266
निश्चयस्यापि प्रसङ्गात् । न हि दहनसामान्येन व्याप्तं धूममुपलभ्य कश्चिद् विस्फुरत्पञ्च
वर्णशिखाकलापकमनीयमनलमनुमातुमीशः ।

ननु तथापि देशकालविशेषविशेषणमनुमिमीत एव पक्षधर्मताबलात्, एवं
भूधरादावपि बुद्धिमदधिष्ठानाधीनं कार्यत्वमुपलब्धवतोऽभिमतसिद्धिरधिकरणसिद्धान्त
न्यायेन भविष्यतीति चेत्—न, सामर्थ्यानुपपत्तेः । यथा ह्येतद्देशकालेन वह्निना
जन्यमानस्य न तद्देशकालत्वमिति धूमाद्यनुमाने सामर्थ्यम्, न तथा चेतयितुरेकत्व
सर्वज्ञत्वादिकमन्तरेण तरूणां वासनिवेशाद्यनुपपत्तिमाकलयामः । ततः पक्षधर्मता
बलात् कुलालादौ तदुत्पादनसमर्थत्वसिद्धिरपि भवन्ती नाभिमतं विशेषमवलम्बितुम्
अलम् ।

ननु यदि भूधरादिनिर्माणसमर्थः सिद्धः, किमपरं प्रार्थ्यते ? तत् किमिदानीम्
अपरिनिष्ठितवाच्यरूपेण वाचकमात्रेण परितुष्टिः ? न ह्येवमभिमतप्रस्तुतवस्तुसिद्धिः ।
उत्पादनव्यापारो हि नोत्पित्सुकार्यं प्रति नियतप्राग्भावित्वमात्रादतिरिक्तः । स चाचेतन
साधारणो बुद्धेरपि नैकसर्वगत्वादिविशेषप्रतिबद्धः सिद्धः । ततो विवक्षितसाध्या
पेक्षया वचनमात्रसिद्ध्या न किञ्चित् ।

कः पुनरेवं प्रतिजानाति सर्वज्ञपूर्वकाः पर्वतादय इति ? अपि तु बुद्धिमद्धेतुका
इत्याशङ्क्य साधनेनान्तरुपहसन्नाह,

स्थित्वा प्रवृत्तिसंस्थानविशेषार्थक्रियादिषु ।
इष्टसिद्धिरिति ।

साधारणासाधारणकर्मनिर्मितो हि समस्तो वस्तुराशिरिष्यते । कर्म चाचेतन
स्वभावमिति सकलज्ञानहेतवोऽसिध्यन्तः सिन्धुभूधरादयः किमनिष्टमस्माकमावहन्तीति
भावः । तन्मात्रसाध्याभिप्राये च विरोधासिद्धेः साधनोपन्यासवैयर्थ्यप्रसङ्गः । तस्मात्
उपात्तविशेष एवानेन