199
अन्योऽन्यप्रत्यक्षाव्यभिचारस्य केनापि ध्वनावपि संभवात्, इतरस्य तु प्रतियोगिनः
अयोगात् । प्रतियोगपर्यवसितमेकज्ञानसंसर्गं मन्यमानस्य स्वानुपलब्धिः प्रकृतनिषेधे
का परापेक्षा ? तस्मान्न योग्यदेशाशेषशब्दाभावसाधने ज्ञानकार्यानुपलम्भः शरणी
करणीयः, स्वभावानुपलब्ध्यैव सिद्धेरिति । तिमिरालोकयोस्तु परस्परदेशपरिहारेण
स्थितयोरभिन्नेन्द्रियकृत एवैकज्ञानसंसर्गः सुलभ इति तदभावसाधनाधिकारे दूरस्थितैव
स्वभावानुपलम्भादन्यसाधनचिन्तेति ॥

॥ सर्वशब्दाभावचर्चा समाप्ता ॥