87a भौमानां शुभसंभारसंभवी ॥
शुद्धलौकिकविकल्पसंमुखी
भावभावि पटुधर्मदेशनम् ।
उद्धरप्रणिधिपाकतोऽथवा
सर्ववित्तिरपि तत्तदर्थतः ॥

ग्राह्याद्यभावेऽपि तत्तदर्थिनां तत्तदर्थसंवादसंभवात्, सर्वज्ञताव्यवस्थापि सर्व
स्वबुद्ध्याकारविलास इति । अथवा,

यथा सकलदेहिनामनुभवस्य चित्रा स्थितिः
समन्तसमयत्रये तदनुकारिसर्वाकृतेः ।
धियः प्रणिधिपाकतः समुदये स्वरूपश्रिया
सहैव विविधाकृतिव्यतिकरैकरूपो विभुः ॥
सूक्ष्मतराभ्रपत्रपिहितोऽयमरूपदृशः
सर्वमिदं स्वरूपमधियन्ति दशावनयः ।