५ ॥ सर्वशब्दाभावचर्चा ॥
इह सर्वशब्दाभावसाधने ज्ञानकार्यानुपलब्धिमेके प्रमाणयन्ति । एकज्ञान
संसर्गिविरहात् किल नेह स्वभावानुपलब्धेरवसरः । तथा हि त्रयमवश्यमस्यामभिधेयम् ।
घटादिमत्प्रतिक्षेपेण विशेषणं, स्वभावः, फलं चेति । तत्र दृश्यविषयविशेषणवशात्
पिशाचादेरप्रतिषेधः । एकज्ञानसंसर्गिवेदनस्वभावत्वेन रूपज्ञानाद् रसस्य । नाप्यभाव
पक्षदोषानुषङ्गः, व्यवहारफलतया च प्रत्यक्षसिद्धिरुपसंहिता । सा च प्रतियोगिज्ञानाश्रये
सत्युपपद्यते । तदेव हि प्रतियोग्यन्तराभावनान्तरीयकतया तदभावविकल्पजननसामर्थ्यात्
साधनं भवेत् । ततो मूढं प्रति तदात्मिकानुपलब्धिरभावव्यवहार61a साधनीति युक्तम् ।
न च सर्वशब्दाभावे साध्ये कश्चिदेकज्ञानसंसर्गी लभ्यत इति नात्रावकाशस्तस्याः । स तु
शब्दराशिरभिमतप्रदेशे विद्यमानस्तदा ज्ञानकार्यमनारभ्यासितुं न समर्थ इति कार्यप्रति
षेधेऽपि निर्विशेषणैव सत्ता प्रतिषिद्धा भवतीति भावः ।
अत्र चिन्त्यते । न तावत् ध्वनिरित्येव श्रवणम्, वधिरस्यापि श्रवण प्रसङ्गात् ।
तस्मादिन्द्रियपाटवसहकृतस्यैव शब्दस्य श्रवणज्ञानजनकत्वम् । तच्च श्रवणपाटव
मेकज्ञानसंसर्गिविरहे दुरवधारम् । अतएव प्रदेशप्रत्यक्षापेक्षया घटनिषेधः । ततो
हीन्द्रियगुणं गणयन् घटापराधमेवानुपलब्धेरवधारयति । न च मनस्कारवत्
स्वसंवेदनसिद्धिरिन्द्रियस्य, जडत्वात् । नापीन्द्रियान्तरगम्यत्वम्, अतीन्द्रियत्वात् ।
कार्यं पुनरुपलब्धिरेवास्य । तत्सिद्धौ च कार्यानुपलब्धेरेवासिद्धिः । असिद्धौ सिद्धमनै
कान्तिकत्वम् । न हि विषये सत्यपीन्द्रियदोषात् संभाव्यमानोऽनुपलम्भस्तदभावनियतो
नाम ।
नाभाव एव शब्दस्य । तज्ज्ञानजननयोग्यस्तु नास्तीति ब्रूम इति चेत् ? सेयं
कुवेद्यवृत्तिरायाता, प्रथमं प्रागल्भ्यगर्भमभिमतप्रतिकरणमभ्युपगम्योपायबुद्ध्योप
न्यस्तस्यानुपायस्य परेण तत्त्वप्रतिपादने कृते पश्चादसाध्यत्वधोषणात् । सर्वथा अभाव
एव हि जिज्ञासिते कार्यानुपलब्धिरियं साधनमुक्ता । न तु ज्ञानजननयोग्यताविरह
जिज्ञासायाम् । तद् यदि प्रमाणभ्रंश एव कथञ्चिज् ज्ञातः प्रमेयभ्रंशस्तु किमङ्गाङ्गी
192
क्रियते ? वरं च प्रमाणान्तरमेव मृग्यताम् । असाध्यतैव तु कस्मादवघुष्यते ? न हि
शक्यमवधिरस्याशृण्वतः सन्निहितभेरीरवाद्यभावः प्रत्तिक्षेप्तुम्, वधिरावधिरयोर
विशेषप्रसङ्गात् ।
सति श्रुतिकृतोऽस्ति विशेषः प्राक् पश्चादिति चेत्—नैवम्, यदि हि प्रागवस्थातः
श्रवणशक्त्यानिर्विशेष एषः, कथमश्रुतिः सति शब्दे ? अन्यथा प्रागपि न स्यात् ।
अथ विसदृशावस्थोऽपि संभाव्यते, श्रुतावपि न श्रद्धातव्यम्, अस्य विप्लवस्य
संभाव्यमानत्वात् । तत्राश्रवणमभूतश्रवणं वेति न विशेषः । अन्ते कुतः शक्तिविपर्यय
इति चेत् ? मध्ये कुतस्तदभाव इति समानम् । तस्मादपक्ष एवायं सन्नपि शब्दस्तदा
न श्रुत इति । केवलं किमत्र प्रमाणमस्त्विति चिन्तायां कार्यानुपलब्धिरनैकान्तिकी
इत्युक्तमेव, श्रवणपाटवस्य दुरवधारत्वादिति ।
ननु कथमेतद् दुरवधारणं दृष्टश्रवणपाटवस्मरणबलवतः श्रोतुं प्रवृत्तस्य ।
क्षणिकत्वेऽपि हि विसदृशसहकारिप्रत्ययान्तरविरहे विसदृशदशासंभवाभावात् ।
इन्द्रियविकारकारिणो हि प्रत्यया धातुक्षोभप्रहारादयो निर्णीतशक्तयः स्वसन्ताने
सन्तानव्याकुलीभावहेतवः सूपलक्षा एव । अनुपलक्षितास्तु स्वप्रभवभेदशङ्का कथमिव
क्षमन्ते ? सूक्ष्मं तु प्रभाववतोऽधिष्ठानादिविकारकारणं शङ्कमानस्य श्रवणेऽपि क
आश्वासः ? तस्मादनुपलक्ष्यकारणारब्धदिङ्मोहलक्षणेन्द्रियभ्रान्तिदर्शनेऽपि प्रसिद्धकारणानुप
लक्षणान्नेन्द्रियाणामतादवस्थ्यव्यवस्था यथा, अन्यथा तत्प्रत्ययानां भ्रमत्वप्रसङ्गात्,
तथाद्यापि किं न गण्यते ? माभूत् सर्वसंवृत्तिविलोपः ।
अभ्यासदशासत्तिसमाश्रयस्तु समानः । न हि वधिरवरस्याभिरोपारूढश्रवणबल
स्याप्यश्रवणेऽभावनिश्चयं ब्रूमः, बलनिश्चयस्यैवाभावात् । तद्वदन्यस्याप्यकलितबलस्य ।
अत्यन्ताभ्यासे हि सकलरजनीसुप्तप्रबुद्धानामदर्शनेऽपि तदवस्थासंवेदिनाम् अविपरीत
व्यवहारवृत्तिदर्शनात् कः प्रस्तावी जाग्रतः स्वात्मन्यन्यथात्वशङ्कायाः ?
तस्मादतादवस्थ्यस्य तद्व्यवस्थाया वा निषेधः, प्रसिद्धकारणाभावात् तदुपलक्षणा
भावाद् वा ? यदि दर्शनश्रवणादावभ्यासदशापेक्षयाध्यक्षत्वनिबन्धनं तादवस्थ्यमिच्छता
संवृतिव्यवस्थिते नेन्द्रियतादवस्थ्यं सामग्रीप्रतिबद्धबुद्धितादवस्थ्यं वा, साधारणशक्त्यपेक्षया
संवेदनमेव वा शरणमास्थीयते, तदेवाश्रवणदशायामपीति, कथमनेकान्तः शब्दाभावे ?
ननु ज्ञानात्मन्येव स्वसंवेदनमिति चेत्—न,
193
पञ्चस्कन्धेष्यप्यहमित्येकोऽधिमोक्षः, भाषणादावेकस्मिन्नर्थे परस्परोपादेये चोपयोगः ।
घटादिसंज्ञके तु रूपरसादौ प्रसिद्धोऽयं न्यायः, अन्यथा व्यवहारायोगात् ।
ननु न शरीरप्रत्यक्षं बुद्धिमन्वेति । एवमेतत्, प्रातिस्विकरूपापेक्षया रूपरसा
दिवदेव । सामान्येन तु गृहीत्वैकधीविषयत्वमुच्यते, यावन्न निर्बन्धो विवेचने ।
विवेचने तु पृथक् प्रमाणमुक्तम् । तेन प्रत्यक्षश्चैत्रो न च बुद्धिरध्यक्षेति द्वितयमविरुद्धम् ।
अतएव तदवस्थोऽहमिति विकल्पोऽपि संवेदनानुसारी सर्वविषय एव ।
भ्रान्तिरियमिति चेत्—न, बाधकाभावाद् भ्रान्त्यसिद्धेः । तस्मात् पूर्वप्रतीतश्रोत्र
शक्तेस्तदवस्थानिश्चयसंभवादश्रुतिः शब्दस्यैवापराधादिति ज्ञानाभावेनापि तदभाव
सिद्धिरैकान्तिकीति न प्रकृतव्याघातः । इयत्येव तर्हि स्वभावानुपलब्धेर्लक्षणसामग्रीति
कार्यानुपलब्धिसंज्ञाकरणे कोऽर्थः ? प्रत्ययान्तरसाकल्यं स्वभावविशेषं चापन्नस्यैव
शब्दस्यानुपलब्ध्या निषेधात् ।
तथाप्यन्यसंज्ञायां घटनिषेधेऽपि को निषेद्धा ? केवलं घटवत् शब्दस्यापि
दृश्यानुपलब्ध्यापि निषेधः साध्यो जात इत्युच्यते । तत्रैकज्ञानसंसर्गिसंभवाद् युक्तः
तया निषेध इति चेत् ? तत्रैव तावदेकज्ञानसंसर्गिणः किमपेक्षया ? रूपदर्शने हि
रसस्य विप्रकृष्टदेशतया अनुपलब्धिलक्षणप्राप्तत्वादेवाप्रतिषेधः, प्राप्यकारित्वाद् घ्राण
रसनस्पर्शनानाम् ।
उक्तेन च क्रमेणेन्द्रियतादवस्थ्यं सिद्धमिति किमेकज्ञानसंसर्ग्यपेक्षया ? नैवम्,
इन्द्रियातिरिक्तस्यालोकस्य तत्रापेक्ष्यत्वात् । स हि बहिःसुलभकारणाधीनोपजनाप
जनधर्मको न स्वात्मतादवस्थ्यसाध्य इति तदर्थमेकज्ञानसंसर्गोऽपेक्ष्यमाण इन्द्रिय
साद्गुण्यज्ञानेऽपि सहायीभविष्यति । एवं यत्रालोकनिरपेक्षैव ग्रहणशक्तिस्तत्र न किञ्चिद्
एकज्ञानसंसर्ग्यपेक्षयेति सिद्धम् । तच्च नाम क्वचित् साधनेऽपेक्ष्यते यदन्तरेण विरोधा
सिद्धिसन्देहेष्वन्यमदोषासत्तिः । न च द्विविधोपलब्धियोग्यतापन्नस्य क्वचिदनुप
लब्ध्या निषेधे साऽस्ति, येन संसर्गी नियतमपेक्ष्येत । यत्राप्ययमपेक्ष्यते, तत्रापि
आलोकापेक्षप्रतिपत्तिनो वस्तुनः प्रतिषेधे विशेषणासिद्धिपरिहारार्थमेव । न चैतावता
194
सर्वत्र तदपेक्षा । न हि विनाशं प्रत्यनपेक्षा व्याप्तिसाधनी सर्वत्र क्षणभङ्गसाधनेऽपि
स्वभावहेतावपेक्ष्यते ।
यदि चायमपेक्ष्य एव किमङ्ग दृश्यविशेषणेन, केनचिदेकज्ञानसंसर्गिणो
दृश्यत्वाव्यभिचारात् ? न हि पिशाचस्य केनचिदेकज्ञानसंसर्गः । एक एवार्थ उभयथा
पीति नैकप्रयोगेऽन्यप्रयोजनचर्चेति चेत्—न, सामान्यविशेषभावेन भेदस्याव्यक्तत्वात् ।
संसर्गो हि न विशेषणं व्यभिचरति । विशेषणमात्रं तु तं व्यभिचरत्येव । अतएव
विशेषणसिद्धये संसर्ग उपनीयते । न तु विशेषणं संसर्गाकृष्टये प्रभवति, शब्देऽपि
प्रसङ्गात् । तथा च पक्षक्षय इति कः श्रमस्यार्थः ? तस्मादेकज्ञानसंसर्गो नाम प्रकृतो
दाहरणापेक्षयैवोद्घुष्यते, न स्वभावानुपलब्धौ सर्वत्रापेक्ष्यत्वेन ॥
प्रस्तुते हि कलसप्रतिषेधे सा दिगस्तु सविशेषणसिद्ध्यै, नोपलब्धमुपलभ्य
मितीयल्लक्षणं खलु निजानुपलब्धेः । तथा च लक्षणे प्रयोगे चोपलब्धिलक्षण6b प्राप्ता
नुपलब्धिमात्रोपन्यासः, शास्त्रे विपर्ययबाधोपदर्शने च प्रत्ययान्तरसन्निधौ स्वभाव
विशेषवतः सत्त्वेऽनुपलब्धेरसंभवः ख्याप्यते, अन्यथा प्रयोजकमंशं संसर्गमेव सर्वत्र
दर्शयेत्, विशेषणवत् । तादात्म्यं तु दृश्यत्वमभ्युपगम्यैव निषिध्यत इति विशेषण
स्यानुक्तिमात्रम्, न पुनरप्रयोजकत्वं व्याप्तेरिव विदुषि । अन्वयोक्तिविशेषे वा व्यति
रेकस्य । तस्मात् न्यायनाथस्यापि नावश्यमेकज्ञानसंसर्गिव्यपेक्षाभिप्रायः स्वभावा
नुपलब्धौ । अपि चैवं कार्यानुपलब्धावेव सर्वसंग्रहमाचक्षीत, स्वभावानुपलब्धेरपि
तदेकदेशत्वात् । सर्वप्रमाणव्यवस्थां च कार्यानुमाने कुर्यात्, स्वसंवेदनादन्यत्र ।
तस्मादिन्द्रियज्ञानविषये न कार्यानुमानव्यवस्था यथा, तथा तदगृहीत इत्येव
कुतः कार्यानुपलब्धिव्यवस्थापि शास्त्रकारस्य ? यथा हि प्रत्यक्षव्यवस्थाविलोपभयम्
एकत्र, तथान्यत्र स्वभावानुपलम्भस्य । यथा वाऽप्रत्यक्षे कार्यं लिङ्गम्, तथाऽप्रत्यक्ष
योग्य एव तदनुपलब्धिरिति समानम् । यथा चायमेव भगवानज्ञाने ज्ञानान्तराभावम्
अपि दृश्यानुपलब्ध्या व्यवहारयति । यदाह,
दृश्यात्मनो वा विकल्पस्य दर्शनेऽदृष्टिर्विकल्पकल्पनामिन्द्रियज्ञाने प्रतिहन्तीति ।
तदा क एकज्ञानसंसर्गी ? किं चैवमभ्युपगमे कार्यानुपलब्धेरप्यसिद्धिरिति प्रकृतमत
हानिरेव । न हि ज्ञानकार्यस्याभावः कार्यानुपलब्धेरेव बोद्धव्योऽनवस्थाप्रसङ्गात् ।
स्वसंवेदनं चैकाकारनियतमन्याभावनिश्चयमाक्षिपत्येव, केवलं विमतं प्रति यदि स्याज्
195
ज्ञानान्तरमनुभूयेतेति दृश्यानुपलब्धिरेव शरणं व्यवहारे बाह्यवत् । विशेषणानुच्चारणं
तु स्यात् । न त्वन्या गतिः । संसर्गापेक्षायां च सापि नास्तीति सन्दिग्धासिद्धो हेतुः ।
तस्मादनुपलब्धेरेकज्ञानसंसर्गापेक्षानियममनुल्लङ्घ्य वर्तितुमशक्यम् ।
बहिरपेक्षया नियम इति चेत्—न, तत्रापि निबन्धनाभावात् । यद्धि सामर्थ्य
मन्तस्तदतिक्रमे तस्य बहिरपि लाभसंभवे किं न सदृशी स्थितिः ? विचित्रो हि विषय
स्वभावः । तत्र स्वात्मा तावत् प्रत्यक्षीभावे योग्यतामात्रमपेक्षते । शब्दगन्धरसस्पर्श
तमिस्रालोकास्तु मनस्कारातिरिक्तमात्रम् । घटादिसन्निवेशिनस्तु रूपविशेषाः प्रकाशम्
अपि प्रायशः । तथैषां विधावुपलब्धिरिव स्वभावस्यानुपलब्धिरपि निषेधे किं न
भिन्नामेव सामग्रीपेक्षेत ?
तत्राद्ये यथा नेन्द्रियतादवस्थ्येनोपयोगः, तथा मध्यमीयेष्वपि नैकज्ञानसंसर्गिणा ।
अन्यातिरिक्तापेक्षिणस्तदपेक्षा युज्यतेऽपि । ततो यथा यदि बुद्धिः स्यादुपलभ्येतैव,
किमिन्द्रियतादवस्थ्यापेक्षयेति सामर्थ्यम्, तथा यदि स्याद्रसादिस्तदवस्थेन्द्रियेण मयोपलभ्ये
तैव, किमेकज्ञानसंसर्गिणेति शक्यमेव । तस्माद् बहिरपि नियमसंभावनातिदूरैव,
अभ्युपगमे वा ज्ञानेऽप्यपेक्षेत ।
तत्रापि संवेदनैकप्रत्यक्षापेक्षैकज्ञानसंसर्गोऽस्तीति 7a चेत् ? ननु न संवेदनं
नामैकं प्रत्यक्षमस्ति, धर्ममात्रस्य तस्य प्रतिस्वं भेदात् । सामान्यमाश्रित्यैकज्ञानसंज्ञया
तु परितुष्टौ भिन्नेन्द्रियग्राह्ययोरपि स्वसंवेदनेन्द्रियज्ञानविषययोरपि वा प्रसङ्गः । ययोः
सतोरन्योऽन्यप्रत्यक्षाव्यभिचारस्तत्रेयं व्यवस्थेति चेत् ? रूपयोरपि नायं नियमः,
प्रदेशपिशाचयोरदर्शनात् । विशिष्टयोरस्त्येव । न च सामान्यापराधो विशेषमास्कन्दति
इति चेत् ? एवमपि शब्दाकाशयोः शब्दमनस्कारयोर्वा प्रसङ्गः । न ह्याकाशप्रत्यक्षं
मनस्कारसंवेदनप्रत्यक्षं वा सत्त्वे शब्दस्य प्रत्यक्षं व्यभिचरति । व्यभिचारे पुनः
कार्यानुपलब्धेरनेकान्तप्रसङ्गः । तस्मादव्यापकमेकज्ञानापेक्षणमन्यस्यापि च सुलभम्
इत्यलं विमत्या ।
अपि चायं चित्तयोरेकज्ञानसंसर्गोऽपूर्व एव, मुख्यस्याभावाद् गौणस्य चैका
यतनसंग्रहाभावात् । उपलक्षणमेकायतनसंग्रह इति चेत् ? एकज्ञानसंसर्ग एव किं
नोपलक्षणमाख्यायते ? प्रकृतघटोदाहरणापेक्षया तु द्वयमप्येतदुक्तमित्यनभिनिवेशः ।
196
यथा ह्येकायतनसंग्रहेणान्योऽन्यप्रत्यक्षाव्यभिचार उपलक्ष्यते, तथैकज्ञानसंसर्गेणापि
प्रतियोगिमात्रापेक्षैवेति युज्यते ।
कश्च कस्य प्रतियोगी ? ययोरेकाकारनियतं प्रत्यक्षमितराभावनिश्चयमुपपाद
यितुं शक्नोतीति । कयोश्चैवमनुपलब्धिः ? ययोरेकप्रत्यक्षमपरप्रत्यक्षाव्यभिचारि । तयोर्हि
सतोर्नैकरूपनियता प्रतिपत्तिरसंभवात् । ततस्तावत्यो विशिष्टकालदेशदशासन्ताना
पेक्षयान्योऽन्यस्य प्रतियोगिनौ व्यवस्थाप्येते, सदृशः संवित्तिलाभलक्षणेऽयोगस्तयोरिति
कृत्वा । अत एव तयोरेकाकारनियतं वेदनमन्यस्य प्रतिषेधविकल्पमुपपादयितुं शक्नो
तीति तादृशामभावः प्रत्यक्षसिद्धोऽभिधीयते । तमेव निश्चयं मूढं प्रति प्रतियोग्युप
लम्भस्वभावानुपलब्धिरुपलब्धियोग्यता युगयोगिनः संभवन्ती? व्यवहारव्यवहारावपि
साधयतीति तावतैवेतरमतप्रतिक्षेपेण स्वभावफलयोरपि परिनिष्ठासिद्धौ किमेकेन्द्रिय
ग्राह्यतापेक्षोपग्रहेण ?
अयं हि प्रतियोग एकेनानेकेन वेन्द्रियेण ग्राह्ययोरर्थयोर्ज्ञानयोर्ज्ञानार्थयोर्वा
साधारणोऽभावसाधने च निरपवाद इति कस्तदनुरोधः ? यथा हि भूतलकलसयोः
ज्ञानयोर्वैकरूपवेदनमन्यप्रत्यक्षाव्यभिचारितया तदभावनिश्चयोत्पादने पर्याप्तम्, तथा
पानकपानकर्मणि द्वयमुपलब्धवतस्तादवस्थ्यसंवेदिनः प्रदीपकवलने स्पर्शमात्रोपलब्धी
रसाभावनिश्चयजनने, स्वविकल्पाकारमात्रसंवेदनं वा सन्निहितस्पर्शाभावावसायसाधने
शक्नोत्येव ।
न हि तद्विकल्पवेदनं तदा सतः स्पर्शस्य प्रत्यक्षं व्यभिचरति । न चान्योऽन्य
प्रत्यक्षाव्यभिचारादन्यदन्यत्रापि द्वितीयाभावनिश्चयोत्पादनसामर्थ्यं नाम । नाप्यभाव
निश्चयोत्पादनसामर्थ्यादर्थान्तरमभावप्रत्यक्षीकरणं नाम । न ह्यसौ विग्रहवान् यतः
साक्षात्कर्तव्यः । यदा च पर्युदासेन प्रतियोग्येवाभावस्तदा त्वस्य मुख्यैव प्रत्यक्षसिद्धि
रिति युक्तं सर्वत्र व्यवहारफलत्वम् । न चायं प्रतियोगः स्वभावादिविप्रकर्षिणां
केनचिदस्ति, येन कस्यचित् प्रत्यक्षं तदभावविभावनाय प्रभवेत् । न चैवं निवृत्तिमात्रम्
अनुपलब्धिरुक्ता भवति ।
भट्टस्तु पर्युदासपक्षेऽपि यथोक्तं प्रतियोगिनमनपेक्ष्यान्यमात्रस्योपलब्धिमनुप
लब्धिं प्रमाणयतीति तन्मते युक्तः पिशाचादिप्रतिक्षेपः । रूपदर्शिनस्तु रसस्तद्देशविप्रकृष्ट
एव, न तेन प्रतियोगं यथोक्तमावहति । रसनाग्रसङ्गी तु नाभावमनुपलब्धौ व्यभिचरति
197
इति न दोषः कश्चित् । अत एव कार्यानुपलब्ध्यादीनां साक्षादक्षमः स्वभावानुपलब्धौ
अन्तर्भावः पारम्पर्येणोच्यते, तादृशस्य प्रतियोगस्याभावात् ।
तस्मादुपलम्भयोग्यताप्राप्तस्यानुपलम्भ इत्येव दृश्यानुपलब्धेर्लक्षणम् । सा च
यथोक्तप्रतिपत्तियोग्युपलम्भ पतया सिद्धस्याभावस्य व्यवहारिकस्यैवावतिष्ठत इति न
न्यायशास्त्रयोरुपरोधः । एकेन्द्रियग्राह्योपन्यासस्तु घटाद्युदाहरणापेक्ष एव मन्तव्य इति
स्थितम् । तत्र यदा तावत् तिमिरालोकसंज्ञिते आकाशप्रदेशे दृश्यमाने देवकुलादौ वा
भेर्यादेरेवाभावं प्रतिपद्यते, तदा तदेव तदेकाकारोपकारोपरक्तज्ञानविषयीभवत् ज्ञानं
वा तादृशं नियतप्राप्तिकप्रत्यक्षोदयस्य निषेध्यस्य तज्ज्ञानस्य वा पर्युदासोऽनुपलब्धिः ।
अव्यापृतचक्षुषस्तु रसादिस्तज्ज्ञानं वान्ततो मनस्काराकारो ज्ञेयपर्युदासः । तत्संवेदनं
च पर्युदासः ।
न हि तदपि शब्दप्रत्यक्षोदयविनाकृतमुपपद्यते पटुश्रवणस्य । निर्विकल्पकस्य
तु न निषेधेऽधिकारः । केवलं यावद्देशसंबद्धस्य ध्वनेरध्यक्षं न व्यभिचरति रसादि
प्रत्यक्षं विकल्पाकारसंवेदनं वा, तावद्देशशब्दापेक्षैव पर्युदासो वक्तव्यः, अन्यं प्रति
प्रतियोगस्यान्योऽन्यप्रत्यक्षाव्यभिचारलक्षणस्य वक्तुमशक्यत्वात् । ततश्च पूर्ववत् प्रत्यक्ष
सिद्धिरभावस्य । व्यवहारश्च फलं दृश्यानुपलब्धेरेव शब्देऽपीति सिद्धम्,
इति ॥
पेक्षे सूचित एकधीवचनयोः शब्दप्रदीपादिषु ।
ऽन्येषु स्वानुपलब्धिरेव हि रवाद्याकारशून्यान्यधीः ॥
शक्तिर्न कार्यानुपलम्भनस्य ।
फलं न कार्यानुपलम्भनस्य ॥
विज्ञानमेवेति न भट्टभीतिः ।
मिथः समक्षाव्यभिचार एव ॥
ननु प्रतियोग्येवैकज्ञानसंसर्गी साक्षादेकज्ञानसंसर्गस्याभिमतत्वान्मुख्यतया
साकारस्वीकारात् । ततः सामर्थ्यादेकशब्दोऽव्यभिचारमात्रोपलक्षणतयाऽवतिष्ठते ।
प्रत्यक्षैकजात्यपेक्षया चैकवृत्तिरेव । न चैवं संज्ञामात्रम्, तथा रूढिदर्शनात्, यथैको ब्रीहिः
संपन्नः सुभिक्षं करोतीति । तेन यत्राप्येकज्ञानसंसर्गिणि दृश्यमान इति उच्यते, तत्राप्यन्यो
ऽन्यप्रत्यक्षाव्यभिचारिणीत्ययमेवार्थः । एकायतनभाव एव तूपलक्षणतया प्रकृतापेक्षतया
व्याख्येयः, यथा प्रदेशस्तज्ज्ञानं चानुपलब्धिरिति ।
ततश्च स्वभावानुपलब्धौ प्रतियोगिसमाश्रय इत्येकज्ञानसंसर्गिसमाश्रय एवोक्तो
भवतीति कथमव्यापकमेकज्ञानसंसर्गित्वं नाम ? सत्यमेवम्,
र्यदि भवते प्रतिभाति का क्षतिः ।
स्वयमदृशोऽस्तु निषेधनं ध्वनेः ॥
अन्योऽन्यप्रत्यक्षाव्यभिचारस्य केनापि ध्वनावपि संभवात्, इतरस्य तु प्रतियोगिनः
अयोगात् । प्रतियोगपर्यवसितमेकज्ञानसंसर्गं मन्यमानस्य स्वानुपलब्धिः प्रकृतनिषेधे
का परापेक्षा ? तस्मान्न योग्यदेशाशेषशब्दाभावसाधने ज्ञानकार्यानुपलम्भः शरणी
करणीयः, स्वभावानुपलब्ध्यैव सिद्धेरिति । तिमिरालोकयोस्तु परस्परदेशपरिहारेण
स्थितयोरभिन्नेन्द्रियकृत एवैकज्ञानसंसर्गः सुलभ इति तदभावसाधनाधिकारे दूरस्थितैव
स्वभावानुपलम्भादन्यसाधनचिन्तेति ॥