरोधेन शीतोष्णस्पर्शयोरेकत्वं वार्यते । अन्येन स च द्विविधोऽपि विरोधो वक्तृत्वसर्वज्ञत्वयोर्न सम्भवति ॥ ७६ ॥
अथोक्तमेतददृष्टानामपि सत्त्वसंज्ञया न शक्तो व्यवहारयितुमिति चेत् । न । इह तादात्म्य
207
परस्परपरिहारस्थितरूपाः सर्वे तेऽनेन निषिद्धैकत्वा इति । सत्यपि चास्मिन् विरोधे
सहावस्थानं स्यादपि ।
सहावस्थानम् । भिन्नविषयौ1268 च । सकले वस्तुन्यवस्तुनि च परस्परपरिहारविरोधः ।
वस्तुन्येव कतिपये 1269सहानवस्थानविरोधः । तस्माद्भिन्नव्यापारौ भिन्नविषयौ च । ततो
नानयोरन्योन्यान्तर्भाव इति ॥
निषेधात् । आधेयनिषेधे ह्ययं न्यायो न तु दृश्यमानात्मतानिषेध इति । सत्यमेतत् । केवल
मत्यन्तमूढं प्रत्येतदुक्तमित्यदोषः । किमेवं सति सिद्धिमित्याह--तथा च तति ऐकात्म्यनिषेधे
सर्वस्य दृश्यात्मतया निषेधप्रकारे सति । तदभावस्तस्य परिच्छिद्यमानस्य स्वरूपस्य नीलादे
रभावस्तदभावो दृश्यो दृश्यात्म71b कः सन् व्यवच्छिद्यते तादात्म्येन निषिध्यते । अयं
दृश्यमानो नीलो नाभावः तुच्छरूपेण अभावरूपेणाप्रतिभासनादिति कृत्वा दृश्यमानरूपात्मतया
निषेधादिति भावः ।
भवतु परिच्छिद्यमानाऽभावस्य दृश्यस्य व्यवच्छेदस्तदव्यभिचारिणस्तु निषेधे का
वार्त्तेत्याह--यच्चेति । अपिशब्दार्थश्चकारः । तदभावो विद्यतेऽस्येति तथा ।
यदि तदभाववांस्तादात्म्येन प्रतिषिध्यते तर्हि क्षणिकत्वमपि पूर्वोक्तेन न्यायेन नीला
भाववदिति तदपि तादात्म्यतया व्यवच्छेद्यं स्यादित्याह--नियताकारमिति । एतच्च पूर्वमेव
कृतव्याख्यानम् । यतो द्वयोरप्यभावतद्वतोर्दृश्यमानात्मतया निषेधाद् द्श्ययोरेव निषेधस्तत
स्तस्मात्स्वप्रच्युतिरिव स्वाभाव इव व्यवच्छिन्ना निषिद्धतादात्म्याः । इतिस्तस्मात् । सर्व
ग्रहणं कार्त्स्न्यप्रतिपादनार्थम् । अनेनेति विरोधेन निषिद्धमेकत्वं येषामिति विग्रहः । विरोधे
परस्परपरिहारस्थितात्मलक्षणे सहैकत्र लोकप्रतीतिसिद्धे देशेऽवस्थानं स्थितिः स्यात् । अपिः
सम्भावनायाम् । यस्मादनेन विरोधेन नैकत्रावस्थानं निषिद्ध्यते किन्त्वेकात्मकत्वम् । पूर्वेण
चैकत्रावस्थानं न त्वेकात्मकत्वम् ।
ततः कारणाद् भिन्नौ नानाभूतौ व्यापारौ ययोस्तौ तथोक्तौ । भिन्नव्यापारत्व
मेवानयोरेकेत्यादिना स्फुटयति । न केवलं व्यापारभेदादनयोर्भेदेनोपन्यासः । किन्तु
विषयभेदादपीत्याह--भिन्नविषयौ चेति । न केवलं भिन्नव्यापारौ भिन्नविषयावपीत्यपि
शब्दार्थश्चकारः । भिन्नविषयत्वमेव दर्शयन्नाह--सकल इति ॥
भवतूक्तलक्षणो द्विविध एव विरोधः । तथाप्यनयोरन्यतर एव विरोधो वक्तृत्वसर्वज्ञ
त्वयोर्भविष्यतीत्याह--स चेति । चो यस्मात्सोऽयमनन्तरोक्तो द्विविधो नास्ति । अपि
रतिशये ।
208
स चायं द्विविधोऽपि विरोधो वक्तृत्वं च सर्वज्ञत्वं च तयोर्न सम्भवति । न ह्यविकल
कारणस्य सर्वज्ञत्वस्य वक्तृत्वभावादभावगतिः1270 । सर्वज्ञत्वं ह्यदृश्यम् । अदृष्टस्य चाभावो
नावसीयते । ततो नानेन विरोधगतिर्भवति ।
न च वक्तृत्वपरिहारेण सर्वज्ञत्वमवस्थितम् । काष्ठादयो हि1271 वक्तृत्वपरिहृताः ।
तेषामपि सर्वज्ञत्वप्रसङ्गात् । नापि सर्वज्ञत्वपरिहारेण वक्तृत्वम् । काष्ठादीनामपि वक्तृत्व
प्रसङ्गात् । तत एवाविरोधाद् वक्तृत्व1272 विधेर्न सर्वज्ञत्वनिषेधः ॥
स्यादेतत्--यदि नास्त्येव विरोधो घटपटयोरिव स्यादपि तयोः सहावस्थितिदर्शनम्1273 ।
सहाववस्थित्यदर्शनात्तु विरोधगतिः । विरोधा1274च्चाभावगतिरित्याशङ्क्याह--
न1275 चाविरुद्धविधेरनुपलब्धावप्यभावगतिः ॥ ७७ ॥
तत्राद्यस्य तावदभावं न हीत्यादिना दर्शयति । हीति यस्मात् । कुतो नाभावगति
रित्याह--सर्वज्ञत्वं हीति । हिर्यस्मात् । अदृश्यस्यापि किं माभावगतिरित्याह--अदृष्टस्येति ।
चो यस्मादर्थे । यत एवं ततस्तस्मात् । अनेन वक्तृत्वेन विरोधगतिर्नास्ति तस्य सर्वज्ञ
त्वस्येत्यर्थात् ।
द्वितीयस्य विरोधस्य अभावं प्रतिपादयन्नाह--न चेति । चः प्रतिषेधसमुच्चये ।
उपपत्तिमाह--काष्ठेति । हिर्यस्मात् । कुतो वक्तृत्वपरिहारेण सर्वज्ञत्वं नाबस्थितमित्याह—
तेषामपि काष्ठादीनां सर्वज्ञत्वस्य प्रसङ्गात्प्रसक्तेः । कुतस्तेषां तथात्वप्रसङ्ग इत्याशङ्क्य
योजनीयं काष्ठादय इति । हिर्यस्मात् । काष्ठादयो वक्तृत्वेन वचनशक्त्या परिहृता
स्त्यक्ताः । वक्तृत्वमेव सर्वज्ञत्वपरिहारेण व्यवस्थितं भविष्यतीत्याह--नापीति । अपिः
प्रतिषेधसमुच्चये । अत्रापि तामेवोपपत्तिमाह--काष्ठेति । इहापि काष्ठादयो हि सर्वज्ञ
त्वेन परिहृता इति द्रष्टव्यम् ।
स्यादेतत्--वक्तृत्वसर्वज्ञत्वयोः परस्परपरिहारस्थितलक्षणताविरोधेऽपि का क्षतिर्येन
तन्निषेधः कृतः । तथा ह्यन्योन्यपरिहारेणावस्थानेऽपि यद् वक्तृत्वं तत्सर्वज्ञत्वं मा भूत्,
सर्वज्ञत्वं वा वक्तृत्वम् । तयोस्त्वेकत्रस्थितिरविरुद्धैव । तदनन्तरमेवोक्तं धर्मोत्तरेण 72a
सत्यपि चास्मिन् विरोधे सहावस्थानं स्यादपीति ।
तदेतदसत् । येषां हि वक्तृत्वसर्वज्ञत्वलक्षणौ धर्मिणो भिन्नावेव धर्मौ तेषामिदं शोभते न चाविरुद्धविधेरिति अनुपलब्धावपि नायं विरुद्धविधिः यद्यपि 1276सहावस्थाना तथा न वक्तृत्वाद् रागादिमत्त्वगतिः । यतो यदि वचनादि रागादीनां कार्यं स्याद्वच रागादीनां वचनादेश्च कार्यकारणभावासिद्धेः ॥ ७८ ॥ रागादीनां वचनादेश्च कार्यकारणभावस्याऽसिद्धेः कारणान्न कार्यम् । अतोऽस्मान्न मा भूद्रागादिकार्यं वचनं सहचारि तु भवति । ततो रागादौ सहचारिणि निवृत्ते अर्थान्तरस्य 1281चाकारणस्य निवृत्तौ न वचनादेर्निवृत्तिः ॥ ७९ ॥ अर्थान्तरस्य1282 चाकारणस्य निवृत्तौ सहचारित्वदर्शनमात्रेण नान्यस्य वचनादेर्निवृत्तिः । इति सन्दिग्ध1283 व्यतिरेकोऽनैकान्तिको वचनादिः ॥ ८० ॥
न तु ताथागतानां धर्मधर्मिणोर्वास्तवमभेदमिच्छताम् । तथा हि यदि वक्तृत्वं सर्वज्ञत्वपरि
209
नुपलम्भस्तथापि न तयोर्विरोधः । यस्मान्न सहानुपलम्भमात्राद् विरोधोऽपि तु द्वयोरुपलभ्य
मानयोर्निव1277 र्त्यनिवर्तकभावावसायात् । तस्मादनुपलब्धावपि न वक्तृत्वविधे र्विरुद्धविधिः ।1278
अतोऽस्मान्नान्यस्याभावगतिः ॥
नादे रागादिगतिः स्यात् । रागादिनिवृत्तौ वचनादिनिवृत्तिः1279 स्यात् । न च कार्यम् ।
कुतः--
गतिः ॥
निवर्त्तंते1280 वचनमित्याशङ्क्याह--
अतो वक्तृत्वं भवेद्रागादिविरहश्च ॥
हृतं स्यात् तदा वक्तृत्वस्य वक्तुरभेदात्सर्वज्ञत्वस्य च सर्वज्ञाद्, वक्तैव सर्वज्ञो न स्यात्, सर्वज्ञ
एव वा वक्तेति युक्तमनयोः परस्परपरिहारस्थितलक्षणताऽभावप्रतिपादनमिति ।
यदि नास्त्येव विरोधः सहानवस्थानलक्षण इति द्रष्टव्यम् । अन्यथा घटपटयोर्दृष्टान्तता
न स्यात् । उपसंहारे चायमर्थो व्यक्तीकरिष्यते । उक्तं विरुद्धत्वे सहावस्थानादर्शनं
कारणम्, तत्किमेवमुच्यत इत्याशङ्क्याह--यद्यपीति । तथापि तेनापि प्रकारेण । अतो
हेतोरस्माद् वक्तृत्वाद् अन्यस्य सर्वज्ञत्वस्य नाभावप्रतिपत्तिः ॥
यथा वक्तृत्वादसर्वज्ञत्वगतिर्नास्ति तथा वक्तृत्वाद् रागादिमत्त्वस्यापि गतिर्नास्तीति
जिज्ञापयिषुराह--तथेति । आदिग्रहणाद् द्वेषादिपरिग्रहः ।
रागादिशब्दसन्निधानाद्रागादि सहचारीति बोद्धव्यम् । यथा सन्दिग्धविपक्षव्यावृत्तिक
साधनदोषस्तथा प्रागेवाभिहितमिति न पुनरुच्यते ॥
210
इति शब्दस्तस्मादर्थे । 1285तस्मादसर्वज्ञत्वविपर्ययाद् विपक्षात्सर्वज्ञत्वाद्, रागादिमत्त्व
विपर्ययादरागादिमत्त्वात् सन्दिग्धो व्यतिरेको वचनादेः ।1287 अतोऽनैकान्तिको वचनादिः ॥
एवमेकैकरूपादिसिद्धिसन्देहे हेतुदोषान् आख्याय द्वयोर्द्वयो रूपयोरसिद्धिसन्देहे
हेतुदोषान् वक्तुकाम1288 आह--
द्वयो रूपयोर्विपर्ययसिद्धौ विरुद्धः ॥ ८१ ॥
द्वयोरिति1289 । द्वयो रूपयोर्विपर्ययसिद्धौ सत्त्यां विरुद्धः ॥
त्रीणि च रूपाणि सन्ति । ततो विशेषज्ञाप1290नार्थमाह--
कयोर्द्वयोः ? ॥ ८२ ॥
कयोर्द्वयोरिति ॥
विशिष्टे रूपे दर्शयति--
सपक्षे सत्वस्य, असपक्षे चासत्वस्य । यथा कृतकत्वं1291 प्रयत्नानन्तरीय
कत्वं च नित्यत्वे साध्ये विरुद्धो हेत्वाभासः ॥ ८३ ॥
सपक्षे सत्त्वस्य, असपक्षे चासत्त्वस्य विपर्ययसिद्धाविति1292 सम्बन्धः । कृतकत्वमिति
स्वभावहेतुः । प्रयत्नानन्तरीयकत्व मिति कार्यहेतुः1293 । प्रयत्नानन्तरीयक1294 शब्देन हि प्रयत्ना
नन्तरं जन्म ज्ञानं च प्रयत्नानन्तरीयकमुच्यते । जन्म जायमानस्य स्वभावः । ज्ञानं ज्ञेयस्य
कार्यम् । तदिह प्रयत्नानन्तरं 1295ज्ञानं गृह्यते । 1296तेन कार्यहेतुः ।
सर्वानैकान्तिकप्रकारानुक्त्वा विरुद्धत्वाख्यं हेतुदोषमभिदधानो वार्तिककारस्याभिप्रायम्
एवमित्यादिना दर्शयति ।
व्यक्तिभेदविवक्षया हेतुदोषानिति बहुवचनेनाह ॥
विशिष्टे रूपे द्वे दर्शयति । यदि द्वावपि स्वभावहेतू तदा किं द्वयाभिधानेन ?
एकेनापि स्वभावहेतुना विरुद्धत्वस्य दर्शितत्वादित्याशङ्क्य समर्थनमाह--कृतकत्वमिति । ननु
स्वभावहेतुत्वेन प्रयत्नानन्तरीयकत्वमन्यत्र दर्शितम् । तत्कथमनेनैवमुच्यत इत्याह--प्रयत्नेति ।
हिर्यस्मात् । प्रयत्नस्य पुरुषव्यापारस्यानन्तरमव्यवहितं जन्म ज्ञानं च तद्विषयमुच्यते ।
1297
211
एतौ हेतू नित्यत्वे साध्ये विरुद्धौ हेत्वाभासौ ॥
कस्मात् पुनरेतौ विरुद्धावित्याह--
अनयोः सपक्षेऽसत्वम्, असपक्षे च सत्वमिति विपर्ययसिद्धिः1298 ॥ ८४ ॥
अनयोरिति । सपक्षे हि1299 नित्ये कतकत्वप्रयत्नानन्तरीयकत्वयोरसत्त्वमेव निश्चितम् ।
अनित्ये विपक्षे एव सत्त्वं निश्चितमिति विपर्ययसिद्धिः ॥
कस्मात् पुनर्विपर्ययसिद्धावप्येतौ विरुद्धावित्याह--
एतौ च साध्यविपर्ययसाधनाद्विरुद्धौ ॥ ८५ ॥
एतौ च साध्यस्य नित्यत्वस्य विपर्ययम्--अनित्यत्वं साधयतः । ततः1300 साध्यविपर्यय
साधनाद्विरुद्धौ ॥
यदि साध्यविपर्ययसाधनाद्विरुद्धावेतौ, उक्तं च परार्थानुमाने साध्यम्, न त्वनुक्तम्;
इष्टं च अनुक्तम् । अतोऽन्य इष्टविघातकृदाभ्यामिति दर्शयन्नाह--
1301ननु च तृतीयोऽपीष्टविघातकृद् विरुद्धः ॥ ८६ ॥
ननु च तृतीयोऽपि विरुद्ध उक्तः1302 । उक्तविपर्ययसाधनौ द्वौ । तृतीयोऽयमिष्टस्य
शब्देनानुपात्तस्य 1303विघातं करोति विपर्ययसाधनादिति इष्टविघातकृत् ॥
तमुदाहरति--
यथा परार्थाश्चक्षुरादयः सङ्घातत्वाच्छयनासनाद्यङ्गवदिति ॥ ८७ ॥
ननु प्रयत्नानन्तरीयकत्वशब्द उपात्तस्तत्किंप्रयत्नानन्तरीयकशब्दस्यार्थ उच्यत
इत्याह--प्रयत्नानन्तरीयकत्वमिति प्रयत्नानन्तरीयकत्वशब्देनापि तदेवोक्तं वस्तुत इत्यर्थः । तेन
शब्देन द्वयस्याभिधाने कदा स्वभावस्याभिधानं कदा कार्यस्येत्याशङ्क्य जन्मेत्यादिना विभजते ।
यतो ज्ञानस्याप्यभिधानं तत्तस्मादिह विरुद्धोदाहरणप्रक्रमे ।
अनुपलम्भस्त्वनयोरेवान्तर्भूतत्वान्न पृथगुपदर्शितः । एतयोरुदाहृतयोरेव सोऽपि सुज्ञान
इति भाव उन्नेयः ।
लक्ष्यते चायमाचार्यंस्याशयः--सपक्षावृत्तौ सत्यां व्याप्त्याऽव्याप्त्या वा विपक्षवृत्तो यथेति । चक्षुरादय इति धर्मी । परोऽर्थः प्रयोजनं 1304परार्थः प्रयोजकः संस्कार्य कथमयमिष्टविघातकृदित्याह-- तदिष्टासंहतपारार्थ्यविपर्ययसाधनाद्विरुद्धः ॥ ८८ ॥ तदिष्टासंहतपारार्थ्यविपर्ययसाधनादिति । असंहते विषये पारार्थ्यमसंहतपारार्थ्यम् ।1308 आत्मा अस्ति इति ब्रुवाणः सांख्यः कुत एतद् इति पर्यनुयुक्तो बौद्धेनेदमात्मनः सिद्धये
विरुद्ध एवेति दर्शयितुमुभयोपादानम् । अन्यथा कृतकत्वमात्रे प्रदर्शिते सपक्षावृत्तौ विपक्षव्यापक
एव यः स विरुद्धो न तु प्रयत्नानन्तरीयकवद् यो विपक्षव्यापीति शङ्का स्यात् । तथा
212
उपकर्त्तव्यो येषां ते परार्थाः-इति साध्यम् । संघातत्वात् सञ्चितरूपत्वादिति हेतुः । चक्षुरादयो
हि परमाणुसञ्चिति1305रूपाः । ततः संघातरूपा उच्यन्ते । शयनमासनं चादिर्यस्य तच्छयना
सनादि । तदेवाङ्गं पुरुषोपभोगाङ्गत्वात् । अयं व्याप्तिप्रदर्शनविषयो दृष्टान्तः । अत्र हि
पारार्थ्येन संहतत्वं1306 व्याप्तम् । यतः 1307शयनासनादयः संघातरूपाः पुरुषस्य भोगिनो भवन्त्यु
पकारका इति परार्था उच्यन्ते ॥
तस्य सांख्यस्य वादिन इष्टमसंहतपारार्थ्यं तदिष्टासंहतपाराथ्यंम् । तस्य विपर्ययः संहत
पारार्थ्यं नाम । तस्य साधनाद् विरुद्धः ।
प्रमाणमाह । तस्मादसंहतस्यात्मन उपकारकत्वं साध्यं चक्षुरादीनाम् । अयं तु हेतुर्विपर्यय
व्याप्तः । यस्माद्यो यस्योपकारकः स तस्य जनकः । जन्यमानश्च युगपत्1309 क्रमेण वा
भवति1310 संहतः । तस्मात् परार्थाश्चक्षुरादयः1311 संहतपरार्था इति सिद्धम् ॥
प्रयत्नानन्तरीयकत्वमात्रे प्रदर्शिते सपक्षावृत्तावव्याप्त्यैव यो विपक्षे वर्त्तते स एव विरुद्धो नान्य
इति शङ्का स्यात्, एतावतापि 72b विपर्ययसिद्धेरुपपत्तेः । यदि तु कार्यहेतुरुदाहृत
इत्युच्यते, तदानुपलब्धिरप्युदाहर्त्तव्या स्यात् । न च तस्यास्तत्रान्तर्भावान्नोदाहरणमिति युक्तम्,
अन्वयादिप्रदर्शनेऽपि अनुदाहरणप्रसङ्गात् । एवं धर्मोत्तरेण कथं न व्याख्यातमिति न प्रतीमः ॥
अर्थशब्दः प्रयोजने वृत्तस्तस्य च प्रयोजयतीति व्युत्पत्त्या प्रयोजकशब्दाभिलप्यत्वमित्यभि
प्रेत्य परार्थः प्रयोजक इत्युक्तः । परस्मिन्नर्थः प्रयोजनं येषामिति गमकत्वाद् व्यधिकरण
बहुव्रीहौ तु सर्वं समञ्जसं केवलमनेन तथा न व्याख्यातमिति न विद्मः । अङ्गं निमित्तम् ।
कस्य तदङ्गमित्युच्यत इत्याह--पुरुषेति ॥
क्रमेण युगपद् वाऽपि द्वेधाप्यसंहतं द्रष्टव्यम् ।
कुतः पुनरसंहतविषयं पारार्थ्यमिष्टं सांख्यस्याख्यायत इत्याशङ्क्याह आत्मेति । असंहतो
पकारकत्वं तावच्चक्षुरादीनां तेनैषितव्यमन्यथाऽऽत्माऽसिद्धेः । यच्च तदसंहतरूपं स एवा
त्मेत्यभिप्रायेणोक्तमसंहतस्यात्मन इति ॥
213
अयं च विरुद्ध आचार्यदिङ् नागेनोक्तः--
स 1312इह कस्मान्नोक्तः ॥ ८९ ॥
स कस्माद् वार्त्तिककारेण सता त्वया नोक्तः ? इतर1313 आह--
अनयोरेवान्तर्भावात् ॥ ९० ॥
अनयोरेव साध्यविपर्ययसाधनयोरन्तर्भावात् ।
ननु चोक्तविपर्यपं न साधयति । तत् कथमुक्तविपर्ययसाधनयोरेवान्तर्भाव इत्याह--
न ह्ययमाभ्यां साध्यविपर्ययसाधनत्वेन भिद्यते ॥ ९१ ॥
न ह्ययमिति । हीति यस्मादर्थे । यस्माद् अयमिष्टविधातकृदाभ्यां हेतुभ्यां साध्य
विपर्ययस्य1314 साधनत्वेन न भिद्यते । यथा तौ साध्यविपर्ययसाधनौ तथाऽयमपीति । उक्त
विपर्ययं तु साधयतु1315 वा मा वा किमुक्तविपर्ययसाधनेन । तस्मादनयोरेवान्तर्भावः ॥
ननु चोक्तमेव साध्यं1316 तत् कथं साध्यविपर्ययसाधनत्वेनाभेद इत्याह--
नहीष्टोक्तयोः साध्यत्वेन कश्चिद्विशेष इति ॥ ९२ ॥
न हीति यस्मादिष्टोक्तयोः 1317परस्परस्मात् साध्यत्वेन न कश्चिद्विशेषो भेद इति ।
तस्मादनयोरेवान्तर्भाव इत्युपसंहारः ।
प्रतिवादिनो हि यज्जिज्ञासितं तत् प्रकरणापन्नम् । यच्च प्रकरणापन्नं तत् साधनेच्छया
विषयीकृतं साध्यमिष्टमुक्तमनुक्तं वा, न तूक्तमात्रमेव साध्यम् । तेनाविशेष इति ॥
द्वयो रूपयोरेकस्यासिद्धावपरस्य च सन्देहेऽनैकान्तिकः ॥ ९३ ॥
द्वयो रूपयो1318 र्विपर्ययसिद्धौ विरुद्ध उक्तः । 1319तयोस्तु द्वयोर्मध्य एकस्यासिद्धौ, अपरस्य
च सन्देहेऽनैकान्तिकः ॥
इतर इति चोदकादन्यो वार्तिककार इत्यर्थात् ।
नह्यक्तविपर्ययसाधकत्वेन विरुद्ध उच्यते । किन्तर्हि ? साध्यविपर्ययसाधकत्वेन ।
तस्मात् किमुक्तविपर्ययसाधनेनेत्युक्तम् ॥
तमेव साध्यत्वेनाभेदं साधयन्नाह--प्रतिवादिनो हीति । हिर्यस्मादर्थे । तेन साध्येच्छया
विषयीकृतमात्रस्य साध्यत्वेनाविशेषोऽभेदः ॥
214
कीदृशोऽसावित्याह--
यथा वीतरागः 1320कश्चित् सर्वज्ञो वा, वक्तृत्वादिति1321 । व्यतिरेको
ऽत्रासिद्धः । सन्दिग्धोऽन्वयः ॥ ९४ ॥
यथेति । विगतो रागो यस्य स वीतराग इत्येकं साध्यम् । सर्वज्ञो वेति द्वितीयम् ।
वक्तृत्वादिति हेतुः । व्यतिरेकोऽत्रासिद्ध इति । स्वात्मन्येव सरागे चासर्वज्ञे च विपक्षे
वक्तृत्वं दृष्टम् । अतोऽसिद्धो व्यतिरेकः । सन्दिग्धोऽन्वयः ॥
कुत इत्याह--
सर्वज्ञवीतरागयोर्विप्रकर्षाद्वचनादेस्तत्र सत्त्वमसत्त्वं वा सन्दिग्धम् ॥ ९५ ॥
सपक्षभूतयोः सर्वज्ञवीतरागयोर्विप्रकर्षादित्यतीन्द्रियत्वाद् वचनादेरिन्द्रियगम्यस्यापि तत्र
अतीन्द्रिययोः सर्वज्ञत्ववी 1322 तरागयोः सत्त्वमसत्त्वं वा सन्दिग्धम् । ततश्च न ज्ञायते किं
बक्तृत्वात् सर्वंज्ञ उत नेत्यनैकान्तिकं इति ॥
सम्प्रति द्वयोरेव सन्देहेऽनैकान्तिकं वक्तुमाह--
अनयोरेव द्वयो रूपयोः सन्देहेऽनैकान्तिकः ॥ ९६ ॥
अनयोरेव--अन्वय-व्यतिरेकरूपयोः सन्देहात् संशयहेतुः ।
उदाहरणम्1323--
यथेति1326 । सहात्मना वर्त्तंते सात्मकमिति साध्यम् । शरीरमिति धर्मी । जीवद्ग्रहणं
धर्मिविशेषणम् । मृते ह्यात्मानं नेच्छति ।
प्राणाः 1327श्वासादय आदिर्यस्योन्मेषनिमेषादेः प्राणिधर्मस्य स प्राणादिः । स यस्यास्ति
तत् प्राणादिमत् जीवच्छरीरम् । तस्य भावस्तत्त्वम् । तस्मादित्येष हेतुः । अयमसाधारणः
संशयहेतुरुपपादयितव्यः ॥
जीवत्प्राणान् धारयच्च तच्छरीरं चेति विग्रहः । उन्मेषश्चक्षुर्विकाश आदिर्यस्य निमेषा
देस्तस्य प्राणिधर्मस्य जीवधर्मस्य । असाधारणः सपक्षविपक्षावृत्तेः । विवादाध्यासितस्यैव
धर्मिणो धर्म इत्यर्थः । असाधारणत्वादेव संशयहेतुरिति हेतुभावेन विशेषणम् ॥
215
पक्षधर्मस्य च द्वाभ्यां कारणाभ्यां संशयहेतुत्वम् । संशयविषयौ यावाकारौ ताभ्यां
सर्वस्य वस्तुनः संग्रहात् । तयोश्च व्यापकयोराकारयोरेकत्रापि वृत्त्यनिश्चयात् । 1328याभ्यां
ह्याकाराभ्यां सर्वं वस्तु न संगृह्यते तयोराकारयोर्न संशयः । प्रकारान्तरसम्भवे हि पक्षधर्मो
धर्मिणमवियुक्तं द्वयोरेकेन धर्मेण दर्शयितुं न शक्नुयात् । अतो न संशयहेतुः स्यात् ।
द्वयोर्धर्मयोरनियतं भावं दर्शयन् संशयहेतुः । द्वयोस्त्वनियतमपि भावं दर्शयितुमशक्तो1329ऽप्रतिपत्ति
हेतुः । नियतं तु1330 भावं दर्शयन् 1331सम्यग् हेतुर्विरुद्धो वा स्यात् । तस्माद् 1332याभ्यां सर्वं वस्तु
संगृह्यते तयोः1333 संशयहेतुर्यदि तयोरेकत्रापि सद्भावनिश्चयो न स्यात् । सद्भावनिश्चये तु
यद्येकत्र नियतसत्तानिश्चयो1334 हेतुर्विरुद्धो वा स्यात् । अनियतसत्तानिश्चये तु साधारणानैकान्तिकः,
सन्दिग्धविपक्षव्यावृत्तिकः, सन्दिग्धान्वयोऽसिद्धव्यतिरेको वा स्यात् । एकत्रापि तु
कथं पुनरयं संशयहेतुरुत्पादयितुं शक्यते यावता नास्मात्सात्मकत्वस्यानात्मकत्वस्य
वा प्रतिपत्तिर्जायते । ततोऽप्रतिपत्तिरेवासाधारण इत्युद्द्योतकरमतमाशङ्क्य यत्र 1335
हीत्युक्तं वार्तिककृता तदवतारयितुं भूमिकां रचयन्नाह--पक्षधर्मस्येति । चो यस्मादर्थे ।
पक्षस्य धर्मस्य सतो द्वाभ्यां कारणाभ्यां निमित्ताभ्याम् । सर्वस्य निःशेषस्य संग्रहाज्ज्ञापनात् ।
तयोर्व्यापकयोराकारयोः सात्मकत्वानात्मकत्वाख्ययोर्विषयभूतयोरेकत्रापि विषयेऽनिश्चयात्तस्य
पक्षधर्मस्येत्यर्थात् ।
ननु संशय्यमानयोराकारयोः सर्ववस्तुव्यापनेन किं ? येन तथात्वं तयोरुपवर्ण्यत
इत्याह--याभ्यामिति । हीति यस्मात् । कथं पुनस्तयोराकारयोर्न संशय इत्याह--प्रकारान्तरेति ।
हिर्यस्मादर्थे । पक्षधर्मः सन् धर्मिणं तं पक्षं द्वयोरेकेन धर्मेण सात्मकत्वाख्येन
अनात्मत्वाख्येन वा । अवियुक्तं युक्तं सम्बद्धमिति यावत् । न शक्नोति दर्शयितुं प्रकारान्तरेण
सम्बन्धस्य तस्य सम्भवात् । यत एवमतः स पक्षधर्मो न संशयहेतुः स्यात् । तयोराकारयोरिति
सामर्थ्यात् ।
अथ कथं सात्मकत्वानात्मकत्वे द्वौ धर्मौ दर्शयन्नपि संशयहेतुरुच्यत इत्याह--द्वयोरिति ।
दर्श73a यन्निति हेतौ शतुर्विधानादनियतभावप्रदर्शनादित्यर्थो बोद्धव्यः ।
ननु नियताभावमदर्शयन्नप्रतिपत्तिहेतुरेवायं युज्यत इत्याह--द्वयोस्त्विति । तुशब्दो
यस्मादर्थे । नियतप्रदर्शकस्यापि किं न तथात्वमित्याह--नियतत्वं1336 त्विति । तुः पूर्ववद्
विशेषणार्थो वा । यस्मादेवं तस्माद् हेतोः ।
नियतोऽन्यत्राननुगामी सत्तानिश्चयो यस्य स तथा । विरुद्धोऽपि विपर्यये सम्यघेतु
रेवेत्येकत्र सत्तानिश्चये विरुद्धो वा स्यादित्युक्तम् ।
216
वृत्त्यनिश्चयादसाधारणानैकान्तिको भवति । ततोऽसाधारणानैकान्तिकस्यानैकान्तिकत्वे हेतुद्वयं
दर्शयितुमाह--
नहीति । सहात्मना वर्त्तते सात्मकः । निष्क्रान्त आत्मा यस्मात् स निरात्मकः ।
1340ताभ्यां यस्मान्नान्यो राशिरस्ति । किंभूतः ? यत्रायं वस्तुधर्मः प्राणादिर्वर्त्तेत ? तस्मादयं
1341तयोर्भवति संशयहेतुः ॥
कस्मादन्यराश्यभाव इत्याह--
आत्मनो वृत्तिः सद्भावो व्यवच्छेदोऽभावः । ताभ्यां सर्वस्य वस्तुनः संग्रहात् क्रोडी
करणात् । यत्र ह्यात्मा अस्ति तत् सात्मकम् । 1344अन्यन्निरात्मकम् । ततो नान्यो राशिरस्ति—
1345इति संशयहेतुत्वकारणम् ॥
यदैकत्रैव सत्तानिश्चयो विरुद्धो वा स्यादित्युक्तम्, यदैकत्रैव सत्तानिश्चयो नास्ति तदा
का वार्त्तेत्याह--अनियतेति । तुर्विशेषार्थः । अनियतोऽत्रैवायं वर्त्तत इत्येवंरूपनियमशून्यो यः
सत्तानिश्चयस्तस्मिन् सति । यदोभयत्र सत्तानिश्चयस्तदा सपक्षविपक्षसाधारणत्वात्साधारणः,
यदा तु विपक्षवृत्तिसम्भावनायामनिश्चय1346सत्तानिश्चयस्तदा सन्दिग्धविपक्षव्यावृत्तिकः ।
यदा पुनः सपक्षे वृत्तिसन्देहनानियतसत्तानिश्चयस्तदा सन्धिग्धान्वयासिद्धव्यतिरेकः । यदा तु
सपक्षासपक्षयोरेकत्रापि सत्तानिश्चयो नास्ति तदा सपक्षासपक्षावृत्तेरसाधारणः । एतदेवाह—
एकत्रापीति । यतः पक्षधर्मस्योक्ताभ्यां कारणाभ्यां संशयहेतुत्वं ततस्तस्मात् दर्शयितुं
दर्शयिष्यामीति मत्त्वा ।
राशिः प्रकारः । वस्तुधर्मत्वं च प्राणादेरवस्तुनि शशविषाणादाववृत्तेः । यतो राश्य
न्तराभावस्तस्मात्कारणादयं प्राणादिमत्त्वाख्यो हेतुः । तयोः सात्मकनिरात्मकयोः ।
साधारणस्य धर्मस्य संशयहेतुत्वे द्वे कारणे । तत्रामुना नहीत्यादिना मूलेन संशयविषयाभ्या
माकाराभ्यां सर्ववस्तुसंग्रह एकं कारणमुक्तम् । नाप्यनयोरित्यादिना तु तयोरेकत्रापि
वृत्त्यनिश्चयो द्वितीयं कारणमुक्तमिति दर्शयितुमाह--संशयेति ॥
217
प्रकाराभ्यां 1347सर्ववस्तुसङ्ग्रहं प्रतिपाद्य द्वितीयमाह--
नाप्यनयोरेकत्र वृत्तिनिश्चयः ॥ १०० ॥
नाप्यनयोः सात्मकानात्मकयोर्मध्य एकत्र सात्मकेऽनात्मके1348 वा वृत्तेः सद्भावस्य
निश्चयोऽस्ति । द्वावपि राशी त्यक्त्वा न वर्त्तते प्राणादिः, वस्तुधर्मत्वात् । ततश्चानयोरेव
वर्त्तते1349 इत्येतावदेव ज्ञातम् । विशेषे तु वृत्तिनिश्चयो नास्तीत्ययमर्थः1350 ॥
तदाह--
1353सात्मकत्वेनाऽनात्मकत्वेन वा विशेषेण युक्ते प्रसिद्धे निश्चिते वस्तुनि प्राणादेर्धर्मस्य
1354सर्ववस्तुव्यापिनोः प्रकारयोरेकत्र नियतसद्भावस्यासिद्धेरनैकान्तिकः, अनिश्चितत्वात् ।
तदेवमसाधारणस्य धर्मस्यानैकान्तिकत्वे कारणद्वयमभिहितम् ॥
प्रकाराभ्यामात्मव्यवच्छेदरूपाभ्यामाकाराभ्याम् । वृत्तिः प्रवृत्तिरर्थात् भाव एवाव
तिष्ठत इत्यभिप्रायेणाह--वृत्तेः सद्भावस्येति ।
यद्येवं तयोर्न वर्त्तत इत्येव किं न स्यात् ? तथा च कथं संशयहेतुरित्याशङ्क्य
यादृशोऽस्यार्थोऽभिप्रेतस्तं स्फुटयितुमाह--द्वावपीति । कुतो न वर्त्तत इत्याह--वस्तुधर्मत्वा
दिति । प्रायादे 1355 रिति विभक्तिविपरिणामेन सम्बन्धनीयम् । वस्तुना वाऽवश्यं
सात्मकेनाऽनात्मकेन वा भाव्यमिति भावः ।
ततो वस्तुसत्त्वेन सिद्धपरित्यागेनान्यत्रावृत्तेः कारणात् । अनयोः सात्मकानात्मकयोः ।
एवकारेणान्यत्रा 1356 वृत्तिनिषेधं स्पष्टयति । इतिरेतावतः स्वरूपं दर्शयति । यदिदमनन्तरोक्त
मेतत् परिमाणं यस्य प्रमेयस्य तद् एतावद् वस्तुतत्त्वं निश्चितम् । कुतस्तर्हि नास्य वृत्ति
निश्चय इत्याह--विशेषे त्विति । विशेषे विशिष्टे प्रकारे । तुरिमामवस्थां भेदवतीमाह ।
तेन सात्मकत्व 1357 एवानात्मक एवेत्यर्थः । वृत्तेः स्वभावस्य प्राणादेरिति प्रकरणात् ।
इतिरेवमर्थे । अर्थोऽभिधेयो यस्य नाप्यनयोरेकत्र वृत्तिनिश्चयः इत्यस्य मौलस्य वाक्यस्ये
त्यर्थात् ॥
यस्मादेवमेतद् वक्तुं युज्यते, नान्यथा तत्तस्मा 73b दाह वार्त्तिककारः । किमाहेत्याह पक्षधर्मश्च भवन्1358 सर्वः साधारणोऽसाधारणो वा भवत्यनैकान्तिकः । तस्मादुपसंहार तस्माज्जीवच्छरीरसम्बन्धी प्राणादिः सात्मकादनात्मकाच्च सर्वस्माद् तस्मादित्यादिना । जीवच्छरीरस्य सम्बन्धी पक्षधर्म इत्यर्थः । यस्मात् तयोरेकत्रापि वस्तुधमे हि सर्ववस्तुव्यापिनोः प्रकारयोरेकत्र नियतसद्भावो निश्चितः प्रकारान्तरान्नि
सात्मेति । तदेवमित्यादिनोपसंहरति । एवं च व्याचक्षाणेन न मया स्वातन्त्र्येण पक्षधर्मस्ये
218
व्याजेन पक्षधर्मत्वं दर्शयति--
व्यावृत्तत्वोनासिद्धेस्ताभ्यां1359 न व्यतिरिच्यते ॥१०२॥
न निवृत्तिनिश्चयस्तस्मात् ताभ्यां न व्यतिरिच्यते ।
वर्त्तेत ।1360 अत एवाह--सात्मकादनात्मकाच्च सर्वस्माद् वस्तुनो व्यावृत्तत्वेनासिद्धेरित ।
प्राणादिस्तावत् कुतश्चिद् घटादेर्निवृत्त एव । तत एतावदवसातुं शक्यम्--सात्मकादनात्मकाद्वा
कियतो निवृत्तः । सर्वस्मात् 1361तु निवृत्तो नावसीयते । ततो न कुतश्चिद् व्यतिरेकः ॥
दिनाऽसाधारणस्य संशयहेतुत्वनिमित्तद्वयमादितो दर्शितम् । किं तर्हि ? वार्त्तिककारेणैवैतद
भिहितमिति दर्शितम् ॥
ननु चासाधारणस्य प्राणादेरनैकान्तिकत्वकारणद्वयमनन्तरोक्तमभिधीयताम् । तस्मा
दित्यादिना तु शरीरसम्बन्धित्वमस्य कस्मादाचार्यो दर्शयतीत्याशङ्कां निराचिकीर्षुः पक्ष
धर्मश्चेत्यादिनोपक्रमते । चो यस्मादर्थे । अपक्षधर्मस्त्वसिद्धत्वाख्यामन्यामेव दोषजातिमनुश्नुत
इति भावः पक्षधर्मत्वं प्रदर्शयतो वार्तिककारस्योन्नेयः । वाशब्देनानियतप्रभेदेऽनास्थां दर्शयति ।
न त्वसाधारणत्वाख्यं पक्षान्तरम्, सन्दिग्धविपक्षव्यावृत्तिकादेरसङ्ग्रहप्रसङ्गात् । यस्मादपक्ष
धर्मो नानैकान्तिक उपवर्णितेनाभिप्रायेण तस्मात्कारणात् । दर्शयति प्रकाशयति ।
केन दर्शयतीत्याकाङ्क्षायामाह--तस्मादित्यादिनेति । पक्षधर्मत्वप्रदर्शनं तु जीवच्छरीर
सम्बन्धीति वचनं द्रष्टव्यम् । तस्मादित्यनेन यस्मादित्याक्षिप्तं दर्शयन्नाह--यस्मादिति ।
एकत्रापि न वृत्तिनिश्चयस्तस्य प्राणादेरित्यर्थात् । तस्मात्कारणात् ताभ्यां सात्मकत्वानात्म
कत्वाभ्यां न व्यतिरिच्यते न निवर्त्तते, तदसंस्पर्शी न भवतीति यावत् ।
तयोरेकत्र वृत्त्यनिश्चयेऽपि कथं ताभ्यां न व्यतिरिच्यत इत्याह--वस्त्विति । हीति
यस्मादर्थे । प्रकारयोस्तद्वृत्तिव्यवच्छेदरूपयोः स्वरूपयोराकारयोरिति यावत् । तयोर्धर्म
एकत्र नियतः अत्रैवायं वर्त्तत इति नियमवान् सद्भावः सत्त्वं यस्य स तथा । प्रकारान्तरा
न्नियतसद्भावविषयादन्यस्मादाकारात् । निवर्त्तेत निवर्तितुमर्हति, तन्न संस्पृशेदिति यावत् ।
एकत्र वृत्त्यनिश्चयाच्च नायं तथेत्यभिप्रायः ।
यत एवमेतद् भवति, न चायं प्राणादिस्तथा, अत एवाहाचार्यः । किमाहेत्याह—
सात्मकादित्यादि । सर्वस्मादिति प्रत्येकं सम्बद्ध 1362 व्यम् ।
219
यद्येवमन्वयोऽस्तु तयोर्निश्चित इत्याह--
न1363 तत्रान्वेति ॥ १०३ ॥
न1364 तत्र सात्मकेऽनात्मके वाऽर्थेन्वेति--अन्वयवान् प्राणादिः ॥
कुत इत्याह--
एकात्मन्यप्यसिद्धेः ॥ १०४ ॥
1365एकात्मन्यपीति । एकात्मनि सात्मकेऽनात्मके वाऽसिद्धेः कारणात् । वस्तुधर्मतया
तयोर्द्वयोरेकत्र1366 वा वर्त्तत इत्यवसितः प्राणादिः । न तु सात्मक एव निरात्मक एव वा
वर्त्तत इति कुतोऽन्वयनिश्चयः ॥
ननु च प्रतिवादिनो न किञ्चत् सात्मकमस्ति । ततोऽस्य हेतोर्न सात्मकेऽन्वयो1367 न
व्यतिरेक1368 इत्यन्वयव्यतिरेकयोरभावनिश्चयः सात्मके, न तु सद्भावसंशय इत्याशङ्क्याह--
नापि 1369सात्मकादनात्मकाच्च तस्यान्वयव्यतिरेकयोरभावनिश्चयः ॥ १०५ ॥
ननु घटपटादेरनेकस्मात्प्राणादिर्निवर्त्तमानो दृष्टस्तत्कथं तस्य व्यावृत्तत्वेनासिद्धि
रित्याह--प्राणादिरिति । ततः सर्वस्मात् सात्मकादनात्मकाच्च निवृत्त्यनवसायात् । कुतः ?
सात्मकादनात्मकाच्च प्रतिबन्धासिद्धेरिति चात्र सर्वत्राभिप्रायः ।
ननु किमुच्यते न कुतश्चिदिति ? यावता निरात्मकादेव व्यतिरेकोऽस्यावसातुं शक्यः,
बौद्धेन घटादेर्निरात्मकत्वेनेष्टत्वादिति चेत् । यद्येवं जीवच्छरीरमपि बौद्धेन तथात्वेनेष्टमिति
तस्यापि तथात्वं किन्न भवेत् । अभ्युपगमेन च सात्मकानात्मके विभज्य हेतुं कथयता गमिकत्व
मिति यत्किञ्चिदेतत् ॥
तयोरिति विषयसप्तमी । तस्य प्राणादेरिति च शेषः ॥
ननु वस्तुधर्मेण तेनावश्यं क्वापि नियतेन भाव्यम् । तत्कथमन्वयाभाव इत्याह—
वस्तुधर्मतयेति । न चानियतवृत्तिनिश्चयोऽन्वयो नामेति भावः ।
ननु चासाधारणत्वान्निरात्मकेऽन्वयनिश्चयो मा भूद् । व्यतिरेकनिश्चयस्त्वस्तु, निरात्मके
घटादौ प्राणादेरदर्शनादिति चेत् । न । तस्यैव 74a शरीरस्य निरात्मकत्वसम्भावनायां
सर्वस्मान्निरात्मकान्निवृत्तिनिश्चयाभावात् । न च तथानिश्चयनिमित्तं प्रतिबन्धनिश्चयोऽ
ऽस्तीति ॥
220
नापि सात्मकाद् वस्तुनः तस्य प्राणादेरन्वयव्यतिरेकयोरभावनिश्चयः । नापि च
निरात्मकात् । सात्मकादनात्मकादिति च पञ्चमी व्यतिरेकशब्दापेक्षया द्रष्टव्या ॥
कथमन्वयव्यतिरेकयोर्नाभावनिश्चय इत्याह--
एकस्यान्वयस्य व्यतिरेकस्य वा योऽभावनिश्चयः 1372सोऽपरस्य द्वितीयस्य 1373भावनिश्चय
नान्तरीयकः 1374भावनिश्चयस्याव्यभिचारी । तस्य भावस्तत्त्वं तस्मात् । यत एकाभावनिश्चयो
ऽपरभावनिश्चय1375 नान्तरीयकः, तस्मान्न द्वयोरेकत्राभावनिश्चयः ॥
कस्मात् पुनरेकस्याभावनिश्चयोऽपरसद्भावनिश्चयाऽव्यभिचारीत्याह--
1376अन्वय-व्यतिरेकयोरन्योन्यव्यवच्छेदरूपत्वात् । 1377तत एवान्वय
व्यतिरेकयोः सन्देहादनैकान्तिकः ॥ १०७ ॥
अन्वयव्यतिरेकयोरन्योन्यव्यवछेदरूपत्वादिति । अन्योन्यस्य व्यवच्छेदोऽभावः, स
एव रूपं ययोस्तयोर्भावस्तत्त्वम् तस्मात् कारणात् ।
अन्वयव्यतिरेकौ भावाभावौ । भावाभावौ च परस्परव्यवच्छेदरूपौ । यस्य व्यवच्छेदेन
यत् परिच्छिद्यते तत् तत्परिहारेण व्यवस्थितम् । स्वाभावव्यवच्छेदेन च भावः परिच्छिद्यते ।
तस्मात् स्वाभावव्यवच्छेदेन भावो व्यवस्थितः । अभावो हि नीरूपो यादृशो विकल्पेन
दर्शितः । नीरूपतां च व्यवच्छिद्य रूपमाकारवत् परिच्छिद्यते । तथा च सत्यन्वयाभावो
व्यतिरेकः, व्यतिरेकाभावश्चान्वयः ।
ततोऽन्वयाभावे निश्चिते व्यतिरेको निश्चितो भवति । व्यतिरेकाभावे च निश्चिते
ऽन्वयो निश्चितो भवति ।
ननु चेत्यादि तस्मात्कारणादित्येतदन्तं स्पष्टार्थ तेन न व्याख्यायते ।
अन्योन्यव्यवच्छेदरूपत्वमेवान्वयव्यतिरेकयोः कथमित्याशङक्याह--अन्वयव्यतिरेका
विति । अभावरूपत्वञ्च व्यतिरेकस्य प्रतीतिसिद्धस्य बोद्धव्यम् । भवतां तौ तथारूपौ
किमत इत्याह--भावाभावाविति । चो यास्मादर्थे । भवत्वेवं तथापि कथं तयोरन्योन्यपरि
हारेणावस्थानमित्याह--यस्येति ।
नन्वत्र कस्य व्यवच्छेदेन किं परिच्छिद्यते येन तत्परिहारेहण तद् व्यवतिष्ठत इत्याह— तस्माद् यदि नाम सात्मकमवस्तु निरात्मकं च वस्तु, तथापि 1379तयोर्न प्राणादेरन्वय न च प्रतिवाद्यनुरोधात् सात्मकानात्मके वस्तुनी सदसती । किन्तु प्रमाणानुरोधाद् । यत एव क्वचिदन्वय-व्यतिरेकयोर्न भावनिश्चयो 1384नाप्यभावनिश्चयः, तत एवान्वय यदि तु क्वचिद1385 प्यन्वय-व्यतिरेकयोरेकस्याप्यभावनिश्चयः स्यात्, स एव द्वितीयस्य
स्वाभावेति । हेत्वर्थश्चकारः । तावत्कासा 1378 वभावो नाम यद्व्यवच्छेदेन भावः
221
व्यतिरेकयोरभावनिश्चयः । एकत्र1380 वस्तुन्येकस्य1381 वस्तुनो युगपद्भावाभावविरोधात्
तयोरभावनिश्चयायोगात्1382 ।
इत्युभे सन्दिग्धे । ततस्तयोः प्राणादिमत्त्वस्य सदसत्त्वसंशयः ।1383
व्यतिरेकयोः सन्देहः ।
भावनिश्चय इत्यन्वयव्यतिरेकसन्देह एव न स्यात् । यतश्च1386 न क्वचिद्भावाभावनिश्चयस्तत
एवान्वयव्यतिरेकयोः सन्देहः । सन्देहाच्चानैकान्तिकः1387 ॥
परिच्छिद्यत इत्याह--तथा चेति नीरूपताव्यवच्छेदेन रूपस्य प्रतिष्ठिताकारवतः परिच्छेदप्रकारे
सति । ततोऽन्योन्याभावरूपत्वादनयोः ।
ननु बौद्धानां सात्मकं नाम नास्त्येवेत्यवस्तु । सन्मात्रं तु निरात्मकमतो वस्तु । तत्र
वस्तुनिनिरात्मको1388 हेतोरन्वयव्यतिरेकयोरभावनिश्चयो मा भूत्सात्मके त्ववस्तुनि स कथं
न स्यादित्याशङ्क्योपसंहारव्याजेनाह तस्मादिति । यस्माद् विधिप्रतिषेधयोरेकप्रतिषेधोऽपर
विधिनान्तरीयकस्तस्मात् । कथं न भावनिश्चयस्तयोरित्याशङक्योपपत्तिमाह--एकत्रेति ।
तयोरन्वयव्यतिरेकयोर्भावाभावात्मनोरभावनिश्चयस्यायोगादनुपपत्तिः । कथमयोग इत्याह—
एकस्येति । कालभेदे किं न युज्यते इत्याह--युगपदिति ।
इदं च प्रतिवाद्यभ्युपगमबलात्सात्मकानात्मकयोः । सदसत्त्वमभ्युपगम्योक्तम् । तदेव तु
न युज्यत इति दर्शयन्नाह--न चेति । चो वक्तव्यान्तरसमुच्चये । प्रकरणादिह प्रतिवादी
बौद्धस्तदनुरोधवशादिष्ट्यनिष्टिवशात्सात्मकमसन्निरात्मकं सदिति यथायोगं योजनीयम् ।
एवं ह्यवास्तवमनुमानं स्यात् न वस्तुबलप्रवृत्तमिति भावः । यद्येवं ते सदसती न भवतः कथं
नामेत्याह--किन्त्विति । प्रमाणं चेदं नियतं वर्त्तते । आत्मन्येव च विवादवृत्तेरन्याऽपि
1389 सात्मकत्वमनात्मकत्वेन 1390 व्यवतिष्ठत इति भावः । इतिस्तस्मात् ।
उभे सात्मकत्वानात्मकत्वे । यत एवं ततः कारणात्सात्मकानात्मकयोः सदसत्त्वयोः संशयः ।
कस्येत्याकाङ्क्षायामुक्तम्--प्राणादिमत्त्वस्येति ।
222
कस्मादनैकान्तिक इत्याह1391--
साध्येतरयोरतो निश्चयाभावात् ॥१०८॥
साध्यस्य, इतरस्य च विरुद्धस्य अतः--सन्दिग्धान्वययतिरेकान्निश्चयाभावात् ।
सपक्षविपक्षयोर्हि सदसत्त्वसन्देहे न साध्यस्य न विरुद्धस्य सिद्धिः1392 । न च सात्मकानात्मकाभ्यां1393
परः प्रकारः संभवति । ततः प्राणादिमत्त्वाद् धर्मिणि जीवच्छरीरे संशय आत्मभावा
भावयोरित्यनैकान्तिकः प्राणादिरिति ॥
अस्तु सदसत्त्वसंशयोऽन्वयव्यतिरेकनिश्चयस्तु किन्न भवतीत्याह--यत इति । न भावनिश्चयो
नाभावनिश्चय इत्येकत्र सात्मकेऽनात्मके वेति द्रष्टव्यम् । सात्मकेऽनात्मके वा प्राणादेः
सदसत्त्वनिश्चयाभावादेवान्वयव्यतिरेकयोः सन्देहो नान्यथेति प्रतिपादयितुमाह--यदि त्विति ।
तुरिमामवस्थां भेदवतीमाह ।
उक्तमेवोपसंहरन्नाह--यतश्चेति । चोऽवधारणे । तस्मात् सन्देहात् अनैकान्तिकः
प्राणादिमत्त्वाख्यो हेतुरिति प्रकरणात् ॥
सन्दिग्धावन्वयव्यतिरेकौ यस्य तत्तथा, तस्मात्साध्यस्य विरुद्धस्य वा निश्चयाभावात् ।
सपक्षेत्यादि74b नैतदेव समर्थयते । हिर्यस्मात् । सपक्षविपक्षयोर्विषयभूतयोर्हेतोः सदसत्त्व
सन्देहे न साध्यस्यानुमित्सितस्य विरुद्धस्य विपर्ययस्य सिद्धिर्निश्चयः । विरुद्धोऽपि विपर्यये
सम्यग्धेतुरित्यभिप्रायेणेदमुक्तम् ।
न चेत्यादि प्राणादिरित्यन्तं सुगमम् ।
ईदृश एव चासाधारणो हेतुः कैश्चिन्नैयायिकैरनुपसंहार्य इत्युक्तम् । ततोऽनुपसंहार्योऽयं
हेत्वाभास इति शब्दश्रवणार्थ...साहः करणीयः ।
उद्द्योयकरस्तु श्रावणत्वाख्येऽसाधारणहेतावाचार्यदिग्नागेन दर्शित इदमवादीत्—
यद्येतच्छ्रावणत्वं नित्यानित्ययोर्दृष्टं स्याज्जनयेत्तयोः संशयमूर्ध्वत्वमिव स्थाणुपुरुषयोः । न
च दृष्टम् । तस्मान्नायं संशयहेतुरपि त्वप्रतिपत्तिहेतुरेव । अथ श्रावणत्वं वस्तुधर्मः । वस्तुना
नित्येन भाव्यमनित्येन वा प्रकारान्तराभावात् । न च तयोरेकत्रापि दृष्टम् । अतस्तयोः
संशयं करोति । तर्हि वस्तुधर्मत्वात् संशयो न श्रावणत्वादिति । तुल्यन्यायतयाऽत्राप्य
साधारणे तदीयमिदमीदृशं चर्चितमासज्यत एवेति कथमयं संशयहेतुरुपपादयितव्यः इति
साधूक्तं तेन । केवलं गमकरूपविवेचने समीचीनमनो न प्रहितम् । यतो वस्तुधर्मत्वं श्रावण
त्वस्य नित्याकारसंस्पर्शिज्ञानजनने निबन्धनम् । न तु तस्मादेव वस्तुधर्मादुभयाकारसंस्पर्शी
प्रत्ययो दोलायते न च यद्यस्य प्रतिपत्तिकारणे कारणम् तत एव सा प्रतिपत्तिः, न तु तस्मादिति
शक्यते वक्तुम् । तदुत्पत्तेरग्निप्रतिपत्तिर्न तु धूमादित्यस्याभिधानप्रसङ्गात् ।
223
किञ्चैवं प्रमेयत्वादेरपि न संशयः स्यात् । शक्यते हि तत्रापि वक्तुमुभयत्र दर्शनात्
संशयो न प्रमेयत्वादिति । अथ तस्य तावदुभयत्र दर्शनं तेन तस्मादुच्यते । यद्येवं वस्तुधर्म
त्वमपि श्रावणत्वस्यैवेति कथं न तस्मादसौ । अपि चोर्ध्वत्वमपि यद्यपि स्थाणुपुरुषयोरपि
दृष्टं तथापि तावत्तत्रान्तरेणात्रैव भविष्यतीति पर्यनुयोगे सतीदमेव वाच्यम्--यदुतोर्ध्वत्वं नाम
वस्तुधर्मः । वस्तुना चैवंविधिः--स्थाणुना पुरुषेण वाऽवश्यं भाव्यमिति । तथा च वस्तुधर्मादेव
संशयो नोर्ध्वत्वादित्यनिष्टापादनं--केन निराक्रियेतेत्यलं विस्तरेण ।
साधनस्य सिद्धेर्यन्नाङ्गमसिद्धो विरुद्धोऽनैकान्तिको हेत्वाभासः । तस्यापि वचनं वादिनो
निग्रहस्थानमसमर्थोपादानात् । तस्मादेवंविधो हेत्वाभासः स्वयमप्रयोज्यः परप्रयुक्तश्चावश्य
मुद्भावयितव्य इति हेत्वाभासव्युत्पादने वार्त्तिककारस्याभिप्रायो बोद्धव्यः ।
स्यादेतत्--असमर्थंविशेषणोऽसमर्थविशेष्यश्चास्ति प्रभेदः । यथाऽनित्यः प्रमेयत्वे
सति कृतकत्वात् । अत्र कृतकत्वं विशेष्यमेव साध्यसिद्धौ समर्थम्, न तु प्रमेयत्वं विशेषण
मित्यसमर्थं विशेषणम्, यत्र विशेष्यमेव समर्थमिति कृत्वा भवत्यसमर्थविशेषणो हेतुः ।
यञ्च 1394 नित्यः शब्दः कृतकत्वे सति प्रमेयत्वादिति । अत्र हि कृतकत्वं विशेषणमेव
साध्यसिद्धौ समर्थम्, न तु प्रमेयत्वं विशेष्यमित्यसमर्थं विशेष्यम् । यत्र हि विशेषणमे 75a व
समर्थमिति कृत्वा भवत्ययमसमर्थविशेष्यो हेतुः । शेषमुभयीविधास्वन्तर्भाव्यताम् । न तावद
सिद्धे, द्वयोरपि धर्मिणि सिद्धेः । न च विरुद्धे, विपर्ययव्याप्त्यभावात् । नाप्यनैकान्तिके कृतक
त्वविशिष्टप्रमेयत्वस्य प्रमेयत्वविशिष्टकृतकत्वस्य च साध्याऽव्यभिचारात् । तस्मादसिद्धत्वा
देरन्य एवायं हेतुदोषप्रकारः प्राप्त इति ।
तदेतदवद्यम्, हेत्वदोषात् । यदि ह्येवमयं प्रयुक्तो हेतुर्द्विष्येत् 1395 तदाऽस्यामीषु
हेतुराशिष्वन्तर्भावश्चिन्त्येत, अन्यो वा हेतुदोषोऽभ्युपगम्येत । यावता नैवमयं प्रयुक्तोऽन्यथेति
साध्यसाधनादिति । न तर्ह्येवं वादी निगृह्यत इति चेत् । किं न निगृह्यते, असाधनाङ्ग
वचनात् ? उभयत्रापि साध्यसिद्ध्यनङ्गस्य प्रमेयत्वस्यासमर्थस्याभिधानात् । यथा च
साध्यसिद्ध्यनङ्गस्य वचने निग्रहोऽवश्यम्भावी, अनिग्रहे वा दोषः, तथा वादन्यायेऽवादीन्न्या
वादीति ततस्तदपेक्षितव्यः । ततोऽयमर्थो वक्तृदोष एव न हेतुदोषः । तेनानन्तर्भावेऽपि न
हेत्वाभासानुषङ्ग इति ।
भवतु तावदत्रेयं गतिः । सिद्धसाधने तु साधने किं भविष्यति ? न तावत् सिद्धसाधनं
साधनमसिद्धत्वाद्यन्यतमदोषदूषितं साध्यसाधनसामर्थ्याप्रच्युतेरिति ।
अत्रोच्यते--इह हेतुर्द्वेधा दुष्यति । कश्चिदसामर्थ्यात्, अपरो वैयर्थ्यात् । तत्रासामर्थ्य
एव दोषो वार्त्तिककारेणाऽनन्तरोक्तेन क्रमेण त्रिधा दर्शितः । न तु वैयर्थ्यलक्षणः । सिद्ध
साधनं तु वैयर्थ्यलक्षणोऽन्य एवायं हेतोः स्वगतो दोष इति कस्मादस्यान्तर्भावश्चिन्तनीयः ?
यदाहाचार्यः--अन्यथानिष्ठं1396भवेद् विफलमेव वा । तथा न साध्यत्वे वैकल्याद्
इत्यादीति ।
वक्तृदोष एवैष इत्यपि वार्त्ता, यथायोगं परिपूर्णसाधनरूपाभिधानादनुपयुक्तानभि त्रयाणां रूपाणामसिद्धौ1398 सन्देहे च1399 हेतुदोषानुपपाद्योपसंहरन्नाह-- 1400एवमेषां त्रयाणां रूपाणामेकैकस्य र्द्वयोर्द्वयोर्वा रूपयोरसिद्धौ संदेहे एवमित्यनन्तरोक्तेन क्रमेण । एषां मध्य एकैकं रूपं 1402यदाऽसिद्धं सन्दिग्धं वा1403 भवति, विरुद्धाव्यभिचार्यपि संशयहेतुरुक्तः । स इह कस्मान्नोक्तः ? ॥ ११० ॥ ननु चाऽऽचार्येण विरुद्धाव्यभिचार्यपि संशयहेतुरुक्तः । हेत्वन्तरसाधितस्य 1406विरुद्धं
धानाच्च वक्तुरदुष्टत्वात् । वक्ताऽयं हेतुनिश्चितो 1397ऽर्यप्रयुक्तो वैयर्थ्यमनुभवति । न तु 224
वा1401 यथायोगमसिद्धविरुद्धानैकान्तिकास्रयो हेत्वाभासाः ॥ १०९ ॥
द्वे द्वे वाऽसिद्धे संदिग्धे वा1404 भवतः, तदासिद्धश्च विरुद्धश्चानैकान्तिकश्च ते हेत्वाभासाः ।
यथायोगमिति । यस्यासिद्धौ संदेहे वा यो हेत्वाभासो युज्यते स तस्याऽसिद्धेः संदेहाच्च
व्यवस्थाप्यत इति यस्य यस्य 1405येन येन योगो यथायोगमिति ॥
यत् तन्न व्यभिचरतीति1407 विरुद्धाव्यभिचारी । यदि वा विरुद्धश्चासौ साधनान्तरसिद्धस्य
धर्मस्य विरुद्धसाधनात्, अव्यभिचारी च स्वसाध्याव्यभिचाराद्विरुद्धाव्यभिचारी ॥
स्वतोऽ1408दुष्टस्ततो वक्तृदोषो युज्यत एवेति चेत् । तर्हि विरुद्धत्वमपि वक्तृदोषोऽस्तु
न्यायस्य समानत्वात् । शक्यते हि तत्राप्येवमभिधातुम्--वक्ताऽयमननुरूपे साध्ये प्रयुक्ते विपर्यय
साधानाद् विरुद्धतामनुभवति न त्वयं स्वतो दुष्टो नामेति । विवक्षितार्थसाधनासामर्थ्यं
तावदस्य स्वतोऽस्ति तेना1409हेतुदोष एवायमिति चेत् । इहापि निश्चितार्थनिश्चयनं तावदस्य
स्वतोऽस्तीति कथं न वैयर्थ्यं तस्य दोष इति चिन्त्यतामिति ।
निग्रहस्त्वेवंवादिनोऽसाधनाङ्गवचनाद् बोद्धव्यः । सिद्धिःसाधनं तदङ्गंम् धर्मो यस्या
र्थस्य विवादाश्रयस्य वादप्रस्तावाद् हेतोः । स साधनाङ्गः । तथा यो न भवति तस्या
प्रस्तुतस्याभिधानादिति कृत्वेति सर्वमेवावदातम् ।
केचित्पुनरेवमसिद्धेऽन्तर्भावयितुं प्रयतन्ते । अन्ये तु विरुद्धे । यथा च तेषां प्रयतिर्यथा
तदभजमानमभिधानं तथा स्वयूथ्यविचार एवाभिहित इति तत एवापेक्षितव्य इति ॥
त्रयाणामित्यादि व्यवस्थाप्यत इत्येतदन्तं सुबोधम् ।
यस्येति हेत्वाभासस्य । सर्वहेत्वाभाससङ्ग्रहणार्थं यस्येति द्विरुक्तं येन 75b येन
दोषेण योगः सम्बन्धः । एतच्चार्थकथनम् । योगानतिक्रमेणेति विग्रहः कार्यः ॥
ननु चेत्यादीत्याहेत्येतदन्तं सुगमम् ।
225
सत्यम् । उक्त आचार्येण । मया त्विह नोक्तः । कस्मादित्याह--
अनुमानविषयेऽ1410सम्भवात् ॥ १११ ॥
अनुमानस्य विषयः प्रमाणसिद्धं त्रैरूप्यम् । यतो हि अनुमानसम्भवः1411 सोऽनुमानस्य
विषयः । प्रमाणसिद्धाच्च त्रैरूप्यादनुमानसम्भवः1412 । तस्मात् तदेवानुमानविषयः । तस्मिन्
प्रक्रान्ते न विरुद्धाव्यभिचारिसम्भवः । प्रामाणसिद्धे हि त्रैरूप्ये प्रस्तुते स एव हेत्वाभासः
सम्भबति यस्य प्रमाणसिद्धं रूपम् । न च विरुद्धाव्यभिचारिणः प्रमाणसिद्धमस्ति रूपम् ।
अतो न सम्भवः । ततोऽसम्भवात्1413 नोक्तः ॥
कस्मादसंभव इत्याह--
न हि सम्भवोऽस्ति कार्यस्वभावयोरुक्तलक्षणयोरनुपलम्भस्य च1414
विरुद्धतायाः ॥११२॥
न हीति । यस्मान्न सम्भवोऽस्ति विरुद्धतायाः । कार्य च स्वभावश्च तयो
रुक्तलक्षणयोरिति ।
अनुमानस्य त्रैरूप्याल्लिङ्गसम्बन्धिनोऽन्यस्मात् त्रैरूप्यं विषयः । यथा मत्स्यानां विषयो
जलमिति । एतदेवाह--यत इति । हिर्यस्मादर्थे । प्रक्रान्ते प्रस्तुते अनुमानविषयो1415
वै1416रूप्ये सति ।
कस्मात्तत्र विरुद्धाव्यभिचारिणोऽसम्भव इत्याह--प्रमाणेति । हीति यस्मात् । स
एव हेत्वाभासो विरुद्धाव्यभिचार्याख्यः सम्भवति यस्य प्रमाणेन सिद्धं रूपं पक्षधर्मान्वयव्यति
रेकात्मकमिति विवक्षितम् ।
अयमाशयः--यदि तदेकेन द्वाभ्यां वा रूपाभ्यां हीनं स्यात्तदेष्वेव हेत्वाभासेष्वन्तर्भवेत् ।
न त्वेतदतिरिक्तो विरुद्धाव्यभिचारी नाम हेत्वाभासो भवेत् । भवता त्वनेन प्रमाणसिद्ध
त्रैरूप्येणैव भाव्यमिति ।
अस्तु तस्य तथात्वमित्याह--न चेति । चोऽवधारणे, व्यक्तमेतदित्यस्मिन्नर्थे वा ।
एवं ब्रुवतश्चास्यायमभिप्रायः--वस्तुनः परस्परविरुद्धरूपद्वयासम्भवाद् अवश्यमनयोरेक
मसम्पूर्णाङ्गमिति ॥
कुतः पुनरनुमानविषयेऽस्यासम्भवोऽवसीयत इत्यभिप्रेत्य पृच्छति परः--कस्मादिति कार्यस्य कारणाज्जन्मलक्षणं तत्त्वम् । स्वमावस्य च साध्यव्याप्तत्वं तत्त्वम् । यत् स्यादेतत्--एतेभ्योऽन्यो भविष्यतीत्याह-- न चान्योऽव्यभिचारी ॥ ११३ ॥ न चान्य एतेभ्योऽव्यभिचारी त्रिभ्यः । अत 1421एवैष्वेव हेतुत्वम् ॥ क्व तर्ह्याचार्यदिग्नागेनायं हेतुदोप उक्त इत्याह-- तस्मादवस्तुदर्शनबलप्रवृत्तमागमाश्रयमनुमानमाश्रित्य तदर्थविचारेषु यस्माद् वस्तुबलप्रवृत्तेऽनुमाने न सम्भवति तस्माद् आगमाश्रयमनुमानमाश्रित्य ननु चागमसिद्धमपि त्रैरूप्यं प्रमाणसिद्धमित्याह--अवस्तुदर्शनबलप्रवृत्तमिति ।
226
कार्यम्, यश्च स्वभावः, स कथमात्मवारणं व्यापकं च स्वभावं परित्यज्य भवेद् येन विरुद्धः
स्यात् । अनुपलम्भस्य च उक्तलक्षणस्येति । दृश्यानुपलम्भत्वं 1417चानुपलम्भलक्षणम् ।
तस्यापि1418 वस्त्वभावाव्यभिचारित्वान्न विरुद्धत्वसम्भवः1419 ॥
विरुद्वाव्यभिचारी साधनदोष उक्तः ॥ ११४ ॥
व्यभिचार्युक्तः । आगमसिद्धं हि यस्यानुमानस्य लिङ्गत्रैरूप्यं तस्यागम आश्रयः ।
अवस्तुनो दर्शनं विकल्पमात्रम् तस्य बलं सामर्थ्यम् । ततः प्रवृत्तम्--अप्रमाणाद्विकल्पमात्राद्
व्यवस्थितं त्रैरूप्यमागमसिद्धमनुमानस्य । न तु प्रमाणात् ।
नहीत्यत्रस्थस्य हिशब्दस्यार्थो यस्मादित्यनेनोक्तः । विरुद्धतायाः एकसाधनसाधितस्यार्थस्य
प्रत्यनीकपक्षसाधनरूपतायाः ।
एतदुक्तं मवति--स्वसाध्याव्यभिचारिणा हि भवता कार्येण स्वभावेन वा भाव्यम् ।
न च वस्तुनस्तदतत्स्वभावौ स्तो येन तदतत्स्वभावाव्यभिचारिणौ द्वौ हेतू सन्निपतन्तौ विरुद्धा
व्यभिचारिणौ स्यातामिति । येन कार्यस्वभावयोः कारणव्यापकविधिना कृसतद्भावेन विरुद्धं
तत्रैव धर्मिणि हेत्वन्तरसाधितार्थं विरुद्धसाधनं भवेत् ।
यद्येवमनुपलम्भे तत्सम्भविष्यतीत्याह--अनुपलम्भस्येति । चः पूर्वापेक्षः समुच्चये ॥
यत एतदतिरिक्तोऽव्यभिचारी न सम्मत अत एवास्मादेव कारणात् । एष्वेव
कार्यस्वभावानुपलम्भेष्वेव ॥
कथमागमाश्रयत्वमनुमानस्येत्याह--आगमसिद्धमिति । हिर्यस्मादर्थे । सति तस्मिन्ना
गमेऽनुमानस्य प्रवृत्तेरसावाश्रयस्तस्य ।
227
तत् तर्ह्यनुमान1422 मागमसिद्ध1423 त्रैरूप्यं क्वाधिकृतमित्याह--1424तदर्थेति । तस्यागमस्य
योऽर्थोऽतीन्द्रियः प्रत्यक्षानुमानाभ्यामविषयीकृतः सामान्यादिस्तस्य विचारेषु प्रक्रान्तेषु आगमाश्रय
मनुमानं सम्भवति । तदाश्रयो विरुद्धाव्यभिचार्युक्त आचार्येणेति ॥
कस्मात् पुनरागमाश्रये1425 प्यनुमाने सम्भव इत्याह--
शास्त्रकृतां विपरीतस्य वस्तुविरुद्धस्य स्वभावस्य उपसंहारो ढौकनमर्थेषु । तस्य
संभवाद् विरुद्धाव्यभिचारिसम्भवः । भ्रान्त्येति विपर्यासेन । विपर्यस्ता हि शास्त्रकाराः1428
सन्तमसन्तं स्वभावमारोपयन्तीति ॥
यदि शास्त्रकृतोऽपि भ्रान्ताः, अन्येष्वपि पुरुषेषु क आश्वास इत्याह--
नहीति । न हेतुषु कल्पनया हेतुत्वव्यवस्था । अपि तु वस्तुस्थित्या । ततो
यथावस्थितवस्तुस्थितिष्वात्मकार्यानुपलम्भेष्वस्य सम्भवो नास्ति ।
अवस्थितं परमार्थसद्वस्तु तदनतिक्रान्ता यथावस्थिता 1431वस्तुस्थितिर्व्यवस्था1432 येषां ते
यथावस्थितवस्तुस्थितयः । ते हि यथा वस्तु स्थितं तथा स्थिताः1433 । न कल्पनया । 1434ततस्तेषु
न भ्रान्तेरवकाशोऽस्ति येन विरुद्धाव्यभिचारिसम्भवः स्यात् ॥
तत्र विरुद्धाव्यभिचारिण्युदाहरणम्--
ननु चेत्यादि विपर्यस्ता हीत्येतदन्तं सुगमम् । शास्त्रकारा इति तीर्थिकशास्त्रप्रणेतार इति
द्रष्टव्यम्, तद्वचनस्यैव प्रमाणबाधितत्वेन तेषामेव विपर्यस्तत्वात् ॥
अन्येष्वपीति कार्यादिहेतुप्रयोक्तृषु ।
यथावस्थितवस्तुस्थितिष्विति--अस्य तात्पर्यार्थमाह--न हेतुष्विति । ततः 1438तत्रोदाहरणम्--यत् सर्वदेशावस्थितैः 1439स्वसम्बन्धिभिर्युगपदभिसम्बध्यते यत् सर्वस्मिन् देशेऽवस्थितैः स्वसम्बन्धिभिर्युगपदभिसम्बध्यते 1442इति सर्वदेशावस्थि इह सामान्यं कणादमहर्षिणा निष्क्रियं दृश्यमेकं1443 चोक्तम् । युगपच्च सर्वैः स्वैः
कल्पनया हेतुत्वाद्य1435वस्थायाः । अर्थक्रियासमर्थत्वं1436 परमार्थसत् । कथं ते तथारूपा
इत्याह--ते हीति । ते कार्यादयो हिर्यस्मादर्थे । हेतुभावे चैतद्विशेषणम् । यतस्ते यथा
वस्थितयस्ततस्तेष्व1437सम्भवो नास्तीत्यर्थः । सत्यां स्थितौ किं न सम्भव इत्याह--तत इति ।
228
तत् सर्वगतम् । यथाऽऽकाशम् ।1440 अभिसम्बध्यते च1441 सर्वादेशावस्थितैः
स्वसम्बन्धिभिर्युगपत् सामान्यमिति ॥ ११७ ॥
तरभिसम्बध्यमानत्वं सामान्यस्य अनूद्य सर्वगतत्वं विधीयते । तेन युगपदभिसम्बध्यमानत्वं
सर्वगतत्वे नियतं तेन व्याप्तं कथ्यते ।
1444सम्बन्धिभिः समवायेन संबद्धम् । तत्र पैलुकेन कणादशिष्येण व्यक्तिषु व्यक्तिरहितेषु च
यतस्ते कल्पनया नः स्थापितास्ततः कारणात् । भ्रान्तेर्विपर्यासस्यावसरोऽवकाशः । येन
भ्रान्त्यवकाशेन ॥
कस्यानुवादेनात्र कस्य विधिरित्या76a ह--सर्वेति । सर्वदेशावस्थितैः--स्व
सम्बन्धिभिरित्यर्थात् । यत एवमनुवादविधिक्रमस्तेन हेतुना ।
ननु सर्वैः स्वसम्बन्धिभिर्युगपदभिसम्बन्धो नाम सामान्यस्य युगपत्सर्वसम्बन्धिसमवाय
एव । सर्वगतत्वमपीदमेवास्येति ।
कथमनयोर्व्यावृत्तितोऽपि भेदसम्बन्धभावतो गम्यगमकभाव इति चेत् । नैष दोषः ।
नानादेशस्थैः स्वसम्बन्धिभिः शावलेयादिभिर्युगपदभिसम्बन्धो हेतुः । सम्बन्धिदेशतदन्तराल
व्यापित्वं तु साध्यमिति गम्यगमकभावो न विरुध्यते । सर्वसम्बन्धिभिर्युगपदभिसम्बन्धश्चा
गत्वाऽनागच्छद्भिरिति द्रष्टव्यम् ।
अथ केन विरुद्धो1445व्यभिचारिप्रसवबीजं धर्मद्वययोः किमभ्युपगतं येन तयोः सन्नि देशेषु सामान्यं स्थितं साधयितुं 1448प्रमाणमिदमुपन्यस्तम् यथाकाशमिति--व्याप्तिप्रदर्शन अस्य स्वभावहेतुत्वं 1450योजयितुमाह-- तत्सम्बन्धिस्वभावमात्रानुबन्धिनी तद्देशसन्निहितस्वभावता ॥ ११८ ॥ तत्सम्बन्धीति । तेषां सर्वदेशावस्थितानां द्रव्याणां सम्बन्धी सामान्यस्य स्वभावः स एव कासावित्याह--तद्देशसंन्निहितस्वभावता । तेषां सम्बन्धिनां देशस्तद्देशः । तद्देशे
पाताद् विरुद्ध1446व्यभिचारिसम्भव इत्याह--इहेति । इह सामान्यपदार्थविचारप्रक्रमे ।
कणमत्तीति कणादः । रूढिवशाच्चायं शब्दः काश्यपे मुनौ वर्त्तते । स चासौ महर्षिश्चेति ।
हेतुभावेनास्य विशेषणत्वात् कणादत्वादेव महर्षिः । एवं तस्य हि काष्ठागता निःस्पृहता यतोऽ
न्यरवो1447स्वभोज्यादिकमपि परित्यज्य कणमात्रं भुक्त्वा ध्यानादिकमाचरति । अथोऽसाव
न्येभ्यः सातिशयवान् भवतीति । निष्क्रियं क्रियाशून्यममूर्त्तत्वात् । एकमनानारूपम्, प्रत्येकं
स्वाश्रयेषु लक्षणाविशेषाद्, विशेषलक्षणाभावाच्च । न तु समवायादेकं त्रिलोक्यां सामान्यम्,
प्रत्ययभेदात् परस्परतोऽन्यत्वात् । गोत्वादीनाञ्च निष्क्रियत्वेन सहाऽस्यैकत्वं समुच्चिनोति ।
229
विषयो दृष्टान्तः । आकाशमपि हि सर्वदेशावस्थितैर्वृक्षादिभिः स्वसंयोगिभिर्युगपदभिसम्बध्यमानं
सर्वगतं च । अभिसम्बध्यते च1449 सर्वदेशावस्थितैः स्वसम्बन्धिभिरिति हेतोः पक्षधर्मत्वप्रदर्शनम् ॥
तत्सम्बन्धिस्वभावमात्रम् । तदनुबध्नातीति तदनुबन्धिनी ।
सन्निहितः स्वभावो यस्य तत् तद्देशसंनिहितस्वभावम्1451 । तस्य भावस्तत्ता । यस्य हि येषां
सम्बन्धी स्वभावः तन्नियमेन तेषां देशे सन्निहितं भवति । ततस्तत्सम्बन्धित्वानुबन्धिनी तद्देश
संनिहितता सामान्यस्य ॥
युगपदेककालम् । चः पूर्वापेक्षया समुच्यये समवायेन सम्बन्धेन सम्बद्धत्वम् । एवमभिहिते
कणादेन तच्छिष्येण पैलुकेन । पीलवः परमाणवः । पीलुपाके चायं पीलुशब्द उपचारासता
स्त्त्येन 1452 निमित्तेन व्यवहरतीति पैलुकः । तेनाविवक्षिताऽऽन्तरभेदस्य
युगपत्सर्वसम्बन्धमात्रहेतुत्वादाकाशस्य दृष्टान्तरूपता द्रष्टव्या । न तु सामान्यस्येवास्य
सम्बन्धिभिः समवायेन सम्बन्धः । संयोगलक्षणेनास्य सम्बन्धेन सम्बन्धात् ।
एतदेवाभिप्रेत्याह--आकाशमपीति । हीति यस्मात् । स्वसंयोगिभिरिति वास्तवा
नुवादः । न त्येतत् प्रकृताङ्गम् । दार्ष्टान्तिकेऽस्यानुपपत्तेः । चोऽभिसम्बन्ध1453मानत्वेन
सह सर्वगतत्वस्यैकविषयतां समुच्चिनोति ॥
द्रव्याणां गवादीनाम् । एतच्च गोत्वादिसामान्यविवक्षयोक्तम् । उपलक्षणं द्रव्यग्रहणं
कर्त्तव्यम्, इतरथोत्क्षेपणत्वादिसामान्यस्यासङ्ग्रहः स्यात् ।
एतच्च तस्य भाव इत्येदन्तं सुगमम् ।
1454तस्मादित्यनेनार्थागतं स्वभावहेतुत्वनिमित्तं दर्शयति । न तु तद्धितप्रत्ययान्ते
पञ्चम्यस्ति यां व्याचक्षीत । अयं त्वस्यार्थः--यस्माद् युगपत् सर्वदेशावस्थितसम्बन्धिसम्बन्धः
स्वसत्तामात्रानुबन्धिनि साध्ये हेतुः, तस्मात्स्वभाव हेतुत्वमस्येति ।
ननु तत्सम्बन्धिनोऽपि तद्देशसन्निहितस्वभावतैव कुतो येनैवं भवतीत्याह--यस्येति । ननु च गवां सम्बन्धी स्वामी । न च 1456गोदेशे सन्निहितस्वभावः । 1457तत् कर्थं 1458तत्सम्ब न हि यो यत्र नास्ति तद्देशमात्मना व्याप्नोतीति स्वभावहेतुप्रयोगः ॥ ११९ ॥ न हीति । यो यत्र देशे नास्ति स देशो यस्य स तद्देशः तं न व्याप्नोत्यात्मना स्वरूपेण । इह सामान्यस्य तद्वतां च समवायलक्षणः 1459सम्बन्धः । स चाभिन्नदेशयोरेव । 1460तेन
हिर्यस्मात् । यतोऽयं सामान्यन्यायः ततस्त76b स्मात् । यद्वा सर्वसम्बन्धित्वेऽपि कस्मा
1455 230
न्धित्वात् तद्देशत्वमित्याह--
यत्र यत् समवेतं 1461तत् 1462तदात्मी न रूपेण क्रोडीकुर्वत् 1463समवायिरूपदेशे स्वात्मानं निवेशयति ।
त्तद्देशसन्निहितस्वभावतेत्याह--तस्मादिति । तस्मात्तत्सम्बन्धिमात्रानुबन्धिनीति । तद्देश
सन्निहितस्वभावताऽऽकाशस्य दृष्टा तस्मात् कारणात् । यस्य वस्तुनस्तेषां 1464 सम्बन्धी
स्वभावः । हिरवधारणे सम्बन्धीत्यस्मात्परो द्रष्टव्यः । तद् वस्तु नियमेनावश्यंतया
तेषां सम्बन्धीनां देशे सन्निहितं भवति । यत एवं सामान्यन्यायस्ततः । तस्मादिति पाठे
भावगतिः । 1465कस्मादिति तु क्वचित्पुस्तके पाठः । स तु युक्तरूपः । तत्सम्बन्धिस्वभाव
मावमात्रानुबन्धिनी तद्देशसन्निहितस्वभावतेति व्याख्या । कस्मादेतदिति कारणाकाड्क्षासम्बन्धात् ।
तदनन्तरं च यस्य हीत्यादेः सामान्योत्तरस्य, तत इत्यादेश्चोपसंहारव्यपदेशेन विशेषोत्तरस्य
सुमो 1466 ज्यत्वादिति ।
यत्र तु तस्य भावस्तत्तेति पाठः तत्र सर्वमवदातम् ॥
ननु चैकदेशस्थमेव सामान्यं युगपत्सर्वैः सम्बन्धिभिरभिसम्भन्त्स्यते । तत्किं तस्य
व्यापारासम्भवेनावेदितेनेत्याह--इहेति ।
स इति समवायः । चकारः पुनः शब्दस्यार्थे । अभिन्नदेशयोरिति लोकप्रसिद्ध
देशापेक्षयोक्तम् न तु शास्त्रप्रसिद्धदेशापेक्षयेति द्रष्टव्यम् । अन्यथा यदा 1467 तन्तूनां
समवायो न स्यात् । पटस्य तन्नथा 1468 देशः । तन्तूनां पुनरंशवः । सामान्यतद्वतोश्च
न स्यात् । गोत्वसामान्यस्य गौर्देशः । गोश्च सास्नादयोऽवयवा इति ।
अथवा सामान्यलक्षणयुगा 1469 पेक्षया अभिन्नदेशत्वं विवक्षितम् । न तु प्रत्येका 1470तद्देशरूपनिवेशनमेव तत्क्रोडीकरणम् । ततस्तत्समवायः । तस्माद् यद् यत्र समवेतं तत् 1471तद्द्रव्यं व्याप्नुवदात्मना तद्देशे संन्निहितं भवति । तदयमर्थः--तद्देशस्थवस्तुव्यापनं तद्देशसत्तया व्याप्तम् । तद्देशसत्ताऽभावे1472 तद्व्यापना पैठरप्रयोगं दर्शयन्नाह-- द्वितीयोऽपि प्रयोगः--यदुपलब्धिलक्षणप्राप्तं सन्नोपलभ्यते न तत् द्वितीयोऽपि--इति । यदुपलब्धेर्लक्षणतां विषयतां प्राप्तं दृश्यमित्यर्थः । एतेन दृश्या
पेक्षम् । तेनायमर्थः--कुण्डबदरवद् यत्र द्वावपि सम्बन्धिनौ भिन्नदेशौ न तयोः समवायः । ययोस्त्वे
कतरस्यान्यतरो देशस्तयो समवाय इति । एवञ्च पटतन्तूनां सामान्यतद्वतोश्च नासङ्ग्रह इति ।
येन कारणेनाभिन्नदेशयोरेव समवायस्तेन प्रथमव्याख्याने समवायिरूपस्य समवायिस्वभावस्य
देश इति । द्वितीयव्याख्याने समवायिरूपमेव समवायिस्वभाव एव देश इति विगृह्य तस्मिन्निति
231
भावाद् व्यापनलक्षण समवायसंम्बन्धो न स्यात् । अस्ति च व्यापनम् । अतस्तद्देशे सन्निहितत्व
मिति । तदयं स्वभावहेतुः ॥
तत्रास्ति । तद्यथा--क्कचिदविद्यमानो घटः ।1473 नोपलभ्यते चोपलब्धिलक्षण
प्राप्तं सामान्यं व्यक्तयन्तरालेष्विति । अयमनुपलम्भः1474 स्वभावश्च परस्पर
विरुद्धार्थसाधनादेकत्र संशयं जनयतः ॥ १२० ॥
नुपलब्धिमनूद्य न 1475तत् तत्रास्ति इत्यसद्व्यवहार्यत्वं1477 विहितम् । ततो 1478व्याप्यदृश्यानुप
लब्धेर्व्यापकमसद्व्यवहार्यत्वं दर्शितम् । तद्यथेति क्वचिदसन् घटो दृष्टान्तः ।
योज्यम् । उभयत्रापि तु समवाय 1479 शब्देनाधारोऽभिप्रेतः । स्वात्मानं निवेशयत्युपनयति ।
ननु तद्व्यापनं तत्क्रोडीकरणमभिप्रेतम् । तत्कथं सम्बन्धिनि स्वात्मनि निवेशनं
व्याख्यायत इत्याह--तद्देश इति । स चासौ देशश्च तत्र रूपस्य स्वरूपस्य निवेशनमुपनयनम् ।
ततस्तस्मात्तद्देशरूपनिवेशनात्तस्यः । सम्बन्धिनः समवायः । तस्मादित्यादिनोपसंहारः ।
ननु तद्व्यापनमपि भविष्यति, न च तद्देशसन्निहितस्वभावतेत्याशङ्क्याह--तदयमिति ।
यत आत्मना तद्व्यापनलक्षणेन सम्बन्धेन तद्व्याप्यमानदेशसन्निधानमुक्तं तत्तस्मादयं तात्प
र्यार्थः । स चासौ देशश्च तत्रस्थवस्तुव्यापनं लोकप्रसिद्धदेशापेक्षया तस्य देशस्तद्देशस्तत्र या
सत्ता विद्यमानता तया व्याप्तम् । अन्यथा तु स्वरूपेण व्यापनासम्भवादित्यभिप्रायः ।
तदेव व्यतिरेकमुखेणोपपादयन्ना77a ह--तद्देशेति । नास्त्येवायं सम्बन्ध इति चेदाह--
अस्ति चेति । चोऽवधारणे । यत उक्तेन क्रमेण स्वभावलक्षणयोगोऽस्यास्ति । तत्तस्मादयं
युगपत् सर्वसम्बन्ध्यभिसम्बन्धलक्षणो हेतुः स्वभावः ॥
232
पक्षधर्मत्वं दर्शयितुमाह--नोपलभ्यते चेति । 1480व्यक्त्यन्तरालं--व्यक्त्यन्तरं च व्यक्ति
शून्यं चाकाशम् । दृश्यमपि कस्यांचिद्व्यक्तौ गोसामान्यमश्वादिषु व्यक्त्यन्तरेषु व्यक्तिशून्ये1481
चाकाशे 1482नोपलभ्यते । तस्मान्न तेष्वस्तीति गम्यते ।
अयमनुपलम्भः पूर्वोक्तश्च स्वभावः 1483परस्परस्य विरुद्धौ यावर्थौ तयोः साधनात्
तावेकस्मिन् धर्मिणि संशयं जनयतः । न ह्येकोऽर्थः परस्परविरुद्धस्वभावो भवितुमर्हति । 1484एकेन
चात्र 1485व्यक्त्यन्तरेषु व्यक्तिशून्ये चाकाशे सत्त्वम्, अपरेण चानुपलम्भेनासत्त्वं साध्यते । न
कणादस्यैवापरः शिष्यः पैठरस्तस्य प्रयोगम् । पिठरोऽवयविद्रव्यम् । पूववदुपचारात्पिठर
शब्दस्तेन व्यवहरतीति तथोक्तः ।
असदव्यवहार्यत्वमसदिति व्यवहारणीयत्वं विहितम् । कस्याञ्चित्सास्नादिमत्यां व्याप्तौ
1486 व्यज्यते सामान्यमनयेति व्यक्तिः ।
प्रागुक्तस्तावत्स्वभावः, अयं तु किंसंज्ञको हेतुरित्याह--अयमिति । प्रागुक्तं स्मारयति
पूर्वेति । तुशब्दश्चशब्दस्यार्थे । तावेतौ हेतू धर्मिण्येकस्मिन् सामान्याख्ये । संशयं प्रकृतयोः
साध्ययोरित्यर्थात् कथं संशयं जनयत इत्याह । एकस्यैव तौ विवक्षितसर्वगतत्वासर्वंगतत्व
लक्षणौ स्वभावौ भविष्यत इत्याह--न हीति । हिर्यस्मात् । परस्परविरुद्धौ स्वभावौ
यस्येति तथा ।
ननु चात्र विरुद्धावेव धर्मावेकस्य सामान्यस्य द्वाभ्यामेताभ्यां सिद्ध्येते इति । तत्किमेत
दुच्यत इत्याह--एकेनेति । चो यस्मादर्थे । एकेनति प्रागुक्तेन स्वभावेन । अपरेणेति
पश्चादुक्तेन । तमेवाह अनुपलम्भेन प्रकरणाद् दृश्यानुपलम्भेनेति नेयम् । साधयतां तर्हि
व्यक्त्यन्तराले सामान्यस्य सत्त्वमसत्त्वं च एतौ हेतू का क्षतिरिह--इत्याह न चेति । चोऽव
धारणे । सत्त्वमसत्त्वं च द्वयोर्द्वाभ्यां साधने किमनुपपन्नमित्याशङ्क्याह--एकस्यापि । कालभेदे
किन्नैवं सम्भवतीत्याशङ्क्याह--एकदैवेति । कस्याप्येकदैवाधिकरणभेदेऽप्येतदित्याशङ्क्याह—
एकत्रेति । कथमयुक्तमित्याह--तयोरिति । तयोः सत्त्वासत्त्वयोः । विरोधात्परस्परपरि
हारव्यवस्थितरूपत्वात् ।
कथं पुनरागमाश्रयानुमानाश्रयत्वं विरुद्धाव्यभिचारिणी त्याशङक्योपसंहारव्याजेन
यथाऽनयोस्तथात्वं तथा दर्शयन्नाह--तदिति । यत एवं तत्तद्वदेकं सामान्यं कणादेन उक्तम्,
तद्रूपविचारे तच्छिष्याभ्यामेवं प्रक्रान्तं तत् तस्मादागमसिद्धस्यागमप्रतिपादितस्यानुपलम्भेनापि
व्यक्तत्यन्तरालासत्त्वप्रतिपादनद्वारम्1487सर्वगतत्वस्य साधनात् । सर्वगतत्वासर्वगतत्वयोः
साध्ययोरेतावित्याह । एवावन्तं 1488 तथोक्तौ हेतू ।
विरुद्धाव्यभिचारित्वमेवानयोरुपदर्शयन्नाह--यत इति । चकारः पूर्वापेक्षया समुच्चये । चैकस्यैकदैकत्र सत्त्वमसत्त्वं च1489 युक्तम्, तयोर्विरोधात् । 1490तदागमसिद्धस्य सामान्यस्य ननु च साधनावयवत्वाद् यथा हेतव उक्तास्तत्प्रसङ्गेन 1498च हेत्वाभासाः, तथा साधना
233
सर्वगतत्वासर्वगतत्वयोः साध्ययोरेतौ विरुद्धाव्यभिचारिणौ जातौ । 1491यतः सामान्यस्यैकस्य
युगपत् सर्वदेशावस्थितैरभिसम्बन्धित्वं1492 चाभ्युपगतम्, दृश्यत्वं च । ततः सर्वसम्बन्धित्वात्
सर्वगतत्वम्, 1493दृश्यत्वादन्तरालादनुपलम्भादसर्वगतत्वम् । ततः 1494शास्त्रकारेणैव विरुद्धव्याप्तत्व
मपश्यता विरुद्धव्याप्तौ धर्मावुक्त्वा1495 विरुद्धाव्यभिचार्यवकाशो दत्त इति । न च1496 वस्तुन्यस्य
1497सम्भवः । इत्युक्ता हेत्वाभासाः ॥
वयवत्वाद् दृष्टान्ता वक्तव्यास्तत्प्रसङ्गेन च दृष्टान्ताभासाः । तत् कथं नोक्ता इत्याह--
ततोऽभ्युपगतात्सर्वसम्बन्धिनः सर्वसम्बन्धित्वात् । सर्वगतत्वमन्तरेण तदसम्भवादिति भावः ।
अनुपलम्भेऽपि कथमसर्वगतत्वं निश्चेतुं शक्यत इत्याह--दृश्यत्वात्तत इत्यनुवर्त्तते ।
ननु चान्तरालेऽनुपलम्भादिति युज्यते वक्तुम् । तत्किमुक्तमन्तरालादिति । सत्यमेतत् ।
केवलमनुपलम्भादनुपलम्भव्यवहारादित्यर्थविवक्षितत्वाददोषः । क्वचित्पुनरन्तरालानुपलम्भादिति
पाठः । तत्र च यथायोगं समासः ।
ननु यदि शास्त्रात्मकाऽऽगमकारेणास्य परस्परविरुद्धस्वभावावहं किञ्चिद् द्वयमुक्तं भवेत्,
विरुद्धाव्यभिचार्यवकाशः । यावतेदमेव नास्तीत्याशङ्कापनोदव्याजेनोपसंहरन्नाह--तत इति ।
77b यत एवं शास्त्रकारेणैवेदञ्चेदञ्चाभ्युपगतं ततस्तस्मात् शास्त्रकारेणैव प्रकरणात्कणादेन
विरुद्धाव्यभिचारिणोऽवकाशो दत्तः । किं कृत्वा तेन तदवकाशो दत्त इत्याह--विरुद्धेति ।
परस्परसाध्यविरुद्धत्वव्याप्तिधर्मौ प्रकरणाद् युगपत्सर्वसम्बन्धिसम्बन्धदृश्यत्वाख्या 1499
वक्तुर1500दृश्यत्वविषयस्यानुपलम्भस्य विरुद्धव्याप्तत्वाद् दृश्यत्वं विरुद्धव्याप्तमिति तु द्रष्टव्यम् ।
कथं पुनस्तयोर्धर्मयोः परस्परविरुद्धार्थव्याप्तत्वं विदुषा तेनैवमुच्येत येन तदवकाशदानं
तस्य कल्प्यत इत्याह--विरुद्धव्याप्तत्वमिति । परस्परविरुद्धसर्वगतत्वासर्वगतत्वलक्षणार्थव्याप्तत्वं
तयोर्धर्मयोरित्यर्थात् । अपश्यता अनालोचयता भ्रान्त्या तावदभिधायेति यावत् । इतिस्तस्मात्
न वस्तुनि न वस्तुवलप्रवृत्तेऽनुमानेऽस्य विरुद्धाव्यभिचारिणो जातिविवक्षयैकवचनम् । इतिरेवमर्थे ।
तेनायमर्थः--एवमुक्तेन प्रकारेणोक्ताः कथिता हेत्वाभासाः, कुतश्चित्साम्याद् हेतुवदाभासाः ॥
साम्प्रतं हेतौ तदाभासे च कथिते तुल्यन्यायतयाऽपरमपि स्वाभाससहितं किं नोक्तमिति त्रिरूपो1501 हेतुरुक्तः । तावता 1502चार्थप्रतीतिरिति न पृथग्दृष्टान्तो नाम त्रिरूपो हेतुरुक्तः, तत् किं दृष्टान्तैः ? स्यादेतत्--तावता नार्थप्रतीतिरित्याह--तावता 1504चेति । उक्तलक्षणेनैव हेतुना कथं तर्हि हेतोर्व्याप्तिनिश्चयो यद्यदृष्टान्तको हेतुरिति चेत् । नोच्यते हेतुरदृषटान्तक
234
साधनावयवः कश्चित् । तेन नास्य लक्षणं पृथगुच्यते गतार्थत्वात् ॥ १२१ ॥
भवति साध्यप्रतीतिः । 1506अतः स एव गमकः । 1507ततस्तद्वचनमेव साधनम् । न दृष्टान्तो
नाम नाधनस्यावयवः । यतश्चायं नावयवः, तेन नास्य दृष्टान्तस्य लक्षणं हेतुलक्षणात् पृथगुच्यते ।
एव । अपि तु न हेतोः पृथग्दृष्टान्तो नाम हेत्वन्तर्भूत एव दृष्टान्तः । अत एवोक्तं नास्य
लक्षणं पृथगुच्यत 1508इति । न त्वेवमुक्तम्--नास्य लक्षणमुच्यत इति ।1509
चोदयन्नाह--ननु चेति । अथ कथं साधनावयवत्वं हेतूनां येन साधनावयत्वाद् यथा हेतव उक्ता
इत्युच्यते ? तथा हि साध्यते निश्चीयते साध्यमनेनेति साधनम् । पक्षधर्मान्वय
व्यतिरेकवल्लिङ्गमुच्यते । तदाख्यानादेव च वाक्यमपि साधनमुच्यते । न तु वाक्यात्साध्य
सिद्ध्युपयोगितया हेतुरपि तदेव तद्वचनमपीति । द्वेधाऽपि तं समुदायमपेक्ष्यास्यावयवत्वं येनैव
मुच्यत इति । न । अभिप्रायापरिज्ञानात् । इहैवं पूर्वपक्षवादी मन्यते । परोक्षोऽर्थो निश्चीयमानो
हेतुदृष्टान्ताभ्यां निश्चीयते । न तु हेतुनैव । अदृष्टान्तकस्य हेतोः साध्यसाधनाशक्तेः ।
ततश्च हेतुदृष्टान्तसमुदायः साध्यस्य साधनम् । तत्र यथा समुदायापेक्षया हेतुरूपोऽवयव
उक्तस्तदाभासश्च तथा साधनावयवत्वाविशेषत्वाद् दृष्टान्तरूपोऽपरोऽयमवयवः सप्रतिपक्षः
किन्नोक्त इति । एवञ्चोदयन्नयमेव साधनावयवत्वाद्यभिधानमिति । तत्प्रसङ्गेन तत्प्रस्तावेन ।
उक्तं पक्षधर्मान्वयव्यतिरेकात्मकं लक्षणं यस्य तेन । एवकारेण दृष्टान्तस्य साक्षात् यद्येवं हेतूपयोगिनोऽपि लक्षणं वक्तव्यमेवेत्याह--गतार्थत्वात्--गतोऽर्थः प्रयोजनमभिधेयं कथं 1512गतार्थत्वमित्याह-- हेतोः सपक्ष एव सत्त्वमसपक्षाच्च सर्वतो व्यावत्ती 1513रूपमुक्तमभेदेन । हेतो 1521रूपमुक्तमभेदेन सामान्येन । साधारणं कार्यस्वभावानुपलम्भानामेतल्लक्षण न च सामान्यमुक्तमपि शक्यं ज्ञातुम् । अतस्तदेव विशेषनिष्ठं वक्तव्यम् । अतः
सिद्ध्युपयोगितां निरस्यति । यत एवमतो हेतोः, स इति हेतुः । नियमेन दृष्टान्तस्य
गमकरूपविरहं द्रढयति । यतः साक्षात् सिद्धिरुपजायते, स एव गमयति प्रत्याययति साध्य
मिति कृत्वा उच्यते, नान्य इति भावः । यस्माद् हेतोरेव गमकत्वं ततस्तस्मात् तस्य हेतो
स्त्रिरूपस्य वचनं साधनं साधनाभिधानं न दृष्टान्तस्येत्यर्थात् । तावता चार्थप्रतीतिरिति
मौलमितिशब्दमपेक्ष्य न पृथग्दृष्टान्तो नाम साधनावयव इति मूलं व्याचष्टे न दृष्टान्त इति ।
अर्थरूपो दृष्टान्तस्तद्वचनं वा, न साधनस्यार्थरूपस्य वचनस्य वा । नावयवो नैकदेशः ।
हेत्वन्तरर्भूतत्वं च व्याप्तिग्राहकप्रमाणाधिकरणतया हेतावुपयोगात् । न तस्य स्वरू78a पेण
235
वा यस्य दृष्टान्तलक्षणस्य । 1510तत् तथा । तस्य भावस्तत्त्वम् । तस्मात् । दृष्टान्तलक्षणं
ह्यच्यते दृष्टान्तप्रतीतिर्यथा स्यात् । दृष्टान्तश्च हेतुलक्षणादेवावसितः । ततो दृष्टान्त
लक्षणस्य यत् प्रयोजनम्--दृष्टान्तप्रतीतिस्तद् गतं निष्पन्नम् । अभिधेयं वा गतं ज्ञातं1511
दृष्टान्ताख्यम् ॥
पुनर्विशेषेण 1514कार्यस्वभावयोरुक्तलक्षणयोर्जन्मतन्मात्रानुबन्धौ दर्शनीयावक्तौ ।
तच्च दर्शयता-यत्र धूमस्तत्राग्निः, असत्यग्नौ न क्वचिद् धूमो यथा महानसे
तरयोः; यत्र कृतकत्वं तत्रानित्यत्वम्, अनित्यत्वाभावो कृतकत्वाऽसम्भवो1515
यथा घटाकाशयोः--इति दर्शनीयम् । न हयन्यथा सपक्षविपक्षयोः सदसत्वे
यथोक्तप्रकारे शक्ये दर्शयितुम् । तत्कार्यतानियमः1516 कार्यलिङ्गस्य, स्वभाव
लिङ्गस्य 1517च स्वभावेन1518 व्याप्तिः । 1519अस्मिंश्चार्थे दर्शिते दर्शित एव दृष्टान्तो
भवति । एतावन्मात्ररूपत्वात् तस्येति1520 ॥ १२२ ॥
मित्यर्थः । किं पुनस्तत् ? सपक्ष एव 1522यत् सत्त्वम्, विपक्षाच्च सर्वस्मात् व्यावृत्तिर्या ।
रूपद्वयमेतदभेदेनोक्तम् ।
पुनरपि विशेषेण विशेषवन्तौ जन्मतन्मात्रानुबन्धौ दर्शनीयावुक्तौ । कार्यस्य जन्म ज्ञातव्य
मुक्तम् । जन्मनि हि 1523ज्ञाते कार्यस्य सपक्ष एव सत्त्वं विपक्षाच्च सर्वस्माद् व्यावृत्तिर्ज्ञाता
हेतावन्तर्भावः, साक्षात्साध्यसिद्ध्युपयोगिताप्रसङ्गात् । न च साऽस्य सम्भविनीति । अनेका
र्थत्वाद् वा हेतो 1524 र्गतं निष्पन्नमिति विवृतम् । गत्यर्थानां ज्ञानार्थत्वादपि गतं ज्ञातमित्यपि
चोक्तम् ॥
ननु च हेतुः सपक्षवृत्तिना विपक्ष1525वृत्तेनैव च रूपेण गमकः । तच्चेत् कथितं किं भवति । स्वभावस्य तन्मात्रानुबन्धो दर्शनीय उक्तः । तदिति साधनम् । तदेव तन्मात्रम् तदेवं1530 सामान्यलक्षणं विशेषात्मकं ज्ञातव्यं नान्यथा । ततो विशेषलक्षणमुक्तम् । किमतो1531 यदि नामैव1532 मित्याह--तच्च1533 सामान्यलक्षणं दर्शयितुकामेन विशेषलक्षणं
विशेषलक्षणकथनेनेत्याह--न चेति । चोऽवधारणे हेतौ वा । सामान्यं साधारणं प्रकरणा
236
साधनमात्रम्1526 । तस्यानुबन्धोऽनुगमनम्--साधनमात्रस्य1527 भावे भावः साध्यस्य । 1528तन्मात्र
भावित्वमेव हि साध्यस्य तादात्म्यम् । साधनस्य1529 यदा स्वभावो ज्ञातो भवति, तदा स्वभाव
हेतोः--सपक्ष एव सत्त्वम्, विपक्षाच्च सर्वस्माद् व्यावृत्तिर्ज्ञाता भवति ।
दर्शयतैवं1534 दर्शनीयम्--इति सम्बन्धः । यत्र धूमस्तत्राग्निरिति कार्यहेतोव्याप्तिर्दशिता ।
व्याप्तिश्च कार्यकारणभावसाधनात्1535 प्रमाणान्निश्चीयते । ततो यथा महानस इति दर्शनीयम् ।
ल्लक्षणं न शक्यं ज्ञातुमिति प्रवृत्त्युपयोगितया न शक्यमिति मन्तव्यम् । न तु सामान्यलक्षणस्य
वाक्यात्प्रतीतिर्न भवत्येव । विशेषवन्तौ च विशिष्टावित्यर्थः । एतदेव विभज्यमान आचार्ये
1536 त्यादि ।
ननूक्तेऽप्यस्मिन् यदि सामान्यलक्षणप्रतीतिर्नास्ति किमनेनोक्तेनापीति । आह—
जन्मेति । हिर्यस्मादर्थे । ननु स्वभावहेतौ साधनस्वभावता साध्यस्य दर्शयितुं युज्यते, तत्किं
तन्मात्रानुबन्धो दर्शनीय उक्त इत्याह--तन्मात्रेति । हिर्यस्मात् । अथ तन्मात्रानुवन्धे
दर्शितेऽपि कथं सामान्यलक्षणप्रतिपत्तिरित्याह--साधनस्येति । तदेवमित्यादिनोपसंहारः ।
अनुपलब्धेश्चानयोरेवान्तर्भावान्न पृथग् विशिष्टलक्षणाभिधानमित्यवसेयम् ।
अथ किं हेतोरन्वयव्यतिरेकावेव लक्षणं येनैतद् द्वयमेव लक्षणतया स्मर्यते । न चैतत्,
पक्षधर्मताया अपि लक्षणत्वादभिहितत्वाच्चेति चेत् । सत्यम् । केवलं न हेतोः सर्वरूपमिह
प्रक्रान्तम् । किन्तु यद्रूपप्रदर्शनेन दृष्टान्तप्रदर्शनं कृतं भवति तत्प्रकृतमिति ।
यद्यप्येवं यदि नाम सामान्यविशेषलक्षणाऽभिधानमतोऽभिधानात् किं भवति ? किमः असत्यग्नौ न भवत्येव धूम इति व्यतिरेको दर्शितः । स च यथेतरस्मिन्निति दर्शनीयः । यत्र कृतकत्वं तत्रानित्यत्वमिति स्वभावहेतोर्व्याप्तिर्दर्शिता । अनित्यत्वाभावे न भवत्येव कस्मादेवमित्याह--न हीति । यस्मादन्यथा सामान्यलक्षणरूपे सपक्षविपक्षयोः सदसत्त्वे तस्य साध्यस्य कार्यम्--तत्कार्यं धूमः । तस्य भावस्तत्कार्यता । सैव नियमो
क्षेपे प्रयोगात्, न किञ्चिद् भवतीत्यर्थः । य 1537 दित्युत्तरम् । चो यस्मात् । व्याप्तिप्रदर्शने
ऽपि कथं दृष्टान्ताख्यानमवतरतीत्याह--व्याप्तिश्चेति । हेत्वर्थश्चकारः । कार्यकारणभाव
साधनात्प्रमाणान्निश्चीयतां व्याप्तिस्तथापि दृष्टान्तः कथं प्रकृतो भवतींत्याह--तत इति ।
दृष्टान्तमन्तरेण तदेव प्रमाणं न प्रवर्त्तेत । तदप्रवृत्तौ च सामान्यलक्षणमेव न ज्ञायेतेति भावः ।
237
वह्निनिवृत्तिर्हि धूमनिवृत्तौ नियता दर्शनीया । सा च महानसादितरत्रेति दर्शनीया ।
कृतकत्वमिति व्यतिरेको दर्शितः । व्याप्तेश्च साधकं प्रमाणं 1538साधर्म्यदृष्टान्ते दर्शनीयम् ।
प्रसिद्धव्याप्तिकस्य च हेतोः साध्यनिवृत्तौ निवृत्तिर्नियता1539 दर्शनीया । तदवश्यं यथा घटे, यथा
आकाशे चेति दर्शनीयम् ।
यथोक्तप्रकारे इति नियते--सपक्ष एव सत्त्वम्, विपक्षेऽसत्त्वमेवेति नियमो यथोक्तप्रकारः--ते
न शक्ये दर्शयितुम् । विशेषलक्षणे हि दर्शिते यथोक्तप्रकारे1540 सदसत्त्वे दर्शिते भवतः । न
च विशेषलक्षणमन्यथा शक्यं दर्शयितुम् ।
अन्वयप्रदर्शनेन साधर्म्यदृष्टान्ताख्यानमाख्याय व्यतिरेकोक्त्याऽपि वैधर्म्यदृष्टान्तौ किं
1541 दर्शयितुमाह--असत्यग्नाविति । व्यतिरेकप्रदर्शनेऽपि कथं दृष्टान्ताऽऽ
पतनमिति आशङ्क्याह--स चेति । चो यस्मादर्थे । इतरस्मिन्नग्निमत्प्रदेशादन्यस्मिन्
महाह्रदादौ । यत्र कयोश्चिद् व्याप्यव्यापकभावो दर्शयितव्यस्तत्रास्तु दृष्टान्तोपनिपातः,
व्यतिरेकोपदर्शने किं तेनेत्याह--वह्नीति । हीति यस्मात् । अत्रापि विध्योर्विपर्ययेण व्याप्य
व्यापकभावो दर्शयितव्य इत्यर्थः । एतच्च व्यतिरेकाख्यानं दृष्टान्तोपदर्शनमुद्दिष्टविषयं
प्रयोगमधिकृत्योक्तमित्यधिगन्तव्यम् ।
यत्रेत्यादिना स्वभावहेतुमधिकृत्य दृष्टान्तस्य गतार्थत्वं दर्शयितुमुपक्रमते । एवं प्रदर्शयतां यतस्तत्कार्यतया धूमो दहने नियतः । सोऽयं तत्कार्यतानियमो विशेषलक्षणरूपोऽन्यथ दर्शयितु तस्माद् दृष्टान्तमन्तरेण1545 न हेतोरन्वयो व्यतिरेको वा1546 शक्यो दर्शयितुम् अतो प्रसिद्धव्याप्तिकस्य साध्याभावे हेत्वभाव1548 प्रदर्शनाद्वैधर्म्यदृष्टान्त उपादेय इति 1549च
व्याप्तिः, दृष्टान्तावतारकस्तु1542कथमित्याह--व्याप्तेश्चेति । चो यस्मात् । प्रमाणाऽ
प्रदर्शने व्याप्तेरसिद्धेः । तच्च प्रमाणम्, अन्तरेणाधिकरणं न सम्भवतीति भावः । यद्येवं
व्यतिरेक 78b प्रदर्शने कृतं दृष्टान्तेनेत्याह--प्रसिद्धेति । दर्श्यतामेव, तथापि दृष्टान्तोप
निपातः कथमित्याह--तदिति । यस्मादेव दर्शनीयं तत्तस्मात् । सच्चासच्च सदसती तयो
र्भावस्ते प्रदर्शनक्रियापेक्षया च द्वितीयाद्विवचनान्तमेतत् । यादृश उक्तो यथोक्तः प्रकारः
स्वरूपं ययोस्ते तथोक्ते । अस्यैवार्थमाह--नियते इति । सपक्षासपक्षसदसत्त्वयोरुक्तमेव प्रकारं
स्पष्टयन्नाह--सपक्ष इति । इतिर्नियमस्याकारं दर्शयति । ते यथोक्तप्रकारे सदसत्त्वे ।
कथं ते न शक्ये दर्शंयितुमित्याह--विशेषेति । हिर्यस्मादर्थे । दर्श्यतां तर्हि विशेषलक्षणम् ।
दृष्टान्तस्य तु किमायातमित्याह--न चेति । चो यस्मादर्थेऽवधारणे वा । यद्विशेषलक्षणं
दृष्टान्तमन्तरेणाशक्यप्रदर्शनं तत्स्वरूपाख्यानम् । मूलं व्याख्यातुमाह--तस्येत्यादि । विशेष
238
मशक्यः । स्वभावलिङ्गस्य च स्वभावेन साध्येन व्याप्तिर्विशेषलक्षणरूपा न शक्या दर्शयितुम् ।
यस्मात् कार्यकारणभावस्तादात्म्यं च महानसे घटे च ज्ञातव्यम्, तस्माद् व्याप्तिसाधनं प्रमाणं
दर्शयता 1543साधर्म्यदृष्टान्तो दर्शनीयः । वैधर्म्यदृष्टान्तस्तु प्रसिद्धे तत्कार्यत्वे कारणाभावे
कार्याभावप्रतिपत्त्यर्थम्1544 । तत एव नावश्यं वस्तु भवति । कारणाभावे कार्याभावो वस्तु
न्यवस्तुनि वा भवति । ततो वस्त्ववस्तु वा वैधर्म्यदृष्टान्त इष्यते ।
हेतुरूपाख्यानादेव हेतोर्व्याप्तिसाधनस्य1547 प्रमाणस्य दर्शकः साधर्म्यदृष्टान्तः ।
दर्शितं भवति ।
लक्षणस्य स्वरूपमाख्यायाख्यान्यथाप्रदर्शनाशक्यत्वं दर्शयन्नाह--सोऽयमिति ।
वैधर्म्यदृष्टान्तस्तर्हि न प्रदर्शनीय इत्याह--वैधर्म्येति । तुः साधर्म्यदृष्टान्ताद् वैधर्म्य
दृष्टान्तं भेदवन्तं दर्शयति । एतच्च यदा व्यतिरेकमुखेण प्रयोगः क्रियते, तत्कालाभिप्रायेणोच्यत
इति द्रष्टव्यम् । न त्वेकस्मिन् प्रयोगे द्वयोपन्यासः सम्भवी । एतच्च प्रागेव निर्लोठितम् ।
यतः प्रसिद्धे तत्कार्यत्वे कारणाभावे कार्याभावप्रतिपत्त्यथं दर्शनीयो वैधर्म्यदृष्टान्तस्तत एव
तस्मादेव कारणात् । नावश्यं नियमे न वस्तु भवति । वस्त्वप्यवस्त्वपि वैधर्म्यदृष्टान्तो
भवतीत्यर्थः । यदि हि कस्यचिद् विधिना कस्यचिद् विधिर्दर्शयितव्यः स्यात्, तदा गम 1550
दिरसन् कथं कस्यचिदाधारः स्यादिति, न सिद्ध्येत्तदुपदर्शनम् । यदा त्वेकस्य व्याप्यस्याभावे
अपरस्य व्यापकस्याभावो दर्शयितव्यस्तदा व्यापकस्याऽभावेऽवस्तुनि सुष्ठु सम्भवति । इतरथाऽ
भावेऽपि अस्य भावो विहितो भवेत् । सोऽपि नेति चेत्, अयमेवाभाव इत्यभिप्रायः । वैधर्म्य
दृष्टान्तग्रहणं चैतदेकधर्माभावेनापरधर्माभावोपदर्शनविषयोपलक्षणं द्रष्टव्यमन्यथा साधर्म्यदृष्टा
न्ते त्ववश्यं वस्तु स आश्रय इष्ट इति स्यात् । तथा च सति बह्वसमञ्जसं स्यादिति । यतः
कारणाभावात्कार्याभावो वस्तुन्यवस्तुनि च भवति ततः कारणाद् वस्तु महाह्रदादि । अवस्तु
आकाशादि । वाशब्दस्तुल्यबलत्वं समुच्चिनोति ।
तस्मादित्यादिना प्रकृतमुपसंहरति । व्याप्तिसाधकप्रमाणाधिकरणत्वाद् दर्शयतीति
दर्शकः । यद्येवं साध्यसाधकव्याप्तिप्रसाधकप्रमाणप्रदर्शकत्वात्साधर्म्यदृष्टान्त एवोपादेयो न
वैधर्म्यदृष्टान्त इत्याह--प्रसिद्धेतिं । वैधर्म्यदृष्टान्त उपादेय इति योजयित्वा कुत उपादेय
इत्याशङ्कायां प्रसिद्धेत्यादिहेतुपदं योज्यम् । साध्याभावे हेत्वभावप्रदर्शनात् । तत्रेति
बुद्धिस्थम् । यद्वा प्रदर्श्यतेऽस्मिन्निति प्रदर्शयतीति वा प्रदर्शनो हेत्वभावस्य प्रदर्शन इति तथा ।
भावप्रधानत्वान्निर्देशस्य हत्वभावप्रदर्शनत्वादित्यर्थः ।
239
अस्मिंश्चार्थे दर्शिते दर्शित एव दृष्टान्तो भवति । योऽयमर्थो व्याप्तिसाधनप्रमाण
प्रदर्शनः1551 कश्चिदुपादेयो निवृत्तिप्रदर्शन1552 श्च--इत्यस्मिन्नर्थे 1553दर्शिते दर्शितो दृष्टान्त
1554इत्याह--एतावन्मात्रं रूपं यस्य तस्य भावस्तत्त्वम्, तस्मादिति । एतावदेव हि रूपं
दृष्टान्तस्य, यदुत व्याप्तिसाधनप्रमाण1555 प्रदर्शकत्वं नाम साधर्म्यदृष्टान्तस्य, प्रसिद्धव्याप्तिकस्य
च1556 साध्यनिवृत्तौ साधननिवृत्तिप्रदर्शकत्वमित्येत1557 द्वैधर्म्यदृष्टान्तस्य । 1558एतच्च हेतुरूपाख्याना
देवाख्यातमिति किं दृष्टान्तलक्षणेन ? ॥
एतेनैव दृष्टान्तदोषा अपि निरस्ता भवन्ति ॥ १२३ ॥
एतेनैव च हेतुरूपाख्यानाद् दृष्टान्तत्वप्रदर्शनेन दृष्टान्तदोषा1559 दृष्टान्ताभासाः1560 कथिता
भवन्ति । तथाहि--पूर्वोक्तसिद्धये य उपादीयमानोऽपि1561 दृष्टान्तो न समर्थः स्वकार्यं
साधयितुं स दृष्टान्तदोष इति सामर्थ्यादुक्तं1562 भवति ॥
अस्मिंश्चेत्यादि मूलमनूद्य व्याचष्टे योऽयमिति । पूर्ववत्प्रदर्शनशब्दस्य व्युत्पत्तिः,
समासश्च कर्त्तव्यः । प्रसिद्धायां व्याप्तौ साध्या79a भावे हेतोर्निवृत्तिप्रदर्शन इत्यर्थो द्रष्टव्यः ।
एतावदेवैतावन्मात्रम् । अन्यदप्यस्य रूपमस्तीत्याह--एतावदेवेति । हिर्यस्मादेतत् परिमाण
मस्येति तथा । एवकारेणान्यस्य ताद्रूप्यनिरासो दृढीकृतः । किं तद्रूपमित्याह--यदुतेति ।
निपातसमुदायश्चायं यदेतदित्यस्यार्थे ॥
येषु दृष्टान्तत्वेनोपात्तेषु स्वकार्यका1563रणासामर्थ्ये दोषः सम्भवति ते कुतश्चित्सामा
न्याद् दृष्टान्तवदाभासमाना दृष्टान्ताभासा भवन्तीति अर्थं न्यायमाश्रित्याह--दृष्टान्तदोषा
दृष्टान्ताभासाः कथिता भवन्तीति । यस्मात्ते दृष्टान्ताभासत्वेन कथिता भवन्त्यत एव दृष्टा
न्तत्वेन निरस्ता भवन्तीत्यत एव मूलमर्थतो व्याख्यातमित्यवगन्तव्यम् । दृष्टान्ततत्त्वप्रदर्शनेन
यथा दृष्टान्ताभासा1564कथनं कृतं भवति तथा दर्शयितुं तथा हीत्यादिनोपक्रमते । पूर्वोक्तस्य
जन्मतन्मात्रानुबन्धस्य सिद्धये निश्चयाय । स्वकार्यं साधनसम्भवे साध्यप्रदर्शनसम्भवलक्षणम्,
सिद्धव्याप्तिकस्य च हेतोः साध्याभावे साधननिवृत्तिप्रदर्शनलक्षणं च साधयितुं य उपादीय
मानोऽपि न समर्थः, स दृष्टान्तदोषो दुष्टो दृष्टान्तः, दृष्टान्ताभास इति यावत् । सामर्थ्यात्
स्वकार्याकारणलक्षणात् ॥
240
दृष्टान्ताभासामुदाहरति--
यथा नित्यः शब्दोऽमूर्त्तत्वात् । कर्मवत् परमाणुवद् घटवदिति । एते
दृष्टान्ताभासाः साध्यसाधनधर्मोभयविकलाः ॥ १२४ ॥
यथा 1565नित्यः शब्द इति 1566शब्दस्य नित्यत्वे साध्येऽमूर्तत्वादिति हेतुः । साधर्म्येण
कर्मवत् परमाणुवद् घटवदित्येते दृष्टान्ता उपन्यस्ताः । एते च दृष्टान्तदोषाः । साध्यं च
साधनं चोभयं चेति1567 । तैर्विकलाः । साध्यविकलं कर्म, तस्याऽनित्यत्वात् । साधनविकलः
परमाणुः, मूर्त्तत्वात् परमाणूनाम । 1568असर्वगतद्रव्यपरिमाणं मूर्त्तिः । असर्वगताश्च द्रव्यरूपाश्च
परमाणवः । नित्यास्तु वैशेषिकैरिष्यन्ते । ततो न साध्यविकलः1569 । घटस्तूभयविकलः,
अनित्यत्वान्मूर्त्तत्वाच्च घटस्येति1570 ॥
तथा सन्दिग्धसाध्यधर्मादयश्च । यथा रागादिमानयं वचनाद्रथ्या
पुरुषवत् । मरणधर्माऽयं पुरुषो रागादिमत्वाद्रथ्यापुरुषवत् । असर्वज्ञोऽयं
रागादिमत्वाद्रथ्यापुरुषवदिति ॥ १२५ ॥
तथा1571 संदिग्धः साध्यधर्मो यस्मिन् स संदिग्धसाध्यधर्मः । स आदिर्येषां ते तथोक्ताः ।
संदिग्धसाध्यधर्मः । संदिग्धसाधनधर्मः संदिग्धोभयः1572 ।
दृष्टान्ताभासानित्यादि परमाणूनामित्येतदन्तं सुगमम् ।
कथं परमाणवः साधनविकला न साध्यविकला इत्याह--असर्वेति । परिमाणं मान
व्यवहारकारणम् । तच्च गुणत्वाद् द्रव्याश्रयीति । द्रव्यग्रहणेन वास्तवं रूपमनूदितम् । तत्र
यदि द्रव्यपरिमाणं मूर्त्तिरित्येव तावदुच्यते तदाऽऽकाशादेरपि द्रव्यस्य परममहत्त्वनामधेयं
परिमाणमस्तीति मूर्त्तत्वं प्रसज्येत । अतस्तन्निवृत्त्यर्थं द्रव्ये विशेषणमसर्वगतग्रहणम् । तत्र परमाणोः
परिमाणं भवत्यसर्वगतस्य द्रव्यस्येति दर्शयन्नाह--असर्वगताश्चेति । समवायिकारणं द्रव्यं
गुणवद्वेति द्रव्यलक्षणयोगाद् द्रव्यरूपः । चकारौ पूर्वापेक्षया एकविषयत्वमनयोः समुच्चिनुतः ।
तत् पुनः परमाणोः परिमाणं पारिमाण्डलसंज्ञकं ज्ञातव्यम् । इयता साधनवैकल्यं दर्शितम् ।
साध्यावैकल्यं दर्शयन्नाह--नित्यास्त्विति । तुनेनार्थमान्तरेण 1573 विशिनष्टि । द्रव्य
गुणकर्मसामान्यविशेषसमवायात्मकैः पदार्थविशेषैर्व्यवहरन्तीति वैशेषिकाः, रूढ1574 श्चाभ्यु
पगतकणादशास्त्रा एवोच्यन्ते । अथवा षट्पदार्थीप्रतिपादकतया विशिष्यते तदन्यस्मा
च्छास्त्रादिति विशेषः काणादं शास्त्रं विवक्षितम् । 1575तद् विदन्त्यधीयते वा इति वैशेषिका
स्तैरिष्यन्त इति वचनव्यक्त्या चेष्टिमात्रमेतन्न पुनरत्र प्रमाणमस्तीति सूचयति ।
1576
241
उदाहरणम्--रागादिमानिति रागादिमत्त्वं साध्यम् । वचनाद् इति हेतुः । रथ्या
पुरुषवदिति दृष्टान्ते1577 रागादिमत्त्वं सन्दिग्धम् । मरणं धर्मोऽस्येति मरणधर्मा । तस्य भावो
मरणधर्मत्वं साध्यम् । अयं पुरुष इति धर्मी । रागादिमत्त्वादिति हेतुः । रथ्यापुरुषे दृष्टान्ते
सन्दिग्धं साधनम् । साध्यं तु निश्चितं मरणधर्मत्वमिति । असर्वज्ञ इति । असर्वज्ञत्वं
साध्यम् । रागादिमत्त्वादिति हेतुः । तदुभयमपि रथ्यापुरुषे दृष्टान्ते सन्दिग्धम् । असर्वज्ञत्वं
रागादिमत्त्वं चेति ॥
1578तथाऽनन्वयोऽप्रदर्शितान्वयश्च । यथा - यो वक्ता स रागादिमान्,
इष्टपुरुषवत् । अनित्यः शब्दः कृतकत्वाद् घटवदिति ॥ १२६ ॥
तथाऽनन्वय इति । यस्मिन् दृष्टान्ते साध्यसाधनयोः सम्भवमात्रं दृश्यते, न तु साध्येन
व्याप्तो हेतुः, सोऽनन्वयः । अप्रदर्शितान्वयश्च--यस्मिन् दृष्टान्ते विद्यमानोऽप्यन्वयो न
प्रदर्शितो वक्त्रा सोऽप्रदर्शितान्वयः ।
अनन्वयमुदाहरति--यथेति । यो वक्तेति वक्तृत्वमनूद्य स रागादिमानिति रागादि
मत्त्वं1579 विहितम् । ततो वक्तृत्वस्य रागादिमत्त्वं 1580 प्रतिनियमः । तेन व्याप्तिरुक्ता । इष्ट
पुरुषवदिति । इष्टग्रहणेन प्रतिवाद्यपि 1581संगृह्यते वाद्यपि । तेन वक्तृत्वरागादिमत्त्वयोः
सत्त्वमात्रमिष्टे पुरुषे सिद्धम् । व्याप्तिस्तु न सिद्धा । तेनाऽनन्वयो दृष्टान्त इति ।
अनित्यः शब्द इत्यनित्यत्वं साध्यम् । कृतकत्वादिति हेतुः । घटवदिति1582 दृष्टान्ते
न प्रदर्शितोऽन्वयः ।
तत इत्यादि मरणधर्मत्वमित्येतदन्तं सुज्ञानम् ।
ननु मरणधर्मत्वमप्यस्य कथं निश्चितं येन हेतुरेव सन्दिग्ध उच्यत इति चेत् । सत्यम् ।
केवलं प्रसिद्धिसमाश्रयेणैवमुक्तमित्यवसेयम् । अन्वीयमानत्वं साधनस्य साध्येनान्वयः । स
च प्रतिबन्धसाधकप्रमाणाक्षेपात् प्रसिद्ध्यति । यत्र तु तन्नास्ति केवलं सम्भवमात्रं साहचर्यमात्रं
दृश्यत इत्यभिप्रायः ॥
वक्तृत्वस्य हेतो रागादिमत्त्वे 79b साध्ये प्रतिनियमः प्रतिनियतत्वमुक्तमिति शेषः ।
तेन साध्यनियतत्वेन व्याप्तिरनयोरुक्ता प्रदर्शिता । एवंविधानुवादविध्युपदर्शने तथा प्रतीते
राहत्योदयाद् व्याप्तिरुक्तेत्युक्तम् । न त्वसावनयोर्वाक्यतोऽस्ति । यतो द्वयोरपि वादिप्रति
वादिनोदृष्टान्तत्वेन सङ्ग्रहः तेन हेतुना सत्त्वमात्रं सम्भवमात्रं साहचर्यमात्रमिति यावत् ।
अस्ति चेष्टिः सहमात्रोपदर्शनमदोषावहमित्याह--व्याप्तिस्त्विति । तुः सत्त्वमात्राद् व्याप्तिं
भिनत्ति । न सिद्धा न प्रमाणनिश्चिता । अनयोर्व्याप्तिसाधकप्रमाणाभावादिति भावः ।
अप्रदर्शितान्वयमुदाहरन्नाह--अनित्य इति ।
242
इह यद्यपि कृतकत्वेन घटसदृशः शब्दस्तथापि नानित्यत्वेनापि सदृशः प्रत्येतुं शक्यते1583
ऽतिप्रसङ्गात्1584 । यदि तु कृतकत्वम् अनित्य1585 स्वभावं1586 विज्ञातं भवत्येवं1587 कृतकत्वादनित्यत्व
प्रतीतिः स्यात् । तस्माद् यत् कृतकं तदनित्यमिति कृतकत्वमनित्यत्वे1588 नियतमभिधाय नियम
साधनायान्वयवाक्यार्थप्रतिपत्तिविषयो दृष्टान्त उपादेयः । स च प्रदर्शितान्वय एव । अनेन
त्वन्वयवाक्यमनुक्त्वैव दृष्टान्त उपात्तः । ईदृशश्च साधर्म्यमात्रेणैवोपयोगी । न च साधर्म्यात्
साध्यसिद्धिः । अतोऽन्वयार्थो दृष्टान्तस्तदर्थश्चानेन नोपात्तः । साधर्म्यार्थश्चोपात्तो निरुपयोग
ननु घटोपदर्शनेन कृतकत्वेन तावद् घटसदृशः शब्दो दर्शितः । तथा चानित्यत्वेनापि
सदृशो दर्शितस्ततश्च व्याप्तिर्दर्शितैवेत्याह--इहेति । इहानित्यत्वसिद्धिप्रस्तावे । कुतस्तथा
प्रत्येतुमशक्य इत्याह--अतिप्रसङ्गादिति । मूर्त्तत्वादि1589रपि सादृश्यागम 1590
प्रसक्ति 1591 रिष्टं धर्ममतिक्रान्तः प्रसङ्गोऽतिप्रसङ्गः तस्मात् । न तर्हि कृतकत्वादनित्यत्वं कदा
चिदपि प्रत्येतव्यमित्याह--यदि त्विति । तुरिमामवस्थां विशेषवतीं दर्शयति । यदि कृतक
त्वानुवादपूर्विका 1592 विधानेनार्थान्तरत्वे सति न नित्यत्वस्वभावं कृतकत्वं प्रतीतं भवत्येवं
तत्स्वाभाव्येन प्रतिपत्तौ कृतकत्वादनित्यत्वप्रतीतिः स्यात् । यतः कृतकत्वस्यानित्यत्वस्वभावा
वगमात्ततस्तत्प्रतीतिर्नान्यथा तस्माद् हेतोः । अन्वयवाक्यस्य साध्यनियतत्वं साधनस्यार्थोऽ
भिधेयः, तत्प्रतिपत्तिविषयस्तत्प्रदर्शन इत्यर्थः । अन्वयवाक्यार्थप्रतिपत्तिविषयोऽपि दृष्टान्तो
यद्यप्रदर्शितान्वयस्तदा सोऽपि निरुपयोगः किमित्युपादेय इत्याह--स चेति । चोऽवधारणे
यस्मादर्थे वा । अनेन कथं नामायमुपात्तो येनैवमभिधीयत इत्याह--अनेनेति । अनेन
वादिना । तुर्विशेषार्थः । अन्वयप्रतिपादकं वाक्यमन्वयवाक्यम् । तदनुक्त्वैव । अथैव
मुपात्तोऽपि यद्युपयुज्यते तदा का क्षतिरित्याह--ईदृशश्चेति । चकारोऽस्येमामवस्थां भेदवतीमाह ।
समानः प्रकरणाद् घटेन सदृशो धर्मो यस्यासौ सधर्मा । तस्य भावः साधर्म्यम् । तदेव तन्मात्रम् ।
मात्रग्रहणेन विशिष्टं साधर्म्यमपाकरोति । तेनैवकारेण निराकृतनिरासमेव द्रढयति । साधर्म्य
प्रदर्शनमात्रेणैवायमुपयोगवानित्यर्थः । अथैतत्पददर्शितात्साधर्म्यादपि यदि साध्यं सिद्ध्यति
तदा कथमयमनुपयुक्त इत्याह--न चेति । चोऽवधारणे यस्मादर्थे वा ।
एवं ब्रुवतोऽयं भावः--अनेन खलु साधर्म्यं प्रदर्शनीयम् । कृतकत्वेनैव च साधर्म्यं इति वक्तृदोषादयं दृष्टान्तदोषः । वक्त्रा ह्यत्र परः प्रतिपादयितव्यः । ततो यदि नाम न तथा विपरीतान्वयः--यदनित्यं तत् कृतकमिति ॥ १२७ ॥ तथा विपरीतोऽन्वयो यस्मिन् दृष्टान्ते स तथोक्तः । तमेवोदाहरति--यदनित्यं तत्
प्रदर्श्यायञ्चरितार्थो भविष्यति । न च कृतकत्वेन घटसाधर्म्ये शब्दस्यावगतेऽप्यनित्यत्वेनापि
तत्साधर्म्यावगमोऽवश्यम्भावीति शक्यमभिधातुम् । मूर्त्तत्वादिनापि सादृश्यावगमेऽस्यानिवार्यत्व
प्रसङ्गादिति । यतः साधर्म्यमात्रान्न साध्यसिद्धिरतः कारणात् । अन्वयोऽन्वीयमानत्वं
साधनस्य साध्येन सोऽर्थः प्रयोज 80a नं यस्य स तथा न साधर्म्यमात्रप्रदर्शनार्थ इत्यर्थात् ।
अनेनाप्यन्वयार्थ एवायमुपात्त इत्याह--तदर्थश्चेति । चो यस्मादर्थे । सोऽन्वयोऽर्थो यस्य स
तथा । अनेन वादिना । किमर्थस्तर्ह्यनेनायमुपात्त इत्याह--साधर्म्येति । चो यस्मादर्थे ।
243
दुष्टं वस्तु तथापि वक्त्रा दुष्टं दर्शितमिति दुष्टमेव ॥
कृतकमिति । कृतकत्वमनित्यत्वनियतं दृष्टान्ते1593 दर्शनीयम् । एवं कृतकत्वादनित्यत्वगतिः
स्यात् । अत्र त्वनित्यत्वं कृतकत्वे1594 नियतं दर्शितम् । कृतकत्वं 1595त्वनियतमेवानित्यत्वे ।1596
ततो यादृशमिह कृतकत्वमनियतमनित्यत्वे 1597दर्शितं तादृशान्नास्त्यनित्यत्वप्रतीतिः । तथाहि—
यदनित्यमित्यनित्यत्वमनूद्य तत् कृतकमिति कृतकत्वं विहितम् । अतोऽनित्यत्वं नियतमुक्तं
कृतकत्वे, न तु कृतकत्वमनित्यत्वे । ततो यथाऽनित्यत्वादनियतात् प्रयत्नानन्तरीयकत्वे न
प्रयत्नानन्तरीयकत्वप्रतीतिः, तद्वत् कृतकत्वादनित्यत्वप्रतिपत्तिर्न स्याद्, अनित्यत्वेऽनियतत्वात्
कृतकत्वस्य ।
साधर्म्यार्थः साधर्म्यप्रतिपादनप्रयोजन उपात्तस्तस्मान्निरुपयोगः स । तस्मादर्थें वा । अयं
चशब्दात् परो द्रष्टव्यः । ननु कृतकत्वानित्यत्वयोस्तावद् वस्तुतोऽन्वयोऽस्त्येव । तत्कथं
विद्यमानेऽपि तस्मिन् तथाऽप्रदर्शनमात्रेणासौ दृष्टान्तो दुष्यतीत्याह--वक्तृदोषादिति । वक्ता
हीत्यादिनैतदेव समर्थयते । ननु वक्तैवासौ तथा प्रदर्शयन्नपराध्यतु, अन्यस्य दृष्टान्तत
पस्विनः कोऽपराध इति चेत् । स्वकार्याऽकरणमेव दोषः । तदकरणं तस्य स्वत एव 1598
सामर्थ्याद्, अन्येनान्यथाप्रदर्शनाद् वाऽस्तु । किमेतावता तदकरणं तस्य नास्त्येवेति सूक्तं
वक्तुदोषादयं दृष्टान्तदोष इति ॥
विपरीतोऽन्वय इति वैपरीत्येन प्रदर्शनाद् विपरीत उक्तो न तु विपरीतोन्वयोऽस्त्येव । यद्यपि च कृतकत्वं वस्तुस्थित्याऽनित्यत्वे नियतं 1600तथाप्यनियतं वक्त्रा1601 दर्शितम् । तस्माद् विपरीतान्वयोऽपि वक्तुरपराधात्, न वस्तुतः 1604 । परार्थानुमाने च1605 वक्तु साधर्म्येण दृष्टान्तदोषाः 1607॥ १२८ ॥ साधर्म्येण1608 नव दृष्टान्तदोषा उक्ताः ॥ वैधर्म्येणापि1609 दृष्टान्तदोषान्1610 वक्तुमाह-- वैधर्म्येणापि--परमाणुवत् कर्मवद् आकाशवदिति साध्याद्यव्यतिरेकिणः ॥ १२९ ॥ नित्यत्वे शब्दस्य साध्ये हेतावमूर्त्तत्वे 1611परमाणुर्वैधर्म्यदृष्टान्तः साध्याव्यतिरेकी ।
कीदृशोऽविपरीतोऽन्वयो यस्मादयं विपरीत इत्याह--कृतकत्वमिति । एवं प्रदर्शने को गुण
इत्याह--एवमिति । एवं कृतकत्वस्यानित्यत्वे नियतत्वप्रदर्शने सति । अत्र पुनः कुत्र किं
नियतमित्याह--अत्रेति । तुरिमामवस्थां विशेषवतीं दर्शयति । अनित्यत्वानुवादेन
कृतकत्वस्य विधानाद् विधीयमानस्य व्यापकतया नियमविषयत्वादित्यभिसन्धिः कृतकत्वं
पुनः कीदृशं दर्शितमित्याह--कृतकत्वमिति । तुरनित्यत्वात् कृतकत्वं भिनत्ति । अनित्यत्वे
ऽनियतमिति कोऽर्थोऽनिप्यत्वेऽपि कृतकत्त्वं भवति, अन्तरेण कृतकत्वमिति । अनित्यत्वा
नियतादपि कृतकत्वादि 1599 नित्यत्वं प्रतिपश्येत इत्याह--तत इति । यत एवमनुवादविधिक्रमे
कृतकत्वमनित्यत्वानियतं दर्शितं भवति, ततस्तस्मादिह प्रयोगे । यादृशमिति विधीयमानम् ।
पूर्वमेवंवादिनाऽनित्यत्वं कृतकत्वे नियतं दर्शितम्, न कृतकत्वमनित्यत्वे चेति प्रतिज्ञामात्रेणोक्तमधुना
तु येन प्रकारेण तस्यैव प्रदर्शनमायातं तथाहीत्यादिना तद् दर्शयति । अनित्यत्वं प्रयत्नानन्तरीयक
244
अतः 1602स्वयमदुष्टमपि 1603वक्तृदोषाद् दुष्टम् ।
रपि 1606दोषश्चिन्त्यत इति ॥
नित्यत्वात् परमाणूनाम् । कर्म साधनाव्यतिरेकि, अमूर्त्तत्वात् कर्मणः आकाशमुभया
व्यतिरेकि, नित्यत्वादमूर्त्तत्वाच्च ।
त्वमन्तरेणाचिरप्रभादौ दृश्यमानमनियतं तत्र । तत्र यथाऽनित्यत्वात्प्रयत्नानन्तरीयकत्वा
प्रतीतिस्तद्वत् कृतकत्वादप्यनित्य त्व नियतान्नानित्यत्वप्रतीतिर्भवितुमर्हति ।
ननु भवतु अनित्यत्वात्प्रयत्नानन्तरीयकत्वाप्रतीतिर्वस्तुतस्तस्य तत्रानियतत्वात्कृतकत्वं तु
परमार्थतो नियतमनित्यत्वे । तत्कुतस्तस्मात्तस्याप्रतीतिरित्याह--यद्यपित्यादि । एवं ब्रुवतोऽयं
भावः--वस्तुतश्छेदनस्वभावोऽपि परशुर्यदाच्छेदकेन भ्रान्त्याऽन्यथा वा उद्वर्त्त्य बाहुमुद्यम्य
द्वैधीभावार्थं धवादौ निपात्यते, तदा तेन स्वयमदुष्टेनापि यथा छिदा न सम्पाद्यते, तद्वदनेनापि
परोक्षार्थप्रतीतिर्न सम्पाद्यते, स्वयमदुष्टेनापीति ।
यस्मादेवं त 80b स्माद् हेतोर्वक्तुरनुमापयितुरपराधाद् दोषाद् विपरीतान्वयोऽपि
दृष्टान्तदोष इति दोषः । न केवलमप्रदर्शितान्वय इत्याह--न वस्तुनः कृतकत्वस्यापराधात् ।
तत्तावत्स्वतोऽदुष्टम् । तत्किं वक्तृदोषेण चिन्तितेनेत्याह--परार्थेति । न केवलं साधनस्य
दोषश्चिन्त्यत इत्यपि शब्दात् ॥
यतोऽल्पीयो नास्ति स परमाणुः वैधर्म्यप्रतिपाद न विषयोपात्तत्वान् वैधर्म्यदृष्टान्त
उक्तः । साध्यस्याव्यतिरेको निवृत्त्यभावः सोऽस्यास्तीति तथोक्तः ॥
245
साध्यमादिर्येषां तानि साध्यादीनि साध्यसाधनोभयानि । तेषामव्यतिरेको 1612निवृत्त्य
भावः । स येषामस्ति ते साध्याद्यव्यतिरेकिणः । ते चोदाहृताः ॥
अपरानुदाहर्त्तुमाह--
तथा संदिग्धसाध्यव्यतिरेकादयः । यथाऽसर्वज्ञाः कपिलादयोऽनाप्ता वा
अविद्यमानसर्वज्ञताप्ततालिङ्गभूतप्रमाणातिशयशासनत्वादिति । अत्र 1614वैध
र्म्योदाहरणम्--यः सर्वज्ञ आप्तो वा स ज्योतिर्ज्ञानादिकमुपदिष्टवान् ।
1615यथा--1616ऋषभवर्धमानादिरिति । 1617तत्रासर्वज्ञतानाप्ततयोः साध्यधर्मयोः
संदिग्धो व्यतिरेकः ॥१३०॥
तथेति । साध्यस्य व्यतिरेकः साध्यव्यतिरेकः । संदिग्धः साध्यव्यतिरेको यस्मिन् स
संदिग्धसाध्यव्यतिरेकः । स आदिर्येषां ते तथोक्ताः ।
संदिग्धसाध्यव्यतिरेकमुदाहर्त्तुमाह--यथेति । असर्वज्ञा इत्येकं साध्यम् । अनाप्ता
अक्षीणदोषा इति द्वितीयम् । कपिलादय इति धर्मीं । अविद्यमानसर्वज्ञतेत्यादि हेतुः । सर्वज्ञता
च आप्तता च तयोर्लिङ्गभूतः प्रमाणातिशयो लिङ्गात्मकः प्रमाणविशेषः । अविद्यमानः
सर्वज्ञताप्ततालिङ्गभूतः प्रमाणातिशयो यस्मिन् तत् तथोक्तं शासनम् । तादृशं शासनं येषां
ते1618 तथोक्ताः । तेषां भावस्तत्त्वम् । तस्मात् । प्रमाणातिशयो ज्योतिर्ज्ञानोपदेश इहाभिप्रेतः ।
यदि हि कपिलादयः सर्वज्ञा आप्ता वा स्युस्तदा ज्योतिर्ज्ञानादिकं कस्मान्नोपदिष्टवन्तः ? न
चोपदिष्टवन्तः । तस्मान्न सर्वज्ञा आप्ता वा ।
अत्र प्रमाणे वैधर्म्योदाहरणम् । यः सर्वज्ञ आप्तो वा स ज्योतिर्ज्ञानादिकं सर्वज्ञताप्तता
लिङ्गभूतमुपदिष्टवान् । यथा ऋषभो वर्धमानश्च तावादी यस्य स ऋषभ-वर्धमानादिर्दि-
प्रकरणात्क्षीणदोषत्वमाप्तत्वलक्षणमस्य विवक्षितमिति तत्वा अनाप्ता अक्षीणदोषा इति
व्याचष्टे । कपिलः सांख्यदर्शनकारो मुनिः । आदिशब्देन गौतमादेः सङ्ग्रहः । शासनं मार्ग
स्तत्प्रणीतशास्त्रमिति यावत् ।
ननु तेषामपि शासने लिङ्गात्मकः प्रमाणातिशयोऽनेकोऽस्त्येव । तत्कथं हेतुरयमसिद्धो न गम्बराणां शास्ता1619 सर्वज्ञश्च1620 आप्तश्चेति । तदिह वैधर्म्योदाहरणाद् ऋषभादेरसर्वज्ञत्वस्या
भवतीत्याह--प्रमाणातिशय इति । ज्योतिषां ग्रहनक्षत्राणां ज्ञानं तस्योपदेशः । ज्योतिर्ज्ञानस्यो
पलक्षणत्वाज्ज्योतिर्ज्ञानाद्युपदेश इत्यवगन्तव्यम् । तदयं समुदायार्थः--यस्मात्तैर्ज्योतिर्ज्ञानमन्या
तीन्द्रियज्ञानं च स्वशासने नोपदिष्टं तस्मात्ते न तथारूपा इति । यदि हीत्यादिनैतदेव दर्शयति ।
246
नाप्ततायाश्च व्यतिरेको व्यावृत्तिः संदिग्धा । यतो ज्योतिर्ज्ञानं चोपदिशेद् असर्वज्ञाश्च भवेद्
अनाप्ता वा । कोऽत्र विरोधः ? नैमित्तिकमेतज्ज्ञानं व्यभिचारि न सर्वज्ञत्वमनुमापयेत् ॥
आदिशब्देनान्यातीन्द्रियज्ञानं संगृह्यते । ऋषभवर्धमाननामधेयावह्नीकाणामिष्टदेवौ ।
आदिशब्देन पार्श्वनाथारिष्टनेमिप्रभृतेः सङ्ग्रहः । शास्ता स्वदृष्टमन्योपदेष्टा । सर्वज्ञश्चा
प्तश्चेत्यनेन द्वयस्यापि साध्यस्याभावं दर्शयति । यदाह--अकलङ्कः--यदि सूक्ष्मे व्यवहिते वा
वस्तुनि बुद्धिरत्यन्तपरोक्षे न स्यात्कथं तर्हि ज्योतिर्ज्ञानाविसंवादः ? ज्योतिर्ज्ञानमपि हि सर्वज्ञ
प्रवर्त्तितमेव, एतस्मादविसंवादिनो ज्योतिर्ज्ञानात्सर्वज्ञसिद्धिः । तदुक्तम्--
कथं पुनः सत्यपि ज्योतिर्ज्ञानाद्युपदेशे विपक्षादृषभादेरसर्वज्ञत्वादेर्व्यावृत्तिः सन्दिग्धेत्याह—
यत इति । अत्र सर्वज्ञतायामनिष्टायां सत्यामपि ज्योतिर्ज्ञानाद्युपदेशे को विरोधोऽनुपपत्तिः ?
क्षेपे किमः प्रयोगान्न कश्चिदित्यर्थः ।
अथासर्वज्ञत्वे तस्यैतस्मादिदं ग्रहोपरागादि भावि ततश्चैवं भावीति ज्ञानं कथं वृत्तं येन
सम्वादि तथोपदिशेत् । तस्मात् सर्वज्ञ एवासाविति निश्चय इत्याशङ्क्याह--नैभित्तिकमेत
दिति । एतज्ज्योतिर्ज्ञानादिकं निमित्तात्परम्परया कारणाद् । विषयेण च विषयिणो
निर्देशान्निमित्तदर्शनादागतं नैमित्तिकम्, अत एव तदुपदेष्टुः सर्वज्ञता व्यभिचरतीति । तथा
सर्वज्ञतामन्तरेणापि भवतीदानीन्तनज्योतिषिकाणामिवाऽतीन्द्रियोपरागादिज्ञानमित्यभिप्रायः ।
तथाभूतं ज्ञानं न सर्वज्ञतामनुमापयेदनुमापयितुं शक्नोति ।
ननु च तथाभूतेन भाविवस्तुना सह कस्यचित्कार्यकारणभाव एव तेन कश्चिद् ज्ञातः ।
यद्य81a सावसर्वज्ञो भवेद् असर्वज्ञश्च कथमुपदिशेदिति चेत् । न । एतदन्यतोऽपि ज्ञात्वा तदुप
देशसम्भवात् । तस्यान्यतस्तथाविधात् । न चादिमान् संसारः । येन स एवाद्यस्तथा ज्ञानी
सर्वज्ञः, स चास्माकमृषभादिरित्यप्युच्येत । अथवा--यद्यसावसर्वज्ञस्तदा तस्य तथाभूतस्य
साध्यसाधनभावस्याविदुष उपदेशादस्मदादीनामतीन्द्रियोपरागादिज्ञानं संवादि च कथं भवेदि
त्याशङ्क्याह--नैमित्तिकमिति ।
अयमर्थः--कारणदर्शनस्वभावकार्यज्ञानमेतत्; एतच्च भाविवस्तुव्यतिरेकेण भवेदपि,
नावश्यं कारणानि कार्यवन्ति भवन्तीति न्यायात् । एतच्च व्यभिचारि ज्ञानमुपदिश्यमानं
नोपदेष्टुः सर्वज्ञतामनुमापयितुं कल्प्यते ।
अथ तदेव तस्य तथाभूतस्य कारणवस्तुनस्तत्तद्भाविवस्तु प्रति कारणत्वं कथं जानीया सन्दिग्धसाधनव्यतिरेको यथा--न त्रयीविदा ब्राह्मणेन ग्राह्यवचनः सन्दिग्धः साधनव्यतिरेको यस्मिन् स तथोक्तः । तमुदाहरति--यथेति । ऋक्सामयजंषि अत्र प्रमाणे वैधर्म्योदाहरणम्--साध्याभावः साधनाभावेन 1626यत्र व्याप्तो दर्श्यते तद् सन्दिग्धोभयव्यतिरेको यथा--अवीतरागाः कपिलादयः, परिग्रहाग्रह योगादिति ।
त्कथं चोपदिशेद् यद्यसावसर्वज्ञ इति चेत् । अन्यतस्तद्धि ज्ञात्वा ज्ञातं 1621 चोपदेशश्च तस्योप
247
कश्चिद् 1622विवक्षितः पुरुषो रागादिमत्त्वादिति । अत्र वैधर्म्योदाहरणम्--ये
ग्राह्यवचना न ते रागादिमन्तः । तद्यथा 1623गौतमादयो धर्मशास्त्राणां1624
प्रणेतार इति । गौतमादिभ्यो रागादिमत्तवस्य साधनधर्मस्य व्यावृत्तिः
सन्दिग्धा ॥ १३१ ॥
त्रीणि त्रयी तां वेत्तीति1625 त्रयीवित् । तेन न ग्राह्यं वचनं यस्येति साध्यम् । विवक्षित इति
कपिलादिर्धर्मी । रागादिमत्त्वादिति हेतुः ।
वैधर्म्योदाहरणम् । ग्राह्यं वचनं येषां ते ग्राह्यवचना इति साध्यनिवृत्तिमनूद्य न ते रागादिमन्त
इति साधनाभावो विहितः । गौतम आदिर्येषां ते तथोक्ता मन्वादयो धर्मशास्त्राणि स्मृतय
स्तेषां कर्त्तारः त्रयीविदा हि ब्राह्मणेन ग्राह्यवचना धर्मशास्त्रकृतो वीतरागाश्च त इतीह
1627धर्मी व्यतिरेकविषयो गौतमादय इति । गौतमादिभ्यो रागादिमत्त्वस्य साधनस्य निवृत्तिः
सन्दिग्धा । यद्यपि ते ग्राह्यवचनास्त्रयीविदस्तथापि1628 किं सरागा उत वीतरागा इति सन्देहः ॥
अत्र वैधर्म्येणोदाहरणम्--यो वीतरागो न तस्य परिग्रहाग्रहः ।
पद्यते । तस्याप्यन्यस्माद् । अनादिश्च संसार इति कथमेतावन्मात्रेण वर्धमानाहेः सर्वज्ञत्व
सिद्धिरिति ॥
त्रयोऽवयवा यस्याः संहतेरिति त्रयीत्यदन्तात् ङीप् । किमत्र साध्या भावा नुवादेन साधना
भावो विहितो येनैतद् वैधर्म्योदाहरणं भवतीत्याशङ्क्याह--साध्येति । गौतमोऽक्षपादापरनामा
न्यायसूत्रस्यापि प्रणेता मुनिः । मनुरिति स्मृतिकारो मुनिः । आदिशब्दाद् विश्वरूपयाज्ञ
वल्क्यसंवृत्तादेः सङ्ग्रहः । इतिस्तस्मात् । धर्मित्वमात्रजिज्ञापिषया धर्मी व्यतिरेकविषय इति
अभिधाय तस्यैव विशेषनिष्ठप्रतिपादनेच्छया गौतमादय इत्युक्तम् । 1629इन्द्रियमनस्कारजमेत
द्राजा1630नमित्यादिवत् तस्माद् वैधर्मी दृष्टान्तो गौतमादिरिति वाक्यार्थः । तथात्वं च तेषां
तथात्वेनोपादानान्न तु परमार्थत इत्यवसेयम् । ग्राह्यवचनत्वेऽपि तेषां कथं ताद्रूप्यसन्देह
इत्याह--यद्यपीति । उतेति पक्षान्तरमुद्द्योतयति ॥
248
यथर्षभादेरिति1631 । ऋषभादेरवीतरागत्वपरिग्रहग्रहयोगयोः साध्यसाधनधर्मयोः
सन्दिग्धो व्यतिरेकः ॥१३२॥
सन्दिग्ध उभयोर्व्यतिरेको यस्मिन् स तथोक्तः । तमुदाहरति यथेति । अवीतरागा
इति रागादिमत्त्वं साध्यम् । कपिलादय इति धर्मी । परिग्रहो लभ्यमानस्य स्वीकारः प्रथमः ।
स्वीकारादूर्ध्वं यद् गार्ध्यं मात्सर्यं स आग्रहः । परिग्रहश्च आग्रहश्च, ताभ्यां योगात् । कपिला
दयो लभ्यमानं स्वीकुर्वन्ति स्वीकृतं न मुञ्चन्ति--इति ते रागादिमन्तो गम्यन्ते । अत्र प्रमाणे
वैधर्म्योदाहरणम्--यत्र साध्याभावे साधनाभावो दर्शयितव्यः । यो वीतराग इति साध्याभाव
मनूद्य, न तस्य परिग्रहाग्रहाविति साधनाभावो विहितः । यथर्षभादेरिति दृष्टान्तः । एतस्मादृ
षभादेर्दृष्टान्ताद् अवीतरागत्वस्य साध्यस्य परिग्रहाग्रहयोगस्य1632 च साधनस्य 1633निवृत्तिः
सन्दिग्धा । ऋषभादीनां हि परिग्रहाग्रहयोगोऽपि सन्दिग्धो वीतरागत्वं च । यदि नाम तत्सिद्धान्ते
वीतरागाश्च निष्परिग्रहाश्च 1634पठ्यन्ते तथापि सन्देह एव ॥
अपरानपि 1635त्रीनुदाहर्त्तुमाह--
उभयश1641ब्दस्य द्विवचनान्तस्य प्रयोगदर्शनादुभयोरित्युभशब्देनार्थमाह । लब्धमिदं
वस्तु मत्तोऽन्यत्र नरामदि 1642ति तु विशेषोऽत्र मात्सर्यमभिप्रेत आग्रहः । न मुञ्चति
1643 नान्यस्मै ददति । अनेनैव रूपेण वैधर्म्योदाहरणं भवति । नान्यथेति द्रढयितुमुक्तमपि
स्मारयन्नाह--यत्रेति । ऋषभादीनामित्यनेन वैधर्म्योदाहरणाद् ऋषभादेः साध्यसाधनयो
र्व्यावृत्तिसन्देहं दर्शयति ।
नन्वस्मदागमे तद्गुणद्वययोगिनस्ते कथितास्तत्कथमनयोस्ततो व्यावृत्तिः सन्दिह्यत
इत्याह--यदि नामेति । पठ्यन्त इति च वचनव्यक्त्या च पाठमात्रेण तेषां तद्गुणयोगः सिद्धः
न तु प्रमाणेनेति दर्शयति । अत एवाह--तथापीति ॥
त्रीनिति दृष्टान्तदोषान् ।
249
अविद्यमानो व्यतिरेको यस्मिन् सोऽव्यतिरेकः । अवीतराग इति रागादिमत्त्वं साध्यम् ।
वक्तृत्वादिति हेतुः । इह व्यतिरेकमाह--यत्रावीतरागत्वं नास्तीति साध्याभावानुवादः । तत्र
वक्तृत्वमपि नास्ति--इति साधनाभावविधिः । तेन साधनाभावेन साध्याभावो व्याप्त उक्तः ।
1644दृष्टान्तो यथोपलखण्ड 1645इति ।
कथमव्यमव्यतिरेको यावतोपलखण्डादुभयं1646 निवृत्तम् ? किमतः ?1647 यद्यपि उपल
खण्डादुभयं व्यावृत्तं सरागत्वं च वक्तृत्वं च1648, तथापि व्याप्त्या1649 व्यतिरेको यस्तस्याऽसिद्धेः
कारणाद् अव्यतिरेकोऽयम् ।
कीदृशी पुनर्व्याप्तिरित्याह--सर्वो वीतराग इति साध्याभावानुवादः । न वक्तेति
साधनाभावविधिः । तेन साध्याभावः साधनाभाव1650नियतः 1651ख्यापितो भवतीति1652 । इदृशी
व्याप्तिः । तया व्यतिरेको न सिद्धः । अस्य चार्थस्य प्रसिद्धये दृष्टान्तः । तत् स्वकार्या
ऽकरणाद् दुष्टः ॥
अप्रदर्शितव्यतिरेको यथा--अनित्यः शब्दः, कृतकत्वादाकाशवदिति
वधर्म्येण1653 ॥१३४॥
येनायमनुवादविधिक्रमस्तेन हेतुना । यावतेति तृतीयान्तप्रतिरूपको यस्मादित्यस्यार्थे वर्त्तमानोऽत्र अप्रदर्शितो व्यतिरेको यस्मिन् स तथोक्तः । अनित्यः शब्द इत्यनित्यत्वं साध्यम् । इह परार्थानुमाने परस्मादर्थः प्रतिपत्तव्यः । स शुद्धोऽपि स्वतो यदि परेणाशुद्धः
गृहीतः । उ81b पलखण्डाच्छिलाशकलात् । उभयं साध्यसाधनम् । किमत इति सिद्धान्ती ।
अत उभयनिवृत्ते किं भवति ? न किञ्चिदित्यर्थः । ननूपलखण्डात्तावद् वैधर्मीदृष्टान्तादुभयं
निवृत्तं दर्शितं येन तत्किमेवमुच्यत इत्याह--यद्यपीति । व्याप्त्या सर्वरागित्वजन्यतास्वीकारेण ।
तस्य व्याप्तिमतो व्यतिरेकस्याऽसिद्धेरनिश्चयात् । कीदृशीति सामान्यतः पृच्छति । पुनरिति
विशेषतः । इतिरनन्तरोक्तं शब्दं परामृशति । तेनानेन शब्देनेत्यर्थः । न वक्तव्येत्यत्रापीति पूर्ववत् ।
येनैवमनुवादविधिक्रमस्तेन । इतिरीदृश्या व्याप्तेः स्वरूपं प्रकाशयति यस्मादर्थे वा । तत्प्रतीत्थं
भूतलक्षणतयेयं तृतीया, साधनाभावेन साध्याभावन्यायेन लक्षणा व्याप्तिरीदृशीत्यर्थः । ईदृशं
व्याप्तिमन्तं व्यतिरेकं प्रसाधयितुमसमर्थोऽयं कथमयं दृष्टान्तोऽत्रेष्ट इत्याह--अस्य चेति । अस्य
साधनाभावे साध्याऽभावनियतलक्षणस्यार्थस्य । चो यस्मादर्थेऽवधारणे वा । प्रसिद्धये निश्चयार्थं
दृष्टान्त उपादीयत इति शेषः, प्रकरणलभ्यं वा, न चायं तथाप्रदर्शन इत्यमुमर्थं प्रकरण
गम्यं कृत्वा । तत्तस्मात् स्वकार्याकरणाद् दुष्ट इत्युक्तम् । यद् वा भवत्वस्यार्थस्य प्रसिद्धये
250
कृतकत्वादिति हेतुः । आकाशवदिति वैधर्म्येण दृष्टान्तः ।
ख्याप्यते स तावद्यथा प्रकाशितस्तथा न युक्तः । यथा युक्तस्तथा न प्रकाशितः । प्रकाशितश्च
हेतुः । अतो वक्तुरपराधादपि परार्थानुमाने हेतुर्दृष्टान्तो वा दुष्टः स्यादपि । न च सादृश्या
वसादृश्याद्वा साध्यप्रतिपत्तिः, अपि तु साध्यनियताद्धेतोः । अतः साध्यनियतो हेतुरन्वयवाक्येन
व्यतिरेकवाक्येन 1654वा वक्तव्यः । अन्यथा गमको नोक्तः स्यात् । स तथोक्तो दृष्टान्तेन1655
दृष्टान्तस्तथाप्ययं कथं दुष्ट इत्याह--तत्स्वकार्येति । तच्च तत्स्वकार्यं च । साधनाभावे
साध्याभावनियतख्यापनलक्षणं चेति । तथा तस्याकरणादसम्पादनाद् दुष्ट इति ॥
अथ परमार्थतस्तावद् दृष्टान्ते नभसि साध्याभावोऽप्यस्ति, साधनाभावश्च । तत्कथम
प्रदर्शितव्यतिरेको दृष्टान्तो दुष्ट इत्याह--इहेति । परस्मात्साधनवादिनः । अर्थो हेतुलक्षणः ।
प्रकरणात्साध्याभावे साधनाभावलक्षणश्च । स स्वतः शुद्धो वस्तुवृत्त्या परिशुद्धः । तथात्वेन
विद्यमान इति यावत् । न केवलमशुद्धः--इत्यपिशब्दात् । परेण साधनप्रयोक्त्रा । यथा
प्रकाशितो व्यतिरेकमात्रवान् प्रकाशितो व्याप्तिशून्यश्च प्रकाशितः । तथा न युक्तो नोपयुक्तः
साध्यसिद्धौ । यदि हि साध्याभावानुवादेन साध्या1656भावो विधीयते दृष्टान्ते प्रदर्श्येतैव
मसौ हेतुः साध्यसिद्ध्यङ्गव्यतिरेकवान् सिद्ध्येत् । एवमेव चाऽसौ व्याप्तिमद्व्यतिरेकः प्रसिद्ध्येत् ।
तत्प्रदर्शनश्च दृष्टान्तोऽदुष्टो भवेदित्यभिप्रायः ।
यदि नाम तथा न प्रकाशितस्तथापि तदुपयोगी हेतुर्दृष्टान्तो वा तथा किं न प्रतिपद्यत
इत्याह--प्रकाशितश्चेति । चो यस्मादर्थे । हेतुरित्युपलक्षणम् । तेन दृष्टान्तोऽपि द्रष्टव्यः ।
अ1657त एवम् अतो अस्माद् हेतोः । न केवलं वचोव्यवस्थिताद् दोषादित्यपिशब्देनाह ।
यद्यपि दृष्टान्त एव प्रकृतस्तथापि हेतुरप्येवंविधः स्वतोऽदुष्टोऽपि वक्तृदोषादेव दुष्यतीति
तुल्यन्यायतया प्रसङ्गन दर्शितम् । यद्वा यथैवंविधो हेतुर्वक्तृदोषाद् दुष्टो भवति तद्वद् दृष्टान्तोऽ
पीति दृष्टान्तार्थं हेतोः वक्त्रपराधेना1658 दुष्टत्वख्यापनं कृतमिति सर्वमवदातम् ।
82a ननु च यथा कृतकत्वेनाकाशविधर्मा शब्दः प्रतीयते तथाऽनित्यत्वेनापि तद्विधर्मा
भविष्यति तत्कथमनुपयुक्त इत्याह--न चेति । चोऽवधारणे हेतौ वा । एवंवदतोऽयमाशयः—
यद्येकेन धर्मेण वैधर्म्य1659 प्रतीतेऽपरेणापि तद्वैधम्यप्रतीतिरवश्यम्भाविनी, तदा मूर्त्तत्वेनापि
शब्दस्य तद्वैधर्म्यप्रतीतिः प्रसज्येतेति । तुल्यन्यायतयाऽन्वयवाक्यमधिकृत्य सादृश्यादित्युक्तम् ।
सादृश्यादसादृश्याद् वेति साधर्म्यवैधर्म्यदृष्टान्तप्रतिपादितादिति प्रकरणात् ।
व्यतिरेकवाक्येनापि साधनाभावेनापि नियमख्यापनद्वारा साध्य एव हेतोर्नियतत्व
ख्यापनाद् व्यतिरेकवाक्येन चेत्युक्तम् ।
251
सिद्धो दर्शयितव्यः । तस्माद् दृष्टान्तो नामान्वयव्यतिरेकवाक्यार्थप्रदर्शनः1660 । न चेह व्यतिरेक
वाक्यं प्रयुक्तम् । अतो वैधर्म्यदृष्टान्त इहासादृश्यमात्रेण1661 साधक उपन्यस्तः । न च तथा
साधकः । व्यतिरेकविषयत्वेन स साधकः । च न तथोपन्यस्त इति1662 अयमप्रदर्शित
व्यतिरेको वक्तुरपराधाद् दुष्टः ॥
विपरीतव्यतिरेको 1663यथा--यदकृतकं तन्नित्यं भवतीति ॥१३५॥
1664विपरीतो व्यतिरेको यस्मिन् वैधर्म्यदृष्टान्ते स तथोक्तः । तमुदाहरति--1665यथा यद-
अन्वयवाक्ये साधनमनूद्य साध्यं विधातव्यम् । व्यतिरेकवाक्ये च साध्याभावमनूद्य
साधनाभावो विधातव्यः । तथैव हेतोः साध्यनियतत्वाभिधानादित्यस्यार्थः ।
कस्मादसौ वाक्यद्वयेनाप्येव वक्तव्य इत्याह--अन्यथेति । अस्मादन्येन प्रकारेण
गमकः परोक्षार्थप्रकाशको नोक्तः स्यात् ।
काममसावेवमुच्यताम् । दृष्टान्तस्तु कथमत्राधिक्रियत इत्याह--स इति । स हेतु
स्तथोक्तः साध्यनियत उक्तः । दृष्टान्तेन साधर्म्यवता वैधर्म्यवता च करणेन सिद्धो निश्चितो
दर्शयितव्यः ।
नन्वेवमपि न ज्ञायते किंव्यापारो दृष्टान्त इहोपयुज्यते इत्याशङ्क्योपसंहारव्याजेनाह—
तस्मादिति । नामशब्दः प्रसिद्धाविह । अन्वयव्यतिरेकवाक्ययोरथा 1666 भिधेयः--उक्तेन
प्रकारेण हेतोः साध्यनियतत्वम्--प्रदर्श्यः । तं प्रदर्शयतीति तथा । यद्वा प्रदर्श्यतेऽनेनेति
प्रदर्श्यतेऽस्मिन्निति प्रदर्शनः । तस्य प्रदर्शन इति विग्रहः ।
यद्येवमयमपि वैधर्म्यदृष्टान्तस्तथाकार्येवात्रोपयोज्यत इत्याह--न चेति । चो
यस्मादर्थे । इह प्रयोगे । व्यतिरेकख्यापकं साध्याभावानुवादेन साधनाभावविधायकं
वाक्यमित्यर्थः । अतस्तथाभूतवाक्यप्रयोगाद वैधर्म्यदृष्टान्त आकाशः । इहानित्यत्वसाधन
प्रयोगे साध्यधर्मिणोऽसादृश्यं केवलं यत्तन्मात्रेण तन्मात्रप्रदर्शनेन, विषयेण विषयिणो निर्देशात् ।
साधको निश्चायको हेतोः साध्यनियतत्वस्येति प्रकरणात् ।
यदि तन्मात्रेणापि साधकस्तदा का क्षतिरित्याह--न चेति । तथेत्यसादृश्यमात्रेण ।
वाद्युक्तेन धर्मेण साध्यधर्मिणोऽसादृश्यावगमे धर्मान्तरेणाप्यसादृश्यावगमोऽवश्यम्भावीति युज्यते
ऽतिप्रसङ्गादित्यभिप्रायः ।
252
कृतकमित्यादि । इहान्वय1667 व्यतिरेकाभ्यां साध्यनियतो हेतुर्दर्शयितव्यः । यदा च साध्यनियतो
हेतुर्दर्शयितव्यस्तदा व्यतिरेकवाक्ये साध्याभावः साधनाभावे नियतो दर्शयितव्यः । एवं हि
हेतुः साध्यनियतो दर्शितः स्यात् । यदि तु साध्याभावः साधनाभावे नियतो नाख्यायते साधन
सत्तायामपि साध्याभावः सम्भाव्येत1668 । तथा च साधनं साध्यनियतं न प्रतीयेत1669 । तस्मात्
साध्याभावः साधनाभावे नियतो वक्तव्यः । विपरीतव्यतिरेके च साधनाभावः साध्याभावे
नियत उच्यते । न साध्याभावः साधनाभावे । तथा हि--यदकृतकमिति साधनाभावमनूद्य
तन्नित्यमिति साध्याभावविधिः ।
ततोऽयमर्थः--अकृतको नित्य एव । तथा च सति अकृतकत्वं नित्यत्वे साध्याभावे
नियतमुक्तम्, न नित्यत्वं साधनाभावे । ततो न साध्यनियतं हेतुं व्यतिरेकवाक्यमाह । तथा
च विपरीतव्यतिरेकोऽपि वक्तुरपराधाद् दुष्टः ॥
यद्येवमसाधकः कथं नाम साधक इत्याह--व्यतिरेकेति । व्यतिरेकविषयत्वेनेति
व्यतिरेकप्रतिपत्तिविषयत्वेन । चो यस्मादर्थे, व्यक्तमेतदित्यस्मिन्नथे वा । अनेनापि तथैवो
पन्यस्त इत्याह--न चेति । चोऽवधारणे । व्यतिरेकवाक्यमनुक्त्वैव तस्योपादानादित्यभिप्रायः ।
इतिस्तस्मादथे एवमर्थे वा ॥
विपरीतव्यतिरेकं व्याचक्षाण आह--यदा चेति । विपरीतान्वयश 82b ब्दस्य
व्युत्पत्तौ दर्शितायां विपरीतव्यतिरेकशब्दस्यापि--विपरीतो वैपरीत्येन प्रदर्शनाद् व्यतिरेको
यस्मिन् दृष्टान्ते स तथोक्त इति--व्युत्पत्तिर्दर्शिता भवत्येवेति चाभिप्रायेण नोक्ता । तमुदा
हरतीति सुज्ञानत्वान्नोक्तमिति प्रतिपत्तव्यम् । यत्र तु पुस्तके विपरीतव्यतिरेको यथेत्यस्य
मूलस्य व्याख्यानग्रन्थोऽस्ति तत्र सर्वमवदातम् । असतीयं गतिरस्माभिर्दर्शिता ।
ननु किं नाम व्यतिरेकवाक्येन दर्शनीयम् ? यद्वैपरीत्येन दर्शनादयं विपरीतव्यतिरेक
उच्यत इत्याह--यदा चेति । चोऽवधारणे । साध्यनियत इत्यस्मात्परः प्रतिपत्तव्यः । यदा
यस्मिन् काले प्रतिपादनकाल इत्यर्थात् । कालान्तरे तथाप्रदर्शनानुपपत्तेः । हेतोः साध्ये
नियतत्वप्रदर्शनञ्चावश्यकार्यमन्यथा गमको नोक्तः स्यादित्यभिप्रायः । तदा तस्मिन् काले ।
साध्याभावानुवादेन साधनाभावोऽभिधातव्य इत्यस्यार्थः । कस्मात्पुनरेवं दर्शयितव्य इत्याह—
एवं हीति । हीति यस्मात् । एवं साध्याभावस्य साधनाभावे नियतत्वप्रदर्शनप्रकारे सति ।
अथान्यथाप्रदर्शनेऽपि यदि साधनं साध्यनियतं प्रतीयते तदा तथाप्रदर्शनेनैव किं प्रयोजन दृष्टान्तदोषानुदाहृत्य दुष्टत्वनिबन्धनत्वं दर्शयितुमाह-- न ह्येभिर्दृष्टान्ताभासैर्हेतोः सामान्यलक्षणं सपक्ष एव सत्वं विपक्षे च नह्येभिरिति । साध्यनियतहेतुप्रदर्शनाय हि दृष्टान्ता वक्तव्याः । एभिश्च हेतोः ननु च सामान्यलक्षणं विशेषनिष्ठमेव प्रतिपत्तव्यं न स्वत एवेत्याह--विशेषलक्षणं
मित्याह--यदि त्विति । तुस्तथाऽनाख्यानावस्थां भेदवतीं दर्शयति । तथा च साधनसत्ताया
मपि साध्याभावसम्भावनाप्रकारे सति । यस्मादेवं तस्मादित्युपसंहारः । अस्मिन् प्रयोगे
किं नामोच्यत इत्याह--विपरीतेति । तुशब्दार्थश्चकारः । तथा हीत्यादिनैतदेव प्रति
पादयति । यत एवमनुवादविधिस्ततः । तथा चाकृतकस्य नित्यत्वोक्तिप्रकारे सति ।
253
सर्वत्रासत्वमेव निश्चयेन शक्यं दर्शयितुं विशेषलक्षणं वा । तदर्थापत्यैषां
निरासो 1670द्रष्टव्यः ॥१३६॥
सपक्ष एव सत्त्वं विपक्षे च सर्वत्रासत्त्वमेव यत् सामान्यलक्षणं तत् निश्चयेन न शक्यं दर्शयितुम् ।
वा । यदि विशेषलक्षणं प्रतिपादयितुं शक्येत स्यादेव सामान्यलक्षणप्रतिपत्तिः । विशेष
लक्षणमेव तु न शक्यमेभिः प्रतिपादयितुम् । तस्मादर्थापत्त्या सामर्थ्येन1671 एषां निराकरणं
द्रष्टव्यम् । साध्यनियतसाधनप्रतीतये1672 उपात्ताः । तदसमर्था दुष्टाः, 1673स्वकार्याकरणादिति
1674असामर्थ्यम् । इयता साधनमुक्तम् ॥
अकृतकत्वं कृतकत्वस्य साधनस्याभावः । नित्यत्वेऽनित्यत्यत्वलक्षणसाध्याभावे । न नित्यत्वं
साध्याभावलक्षणं साधनाभावे कृतकत्वलक्षणसाधनाभावेऽकृतकत्व इत्यर्थात् । यत एवं ततो
हेतोर्व्यतिरेकवाक्यं कर्त्तृ हेतुं कर्मभूतं न साध्यनियतमाह । उक्तया नीत्या साधनाभावः
साध्याभावे नियतत्वात्तमन्तरेण न भवेत् । न तु यत्र साध्याभावस्तत्रावश्यं साधनाभाव इति
साध्यमन्तरेणापि साधनं भवेत् । ततश्च साध्यानियतं साधनमित्यभिप्रायः । तथा च साध्य
नियतहेत्वप्रदर्शनप्रकारे सति वक्तुरेवंवाक्यप्रयोक्तुः ॥
निश्चयेनावश्यन्तया । विशेषनिष्ठमेव प्रत्येतव्यमिति ब्रुवतोऽयं भावः--यदि नामा
मीभिः सपक्ष एव सत्त्वं विपक्षे सर्वत्रासत्त्वं निश्चयेन शक्यते दर्शयितुम्, तथाप्येते विशेषलक्षणं
सामान्यलक्षणप्रतिपत्त्यङ्गं प्रतिपादयन्त उपयोक्ष्यन्त इति । अत्र विशेषलक्षणश्चेत्युत्तरं यदीत्या
दिना व्याचष्टे । यतः सामान्यलक्षणं विशेषलक्षणं वा न शक्यमेभिर्दर्शयितुम् । तस्मात्
कारणात् । अर्थापत्त्येत्यस्य व्याख्यानम् सामर्थ्येन सामान्यविशेषलक्षणाप्रतिपादनलक्षणन ।
एषां दृष्टान्ताभासानां निराकरणं दृष्टान्तरूपत्वेनेत्यर्थात् ।
कथममी दुष्टा येन तथात्वेन निराकरणमेषामित्याशङ्क्योपसंहरन्नाह--साध्येति । दूषणं वक्तुमाह-- दूषणा 1676न्यूनताद्युक्तिः ॥ १३७ ॥ 1677दूषणा का द्रष्टव्या ? न्यूनतादीनामुवितः । उच्यतेऽनयेत्युवितर्वचनम् न्यून दूषणं विवरीतुमाह-- ये पूर्वं न्यूनतादायः साधनदोषा उक्तास्तेषामुद्भावनं दूषणम् । तेन ये पूर्वं न्यूनतादयोऽसिद्धविरुद्धानैकान्तिका उक्तास्तेषामुद्भावकं यद्वचनं तद् दूषणम् । ननु च न्यूनतादयो न विपर्ययसाधनाः । तत् कथं दूषणमित्याह--तेन न्यूनतादि
तदसमर्थास्तदप्र 1675 तीतिकारणाशक्ताः । असामर्थ्यमेव कथं येनासाम 83a र्थ्याद् दुष्टा
उच्यन्त इत्याह--स्वकार्यस्य हेतोः साध्यनियतत्वप्रदर्शनलक्षणस्याकरणात् । ननु तदकरण
मेवासामर्थ्यमुक्तमिति चेत् । सत्यम् । केवलमसामर्थ्यव्यवहारापेक्षयैवमुक्तमित्यवसेयम् । इति
स्तस्मादर्थे, एवमर्थे वा । असामर्थ्यमेषामित्यर्थात् । साध्यादिविकलस्यानन्वयाप्रदर्शितान्वया
254
तादे1678र्वचनम् ॥
परेष्टार्थसिद्धिप्रतिबन्धात् ॥१३८॥
वचनेन परेषामिष्टश्चासावर्थश्च तस्य सिद्धिः निश्चयस्तस्याः प्रतिबन्धात् । नावश्यं विपर्यय
साधनादेव दूषणं विरुद्धवत् । अपि तु परस्याभिप्रेतनिश्चय1679विबन्धान्निश्चयाभावो भवति
निश्चयविपर्यय इत्यस्त्येव1680 विपर्ययसिद्धिरिति । 1681उक्ता 1682दूषणा ॥
देरपि दृष्टान्ताभासस्यासाधनाङ्गवचनाद् वादिनो निग्रहोऽसामर्थ्योपादानान्न्यायप्राप्तः । तस्मा
देवंविधाः स्ववाक्ये वर्जनीयाः । परोपात्ताश्च चोदनीया इति दृष्टान्ताभासव्युत्पादने वार्त्तिक
कृतोऽभिप्रायः प्रत्येतव्य इति ।
सम्प्रति सुखग्रहणार्थमुक्तप्रबन्धस्याचार्यीयस्य प्रतिपादितमवच्छिन्दन्नाह--इयतेति
त्रिरूपलिङ्गाख्यानमित्यादिनैतदन्तेन, इदं परिमाणमस्येतीयत् तेनेयता महावाक्येन साधनमुक्त
माचार्येणेति शेषः । प्रसङ्गागतस्यानेकस्यापि तदभिधानमतिवृत्तम्, तदपि साधनप्रतिपादन एव
साक्षात्परम्परया वा समुपयुक्तम् । साधनाभासाभिधानमपि तस्यैव स्फुटावगमार्थं तत्रैवोप
युक्तमिति मन्यमानेनोक्तमियता साधनमुक्तमिति ।
इति भूतदूषणोद्भावना दूषणा । दुषेर्णिजन्ताद् युचंकृत्वा टाप्कर्त्तव्यः । एतच्च
तददूषणमित्यन्तं सुबोधम् ।
विपरीतसाधनस्यैव दूषणत्वात्कथं न्यूनताद्युक्ति 1683 र्दूषणत्वमित्यभिप्रेत्याह--ननु चेति ।
अत्र तेनेत्याद्युत्तरं व्याचक्षाण आह--तेनेत्यादि ।
255
दूषणाभासास्तु जातयः ॥ १३९ ॥
दूषणाभासा इति । 1684दूषणवदाभासन्त इति दूषणाभासाः । के ते ? जातयः 1685इति ।
जातिशब्दः सादृश्यवचनः । उत्तरसदृशानि जात्युत्तराणि1686 । उत्तरस्थानप्रयुक्तत्वाद् उत्तर
सदृशानि जात्युत्तराणि ॥
तदेवोत्तरसादृश्यमुत्तरस्थानप्रयुक्त्वेन दर्शयितुमाह--
1687अभूतदोषोद्भावनानि जात्युत्तराणीति ॥ १४० ॥
॥ 1688तृतीयपरिच्छेदः समाप्तः ॥
॥ न्यायबिन्दुः समाप्तः ॥ लघुधर्मोत्तरसूत्रं समाप्तमिति ॥
ननूक्तं विपरीतसाधनं दूषणम् । तत्कथं परेष्टार्थसिद्धिप्रतिबन्धकस्यापि न्यूनतादिवचनस्य
तथात्वमुच्यत इत्याशङ्कामपाकुर्वन्नाह--नावश्यमिति । किन्त्वपरस्य सिसाधयिषितार्थनिश्चय
विबन्धाद् अप्यत्रार्थाद् द्रष्टव्यम् । अन्यथाऽवश्यं ग्रहणमवधारणं विरुद्धवदित्यपि दुर्योजं स्यात् ।
मृत्वा शीर्त्वा च तद्योजने वक्तुरकौशलं स्यादिति ।
यदि त्ववश्यं विपर्ययसाधनत्वस्यैव दूषणत्वमिति निर्बन्धस्तदा तदप्यस्य न्यूनतादिवचन
स्यास्तीति दर्शयन्नाह--निश्चयेति । वाशब्दः पक्षान्तरमवद्योतयति । इतिस्तस्मादस्त्येव ॥
सादृश्यार्थवृत्तेरपि जातिशब्दस्य दर्शनाज्जातिशब्दः सादृश्यवचन इत्याह ।
ननु जातिशब्दः सादृश्यवचनत्वादस्त्वयमर्थः--जातयः सदृशा इति । कानि पुनस्तानि
केन च सदृशानीति न ज्ञायत इत्याशङ्कामपाकुर्वन्नाह--उत्तरेति । एतच्चाचार्येणैव विवरणे
स्पष्टीकृतमिति मन्यते । तदयमर्थः-जातिशब्देन जात्युत्तरमेवात्र वार्त्तिककारस्य विवक्षितमिति ।
कथं पुनर्दूषणाभासानां जात्युत्तरशब्दवाच्यत्वमित्याशङ्क्याह--उत्तरेति । लक्ष्यते
चायमाचार्यस्याशयो यदुतोत्तरस्थाने जायत इति । विवरणेऽप्युत्तरस्थाने जायमानत्वाज्जायत
उत्तरत्वेनाभासनादुत्तराणीति । एवं तु कथमनेन न व्याख्यातमिति न प्रतीमः ॥
जात्युत्तरशब्दस्य विग्रहं दर्शयन्नाह--जात्येति । अभूतदोषोद्भावनानि जात्युत्तराणीति अभूतस्यासत्यस्य दोषस्य उद्भावनानि । उद्भाव्यत 1689एतैरित्युद्धावनानि वचनानि । कतिपयपदवस्तुव्याख्यया यन्मयाप्तं कुशलममलमिन्दोरंशुवन्न्यायबिन्दोः । पदमजरमवाप्य ज्ञानधर्मोत्तरं यज् जगदुपकृतिमात्रव्यापृतिः1690 स्यामतोऽहम् ॥ आचार्यधर्मोत्तर1691 विरचितायां न्यायबिन्दुटीकायां तृतीयः परिच्छेदः समाप्तः ॥1692
ब्रुवता वार्त्तिककृता भूतदोषोद्भावनं तु यद् दूषणाख्यं तदेवोत्तीर्यते अनिष्टपक्षादनेनोत्तारयति,
निर्वाहयति वा स्वपक्षमिति । 83b ...मिति सूचयति । एतच्च जात्युत्तरव्युत्पादन
माचार्यस्य हेत्वाभासवन्न प्रयोगार्थम् । यथा नैयायिका मन्यन्ते--अत्यन्तपराजीयमानावस्थायां
256
तानि जात्युत्तराणि । जात्या सादृश्येनोत्तराणि जात्युत्तराणीति ॥
जातिर्हेत्वाभासश्च प्रयोक्तव्य इति । किञ्च दूषणस्वरूपस्य स्फुटार्थबोधनार्थम् । हेयज्ञाने
हि तद्विविक्तमुपादेयं सुज्ञातं भवतीति जाति 1693 हेत्वाभासानाञ्च स्फुटस्वरूपपरिज्ञानस्य
प्रयोजनम् स्ववाक्ये परिवर्जनं परप्रयुक्तानामपि दोषोद्भावनमितरथा व्यामोहः स्यादि
त्युक्तप्रायम् ।
तत्र जात्युत्तरस्योदाहरणं यथा--अनित्यः शब्दः कृतकत्वाद् घटवदित्युक्ते किमिदं
कृतकत्वं शब्दगतं हेतुत्वेनोपनीतमाहोस्विद् घटगतम् । यदि शब्दगतं तस्य घटो दृष्टान्तो
ऽसम्भवादव्याप्तेरनैकान्तिको... ... ...प्रत्यवस्थानात्मिका
जाति... ... ...साधर्म्यादिति नैयायिक... ...
... ... ...आचार्यस्य त्वयमाशयो... ... ...
... ... ...तथाहि नैयायिका... ...प्रतिज्ञापदयो
र्विरोधमाहुस्तथा--प्रयत्नानन्तरीयकः शब्दः... ... ...प्रयत्नानन्तरीयकत्वादि...
... ...हेतुमाचक्षते । तयैव दूषणा... ... ...
शब्दस्य धर्मित्वात् । न चेयं जाति... ... ...भवति । ततश्च यस्यैव
प्रत्यवस्थानस्य... ... ...तत्प्रयो
... ... ...
... ... ...जात्युत्तराणीत्यत्रेतिशब्दो
माहावाक्यपरिसमाप्तौ ॥
257
आचार्यश्रीधर्मकीर्त्तिविरचितस्यास्य न्यायबिन्दुसंज्ञकस्य प्रकरणस्य यथावदर्थप्रकाशिकां
महापटीयसीमीदृशीं व्याख्यां विरचयता मया... ...किमपि पुण्यमुपार्जितं
तदनेन तादृशीमवस्थां प्राप्य सकलसत्त्वोपकारं... ...मित्यध्याशयो मे... ... ...क्रिया
योगात्सात्मीकृतपरार्थकरणोऽयं धर्मोत्तरः कतिपयेत्यादिना... ... ...श्लोकमाह ।
अस्यायं समुदायार्थः । न्यायबिन्दोः कियत्... ... ...कुशलमाप्तमतः
कुशलादजरं ज्ञानधर्मोत्तरं च पदं तदवाप्य जगदुपकृतिमात्रव्यापृतिः स्यामिति ।... ...
... ...बुद्ध्यते । पद्यन्ते गम्यन्तेऽर्था एभिरिति पदानि वाक्यानि तेषां वस्तुप्रतिपाद्यतयास्ति
तमभिधेयरूपं... ...शेषो ज्ञेयः । आप्तं प्राप्तं कुशलं सुकृतम् । किं कुर्वता ? 84a ...
...भवति पुण्यमपि कुशलञ्च । यथा पर... ...परोद्भवापि । ततो व्यभिचारसंभवा
द्विशेषणम् । किंवन्निर्मलम् ? इन्दोरंशुवदिति । इन्दोश्चन्द्रमसोंऽशवः किरणास्त इव । एवं
विधविधानेन यत् पुण्यं जन्यते तदवश्यममलतयैतत्तुल्यं भवतीति भावः । पदं प्रतिष्ठामवस्था
मिति यावत् । किं... ...द्यते...यत्र तत्तथा । जराग्रहणस्योपलक्षणत्वात् मृत्योरपि
सङ्ग्रहो ज्ञातव्यः । तेनायमर्थः--अजरममर्त्यं चेति । अथवा जरानिर्देशेनैव दण्डापूपन्यायेन
मृत्योः प्रतिषेधः कृत एवेत्यवसेयम् । पुनरपि तद्विशिनष्टि--ज्ञानेति । ज्ञानं हेयोपादेयतत्त्वस्य
साभ्युपायस्यावबोधो विवक्षितः । धर्मंश्च सर्वोपकरणनिवर्त्तकोऽदृष्टः । तावेवोत्तरावधिकौ
यत्र पदे तत्तथा । ताभ्यां चोत्तरं श्रेष्ठम् । यत्तदोश्च नित्यमभिसम्बधेन तच्छब्दस्य लब्धत्वात्
तदवाप्येत्यर्थोऽवतिष्ठते । जगतो जीवलोकस्य उपकृतिरुपकारः । सैव तन्मात्रम् । तद्व्यापृति
र्व्यापारो व्याप्रियमाणता यस्य मम सोऽहं तथा ।
नावाशंसाविषयेऽस्मिन्नाशीर्लिङ्गा भूयासमिति शब्दसिद्धेर्नैवमनेन वक्तव्यम् तत्
किमेवमवादीदिति चेत् । न । आशंसाविषयत्वाभावात् । यत ऽएवंविधानुष्ठानजन्मना
पुण्यातिशयेन एवम्भूतपदप्राप्तेस्ततोऽपि ममैवंविधक्रियस्य सम्भाव्यमानत्वादेव...
...यमेतदित्यभिप्रायात् सर्वमवदातमिति ॥
- ↩
-
च लिङ्ग चं A.
↩ -
त्रिरूपलि० E.
↩ -
त्रिरूपलि० C.
↩ -
परस्मायिति परा० E.
↩ -
ननु सम्य० A.
↩ - ↩
-
श्रोतुः--टि०
↩ - ↩
-
औपचारकम्--A.
↩ - ↩
-
स्वरूपस्यैव व्या० C.
↩ - ↩
- ↩
- ↩
-
अभिधानस्य व्यापारो निबन्धनं यस्य--टि०
↩ -
वच्च ॥ C.
↩ - ↩
-
तयोः साधर्म्यवैधर्म्ययोः--टि०
↩ -
इति अकृतकत्वकृतम्--C.
↩ - ↩
- ↩
-
प्रयोजनम्--टि०
↩ -
गम्यं दिवा भोजनाभावविशेषं पीनत्वं रात्रिभोजनकार्यमेकमेव--टि०
↩ - ↩
-
विषये उप० C.
↩ - ↩
- ↩
- ↩
-
योग्यत्वे विधिः B.
↩ - ↩
- साधर्म्य↩
-
व्याप्तिव्या० A.
↩ - ↩
-
प्रत्यक्षेण निश्चित इति न व्याकर्तव्यम्--टि०
↩ -
निमित्तान्तराभावोपदर्शनेन दृश्यानुपलब्धिव्यतिरिक्तासम्भविनिमित्तश्चासद्व्य
↩
वहारः--टि० - ↩
-
व्याप्तिसाधकेन--टि०
↩ - ↩
-
शुद्धस्वभावस्य प्रयोगः C. ।
↩ -
व्याप्तिसाधनस्य A. B. C. D. P. H. E. N. नित्यक्रमयौगपद्याभ्याम् अर्थ
↩
क्रियाविरोधादिति विपर्ययबाधकं प्रमाणम्--टि० -
प्रयोगस्य विशेषणं दर्श० B.
↩ - ↩
-
लाभःस यस्यास्ति--B.
↩ - ↩
-
अग्रे स्वयं दुर्वेकेण स्वभावभूतः स्वभावात्मकः इत्यादिना स्वभावभूतः इत्येव
↩
धर्मोत्तरसंमतः पाठ इति गृहीतस्तथापि अत्र तेनैव स्वभावं भूतः इत्येवंरूपेण गृहीतोऽस्ति
इति व्याख्यानुरोधाद् भाति-सं० । स्वभावभूतः-A. B. C. D. P. H. E. N. - ↩
-
ननु स्वभावभूतस्य कथं भद इत्याह--टि०
↩ - ↩
-
विशिष्टं च वस्तु--C.
↩ -
अनियतत्वे--A.
↩ -
परार्थानुमाने--टि०
↩ - ते↩
-
न च प्रयु० B.
↩ - ↩
- ↩
-
तत्र हेतु B.
↩ - ↩
-
स्वशब्दो विशेषणशब्दः--टि०
↩ -
प्रत्ययभेदशब्दे B.
↩ - ↩
-
यथा कृत० C.
↩ - ↩
- र्म्ये↩
-
०हेतुयोगो B.
↩ - ↩
-
सन्नोत्प० E.
↩ -
अस्मिन् सूत्रे न किंचित्केनचिद्व्याख्यातम्--सं०
↩ -
प्रमाणैर्यस्य साधनधर्मस्य यदात्मीयं C. D. प्रमाणैर्यस्य यदात्मीयं--B.
↩ -
अथ नान्तरीयत्वानिश्चयेऽपि लिङ्गस्य परोक्षार्थप्रतिपादकत्वं स्यादित्याह--टि०
↩ -
०मेव हेतोः B.
↩ -
नैतत्पत्रं प्रतिबिम्बितम्--सं०
↩ -
प्रागनुमानात्--टि०
↩ - ↩
- ↩
- ↩
-
स्मृतमर्थाय--B.
↩ -
०त्यत्वस्व० C.
↩ -
लिङ्गनिश्चायकं ज्ञानम्--टि०
↩ -
कृतकस्या० H.
↩ -
मानं ज्ञानं--C.
↩ - ↩
-
०स्य हेतु० C.
↩ -
०स्य हेतु० C.
↩ - ↩
- ↩
- ↩
- ↩
- ↩
-
०बन्धे च साध्यः--B.
↩ -
तत्स्वभावात् C.
↩ -
स तन्निष्पत्तावनिष्पन्नस्य साधन A
↩ -
अयमेव भेदोभावनां विरुद्धधर्माध्यासः, कारणभेदश्च--टि०
↩ - ↩
- यदि चे↩
- ↩
- ↩
-
त्यग्निविधः--B.
↩ -
व्याप्तिर्व्यापकस्य तत्र भाव एवेत्यादिकः--टि०
↩ - ↩
-
कार्यहेतोः B.
↩ - ↩
-
वैधर्मवतः E.
↩ -
वैधर्म्यवतः यत् सदिति C.
↩ -
तस्मात्--टि०
↩ -
सत्त्वम्--टि०
↩ - ↩
-
उपलम्भः--टि०
↩ -
सत्त्वस्य--टि०
↩ -
अनुपलभ्यमानः--टि०
↩ -
उपलम्भः--टि०
↩ -
सत्त्वस्य--टि०
↩ - ↩
-
नियमः B.
↩ - ↩
- ↩
-
नियमः B.
↩ -
सत्त्वेन--टि०
↩ -
नित्यत्वम्--टि०
↩ -
शब्दे धर्मिणि--टि०
↩ - ↩
- ↩
- ↩
- ↩
- ↩
-
साधर्म्यव्यतिरेको B.
↩ -
गतिः ।--C.
↩ -
अर्थादिति--C.
↩ - ↩
-
मेव तत् C.
↩ - ↩
-
व्यतिरेकबु० A.
↩ - ↩
- ↩
-
०सितत्वाभावात् C.
↩ -
साध्ये नियतमित्यादिनाऽन्वयबा950
- बो↩
धसामर्थ्यात् व्यतिरेकं दर्शयति--टि०↩ - बो↩
- वे↩
-
साध्ये नियत० C.
↩ - ↩
-
साध्याभारो955
- वो↩
ऽनग्निः--टि०↩ - वो↩
- ↩
-
साध्यसत्त्वं गतिः--A.
↩ -
साधनाभावे नियतस्य--C.
↩ - क्यादव↩
-
भावः--उत्पादः, सत्ता वा--टि०
↩ - रिजानानः↩
- ↩
-
तदन्वय--C.
↩ -
सदसत्त्वाख्यापनं--C.
↩ -
पूर्वसूत्रोक्तः--टि०
↩ -
तेनेत्युपसंहरति--टि०
↩ - ↩
- ↩
-
अन्तर्भावितम्--टि० । तेनाक्षिप्त प्रतिबन्घोपदर्शनं तदेवान्वय--B.
↩ - ↩
-
वचनरूपो यत्र यत्र धूमस्तत्राग्निरित्येवं न वक्तव्यस्तर्ह्यन्वयः प्रतिबन्धशून्यः ।
↩
साध्यहेत्वोस्तादात्म्यतदुत्पत्तिरूपप्रतिबन्धे स्थिते सिद्ध एवान्वय इति भावः--टि० । -
पाठोऽत्र घृष्टः ।
↩ - द्वैतं↩
-
पाठोऽत्र घृष्टः ।
↩ - ↩
- ↩
-
मुखमस्य--C.
↩ -
इतिकरणो हेतौ A.
↩ - ↩
-
पाठोऽत्र घृष्टः ।
↩ -
पाठोऽत्र घृष्टः ।
↩ -
पाठोऽत्र घृष्टः ।
↩ -
केण युक्तेन B.
↩ -
सत्त्वस्वरूपामाह--C.
↩ -
सत्त्वम्--टि०
↩ -
उपलम्भेन--टि०
↩ -
व्याप्तिप्रति A.
↩ -
प्रतीतेः इति नास्ति A.
↩ - ↩
- ↩
-
अस्मिन् पत्रे अधिकं घृष्टं वर्तते । अत एव सम्यक् न पठयते--सं०
↩ - ध्य↩
-
अत्र अक्षपादवचनत्वेन यदुद्धृतं तन्नास्ति न्यायसूत्रे किन्तु वार्तिके--साध्यविपरीत
↩
प्रसङ्गप्रतिषेधार्थं यत् पुनरभिधानं तत् निगमनम् इति वर्तते--१. १. ३९. - ↩
-
विषयः सिद्धः C.
↩ - ↩
- ↩
- नेन↩
- दपगतं↩
- विषयो↩
- ↩
-
न च C.
↩ - ↩
- ↩
- ↩
- ↩
- ↩
- यदपि↩
- नं↩
-
नोपलभ्यते न्यायवार्तिके--सं०
↩ - ता↩
- त्वादावेव↩
- ↩
-
पक्षो निर्देश्यः E.
↩ -
पक्षः निर्देशः C.
↩ - ↩
-
इति निर्देश्यः--C.
↩ - ↩
- ↩
-
किञ्चत्--B.
↩ - ↩
- ↩
-
तत्कथम्--B.
↩ -
०त्वात् साध्य० B.
↩ -
०त्त्यर्थम्--D.
↩ - ↩
- ↩
-
यथेति नास्ति A.
↩ -
नाशं स्वयमिच्छतीत्यादौ आत्मनो नाशमिच्छतीत्यर्थः--टि०
↩ -
०स्यार्थेन युक्तः--B.
↩ - ↩
- ↩
-
एव नास्ति--B.
↩ - ↩
- ↩
- ↩
-
अनेन च C.
↩ -
साध्यो धर्मो नेतर इत्यु० C.
↩ -
धर्म नास्ति B.
↩ - ↩
- ↩
-
तेन स्वयं वादिना धर्मः साध० C.
↩ -
अनेकधर्म० C.
↩ -
तस्मिन् सिद्धो E.
↩ -
तादात्म्यतदुत्पत्तेः--टि०
↩ - ↩
-
साध्यत इति--C.
↩ -
सोऽर्थोऽनु० C.
↩ - ↩
-
तुशब्दस्तथापीत्यर्थे--टि०
↩ - ↩
- ↩
- ↩
-
०दिति । आत्मार्था इत्यनुत्था 1055
- क्ता↩
प्यात्मार्थता साध्यते तेन--C.↩ - क्ता↩
- ↩
-
ते नास्ति B.
↩ - ↩
-
आदिर्यस्य D.
↩ - ↩
- ↩
- उक्तता↩
- ↩
-
य आत्मप्रतिषेधवादोऽधिकरणं यस्य--टि०
↩ -
शयनादिषु A.
↩ -
०र्थत्बेन प्रसिद्धः A.
↩ - ↩
-
बौद्धानां मते परमाणुरूपं ज्ञानमतः सङ्घातरूपत्वम्--टि०
↩ -
परस्य नास्ति--B.
↩ - ↩
-
वादिना E.
↩ - धा↩
- धा↩
- व↩
-
पक्षः दर्श० C.
↩ - ↩
- ↩
- ↩
- ↩
-
०कृतेषु निरा० B.
↩ -
श्रोत्रज्ञानग्राह्य०--टि०
↩ - साध्यत्व↩
-
श्रवणेन्द्रिय प्रभवज्ञानेनेत्यर्थः--टि०
↩ - ↩
- ↩
- र्था↩
-
न्यायवार्त्तिकं द्रष्टव्यम्--१. १. ३३. पृ० ११३.
↩ -
विकल्पविज्ञानविषयत्वेन प्र० B. P. H. E. विकल्पज्ञानविषयत्वेन C. D.
↩
विकल्पविज्ञानेन A. - ↩
- ↩
-
स चानुमा० C.
↩ - ↩
-
ब्रवीति वक्ति B.
↩ -
०न्यसत्यानि A.
↩ -
एतदेव इत्यादि भवन्ति इत्यन्तं सूत्रत्वेन H. प्रतौ मुद्रितम् । किन्तु नास्त्येतत्
↩
सूत्रम्--सं० -
अनुमानप्रामाण्यनिषेधलक्षणम्--टि०
↩ -
यथा A.
↩ -
आदर्शयिता--A.
↩ - ↩
-
सन्नार्थो--E.
↩ -
नानुमानं प्रमाणं इत्यस्माच्छब्दाद्योऽर्थो बुध्यते तेन जनितो नानुमान इत्यादिकः
↩
शब्दः न प्रत्येष्यति नास्तिको व्यभिचारात्--टि० -
अध्यारोपित०--टि०
↩ -
०च्छब्दप्र० A.
↩ - ↩
- ↩
-
अग्न्यव्य० D.
↩ -
अपि च इति यस्मादर्थेऽव्ययम्--टि० । अपि च इत्यारभ्य शब्दप्रयोगः इत्यन्तः
↩
पाठो नास्ति--B. - ↩
-
पूर्वमेव E.
↩ - ↩
- ↩
-
पक्षो--C.
↩ - ↩
- ↩
- ↩
-
असिद्धो इत्यादिपदानन्तरं A. प्रतौ D. प्रतौ च संख्याङ्काः दत्ता वर्त्तन्ते--सं०
↩ - ↩
-
समाप्य E.
↩ - ↩
- ↩
-
हेयज्ञाते E.
↩ - ↩
-
परार्थेऽनुमाने--C.
↩ - ↩
-
सन्देहे वाक्यं सं० A.
↩ - ↩
- दिषु↩
-
नित्यः B.
↩ -
द्वयोर्द्वयोरपि B.
↩ -
मरणादिति प्रति० C.
↩ -
०स्यानेन मरणस्याभ्यु० C.
↩ - ↩
-
विज्ञानचक्षु--B.
↩ -
जयित--B. चक्षुरादिविज्ञानं रूपा० E. चक्षुरादिज्ञानं रूपा० C.
↩ - ↩
- ↩
-
उच्यते--B.
↩ -
प्रमाणस्व० H.
↩ -
तरुष्वभावात्--B.
↩ -
सत्ताया A.
↩ -
तत्र A.
↩ - ↩
-
यच्च D.
↩ -
विज्ञानेन्द्रियायुर्निरोधलक्षणम्--टि०
↩ -
शोषलक्षणम् ।
↩ - ↩
- भेदाद↩
- ↩
- ↩
-
परार्थादि हे० B.
↩ - ↩
-
विज्ञानं C.
↩ - ↩
- ↩
-
आश्रयभूतसा० E.
↩ - ↩
-
संदिग्धासिद्धः नास्ति C.
↩ -
वह्निकार्यत्वाद्ग० C.
↩ -
निगुञ्जे--C.
↩ - स्याऽ↩
- ↩
-
तदघात--A.
↩ -
आगमः C.
↩ - ↩
- ↩
- ↩
-
घर्मिति 1168
- णि↩
हेतोः सम्बन्धस्य सत्त्वस्येत्यसिद्धौ--टि०↩ - णि↩
-
सर्वेष्वपि असिद्धेषु एकं रूपं पक्षधर्मत्वमसिद्धम्--टि०
↩ - ↩
- ↩
-
विपक्षे--टि०
↩ - ↩
- कश्चा↩
- ↩
-
नित्यत्वं नास्ति B.
↩ -
गृह्यन्ते B.
↩ - ↩
- ↩
-
काशघटव० A.
↩ -
इत आरम्भ नाकाशादौ पर्यन्तः पाठो नास्ति B.
↩ -
०व्यापि सर्वत्र प्रयत्नानन्तरीयके भावात् C.
↩ -
अनित्यत्वस्य--टि०
↩ - ↩
-
साध्यैः सह क्रमात् योज्यते--टि०
↩ -
नित्यत्वस्य--टि०
↩ -
वैशेषिकैरप्यभ्युप० C.
↩ - न्न↩
-
०ख्यरूपस्य C.
↩ - ↩
-
मत्त्वे च साध्ये C.
↩ -
संदिग्धवि० B.
↩ - ↩
- ↩
- ↩
- ↩
-
०जातीयकस्य--B.
↩ - ↩
- ↩
-
०भात् संदिग्धे वक्तृ० B.
↩ -
एतन्न नास्ति E.
↩ - ↩
-
साधर्म्यभावेन B.
↩ - ↩
- ↩
- ↩
-
गतिरिति--C.
↩ - ↩
- ↩
- ↩
- ↩
- ↩
- ↩
- ↩
- ↩
-
ततोऽसामर्थ्याव० B.
↩ -
सन्तनयोः A.
↩ - नि↩
-
दिशं क्राम० C.
↩ -
तद्विवर्त्तिनः A.
↩ -
अन्धकारायाक्रान्तायां A.
↩ - ↩
- ↩
- ↩
-
०स्य सन्तान० C.
↩ - पत↩
- शी↩
- क↩
- णा नि↩
-
कोष्ठकान्तर्गतः पाठः व्यर्थः--सं० ।
↩ - आलोकादिक्षणप्रबन्धस्य↩
- ?↩
- ऽन्ध↩
- णेति↩
- ↩
- ↩
- ↩
- ↩
-
ततो--C.
↩ -
शीतञ्चो० D.
↩ -
वा नास्ति--C.
↩ - ↩
- ↩
-
तया नास्ति--C.
↩ - ↩
-
तमिव अभाववत्--टि०
↩ - ↩
- ↩
-
र्थः, न तु E.
↩ - ↩
-
अतः D. E. प्रत्यन्तरे यतः इति इति D. प्रतौ टिप्पणं वर्त्तते ।
↩ - ?↩
- ?↩
- नु↩
- त↩
- ↩
- ↩