262
तावत् कर्त्रावश्यं ज्ञेयमिति दृष्टम् । न च दिगादिज्ञानेनैवोपकरणवित्तिस्तदवस्थस्येति
निश्चयं ब्रूमो यतो विशेषपर्यनुयोगः, किं तूपकरणान्तरसम्भवान्न पारिशेष्यविश्रान्तिः
अत्रेत्युच्यते । ततो यथा परापरकर्तृषु दण्डचक्रादितुरीवेमाद्युपकरणविरहपरम्परायाम्
अन्यान्यैरुपकरणैर्धर्मादिबाह्यैरुपकरणज्ञतास्थितिरुपलब्धा, तथा किमद्याप्यस्तु ? उत
धर्मादीनादायैवेति सन्देह एव । यदि पुनरन्यदुपकरणं न स्यात् पारिशेष्यव्याख्यानं
शोभेत । अभ्युदयनिःश्रेयसमार्गादिसन्देहे च किं तादृशा तेन कर्तव्यमीश्वराभिधानेन
धनविरहिणेव ?

तस्मादशरीरित्वेऽपि न धर्मादिज्ञानाकृष्टिः, किं पुनस्तदसिद्धौ ? मा भूदुपकरणतया
धर्मादेर्वेदयिता नियमेन कार्यतया भविष्यति, यतः कर्ता कार्यरूपादिवेदकः स चेश्वर
इत्यपि निःसारम् । दानहिंसादिकं हि कुर्वन्तस्तद् वेदयन्त एव स्वरूपमात्रेण, न तावता
त एवेश्वराः । न चान्यः कार्त्स्न्येन तद्वेदी सिद्धः । धर्माधर्मत्वेन तु निश्चयः तत्कारिणोऽपि
नावश्म्भावी कुम्भकारवत् । तत्कारिणां तर्हि तत्त्वेन निश्चयाभावात् तत्त्वनिश्चयः कार्यत्वात्
कर्तारमीश्वरमेव सन्निधापयेदित्यपि नास्ति । धर्माधर्मत्वनिश्चयोऽपि हि समीचीनः
सन्दिग्धसत्ताक एव वर्तते । कथं ततः प्रत्याशा ? अनिरस्तविपर्ययाशङ्कसङ्कल्पस्वभावस्तु
भूयसामागमद्वारेण । देवजातिस्मरादिस्वीकाराच्च तेषाम् अप्यस्ति लेशेन सम्यक्कर्मफल
सम्बन्धबोधः । न च तावतैवैश्वर्यपर्याप्तिरिति ।

तदेवमीश्वरासिद्धेः सकलजन्मिनां शुभाशुभकर्माणि नोपकरणम्, किं तु कारणान्येव
लोकवैचित्र्यस्येति धीमतामुपादेयः प्रथमश्लोकार्थ इति ॥

॥ ईश्वरदूषणं समाप्तमिति ॥