तृतीयः खण्डः

एवं सति सत्यपि व्याप्तिरशक्यनिश्चया संभाव्यत इति किमत्र साम्प्रतमिति
46b चेत् ? पश्य,

कार्यं तावदनेकजाति, जनकश्चैको जडो वीक्षते
नानाभेदवतो न चैकनियमज्ञानेऽन्यभेदेऽपि तत् ।
यद्यज्जातिकमेकहेतुविदितं तत्तत्तदङ्गं ततो
नैवं चेदतिसञ्जनं न च मतः साध्योपमेऽयन्नयः ॥

न हि नानाप्रकारकार्यजननं नाम प्रयत्नवत्येव नियतम्, वह्न्यादेरपि विविध
सामग्रीमध्यमध्यासीनस्य धूमभस्माङ्गाराङ्गतापपाकपारदोत्सारणवीक्षणक्षतिप्रभृति
विचित्रकार्यक्रियादर्शनात् । यदि परं प्रयत्नवतोऽधिष्ठानेनेत्यत्र विवादः, न चैकस्य तत्र
नियमे ज्ञाते कार्यान्तरेऽपि नियमज्ञानमुपपद्यते, यथोक्तं प्राक् । ततो यावन्तः प्रकारा
एकहेतवो निश्चिताः, तावन्तस्तस्य हेतोश्चेतनस्येतरस्य वा साधनं युज्यन्ते । अन्यथा
स्तिमितेन्धनसखेन शिखिना गृहीतधूमव्याप्तिरपरिचिततत्कार्यभावैर्भस्मादिभिरपि
दहनमनुमिनुयात् । न चैवं, तस्मात्तज्जातिभेदो व्यक्तो व्याप्तिग्रहश्च पृथक् पृथगपेक्ष्य
माणो यत्र क्वचित्तद्ग्रहणेन येन केनचिदनुमानमुन्मूलयति ।

कः पुनरेवमाह, यत्र क्वचिद्गृहीतव्याप्तिर्येन केनचिदनुमिमीतामिति, एकधर्मानु
वृत्तिविरहे हेतोरेवाभावात् ? न हि तदा भस्मसाधनमव्याप्तेः । नापि धूमोऽसिद्धेः ।
कुटकूटादौ कार्यत्वमेवान्यधर्माननुवृत्तावप्यनुमाने वर्तमानं हेतुः स्यादिति चेत्—न,
कार्यत्वस्यापि प्रागव्याप्तेर्विस्तरेण साधनात् । तत्र यथा कुलगिरिः कुलालव्यापारकाले
स्वभाववैकल्यादिकलितनियमः, तथा सदपि कार्यत्वं प्रामाण्यप्रवृत्त्या धूमजन्मनीव
रासभ इति प्रमाणेन व्याप्तिग्रहविरहे न कश्चिद्विशेषः । तदयं घटादौ कार्यविशेषे
गृहीतव्याप्तिः सर्वतो न कार्यतामात्रेण वा व्यापकमनुमातु । न तु व्याप्तिग्रहणसाधन
व्यवस्थयोर्भिन्नाधिकरणतामतिक्रामतीति कथमतिप्रसङ्गोपालम्भपरिहारः ?

तस्मान्नैकधर्मानुवृत्तिमात्रेणोपयोगः । केन वा धूमसंभविनः कार्यत्ववस्तुत्वादयो
भस्मनि भस्मसादेव कृताः ? सन्तोऽपि व्यभिचारिण इति चेत् ? ननु सव्यभिचारो
व्याप्तिवियोगादेव, व्याप्तौ तद्गन्धस्याभावात् । स च व्याप्त्यभावः कार्यत्वेनापि
अवर्जित इति तत्रापि व्यभिचारो दुर्निवारः । आहत्यादर्शनं तु विप्रकर्षादपि स्यात् ।
298
न तावता तदभाव एव, तन्मूलभूताया अव्याप्तेस्तादवस्थ्यात् । यदि तु व्याप्तावेव
सव्यभिचारः, तदा नितरामव्याप्तावित्यलं मिथ्याभिनिवेशेन । तद् यद्यपि साधारण
धर्मा तन्मात्रं व्याप्तिमनादृत्य साधनमिष्यते, किं न भिन्न एवं भूधरादिसाधारणं धर्मम्
अनादृत्येत्यतिप्रसङ्गस्तदवस्थः ?

नाप्ययं नयः साध्यसमानीकृते कलसादावप्यस्ति, तत्रापि यथायथा प्रतिसर
शराबोदञ्चनादिषु कुम्भकारकृतिमुपलभामहे, 47a तथातथैवमपीदमप्यनेन सृज्यत
इति प्रतियन्तः परिचितक्रियेभ्य एव प्रकारेभ्यस्तद्व्यापारमवधारयामः, अन्यथा
तद्दोषानतिवृत्तिः । तस्माद् यदि परमार्थतः प्रयत्नवन्नान्तरीयक एवायं सकलप्रकारः
कार्यग्रामः, तथापि स्वयमकिञ्चित्कर इति प्रमाणवृत्त्यपेक्षया,

सिद्धं यादृगधिष्ठातृभावाभावानुवृत्तिमत् ।
सन्निवेशादि तद्युक्तं तस्माद् यदनुमीयते ॥
प्र. वा. १. १३

इति ॥ यद्दृष्टेरक्रियादर्शिनोऽपि कृतबुद्धिर्भवति, शून्यनगरपरिदृष्टदेवकुलादिवत् सन्नि
वेशादि,
तादृगेव यदीक्ष्येत तन्नगादिषु धर्मिषु ।
युक्तं तत्साधनादस्माद्यथाभीष्टस्य साधनम् ॥
2476

तच्चासिद्धमित्याकूतम् ।

ननु भवत्येवास्माकं सर्वत्र पौरुषेयबुद्धिः, कृतबुद्धिः सा, साध्यबुद्धिरेवानुमानम्
इति नियमः, कथञ्चित् कस्यचित्तत्राप्यभावात् । किं च कृतबुद्धिरिति कार्यमात्र
बुद्धिर्वा, पुरुषमात्रबुद्धिर्वा ? यदि कृतमात्रबुद्धिः, सा बौद्धस्यापि सिद्धा सिन्धुभूधरा
दिषु । सावयवत्वाच्च तदारम्भसंभवित्वमेव कृतत्वम् । अथ पौरुषेयबुद्धिः कृतबुद्धिः ?
सा साध्यबुद्धिरेवानुमानमिति चोच्यते, ततस्तदभावान्नानुमानमिति कथमुच्यमानं
नोपप्लवते ?

यदाह, न च व्यामोहात् कस्यचित् साध्यबुद्ध्यभावे हेतोरसिद्धतादोषः, सर्वानु
मानेषु तद्भावप्रसङ्गादिति । यदपीदमुच्यते, तादृक्कार्यत्वादि निषिद्धमचलादिष्विति,
299
तत्रापि न कार्यत्वादिना कैलासकलसादेः किञ्चिद्विशेषमुपलभामहे । आह च, नापि
कश्चिद्विशेषः क्षित्यादिहेतूनां प्रासादादिहेतुभ्यो येनामी निरभिप्रायाः सन्तः प्रयत्न
निरपेक्षाः प्रतिनियमवता च व्यापारेण तद्वन्तः स्युः, न ह्यनधिष्ठितानां प्रयत्नवता
करणधर्माणां क्रियासु स्वातन्त्र्यमुपलब्धिपूर्वम्, सर्वत्र बुद्धिमदधिष्ठितेष्वेव प्रासादादि
प्रसवोपलब्धेरिति ॥

अत्रोच्यते, नेयं कृतबुद्धिः सिद्धान्ताभिनिवेशवासितबुद्धीनधिकृत्य कीर्तिता,
किं तु संव्यवहारप्रगल्भपुरुषमात्रापेक्षया । तस्य च पूर्वप्रतीतप्रतिबन्धस्मरणवतः
कारणपरामर्शवैमुख्याभावे भवत्येव देवकुलादौ तादृशी बुद्धिर्न तु मलयमकरालयादौ ।
तदनयोरस्या धियो भावाभावौ न जातिभेदमव्यवस्थाप्य स्थातुं प्रभवतः, धूमद्वय
दर्शनेऽपि तथाभावप्रसङ्गात् । इयं च कामं साध्यबुद्धिरेव, कः पुनरेनामेतद्वतोऽनुमान
निबन्धनमाह, तदभावाद् वा भूधरादौ तदभावम् ? किं तु जातिभेदमात्रोपलक्षणार्थमस्या
भावाभावोपन्यासः समानजनापेक्षया कस्यचिद् दुर्विदग्धबुद्धेः प्रतिबोधसाधनाय ।
जातिभेदे हि तावति सिद्धे नैकत्र प्रवृत्तमध्यक्षानुपलम्भमन्यत्र प्रतिबन्धसाधनसमर्थमिति
वक्तुंसमर्थः स्यात् ।

ततो नाप्रतिबद्धात् सन्नि47b वेशादेः साध्यसिद्धिः, प्रतिबद्धश्चासिद्ध इति
कथमनुमानमित्यन्ततोऽनुमाननिषेधायोपन्यासेऽपि नैकस्यैव तदभावात्तदभाव इत्युक्तं
भवति । ननु तथाप्यन्यस्यानुमानोदयाभावादन्यस्यापि न भवितव्यमित्युक्तं भवति ।
तच्च कथं सङ्गतिमालम्बेत ? उक्तं हि, न च व्यामोहादित्यादि । तदयुक्तम् । समान
साधनसामग्रीसंभवे साध्यस्यैकप्रतिनियमानुपपत्तेः । यद् येन विशिष्टसामग्रीकं तत्
तेनाविशिष्टफलमेव, यथा साधारणधूमसाधनेन्धनदहनादिसमुदायं प्रदेशद्वयम्
अन्योन्यम्, अविशिष्टानुमानसाधनप्रतिबन्धग्रहणादिसामग्रीकश्च भवता सह सांव्यव
हारिकः पुरुष इति स्वभावहेतुः प्रसङ्गः । भवतोऽपि हि प्रत्यक्षानुपलम्भमेव प्रमाणं
प्रतिबन्धसाधनं देवकुलसूत्रधाराद्यधिकारेण प्रवृत्तम् । एतच्च परस्यापि साधारणम् ।
असाधारणं तु विपर्ययबाधकप्रमाणमेव दुरभ्यूहतया भवेत् । तच्च भवतोऽपि नास्तीति
प्राक् प्रकाशितम् ।

तद् यदि स्वमताभिनिवेशमात्रमनुभवतो नावृणोति चेतः, किं तु तदेव साधनम्
इतरसाधारणम्, तदा तस्यापि शून्यनगरपरिदृष्टदेवकुलादिवन्मेरुमन्दरादावपि
पौरुषेयानुमानमनिवार्यम् । न चैवम् । ततो यस्य यत्प्रतिबन्धग्राहकप्रमाणव्यापारे
300
यथावत्स्मरणवतो यद्दर्शनान्न तदनुमानं न तस्य तत्र प्रतिबन्धः सिद्धो, यथाग्नौ धूम
प्रतिबन्धस्यानुस्मरतो गर्दभदर्शनादग्निमननुमिन्वतः । न भवति च चेतनेन देवकुलादि
प्रतिबन्धस्मृतिमतो मलयहिमालयादौ पुरुषानुमानमिति कार्यानुपलब्धिः स्मरण
कारणानुसरणवैमुख्यादिप्रत्ययान्तरसंभवे प्राचीनप्रतिबन्धसाधकप्रमाणेन विषयी
करणवैकल्यं साधयति । तच्च न जातिभेदातिशयमन्तरेणावान्तरभेदवतोऽपि, धूमाद्
गर्दभवत् ।

व्याप्तिग्रहणस्मरणयोरपराधे तु नेयमिष्टसिद्धिः । तदर्थं यथावद्ग्रहणम् । तत्र
स्मरणापराधे देवकुलान्तरादपि नानुमिमीत, ग्रहणापराधोऽपि प्रत्यक्षापेक्षयाऽसंभवी,
एकप्रत्यवमर्शयोग्यताया एवाभावादित्युक्तेः । अन्यथा जलधराद्यर्थिनोऽपि कुम्भकार
सूत्रधारादीनपेक्षेरन् । अपेक्षत एव तत्रापि सूत्रधारस्थानीयोऽन्यो यथा कुम्भकार
स्थानीयः क्वचित् सूत्रधार इति चेत्—न, कार्यजातिवैसदृश्याभावे कारणसामर्थ्यवैसदृश्या
पेक्षानुपपत्तेः । अन्यथा कुम्भान्तरेऽपि न कुलालमात्रेण तोषमश्नुवोत । तद्वद् वा कृषीवलः
कुलालपौरुषापनेयानावृष्टिकष्टः स्यादिति सिद्ध एव तादृशो जातिभेदः, तस्मादेकाकार
प्रत्यवमर्शानुपपत्तेरध्यक्षसाध्या व्याप्तिर्विशिष्टविषयतया न दुर्ग्रहदोषमावहति, यतोऽनुमाना
भावेऽपि जातिभेदातिशयस्यासिद्धेः सिद्धसाधनदोषः स्यात् ।

48a ततश्च यथावद् ग्रहणसिद्धेर्यत्र नानुमानं तत्र व्याप्तेरेवाग्रहादिति नाने
कान्तः । कथं पुनरनुमानहानमेव तादृशि लोकस्यावगन्तव्यमिति चेत् ? उक्तादेव
जलधरार्थिनोऽपि कुलालजङ्घामर्दनप्रसङ्गात्, परचक्राक्रान्तिकातरस्य वा कुलगिरि
जलधिव्यवधिमभिलषतः, चेतनमात्रेण व्याप्तिं प्रतीमो न कुम्भकाराद्यवस्थानियतेन
तेन नायं प्रसङ्ग इति चेत् ? तदवस्थानियतेनैव व्याप्तिग्रहे कीदृशो दोष इति किमत्र
वक्तव्यम् ? न च समयापक्षालकलाङ्कितधियं भवन्तं प्रति काचिच्चिन्ता, अपि तु लोकं
प्रति । सोऽपि व्यभिचारान्न तेन प्रतिपद्यते इति चेत् ? एवं तर्हि कलसान्तरादपि
नानुमानमयं कुर्यात् ।

अन्यत्रैव व्यभिचारदर्शनादत्र को दोष इति चेत् ? तदेतज्जातिवैसदृश्येऽसति
न लभ्यते । ततश्च विशिष्टायामेव जातौ व्याप्तिग्राहि प्रत्यक्षं प्रवृत्तमतो नान्यत्र तद्व्या
पारानुमानमित्येवं किं नोच्यते, किमत्र व्यभिचारोपक्षेपेण ? अवश्यं च प्रत्यक्षस्य
प्रतिनियतजातिव्यवसाय एषितव्योऽन्यथा व्यभिचारागोचरमपि प्रत्यक्षं न नियत
जातिकमिति कलसान्तरमप्यास्कन्देत् । तथा च सति स एव दोषः । व्याप्तिग्राहिणैव
301
कलसान्तरस्याधिष्ठितत्वादिति चेत् ? ननु तदधिष्ठित एव विषये व्यभिचारचारि चेतः
प्रचरत् कथं तमेव परिहरेत् ?

उभयोर्नियतविषयत्वे तु नायं दोषः । केवलमिदानीमध्यक्षेण विशिष्टविषय
स्वीकारान्न व्यभिचारोपन्यासः सफलः । व्याप्तिग्राहिणस्तु प्रमाणस्य विशिष्टविषय
प्रवृत्तिस्मरणाधानार्थमुपयुज्यते मूढं प्रति । न तु परितो विसारिणी व्याप्तिगृहीतिरस्य
नियतविषया क्रियते व्यभिचारेण । नाप्यनुमानखण्डनमात्रमुक्तन्यायादेव । तस्माद्
विशिष्टविषयैव व्याप्तिः कुम्भकारादिना गृह्यते व्यभिचारदर्शनादर्शनापेक्ष्यप्रत्यक्षस्यैक
जात्यपेक्षयैव प्रवृत्तेरिति सिद्धम् ।

एवं चेतनमात्रेणापि व्याप्तिजिघृक्षायां व्यभिचारो दर्शनाभावात् यज्जातिनि
वस्तुनि प्रत्यक्षप्रवृत्तिस्तदेव तेन व्याप्तं सिध्यतीत्यपि सिद्धम् । तत् कथं सामान्येन
व्याप्तिमभिदधानः समयानुवादमात्रेण नोपालम्भमर्हति ? यदि तु पुरुषमात्रेण
व्याप्तिं जिघृक्षोरध्यक्षप्रतिक्षेपेण प्रमाणान्तरं शरणम्, तदा नैष दोषः । तत्तु विचा
रितम् । यदि वेश्वरप्रसादादस्य वादिनो जगतश्चित्राकारपरिहारेण सर्वत्रैकाकारं
प्रत्यक्षमुदयमासादयति, तच्चासाधारणमिति न व्यवहाराङ्गम् । सशरीराशरीरयोः
प्रयत्नवतोर्न कश्चिद्विशेषः कर्मधर्मापेक्षया प्रत्यक्षेण व्याप्तिग्रहणे, यतो जलधरार्थिना
कुम्भकाराननुसरणेन तत्कृतानुमानविरहानुमाने प्रकारान्तरेणापि संभावनायां जाति
भेदैकनिबन्धनाप्रतिबन्धात् सिद्धसाधनं पुनरप्यासज्येत । ततो जातिभेदकृतस्तत्रानु
मानाभावः संसिध्यन् 48b प्रतिनियतजातिप्रतिबद्धमनुमानमुपपादयति ।

विशिष्टजातिप्रतिबद्धपौरुषेयानुमानासिद्धौ वा अनुभवसिद्धमपि जातिभेदं
शाठ्यादपह्नुवानः परलोकस्य जातिभेदनान्तरीयकेण तथा प्रवृत्त्यभावसिद्धेन कुलाला
दिकृतत्वानुमानाभावेन । अन्यथानुमानोदयं प्रसज्य जातिभेदमापाद्यते, यथा स्थाणु
काकाभ्यां भिन्नः संयोगो नाम यदि स्याद् दृश्यो लोकोऽप्येनं तृतीयमीक्षेतेति
उच्यते । तथा च यदि यादृशः सन्निवेशो बुद्धिमत्पूर्वको दृष्टस्तादृगेव जलधरादावपि
स्यात्, लोकस्यापि पुरुषकृतबुद्धिः स्यात्, घटान्तरवत् ।

न चैवं तज्जातिभेदकृतोऽयं विभागोऽन्यनिमित्ताभावादित्युक्तं भवति । ततः
कीदृशं पुनः सन्निवेशाद्यधिष्ठातृनान्तरीयकं सिद्धमित्यपेक्षायां यद्दर्शनादक्रियादर्शिनः
अपीत्याद्युच्यते, पर्यायपरिकलितानेकप्रकारपरिगणनगौरवपरिहारार्थम्, तत्र पुरुषकृत
बुद्धिरिति प्रयत्नवदनुमानं वा कुम्भकारादिव्यापारानुमानं वेत्युभयस्यापि सङ्गतेः
302
प्रागुक्तक्रमात् । केवलं प्रयत्नवन्मात्रनिषेधसाधनसामग्रीकतया कुलालानुमानाभाव एव
लिङ्गम्, तद्वित्सिद्धो वा व्याप्तिग्रहणाभावः । एतच्च परेच्छामनुपाल्य पल्लवितम् ।

लोकस्तु यथादर्शनानुसारी यज्जातिकं पुरुषपूर्वकं पश्यति, तत्तत्तादृशा तनुमतैव
कृतमवबुध्यते, न तु शरीरविरतिसन्देहमप्युल्लिखतीति समानमानवानुमानपर्यव
सानैव कृतबुद्धिरवतिष्ठत इति । यदापि यदि कस्यचित् सिद्धिवशादासुरीं मायालिम्2477
आलोचयतोऽचलेऽपि कश्चिदुल्लेखो जायते, केनापि कैरपि वा कच्चित् कृतोऽयमपि
भवेदिति, तदापि केनापि 2478करचरणाङ्गोपरक्त एवात्यन्तं प्रतिभाति । निश्चयस्तु सुदूर
एव । न चैकजातित्वे तदुपपद्यते, धूमकुम्भादेरिवानलकुलालादेः । न च करचरणादि
व्यापारविरहिण उल्लेखोऽपि । न च तावता क्षणिकादिवादिनोऽनुमानापलापः
शक्यते । अध्यक्षपूर्वव्याप्तिग्रहसहायं तु जातिविशेषापेक्षवृत्तिकमनुमानमुभयोरपि
साधारणत्वान्न संभवति लौकिकपरीक्षकयोरिति ब्रूमः ।

यद्यपि च द्वितीयमपि लौकिकमेव, तथापि कश्चिद्विषयोऽनभ्यस्ततया तीव्रतरा
भ्यूहसापेक्षः सूक्ष्मधियः सांव्यवहारिकस्यापि संभवति । तत्र प्रत्यक्षाक्षमत्वेऽपि
विपक्षबाधकेनानुमानान्तरेण लोकप्रतीतिमेवाश्रित्य गृहीता व्याप्तिरनुमानं प्रयोजयेद्
इति न क्षतिः, यथा यत्रार्थापत्तिघोषणाविशेषो लोकस्य । तस्मात् साध्यबुद्धिरूपा
कृतबुद्धिर्भावाभावाभ्यां जातिभेदं प्रसाधयतीति युक्तमेव । यदापि कृतमात्रबुद्धिः
कृतबुद्धिः, तदापि न दोषः । तथापि कृतत्वं नाम स्वजन्मन्यपेक्षित49a परव्यापार
त्वम् । तच्च न तावद् वृक्षादिवत् प्रत्यक्षतः क्षितिधरादिषु सिद्धम् । पराभ्युपगममात्र
सिद्धं तु स्वतन्त्रसाधनाधिकारेऽनङ्गमेव ।

ततोऽनुमानसिद्धमाश्रीयमाणं दृष्टसजातीयं यथा कथञ्चिद् वाश्रीयते ? अन्त्य
पक्षे यद्यनाद्युपादानशक्तिसंतन्यमानक्षणपरम्परारूपमेव कार्यत्वं नियतदेशतया व्यव
स्थाप्यमानं सिध्येत्, तादृशात्, कीदृशी पुरुषाधिष्ठानप्रत्याशा ? दृष्टसजातीयं तु
तदङ्गमुचितम् । चेतनाचेतनाधिष्ठानकृतं विशेषमवधूय विततानेककारणकलापमिलन
लभ्योदयं हि पुरुषव्यापारमाकर्षेदपि, मिलनस्य तदधीनाध्यवसायात् । अचेतनो
पादानत्वमात्रमपि हि प्राचीनक्रमेण चरितार्थं न प्रकृतं विशेषमाकर्षेत् । एतदेव तु
कार्यत्वं लोके विदितम् । तच्च नाचलादौ सिद्धमिति कथमसिद्धिपरिहारः ? केवलं न
303
साक्षादसिद्धिसाधनमिदम्, किं तु विजातीयत्वसाधनार्थम् । न च कार्यत्वमात्रमधिकृत्य,
किं तु सर्वम् ।

तदयमर्थः, किं तदधिष्टातृभावाभावानुवृत्तिसन्निवेशादिसिद्धम्, यद्दर्शनादक्रिया
दर्शिनोऽपि लोकस्य कृतबुद्धिर्भवतीति । ततो यदि सावयवा कृतबुद्धिरपि भवतो भवति,
तथापि लोकस्य नास्तीति भिन्नजातीयत्वं व्यवस्थाप्यते । अन्यथा कुम्भकारादिनापि
भूधरादिव्याप्यं प्रतीयाल्लोक इति पूर्ववत् प्रसङ्गः । ततो जातिभेदादन्यदेव प्रत्यक्षानुप
लम्भाभ्यां पुरुषकृतं प्रतीतमिति सिद्धम् ।

यत्तूक्तं कार्यत्वे न कश्चिद्विशेष इति । अत्र सर्वसाधारणधर्मत्वेऽपि कार्यत्वस्य
यदि प्रत्यक्षसाधना व्याप्तिरभिमता, तदा सदपि तदुदासीनमेवेत्युक्तप्रायम् । यदि तु
विशेषमुत्सुज्याभूत्वाभावमात्रस्य चेतनाव्याप्तिर्विवक्षिता, तदा प्रत्यक्षव्यापारमप्युत्सृज्य
प्रमाणान्तरं शरणमस्त्वित्यपि । तदभावे वा न किञ्चित् कार्यत्वेन सतापि ।

यदप्याह—नापि कश्चिद्विशेषः क्षित्यादिहेतूनामित्यादि, तदपि ग्राम्यजनधन्धी
करणमात्रोपयोगि न विवक्षितार्थगतेर्गतिर्भवितुमर्हति । यथा पार्थिवत्वेन वज्रोपलानां
लोहलेख्यत्वं साधयन् सन्दिहाने प्राह । नापि काष्ठपाषाणादिभ्यो दम्भोलीनां कश्चिद्विशेषो,
येनामी पार्थिवाः सन्तो लोहलेख्यताविरहिणः स्युः । न ह्यलोहलेख्यानां कदाचित्पार्थिवत्व
मुपलब्धम् । सर्वत्र लोहलेख्यतास्वीकृतेष्वेव घटविटपादिषु पार्थिवत्वोपलब्धेरिति । तद्वत्
प्रकृतमपि वचनरचनामात्रमाभाति ।

यथा हि निरभिप्रायत्वेन सामान्यमनुयन्तः सर्वे पुरुषापेक्षकार्यारम्भभाजः
प्रतीयन्ते, तथा पार्थिवत्धेन लोहलेख्यत्वस्वभावभाजः । यथा च तथा बहुदर्शनं
विहाय नान्या गतिस्तथा अत्रापि । यथात्र किमेतल्लोहलेख्यत्वं पार्थिवत्वमात्रानुबन्धि,
उत पार्थिवत्वेऽपि किञ्चिद्वि49b शेषमपेक्ष्येति शङ्का बहुलदर्शनेऽपि, तथा किम्
अचेतनमित्येव कार्यक्रियासु चेतनापेक्षमुत क्रियाविषयापेक्षयैवेति समानम् ।

किं च यदि दहनादिष्विव सूक्ष्मावान्तरभेदतिरस्कारेणैकप्रत्यवमर्शयोग्यता
पेक्षया नापि कश्चिद्विशेष इति उच्यते, कार्येऽप्यविशेषप्रसक्त्या धूमादिवत् सौधसाधन
स्यापि कुलगिरिकरणप्रसङ्गो दुर्वारः । ईश्वरस्वीकारे कदाचिदन्यथापि स्यात्, सर्वदा
विपर्यये शालिबीजस्यापि शाल्यङ्कुरकरणनिराकरणप्रसङ्गः, सौधान्तरक्रियानिषेधो वा
स्यात् । अथात्यन्तजातिभेदेऽपि निरभिप्रायत्वधर्ममात्रापेक्षया ? तदपि बिप्लव
304
एवायम्, न हि क्वचित् साधारणो धर्मो दुर्लभ एव । नापि तावता स्वभावपरभावो
भावेषु विषामृतयोरेकक्रियाप्रसङ्गात् किमनिष्टमसंशितान्येव वा सौधादिसाधनानि
अशक्यपरिहारनिरभिप्रायत्वं साधारणमवज्ञाय यया स्वभावभेदाधिष्ठानया शक्त्या
कार्यभेदमात्यन्तिकमारभन्ते तत्कृतप्रयत्नापेक्षानियमनिषेधोऽपि यदि स्यात् कीदृशो दोष
इत्यर्थपदमेतन्नास्ति कश्चिद्विशेष इत्यादि ।

तस्माद्विविधविशेषव्याप्तिग्रहणप्रकारस्याभावात् शङ्काया अनिवृत्तेः, स्वहृदयस्यापि
संप्रत्ययाक्षमतया संभावनारक्षामात्रमेवंविधः प्रलापः । ततोऽवस्थितमेतदध्यक्षसाध्यप्रति
बन्धापेक्षया यज्जातीयं सन्निवेशादि प्रयत्नवता व्याप्तं सिद्धम्, न तद् भूधरादौ अस्ति,
यादृशं चास्ति न तद्व्याप्तं सिद्धमित्यसिद्धिरनेकान्तो वेति ।

एतेन यदाह त्रिलोचनः, ननु केयं कृतबुद्धिः किं साधनबुद्धिरथ साध्यबुद्धिः ?
साधनबुद्धिस्तावद् भवतां सिद्धैव, कर्मजं लोकवैचित्र्यमित्यभ्युपगमादिति । अथोत्तरः
पक्षः ? तेनायमर्थो भवति, नेदं क्षित्यादिषूपलभ्यमानं साध्यानुमानसमर्थं कार्यत्वम्,
किं त्वन्यदेव साध्यबुद्ध्यजननात् । न चैतद् युक्तम्, सर्वानुमानोच्छेदप्रसङ्गात् ।
धूमादिष्वपि हि शक्यमेवेदं वक्तुं नायं वह्न्यनुमितिसमर्थो धूमः किं त्वन्यदेव साध्य
दर्शिनः साध्यबुद्ध्यजननात् । तथा च तावत् साधनं न सिध्यति यावत् साध्यबुद्धिर्न
सिध्यति, यावत् साध्यबुद्धिर्न सिध्यति तावत् साधनं न सिध्यतीति स्फुटतरमितरे
तराश्रयत्वमिति तन्निरस्तम् ।

न हि साक्षादसिद्धिचोदनमिदम्, किं तु यतो न व्यावहारिकस्य कृतबुद्धिः
सिन्ध्वादौ घटादिव्याप्तिं स्मरतोऽपि ततो नैकजातित्वमिति जातिभेदमात्रसाधनमिदं
स्यात् । ततो विशिष्टजातीयव्याप्तिद्वारेणासिद्धिरनेकान्तो वेति युक्तमेव । तत्र च
कृतबुद्ध्यभावो नाम साध्यबुद्ध्यभावः साधनबुद्ध्यभावो वेत्युभयमपि निर्व्यूढम् ।

यदपि भूषणकारः, कृतकत्वेन च प्रतीतौ कथं न कृतबुद्धिः ? सर्वेषां प्रासादादिषु
अपि कृतबुद्धिर्न भवति, यथा चिरन्तनेषु प्रासादादिषु 50a व्याप्त्यभिज्ञस्यैव कृत
बुद्धिर्भवति, व्याप्तिविमूढानामकृतबुद्धिरेव, तथा क्षित्यादिष्वपीति न कश्चिद् विशेषः ।
पुरुषकृतबुद्धिः प्रासादादिष्विव क्षित्यादिषु न संभवतीति चेत् ? किं प्रसिद्धाविना
भावानामुताप्रसिद्धाविनाभावानाम् ? प्रसिद्धाविनाभावानामपि किं व्याप्तिग्रहस्मृति
विकलानाम्, अथान्येषाम् ? अभ्रष्टस्मरणानां तावद् भवत्येव पुरुषकृतबुद्धिः । लोके
अपि हि विचित्रं जगत् केनचिद् धात्रा निर्मितमित्यस्ति प्रतीतिः । व्याप्तिग्रहस्मृति

305
विमूढानां तु प्रासादादिष्वपि केषुचिन्न पुरुषकृतबुद्धिर्भवतीति न तावता तेषामपुरुष
कृतत्वम् ।

अपि चेयं वेदेष्वपि पुरुषकृतबुद्धिर्मीमांसकानां नास्तीत्यतश्च तत्रापि पुरुष
कृतत्वसाधनायोक्ता वाक्यत्वादयोप्यसिद्धाः स्युः । किं चानित्यत्वसिद्ध्यर्थ यत्कृतकत्व
साधनमुक्तम्, तदप्यसिद्धं स्यात् । न हि यादृशं कृतकत्वादि घटादिषु दृष्टं श्रोत्रा
ग्राह्यत्वरूपम्, तादृशं शब्देऽस्तीति । तस्माद् दृष्टान्तदार्ष्टान्तिकवैधर्म्यमेतत् सर्वानुमानेषु
समानं नेश्वरानुमानस्यैव बाधकमिति, तदप्येतेनैव प्रत्युक्तम् ।

यत्पुनः साध्यबुद्धिमधिकृत्य विकल्पितं किं प्रसिद्धानुमानभावानामित्यादि ।
अत्र ब्रूमः । य एकदा सूत्रधारादिव्यापारे देवकुलकलसादिसंभवमुपलभ्य कालान्तरे
कलसादिसंदर्शनात् पुरुषकृतिमनुमिमीते स कीदृशो वक्तव्यः, प्रसिद्धाविनाभाव
स्मरणवान्न वा ? आद्ये पक्षे तस्यैव नाचलादौ पुरुषकृतबुद्धिः, कुलालानुमानस्यापि
प्रसङ्गादित्युपपादितम् । तत्कथमभ्रष्टदर्शनानां तद्भावनियमः ? तत एव विचित्रं
जगदित्यादिमतिरपि न व्याप्तिग्रहस्मरणबलात्, किं तु दर्शनान्तरप्रभवप्रवादवशात्,
तमशृण्वतामभावात्, विपरीतवादवत् ।

व्याप्तिविमूढानां त्वित्यादि सिद्धसाधनं च । उदाहरणमपि पापीयः, कृत
बुद्ध्यभावस्य जातिभेदमात्रोपदर्शनपरत्वात् । न च वादिप्रतिबाद्यपेक्षया तद्भावाभाव
चिन्तेत्युक्तम्, स्वयं वा अभिनिवेशेनान्यथापि संकल्पसंभवात् । प्रत्यक्षापेक्षया तु
व्यावहारिकाधिकारेण चिन्तेयम् । तस्य चाविदितवेदादिसंकेतस्य वैदिकवाक्ये
तत्प्रतिच्छन्देन च रचितमपरं शृण्वतो निपुणमपि निरूपयआंश्चिन्तय तावत् कीदृशो
विशेषावसायः, कलसकुलिशादिवत् सर्वप्रकाराणां पुरुषैः कारणदर्शनात्, प्रत्यक्ष
स्वभावानां शब्दानां प्रत्यक्षभेदकल्पने धूमादिष्वपि प्रसङ्गात् । ततश्च,

यद्भावः पुरुषान्वयव्यतिरिचोस्तद्भावभाजः स्थिता
नान्यस्माद् वचसश्च वैदिकगिरां भेदोऽस्ति शक्यात्मनोः ।
तुल्यातीन्द्रियसूचना च नियतं नैकत्र चाश्वासनं
वेदस्तेन न पौरुषेयपदवीमप्राप्य विश्राम्यति ॥

यदि तदा कोऽवकाशस्तद्भावस्य प्रत्यक्षमहावैजा50b त्येषु शैलादिषु ।
तदेतदायातम्,

306
एकः कार्यविशेषमेव कलयन् हेतोर्विशिष्टं निजं
लक्ष्याग्नेरिव कार्यमात्रममुना व्याप्तं मुधा मन्यते ।
तज्जातीयकमेव कार्यमपरो नावैति तद्धेतुकं
हन्त ध्वान्तविशेष एष विदुषामध्यक्षवस्तुन्यपि ॥

न च लौकिकवैदिकवाक्ययोर्वैजात्यसंभवे समयमात्रेण पराजेतव्यो मीमांसकः ।
न च प्रत्यक्षाक्षिप्तव्याप्तिकं वाक्यत्वमेव तत्र शरणम् । कृतकत्वे तु यदुक्तं तदपि
चिन्तितं चिन्तयिष्यते चानन्तरमिति । ननु तथापि तद्व्याप्तेऽपि कार्ये कार्यत्वादि दृष्टम्
इतरत्रापीति यथा घटादि प्रयत्नवन्नान्तरीयकम्, तथा पृथ्वीधराद्यपि स्यादिति चेत् ?
ननूक्तमत्र कार्यत्वादि विद्यमानमपि तत्राशक्यव्याप्तिग्रहतयोदासीनमेवेति तेनाभिद्य
मानादपि कार्यान्तरान्न यत्नवतः स्पर्शोऽपि लभ्यते, केवलं कार्यं कार्यमिति शब्द
मात्रमभिद्यमानमवशिष्यते । तद् यदि तदेव द्वारान्तरेण शरणीकृतमायुष्मता तत्र
साक्षाद् दूषणाश्रवणात्, तदा तदपि काकभक्षणप्रायमित्यादर्शयन्नाह,—

वस्तुभेदे प्रसिद्धस्य शब्दसाम्यादभेदिनः ।
न युक्तानुमितिः पाण्डुद्रव्यादिवद्धुताशने ॥
2479

एतेन यदप्युक्तं, नाप्यत्र शब्दसाम्यादचेतनोपादानत्वस्य समारोपेण साध्य
सिद्धिः, अनित्यत्वादिना कृतकत्वादिष्विव प्रत्यासत्तेरिहापि वास्तवत्वात् । न च
जातिभेदो धर्मिणोर्धर्मयोः सर्वत्र वास्तवीं प्रत्यासत्तिं भिनत्ति, कृतकत्वानित्यत्वयोः
शब्दघटजातिभेदेन प्रत्यासत्तेरभावप्रसङ्गादिति । तदप्यनवकाशम् । न हि नगादाव
चेतनत्वस्य सोपादानत्वस्य समारोपं ब्रूमः । तन्मात्रं तु व्याप्तिबहिर्भावादसत्कल्पमिति ।

यदि चान्यदेवाचेतनोपादानत्वं चेतनापेक्षि सिद्धमन्यदेव चाचलादौ दृश्यत
इति किंकृतोऽयं विभाग इति चेत् ? उपाधिकृतः । किं न भिन्नधर्मिणोर्धर्मयोरपीति
चेत्—न, वैषम्यात् । अचेतनोपादानं धूमस्थानीयं कार्यहेत्वभिमानात् न च कश्चित्तस्य
धर्मिभेदाद्भेदमाह—यदा त्वचेतनोपादानत्वादचलादौ चेतनापेक्षत्वं विवक्षितम्, तदा
धूमत्वेन धूमो वह्निमानित्येवंप्राया स्थितिः । एवं च सति धूमद्वये धूमत्वयोर्भेदः
प्रसञ्जनीय इति कथं साम्यम् ? एवमेवास्त्विति चेत्- न, भिद्यमानो ह्युपाधिरुपाधि

307
मन्तमपि भिन्द्यात् । भेदश्चैकप्रत्यवमर्शबहिर्भावलक्षणो न धूममुपाधि स्पृशति, येन
स्वगतं भिनत्तु, यथा कुम्भाम्भोधरादिरचेतनत्वोपादानत्वमित्यचोद्यमेतत् ।

ननु न दृष्टस्तावद्धर्मिभेदेन धर्मभेद इति चेत् ? यद्रूपपुरस्कारेण प्रतिबन्ध
साधकप्रमाणवृत्तिस्तस्याभेदे भिद्यमानापि धर्मिजातिरभिन्नवदाभासमाना न बाधिका ।
तद्भेदे तु तद्गतं धर्मान्तरमभिद्यमा51a नमपि भिन्नवदाभासमानं न साधकमिति
न्यायः । अन्यथा जलधरार्थिनापि कुम्भकारस्य पर्येषणाप्रसङ्गः । तदपायेऽपि विहायसि
बलाहकोदयदर्शनान्नेति चेत्—न, तत्प्रभवस्यैव घटस्येव तस्य मरुतो क्षेपः किं न
संभाव्यते ? अथ च वारिधारित्वमात्रमुभयत्र दृष्टमिति यथा तत्र संज्ञाभेदमात्रभेदो
व्यवस्थाप्यते, तथात्रापीति युक्तम् । प्रतिबन्धनिश्चयो हि प्रमाणविषयस्वभावनियमे सति
भवति, तद्विरुद्धानियमरूपं च साधारणत्वम् ।

प्रमाणप्रतिबद्धो हि निश्चयस्तद्विषयस्वरूपोल्लङ्घेऽपि भवन् प्रमाणाप्रमाणसाध्यः
स्यात् । न चैवम्, तस्मान्नानेकान्तः । नाप्यसिद्धिरध्यक्षव्यापारानुसारात् । तदिह
पाण्डुत्वस्याग्निव्यभिचारो दृष्ट इति दृष्टान्तस्य साध्यशून्यतानिषेध एषः । अत एव
नानुमानमिति प्रतिबन्धाभावादनिश्चयफलमिदमुभयत्र । न तु सिद्धव्याप्तिकयोर्दहन
पाण्डुतयोर्व्यभिचारेण साधनवैधुर्यम्, व्याप्तिसिद्धावनुमानाण्वादस्याशक्यसाधन
त्वात् व्यभिचारस्यैवायोगात् । सर्वोपसंहारवती हि व्याप्तिः, तद्भावे तद्भावः कथं
स्यात् ?

ततोऽयमर्थः । यथा पाण्डुत्वान्नाग्निमत्त्वेऽनुमानं तस्य तत्राप्रतिबन्धात् । स
च व्यभिचारेणाभिव्यक्तः । अन्यथा तत्राप्यनुमानमङ्गीकृत्यैव स्वस्थमासीत् । स च
व्यभिचारः प्रमाणविषयस्वरूपेतरसाधारणं धर्मं सर्वमप्रतिबद्धत्वे नियतमादर्शयतीति
यथोक्तसाधारणत्वाकृष्टादप्रतिबन्धात् । तथैव यथा कार्यत्वादिमात्रादपि न चेतनाधिष्ठानानु
मानमिति । अतो व्यभिचारदर्शनमुपकारकमेव परस्य । तस्मात् प्रमाणविषयस्वरूप
परामर्शात् तथाविधोपाधिकमेव कार्यत्वादिसाधनं धिय इति सिद्धम् । तथाविधस्य च
वास्तव एव प्रत्यासत्तिभेद इति संज्ञामात्रं शरणमापतितम् ।

तेन धर्मिजातिभेदस्य धर्मभेदकत्वं सिद्धमपीति कथं सर्वत्र तन्निषेधः ? अथ
सर्वत्रैव यद्भेदकत्वं तन्निषिध्यते क्वचिदभेदकत्वमपीत्यर्थः, तदा सिद्धसाधनम् । उक्तं
हि प्रमाणविषयस्वरूपापेक्षया तदुभयव्यवस्थानमिति । तथा च सति भेदस्थितिरेव,
308
कृतकत्वादिस्पर्शश्चापरिभावकतया क्रियते । न हि तत्रापि प्रत्यक्षबलाद् व्याप्तिरुपपादयितुं
शक्या, किं तु विपर्ययबाधकानुमानात्, तदभावेऽननुमानस्येष्टत्वात् ।

ततोऽभूत्वाभवनाभिधानधर्ममात्रस्य भूत्वाभवनेन धर्मेण व्याप्तिसाधकं धर्मिणो
यदि जातिभेदमुदासयति धूमस्याग्निना व्याप्तिसा51b धकमेव महानसादि, तदा प्रस्तुते
किमायातम् यत्र प्रत्यक्षव्यापारापेक्षया जातिभेदनिष्ठैव व्याप्तिगृहीतिरीतिरिति ? यदि तु
प्रकृतेऽपि कार्यवस्तुस्तोमगताः कार्यत्वादय एव धर्माः प्रतीतव्याप्तयः स्युः, तदायं न
दोषः । केवलमुपायप्रकारद्वयस्याप्ययोगादयुक्तैव व्याप्तिरिति दर्शितम् । तत्र विपर्यय
बाधकप्रमाणपरिचयस्तेषामसंभवो, बौद्धगन्धेरेव कस्यचित् तथा यत्नदर्शनात् । न च
प्रकृते वक्तुं शक्य इति तत्रास्थामवधूय । प्रदेशान्तरे च,

नित्यं सत्त्वमसत्त्वं वेत्यादिना
प्र. वा. ३. ३४

करणमात्रे विशेषत्यागेन कार्यमात्रप्रतिबन्धं विपर्ययबाधकबलेन सूचयतो निर्वृतिं विदधानो
भगवान् वार्तिककारः परस्य दर्शनादर्शनमात्रेण व्याप्तिवादिनः तद्योगप्रतिपादने प्रत्यासन्नं
प्रत्यक्षानुपलम्भबलावलम्बनमवलोकयन् तदाहत्य दूषयितुं जातिभेदकृतं दूषणमुद्भावयतीति
वेदितव्यम् । तस्मात् प्रत्यक्षव्यापारावधेयजातिभेदस्यात्यन्तं व्यक्तत्वात् संज्ञामात्रं शरणी
क्रियमाणमप्यकिञ्चित्करमित्युक्तम् ॥

अथवा, अस्तु घटाद्यपेक्षया क्षोणीधरादीनां जातिभेदो यतः,—

सिद्धं यादृगित्यादि

उच्येत । क्रीडापर्वतादयस्तु पौरुषेयास्तदेकजातिभवाः, तैः सहैकहेतवः किं न
भवन्ति ? ततोऽयमर्थः, यो यः शैलः स सर्वः पौरुषेयो यथा क्रीडाशैलः शैलश्च कैलास
इति । एवं कुल्यामहासरोवरप्रभृतयो नदीसमुद्रादीनामुदाहरणान्यूहनीयानीत्या
शङ्क्याह,
वस्तुभेदे प्रसिद्धस्येत्यादि,

अयमर्थः,
क्रीडापर्वतकादिनिर्मितिदृशां शैलादिषु ज्ञानुमा
नापि न्यायसहा स्खलद्गति यतस्तन्नाममात्रं समम् ।
309
किं चानेकसमानमानवकृताः सिध्यन्त्यमी चेन्नगाः
का वार्तेश्वरसाधनस्य किमिहोपात्तं समाप्तं च किम् ॥

जातिभेदे सिद्धेऽधिकरणसिद्धान्तन्यायानुसारः पूरयेदपि प्रत्याशाम्, अभेदे तु तदपि
निरास्पदम् । न हि सजातीयकुम्भान्तरे तद्विजातीयस्य निर्मातुः सिद्धिरित्यनुभवात्
अभ्युपगमाद् वा भिन्नैव जातिरनयोर्न समानं हेतुमावहति संज्ञामात्रसाम्येऽपीति ।

कः पुनरयं नियमो य उक्तप्रकारद्वयेनैव व्याप्तिग्रहो नान्यथेत्याशङ्क्याह,

अन्यथा कुम्भकारेण मृद्विकारस्य कस्यचित् ।
घटादेः करणात् सिध्येद् वल्मीकस्यापि तत्कृतिः ॥
प्र. वा. १. १५

इति । न हि सुदूरमनुसरतापि स कश्चित्प्रतिबन्धसाधनविधिर्लब्धव्यो यः कुम्भकारेण
मृन्मयमात्रव्याप्तिप्रसङ्गपरिहारकारी प्रयत्नवता कार्यमात्रव्याप्तिं साधयिष्यतीति भावः ।
कुम्भकारेण हि कार्यमात्रव्याप्तिसाधनाय प्रभवतस्तद्विशेषमृन्मयस्य साधने कः शक्ति
व्याघातः ? अस्तु वा प्रकारद्वयेनैव व्याप्तिग्रहः । यत्तूक्तम्,
नो भेदेन विपक्षबाधकवशादित्यादि

ततोऽन्यथा भविष्यतीति आशङ्क्य जलधरार्थिना कुम्भकारपर्येषणाप्रसङ्गमुक्तमेव
प्रकारान्तरेण52a संभावयन्नाह,

अन्यथेत्यादि ।

यदा हि बाधात्मकोद्देशेनापि प्रवर्तमानः सामान्येनैव व्याप्तिं साधयति, तदा
कुतो मृन्मयात् कुलालानुमानं कुर्यात् कारणमात्रस्य सिद्धेः ? यदापि प्रत्यक्षापेक्षया
हेतुविशेषेण कुलालेन करणव्यापारोपधेयविशेषस्य कुम्भादिकार्यविशेषस्य व्याप्तिस्तदापि
कुतस्तत्प्रसङ्गः ? यदाप्यध्यवसायमात्रापेक्षया सामान्येन विशेषस्य तदाप्ययं दूरतरः ।
एवं तु व्यवस्थातोऽन्यथाव्याप्तिग्रहणे विशेषेण सामान्यस्य भवतीति कथं मृन्मयात्
कुलालानुमानमप्रसङ्गि ? तत्कार्यकुम्भाद्यपेक्षया अत्यन्तविसदृशादपि प्रसङ्गे कथं
कियताप्यंशेन प्रत्यासन्नात् न स्यात् ? तथा चैवं सजातीयादप्यवान्तरभेदानुसारि
प्रत्यक्षव्यवसायापेक्षया नानुमानं प्रतिबन्धानिश्चयात्तदा कैव वार्ता विजातीयाद् ?
अत्यन्तविजातीये दृष्टव्याप्तिकस्येति दण्डापूपन्याय एष इति दर्शयितुं मृन्मयग्रहणम् ।

310

ननूभयथा व्याख्यानेऽपि व्यभिचारादेव नानुमानं, तत्कथमतिप्रसङ्ग इति
चेत् ? उक्तक्रमेणोपकारक एव व्यभिचारोऽस्माकं न बाधकः । तथाहि प्रमाद्वयव्या
पारातिक्रमेऽनन्तरप्रकारबहिर्भावे वा प्रतिज्ञातप्रतिबन्धनिश्चयाभावसाधक एव
व्यभिचार इति । अपि च, व्यभिचारो नाम सामान्येन गृहीताया व्याप्तेर्नियतविषया
पेक्षया विघातमातनोति, अथ व्याप्तिग्रहणमेव तन्न भवतीति विभावयति, अथ
सत्यपि व्याप्तिप्रसरेऽनुमानमात्रं खण्डयति, अतएवाबाधितविषयत्वमपि लिङ्गलक्षणम्
आख्यातमिति पक्षाः ।

तत्र प्रथमपक्षे सर्वत्रानाश्वासः, अन्यत्रापि तद्बलादेव साध्यप्रत्याशा, सा च
निश्चितापि खण्डिता क्वचिदिति अन्यत्रापि शङ्कानिवृत्तेः, तत एव तद्ग्रहणवैयर्थ्यात् ।

द्वितीये तु न विशेषश्चेतने । यथा हि कुम्भकारेण कार्यसामान्यस्य प्रत्यक्षेण
व्याप्तिर्गृहीता व्यभिचारेण दुर्गृहीता व्यवस्थाप्यते, तथा चैतन्यमात्रेणापि, तत्रापि
प्रत्यक्षव्यापारे विशेषाभावात् ।

तृतीये तु व्याप्तौ सत्यामेव व्यभिचारेणानुमानमपास्यत इति महीयसीयम् अयोग
परम्परा । केवलमत्र पक्षे एतदापतितं यदीदमत्र साधनं साध्यं व्यभिचर्य न स्थितं तदा
साध्यं साधयतीति । एतच्च साध्यविधुरं सर्वार्थसाक्षात्कारिणो नान्यः कर्तु शक्तः । स हि
य एव धर्मी तथाविधमध्यमधिशयितो न भवति तमेव वा व्यभिचारगोचरतया अनुमान
भाजनीकरोति, सर्वविपक्षानीक्षणे तु तन्मध्य एव कदाचिदेषोऽपि स्यादिति शङ्काऽनिवृत्तेः ।
तस्मादुक्त एव न्याय आश्रयणयोग्यो व्यभिचारश्च व्याप्तिदुर्ग्रहणमेव साधयतीति कार्य
मात्रव्याप्तिः प्रकृतकारणविशेषेणासंभविन्येव साधुरिति ।

गृहीतायां व्याप्तौ यदि विहतिराश्वासविरहो
ग्रहो नासौ व्याप्ते52b र्यदि च न विशेषो मतिमति ।
अबाधापेक्षायां न सकलविपक्षेक्षणमृते
निरातङ्कस्तस्मान्न खलु फलमात्रे ग्रहविधिः ।

इति संग्रहः ।
किं चादाय समस्तवस्तुविषयां व्याप्तिं पुनश्चेन्मता
तत्तज्जातिषु बाधकक्रमवशात्स्वव्याप्यतत्तत्स्थितिः ।
311
तत्तज्जातिषु साधकक्रमवशादुन्नीयते किं न सा
येनायासकशक्तिसंशयपदं सन्तो विशन्तीदृशम् ॥

इत्यन्तरश्लोकः ।

अपरिगणितो नाम वस्तुव्यापारविषयोऽपरिगणिततमस्त्वविषयः । तत्र क
एवमनात्मीयकार्यजातिनिकरस्य प्रत्येकं व्यभिचारान् दृष्ट्वा दृष्ट्वा स्वकार्यजातिष्वेव
नियन्तुं हेतुमपारव्यापारः पारयते ? तथा च सति यस्यैव साक्षादनीक्षितो व्यभिचारः
तदेव तस्य गमकमाशक्तम् । तदा शङ्कासंभवान्नेति चेत्—न, क्वचिदतीन्द्रिये तर्हि
निश्चयमयं कुर्यात् । यज्जातीयोद्देशेन प्रवृत्तमध्यक्षं सामान्यविषयमवस्थापितं तत्र
कः सन्देह इति चेत् ? एवं तर्हि परापरतदीयव्याप्यजातिषु तथैव संशयप्रवृत्तिप्रत्यनीक
प्रमाणवृत्त्यनुसरणे आयातस्तृतीयपादापतितोऽर्थः । तस्मान्न कारणविशेषेण बुद्धिमता
कार्यमात्रस्य व्याप्तिः प्रत्येतुं शक्येति,

सिद्धं यादृगित्यादि

सिद्धान्तः ।

अथवा यदुक्तं न शरीरनिरपेक्षप्रयत्नवन्मात्रेण कार्यस्य व्याप्तिः प्रतिपत्तुं पार्यते,
प्रत्यक्षेण प्रतिक्षेपात् तादृशस्येत्यादि, तदेवोपसंहरति,—

सिद्धमिति

यादृक्षोऽसौ शरीरादियोगी अधिष्ठाता चेति । शेषं सुबोधम् । तादृशश्च प्रत्यक्षबाधादि
दोषविषय इत्याकूतम् । ननु शरीरवत्यपि चेतनत्वं दृष्टमितरत्रापि संभवति इति यथा
शरीरिणा व्याप्तं कार्यादि सिध्यति, तथाभिमतेनापि इत्यत्रापि प्रागुक्तन्यायात् संज्ञा
मात्रादवशिष्यमानात् साधनमनोरथमुन्मथ्नन्नाह, वस्तुभेदे कुम्भादौ प्रसिद्धस्य
कुलालादेर्यो वाचकः शब्दश्चेतन इति तन्मात्रादभिद्यमानस्याभिमतस्य प्रमाणव्यापारा
पेक्षया दूरीकृतस्य न युक्तानुमितिरिति व्याप्ताभिमताद् वस्तुन इति प्रकृतमर्थापन्नं वा
कथमिवेत्याह,

पाण्डुद्रव्यादिवद्धुताशन इति ।

अयमभिप्रायः, यदि शब्दमात्रसाम्येनाभिद्यमानस्यानुमानं शब्दसाम्येनाभिद्य
मानादपि पाण्डुम्नः किं न धूमध्वजस्यानुमानम् ? अथ तत्र विशिष्टकार्यस्वभावापेक्षम्
312
अध्यक्षमन्यव्याप्तिं प्रतिक्षिपतीति नानुमानमुच्यते, तथा चेतनमात्रप्रतिक्षेपेणापि
प्रत्यक्षं किं न तदनुमानं निरस्यति ? एतेन यदा दृश्यमपि कार्यान्तरं तिरस्करोति
प्रत्यक्षं तदा कैव कथा दृक्पथातिरिक्तस्य चेतनमात्रस्येति ? अस्तु तावद् व्याप्या
पेक्षया विभाग एव, लोके तथैव प्रतीतेः, अन्यथातिप्रसङ्गाच्च ।

व्यापकापेक्षया तु यद्येष नियमो न स्यात् को दोष इत्याशङ्क्या पूर्वोक्तमेवेति
प्रसङ्गं भङ्ग्यन्तरेण तरुणयति, अन्यथेत्यादि । वल्मीकस्येति वल्मीकजन्तोरित्यर्थः ।
तत्कृतिरिति घटादिकृतिः । 53a अयमर्थः, यदि विशेषेणापि व्याप्तिमवसाय चेतन
मात्रं सामान्यमनुमातव्यम्, तदा कुम्भादिकरणस्य कुलाले नियतस्य चेतनमात्रपर्य
वसितत्वात् घटादेरपि वल्मीकजन्तुः कर्तानुमेयः स्यात्, यथाहि कुम्भादेः कुम्भकारेण
व्याप्तिग्रहणे चैतन्यमात्रेणाविशेषात् तस्याप्यनुमानमेवं वल्मीकौकसोऽपि चैतन्येनान्या
विशेषात् किं नानुमानम् ? यदा च शरीरिणा व्याप्तिग्रहे शरीरिणोऽप्यन्यस्य प्रतिक्षेपः,
तदा 2480का वार्तात्यन्तविसदृशस्येति । न चात्र बहुत्वेनोपयोगः, एकात्मनोऽपि चैतन्याद्
इति वल्मीकस्येति निर्देशः । एतेन धूमादेरपि जाठरादेरनुमानाक्षेपो व्यक्तः । व्यभि
चारचर्चायां च पूर्ववत् सर्वमावर्तनीयमिति ॥

यदुक्तं, प्रयत्नवता यद्व्याप्तं सन्निवेशादि तन्न सिद्धं सिन्धुभूधरादौ, यच्च सिद्धं
तन्न व्याप्तमिति तत्रैतत्स्यात्, ननु जात्युत्तरमिदं धर्मभेदविकल्पनात्, ततो यथा
यत्कृतकं तदनित्यं घटवदिति कृते कश्चिदाह, यदि घटगतं कृतकत्वं हेतुस्तदसिद्धं शब्दे,
शब्दगतं त्वनित्यसंघाते घटपटादावभावाद्विरुद्धम् । अथ सपक्षवद् विपक्षेऽपि नास्तीति
मतिः, तदा असाधारणमनैकान्तिकमिति । न च तावता कृतकत्वं तत्त्वतोऽशक्तमेव
अनित्यत्वसाधने, तथेदमपि । तथाहि यच्च सिद्धं तन्न व्याप्तमित्यनेन सपक्षावृत्तेर्विरोधः,
विपक्षादपि निवृत्तिपक्षे वा असाधारणत्वमाकृष्टमिति । अथ प्रकृतकार्यानुरोधाद्
अदूषणमेवेदमुद्घोष्यते ? तथा सति कृतकत्वादेरपि असाधनत्वप्रसङ्गः सूत्रकार
विरोधश्च, कार्यसमसंज्ञया अस्य दूषणस्य तेन प्रतिज्ञानात् । यदाह,

कार्यत्वान्यत्वलेशेन यत्साध्यासिद्धिचोदनम् ।
तत्कार्यसममेतत्तु त्रिधा वक्त्रभिसन्धितः ॥
2481
313
इति उपचारमात्रकृत्त्वेनान्यत्वस्य लेश उक्तः, वक्त्रभिप्रायेण त्रैविध्यं च दर्शित
मिति ।

तदेतदुभयमप्यसारम्, प्रथमपक्षस्य तावत् पूर्वमेव प्रतिक्षेपात् । उक्तं हि
व्याप्तिसाधकप्रमाणपुरस्कृतस्वरूपस्याभेदे भिद्यमाना अपि संबन्धिनो विधूतभेदा
इव भासमाना न बाधकाः । तस्य तु भेदे अभेदिनोऽपि भिन्नवदाभासमानाः कार्य
त्वादयो धर्मा न तद्व्यापकस्य साधका इति । व्याप्तिग्रहणप्रक्रमश्च द्विविधो दर्शितः ।
तत्र यदि नाशेन कृतकत्वस्येव विपर्यबाधकबलाद् बुद्धिमतापि कार्यत्वादेरविना
भावग्रहः स्यात्, तदा अभूत्वा भवनमात्रमिव सन्निवेशादिमात्रमधिकृत्य प्रवृत्तं
प्रमाणमिति कस्तत्र धर्मिभेदेन भिन्दानः साधनं शोभेतेति युज्यते जात्युत्तरमिति ।

यदि तु प्रत्यक्षानुपलम्भवशात् सन्निवेशादिकमिव कृतकत्वमपि व्याप्तमव
धार्येत तदा शब्देऽपि साधनत्वं कृतकत्वादेः केन निवार्येत, जातिविशेषोल्लेखेनैव
प्रत्यक्षानुपलम्भव्यापारस्य परि53b निष्ठितत्वात् ? अन्यथा धूमगता अपि कार्य
त्वादयो जातिविशेषानवच्छेदेन दहनाविनाभाविनः सिध्यन्तो नाशक्यपरिहारमति
प्रसङ्गमनुपनीय स्वास्थ्यमासादयेयुः । कार्यान्तरस्य व्यभिचारोपक्षेपोऽपि क्षोदिष्ठः
प्रतिविधिः । तदा हि यत्रैव साक्षाद् व्यभिचारानुपलम्भः तदेव साधनं जातमिति
कियल्लाधवं दोषभारस्य ?

न च वह्निकार्यान्तरादपि भस्मादेः स्वप्नेप्यलभ्यव्यभिचाराद् धूमैककार्यव्याप्तिं
गृहीतपूर्विणस्तदनुमानमस्तीत्यपि निवेदितप्रायम् । तस्मादनुक्रान्तप्रमाणापेक्षया धर्मि
जातिभेदधर्माणां भेदक एवाभ्युपगन्तव्य इति कथमुच्यते जात्युत्तरमिति ? न्याय
वादिनस्तु तु सूत्रकारस्य,

साध्येनानुगमात् कार्ये सामान्येनापि साधने ।
संबन्धिभेदाद् भेदोक्तिदोषः कार्यसमो मतः ॥
2482

अयमर्थः । यदा तावद्विशिष्टविषय एव व्याप्तिग्रहः प्रत्यक्षव्यापारोपेक्षया तदा
संबन्धिभूतजात्यन्तरभेदात् कार्यत्वादेर्भेदोक्तिर्दोषो भवतु, न्यायप्राप्तत्वात् । यदापि
विनाशादिना साध्येन विपर्ययबाधकवशात् सामान्येनाभूत्वा भावित्वमात्रमनुगतम्
आस्थाय साधनमनुष्ठीयते, तदापि संबन्धिभेदाद् भेदोक्तिदोषः क्वचिद्दर्शनात् प्रमाण

314
परिरीतिमनालोच्योच्यते सर्वकार्यसमः संमतोऽस्मद्गुरोः । अन्यदा तु साधनस्य
दोष एष इत्यदोषः । ननु तथापि सर्वोपसंहारवती व्याप्तिर्न सिद्धेति सिद्धम् । न तु
तावता साध्यासिद्धिरेव, यदि परं परमतानुरोधेन व्याप्तिग्रहो निर्व्यूढः ।

अस्माकं तु दृष्टान्तदृष्टमेव रूपं व्याप्तमवधार्यते यथा महानसपरिदृष्टं धूमं
धूमध्वजाधीनमवधार्य साध्यधर्मिगतं सामान्येनानुप्रविश्यापि साध्यधर्मिणि धूमम्
उपलभ्य यत्र धूमस्तत्राग्निर्दृष्टो यथा महानस इति एवमग्निमनुमीमहे, तथा प्रयत्नवता
घटादिजातीयमात्रस्यैव व्याप्तिसिद्धावपि यत्र कार्यत्वं दृष्टं तत्र प्रयत्नवता
कृतिरिति वक्तुं शक्तेः । ततश्चैवमपि साध्यसिद्धेरविरोधात् कोऽनुरोधः सर्वोपसंहार
व्याप्तिग्रहणस्य ? मौलसाधनानर्थक्यसाधनस्येति चेत् ? एवं तर्हि व्यक्तमिदमायातं
जात्यन्तरे व्याप्तिमादाय जात्यन्तरादेवानुमानमिति । यदि परं व्याप्यलिङ्गयोः संज्ञा
साम्यमपेक्ष्य, तथा च सति न वस्तुलिङ्गमुक्तं भवति । केवलं कार्यादिशब्दवृत्तिमात्र
मेव । तच्चायुक्तमित्यादर्शयन्नाह—प्रयत्नवतो,

जात्यन्तरे प्रसिद्धस्य शब्दसामान्यदर्शनात् ।
न युक्तं साधनं गोत्वाद्वागादीनां विषाणवत् ॥
प्र. वा. १. १७

इति ।

ननु कार्यादीति न शब्दमात्रम्, अभूत्वा भावित्वसामान्यस्यानुगमसंभवात्,
गोशब्दस्तु स्वर्गादिषु रुचिमात्रशरणो न कञ्चिदर्थमनुगम्य वर्तते इति महान् विशेषः ।
एतदपि प्लवत एव, न ह्यभूत्वाभावित्वमात्रं 54a 2483प्रयत्नवन्नान्तरीयकं सिद्धम्,
येन तदनुगमसमाश्रयः फलं स्यात् । सिद्धौ च पुनः स एव सर्वोपसंहार इति किमनेन
परिहृतं स्वीकृतं वा ? तस्मात् तदपि सामान्यं कार्यजातिभेदेन भेदमावेशयतो न
कश्चिद् वस्त्वनुगम इति शब्दमात्रमेव साधनमाश्रितं भवतीति पश्यामः । ततश्च न
कश्चिद् विशेषो गोत्वेन वागादेर्विषाणसाधनादस्येति ।

एवं दृष्टान्तेऽप्ययमेव श्लोकः । तदा च जात्यन्तर इत्यन्यधूमजन्मनि प्रसिद्धस्य
वह्नेरिति योज्यं, यदि सर्वोपसंहारपरिहारः । यदा तु सर्वमेव धूमरूपमेकाकारप्रत्यव
मर्शवशादेकीकृत्य व्याप्तिमवधारयति, तदा न शब्दमात्रसाम्यम् । स एव व्याप्तः
315
अर्थोऽत्रापीति न साध्यसिद्धिविरोधः । नाप्येवं मौलहेतुवैफल्योपलम्भसंभवः । न हि
यत्र यत्र साधनं तत्र तत्र साध्यमिति सामान्येन प्रवृत्तापि बुद्धिरभिमतदेशकालादि
भेदमास्पदीकर्तुं प्रभुः । अतो विशेषस्य प्रवृत्तिनिवृत्तिविषयीकरणाय न पक्षधर्ममना
लम्ब्यासितुं शक्नुयात् । तत् कथमफलं मौलमङ्गम् ?

तस्माद् व्याप्तिग्रहे सर्वोपसंहारपरिहारिणोऽपि धूमोऽपि नाग्नेरनुमापक इति
लाभमिच्छतो मूलस्यापि नाशः । न हि यत्रैव धूमजन्मनि व्यापृतो वह्निरुपलब्धस्तदेव
देशान्तरेऽपि, केवलं सोऽपि धूमशब्दवाच्योऽयमपीति शब्दसाम्यमवतिष्ठत इति न
गोत्वेन वाचः शृङ्गसाधनादस्यापि कश्चिद्विशेषः । ननु तथापि कीदृशी पुनरियं वाचः
शृङ्गसिद्धिरध्यक्षक्षिप्तत्वात् स्वयमेव हि,

व्यस्तो हेतोरनाश्रयः

इत्यभिधीयत इति चेत् ? सत्यमियानप्यभ्यूहः संभवी भवत इति महान् लाभोऽस्मा
कम् । कदाचिदेवं प्रतिषेधतः संज्ञामात्रतोऽपि साध्यसिद्धिप्रत्याशा परिगलयतीति चित्रं
चात्र यच्छास्त्रपरिश्रमानुरूपम्,
मानग्रस्ते गिरां शृङ्गे साधनं नेति पश्यतः ।
संज्ञामात्रेण साध्यस्य सिद्धिः कस्मात् समीहिता ॥
2484

यन्न गोपालाङ्गनाजनस्यापि साम्प्रतम्, एवं च समीहमानस्तदपि श्रद्दधीतेति तदनुरूपम्
उत्तरं परिहासपरमभिदधानो वचसि विषाणानुमानेन सकलमनुचितानुमानमात्रमुप
लक्षयति । यदा हि दहनादीनामपि गर्दभादिभ्योऽपि लभ्यावकाशमनुमानं तदा
कस्य कस्मादप्रतीतिरित्याकूतम्, यदि परं साक्षादध्यक्षबाधा मा भूत् ? ननु व्याप्तवस्तु
साधारणाभिधानवृत्तेस्तद्व्यापिनिश्चयप्रसङ्गप्रक्रमे कोऽवकाशो गर्दभाद्दहनानुमानस्य ?
न हि दहनव्याप्तवस्तुसाधारणा धूमभस्मादिशब्दा गर्दभे संभविन इति चेत्—न,
वस्त्वादिशब्देनापि शब्दसाम्यसिद्धेरित्येतच्च,
पाण्डुद्रव्यादिवद्धुताशने

इत्यनेनैव प्रतिवर्णितमन्तर्णीय पक्षान्तरेण तोषयन्नाह,—

316
विवक्षापरतन्त्रत्वान्न शब्दाः सन्ति कुत्र वा ।
तद्भावादर्थसिद्धौ तु सर्वं सर्वस्य सिध्यति ॥
2485

एतेन गर्दभादिष्वपि तावदेव धूमादिशब्दानामसंभवो यावन्न समयसमीहा ।
ततोऽनुमानाभावोऽपि धूमादि54b शब्दाप्रवर्तनावधिक एव । प्रवृत्तौ तु कः साध्यं
रुणद्धीत्युक्तम् । न त्वेवं वस्तुनि साधने । तथा हि,

अविनाभावविषयान्न विनाभावसंभवः ।
विवक्षापरतन्त्रत्वान्न शब्दाः सन्ति कुत्र वा ॥
2486

वाशब्दो यथार्थे ।

तद्भावादर्थसिद्धौ तु सर्वं सर्वस्य सिध्यति ॥

न तु प्रतिबद्धवस्तुवृत्तितः साध्यसिद्धावभिमतायां शब्दादिवत् सर्वसिद्धिः
उल्लण्ठमात्रफला, किं तु तत्त्वत एव व्यापकस्य सर्वसिद्धिरिति भावः । तदेवं दृष्टान्त
दृष्टमात्रस्य व्याप्तिवचने वचनसाम्यमात्रपरतन्त्रा सिद्धिरसिद्धिरेवापततीति तात्त्विक
सिद्धिनिबन्धनवस्तुसाधनान्वेषिणा सर्वोपसंहारिण्येव व्याप्तिरुपपादयितव्या । सा च
द्विधापि न सन्निवेशादिभ्यो बुद्धिमतोऽनुमानं मानभाजनीकरोति । तन्मात्रसिद्धावपि
वा नाभिमता विशेषसिद्धिः, यतः श्रेयोऽर्थिभिरत्यर्थमभिधीयमानमीश्वराभिधानस्य
कोविदैराद्रियेतेति संक्षेपतः प्रकरणार्थः । तस्मात् स्थितमेतत्, तादृशि प्रमाणसंमते
अनित्येऽप्यप्रमाणतेति ॥

तृतीयः खण्डः
  1. मामालिमालचयतो० इति मातृकायाम् ।

  2. कारणाङ्गो रिक्त इति मातृकायाम् ।

  3. प्र. वा. १. १४
  4. कतिरत्यन्तेति मातृकास्थः पाठः ।

  5. प्र. वा. १. १६
  6. नान्तरवन्नान्तरीयकमिति मातृकायाम् ।

  7. प्र. वा. १. १८