184

एतेनैकज्ञानसंसर्गी प्रतियोगी व्याख्यातः । क्वचित् पुनरन्यथापि, यथा प्रदीपं
कवलयतुर्नेह रसो दृश्यानुपलब्धेरिति स्पशं एव प्रतियोगी । तयोर्हि सतोर्नैकरूपनियता
प्रत्यासत्तिः पानकवत् । दूराद् रूपदर्शनेऽपि तर्हि कथं रसनिषेधो न भवति, देशविप्र
कर्षिण उपलम्भयोग्यताया अभावात्, प्राप्यकारित्वाद् घ्राणरसनस्पर्शनानाम् । उक्तं च,
यस्मिन् वेद्यमाने यदवश्यं वेद्यत एवेति । नापि रसानुभवे रूपनिषेधः, तदापि तल्लक्षणा
योगात् । एवं शब्दोपलब्धावपि न रूपनिषेधः । समन्धकारे हि सतोऽपि रूपस्य
ज्ञानाव्यभिचारिणी न शब्दवित्तिः ।

आलोके तु न तावद् दृश्यमानस्यैव निषेधः । अदृष्टस्य तु योग्यस्य निषेधेऽपि न
दोषः, तल्लक्षणात्यागात् । एतेन देवकुलादौ परिदृश्यमाने तद्देशभेर्यादेरेवाभावसिद्धिर्ना
वश्यं शब्दान्तरप्रतीतिसापेक्षेति दर्शितम् । न तयोः सहप्रतीतिनियम इति चेति ।
भूभागकुम्भयोरपि नैवम्, उभयोस्तु सतोरेकरूपप्रतीतिनियमविरहः प्रत्यक्षस्य तत्रापि
समानः । एकज्ञानमन्यग्रहाविनाभूतं वान्यग्राहिज्ञानान्तराविनाभूतं वेति न विशेषः ।
एवमेकेन्द्रियजमन्यद् वा ? सन्तमसेऽववरकेऽपि दीपाभावस्तदाकारविरहिणो
ज्ञानान्तरादन्ततो विकल्पादपि यदि परमस्तु समानम् । वस्तुतस्तु वस्तुसन्नेवान्धकार
एकज्ञानसंसर्गी प्रदीपस्य संभवतीति किमन्येन ?

ननु स्वभावविशेषेऽपि प्रत्ययान्तरसन्निधिरुपलब्धियोग्यता । स च भिन्नेन्द्रिय
ज्ञाननिमित्तं भवन्नपि भिन्नेन्द्रियज्ञानप्रत्ययनिश्चयेऽनुपयुक्तः । ततश्चान्यस्य प्रत्ययान्तर
सन्निधिसंशये निषेधः क्रियमाणोऽन्ततो विकल्पादपि नियताकारात् कथं दृश्यस्य...?
न हि भवति2428 प्रत्ययान्तरसन्निधिसिद्धिनिबन्धनं समानेन्द्रियज्ञानमेव, किं तु

  1. अत्र पाठो लुप्तः ।