॥ पूर्वपक्षसंक्षेपः ॥

कर्मनिर्मितवैचित्र्यमनीशं यो जगज्जगौ ।
प्रणमामि प्रमाणेन तमव्याहतशासनम् ॥

इह प्रत्यवस्थानमन्येषाम्, विवादास्पदीभूतं भूधरादि बुद्धिमत्कर्तृपूर्वकम्,
कार्यत्वात् । यद्यत् कार्यं तद् बुद्धिमत्कर्तृपूर्वकं दृष्टम्, यथा घटः । कार्यं चेदं भूधरादि ।
तस्माद् बुद्धिमत्पूर्वकमिति । न चेदमसिद्धम्, बौद्धस्यापि विन्ध्यगन्धमादनादीनां
कार्यत्वे विवादाभावात् । नापि विरुद्धम्, सपक्षे भावात् । न चानैकान्तिकम्,
क्वचिदपि कार्ये बुद्धिमदधिष्ठानव्यभिचारस्य दर्शयितुमशक्यत्वात् । प्रत्यक्षागमाभ्याम्
अबाधनाच्च न कालात्ययापदिष्टम् । प्रतिहेतोरभावाच्च न प्रकरणसमम् । तदनेन यत्
सिद्धम्, तदुपादेयं विदुषाम्, साधनान्तरसिद्धवत् । न च सर्वत्रान्वयव्यतिरेके हेतुवल्ल
भतया बुद्धिमति कार्यस्य 21a तदुभयासिद्धेरसाधनत्वमभिधेयम्, सपक्षे सतोऽस्य
विपक्षराशेराकाशदेरत्यन्तं व्यावृत्तेः ।

त्रयो हि भावराशयः । बुद्धिमत्कर्तृकाश्च घटादयः, अकर्तृकाश्चाकाशादयः,
सन्दिग्धकर्तृकाश्च भूधरादयः । तत्र घटादिषु सपक्षेषु विद्यमानम्, अविद्यमानमम्बरादिषु
विपक्षेषु इत्यन्वयव्यतिरेकि कार्यत्वं शेषेषु वर्तमानमवश्यं साध्यमुपस्थापयति । यद्यपि
च दिगम्बरादयोऽसन्तस्तन्मते परमाणवस्तु कार्यमेव, तथाप्यसतोऽपि व्यावृत्तिः
स्वीकृतैव । तथा च,

निवृत्तियंदि तस्मिन्न हेतोर्वृत्तिः किमिष्यते ।
प्र. वा. ४. २२४

इति हि शास्त्रम् । न च विपक्षताक्षतिः, साध्यानधिकरणलक्षणत्वाद् विपक्षस्येति
किमेषां सत्तासाधनप्रयासेन ? तस्मान्नान्वयव्यतिरेकारेकः कर्तरि यथोके कार्यत्वस्य ।
एवमुत्पत्तिमत्त्वाचेतनोपादानत्वस्थित्या प्रवृत्त्यादिषु योज्यम् ॥

234

अत्र बौद्धमुत्थापयन् शङ्करः प्राह, नोत्पत्तिमात्रेण यथोक्तबुद्धिमत्पूर्वकत्वस्य
सिद्धिः । अपि तु यादृशं प्रासादादिषु दृष्टम्, यद्दृष्टेरक्रियादर्शिनोऽपि कृतबुद्धिरुत्पद्यते,
यदि तादृगेव क्षित्यादिषु भवेत् स्यादत्रापि बुद्धिमतोऽनुमानम् । न कार्यत्वशब्दसाम्येन,
तत्र व्यभिचारस्यापि संभाव्यमानत्वात् । न ह्यर्थान्तरात्,

शब्दसाम्यादभेदिनः
प्र. वा. १. १४

पाण्डुत्वादग्नेरनुमानं न्याय्यम् । अचेतनोपादानत्वाद् घटादिवत् क्षित्यादेरपि कर्तुः
अनुमानमिति चेत् ? एवं तर्हि घटादेर्मुद्विकारस्य कुम्भकारपूर्वकत्वाद् वल्मीकस्यापि
तत्पूर्वकत्वानुमानप्रसङ्गः । तदुक्तम्,
सिद्धं यादृगित्यादि
प्र. वा. १. १२

वार्तिकत्रयम्2462 । तदिदमनिरूपितपराभिप्रायस्य व्याहृतम् । तथा हि बुद्धिमत्कारणस्य
सद्भावे भावो घटादाबुत्पत्त्यादेरभावे चाभावो गगनादिषु । स च तथा प्रसिद्धाविनाभावो
यत्रैव क्षित्यादावुपलभ्यते तत्रैव तद्विनिर्माणसमर्थकर्तृबुद्धिं तद्विदो जनयति । न चैवं
पाण्डुत्वादयः, तेषां जात्यन्तरसमवायिनामग्निव्यभिचारोपलब्धेरिति । तथा न ह्यनधि
ष्ठितानां प्रयत्नवता करणकर्मणां क्रियासु स्वातन्त्र्यमुपलब्धपूर्वम्, सर्वत्र बुद्धिमदधिष्ठितेभ्य
एव प्रासादादिप्रसवोपलब्धेरिति ॥

2463वाचस्पतिस्तु स्वाभाविकसम्बन्धं प्रस्तुत्याह, इहापि कार्यत्वस्योपादानाद्यभिज्ञेन
कर्त्रा स्वाभाविकः सम्बन्धोऽस्त्येव, उपाधेरनुपलम्भेन व्यभिचारासिद्धेः । तृणादयश्च
पक्षीकृता इत्युक्तम् । उत्प्रेक्षणमात्रं तु न कर्तव्यमित्यपि प्रतिपादितमेव । ततः स्वभावतः
प्रतिबद्धं स्वसाध्येन यदि साध्यमन्तरेण भवेत्, स्वभावादेव प्रच्यवेतेति तर्कसहायं
निरस्तसाध्यव्यतिरेकवृत्तिसन्देहं भूधरादिषु दृष्टं स्वसाध्यमुपस्थापयितुं शक्तं किम्
अरुचिभिः ? ये तु पाण्डुत्वमृद्विकारगोत्वादयस्तेषां जात्यन्तरसमवायित्वेन प्रत्यक्ष एव
व्यभिचारोपलब्धेर्न ते हेतवः, जात्यन्तरसमवायिनो हिमादिगतपाण्डुत्वस्याग्नि
व्यभिचारात् । तथा मृद्विकारस्य स्थपत्यादिपूर्वकत्वेन 21b कुलालव्यभिचारात् ।
एवमन्यत्रापि बोद्धव्यम् । ततश्चायं तत्र विभागः । यदेव विशिष्टं पाण्डुद्रव्यधूमरूपम्,
235
तदेवाग्नेर्हेतुः, तत्र तस्याव्यभिचारदर्शनात् । यत् पुनरग्निविलक्षणकारणजन्मपाण्डु
द्रव्यमात्रमर्थतो भिन्नं शब्दसाम्यादभेदि, न ततोऽग्नेरनुमानम्, तत्र तस्य व्यभिचारोप
लब्धेः । एवं मृद्विकारादिष्वपि योज्यम् । कार्यत्वसामान्यस्य त्वभूत्वाभावलक्षणस्य
पर्वतादिषु भावः परैरिष्ट एव । किं तु प्रतिबन्धासिद्धेरनैकान्तिकमिति ब्रुवते । स च
धूमादेरिव प्रतिपादित इति युक्तं ततस्तदनुमानमिति ॥

वित्तोकस्त्वाह, स्यादेतत् । न सपक्षविपक्षयोर्दर्शनमात्रेणाव्यभिचार
निश्चयोऽतदात्मनोऽतदुत्पत्तेश्चाव्यभिचारनियमायोगात् । तदिदं कार्यत्वं सन्दिग्ध
व्यतिरेकत्वादसाधनम् ॥

अत्रोच्यते । नास्ति विपक्षव्यावृत्तिसन्देहो धूमानलयोरिव कार्यबुद्धिमतोरुप
लम्भानुपलम्भसाधनस्य कार्यकारणभावस्य सिद्धत्वात् । कार्यविशेषस्यैव तदुत्पत्ति
सिद्धिर्न कार्यसामान्यस्य, यथा धूमादिवर्तिवस्तुत्वादेर्नानलादिजन्यत्वनिश्चय इति
चेत्—न, विशेषहेत्वभावात् । उपलम्भानुपलम्भयोस्तदुत्पत्तिसाधनत्वेनेष्टयोः साध्य
साधनसामान्ययोरविशेषात् कार्यविशेषस्येव कार्यमात्रस्यापि प्रबोधाश्रयायत्ततासिद्धेः ।
न चैवं वस्तुत्वस्यापि वह्निकार्यत्वम्, तदन्तरेणापि सहस्रश उपलम्भात् । ततो यथा
कार्यं वस्त्रादि उपादानवद् दृष्टमिति कार्यान्तरमपि तथा व्यवस्थाप्यते, तथा तदेव
वस्त्रादिकार्यं बुद्धिमद्धेतुकं दृष्टमित्यदृष्टकर्तृकमपि कार्य कर्तृपूर्वकं व्यवस्थाप्यते,
उपादानस्येव कर्तुरपि कार्येणानुकृतान्वयव्यतिरेकत्वात् । तेन यथा कार्यं च निरुपादानं
चेति न शक्यमाशङ्कितुम्, तथा कार्यं च भवेदकर्तृकं चेति नाशङ्कनीयम्, कार्यमात्रस्य
कर्तृमात्रादुपादानादिवात्पादसिद्धेरविशेषादिति ॥

यत् तूच्यते, अन्यादृशमेव कार्यं बुद्धिमता व्याप्तम्, यद्दृष्टेरक्रियादर्शिनोऽपि
कृतबुद्धिः, तच्चासिद्धं सिन्धुभूधरादाविति । ननु केयं कृतबुद्धिः ? किं साधनबुद्धिरथ
साध्यबुद्धिः ? साधनबुद्धिस्तावद् भवतां सिद्धैव, कर्मजं लोकवैचित्र्यमित्यभ्युपगमात् ।
अथोत्तरः पक्षः, तेनायमर्थो भवति, नेदं क्षित्यादिषूपलभ्यमानं साध्यानुमानसमर्थं
कार्यत्वं किं त्वन्यदेव साध्यबुद्धिजननात् । न चैतद् युक्तम्, सर्वानुमानोच्छेदप्रस
ङ्गात् । धूमादिष्वपि हि शक्यमेवं वक्तुम्—नायं वह्न्यनुमितिसमर्थो धूमः, किं त्वन्य
एव साध्यदर्शिनः साध्यबुद्ध्यजननात् । तथा च तावन्न साधनं सिध्यति, यावन्न साध्य
बुद्धिः सिध्यति । तावन्न साध्यबुद्धिः सिध्यति, यावन्न साधनं सिध्यतीति स्फुटतरमित
रेतराश्रयत्वमिति ॥

236

शङ्करोऽप्याह, न च व्यामोहात् कस्यचित् साध्यबुद्ध्यभावे हेतोरसिद्धिः,
सर्वानुमानेषु तद्भावप्रसङ्गादिति ॥

भूषणकारस्त्वाह, कृतकत्वेन प्रतीतौ कथं न कृतबुद्धिः ? सर्वेषां प्रासादादिष्वपि
22a कृतबुद्धिर्न भवति, यथा चिरन्तनेषु प्रासादादिषु व्याप्त्यभिज्ञस्यैव कृतबुद्धिः
भवति, व्याप्तिविमूढानामकृतबुद्धिरेव, तथा क्षित्यादिष्वपीति न कश्चिद् विशेषः । पुरुष
कृतबुद्धिः प्रासादादिष्विव क्षित्यादिषु न भवतीति चेत् ? किं प्रसिद्धाविनाभावानामुत
अप्रसिद्धाविनाभावानाम् ? प्रसिद्धाविनाभावानामपि किं व्याप्तिग्रहणस्मृतिविकलानाम्,
अथान्येषाम् ? अभ्रष्टस्मरणानां तावद्भवत्येव पुरुषकृतबुद्धिः, लोकेऽपि विचित्रं जगत्
केनचिद् धात्रा निर्मितमित्यस्ति प्रतीतिः । व्याप्तिग्रहस्मृतिविमूढानां तु प्रासादादिष्वपि
केषुचिन्न पुरुषकृतबुद्धिर्भवतीति नैतावता तेषामपुरुषकृतत्वम् ।

अपि चेयं वेदेष्वपि पुरुषकृतबुद्धिर्मीमांसकानां नास्तीत्यतश्च तत्रापि पुरुषकृति
साधनायोक्ता वाक्यत्वादयोऽसिद्धाः स्युः । किं चानित्यत्वसिद्ध्यर्थं यत् कृतकत्वं
साधनमुक्तम्, तदप्यसिद्धं स्यात् । न हि यादृशं कृतकत्वादि घटादिषु दृष्टं श्रोत्राग्राह्य
रूपम्, तादृशं शब्देऽस्तीति । तस्मात् दृष्टान्तदार्ष्टान्तिकवैधर्म्यमेतत् सर्वानुमानेषु
समानं नेश्वरानुमानस्यैव बाधकमिति ॥

मञ्जर्यां त्रिलोचनः पुनराह, बुद्धिमत्पूर्वकत्वेन व्याप्तं जन्म धटादिष्वेवास्तीति
कुतः प्रतिपद्यसे ? कृतबुद्धिहेतुत्वादिति चेत् ? एवं तर्हि घटादीनां स विशेषो वाच्यो
येन महाभूतासंभाविना विशेषेण घटादय एव कृतबुद्धिमुत्पादयन्ति न महाभूतानि ।
न तावत् कर्तृक्रियोपलब्धिर्विशेषः, अक्रियादर्शिनोऽपि कृतबुद्धिहेतुत्वाभ्युपगमात् ।
महत्त्वपरिमाणं विशेष इति चेत् ? तस्यापि कारणबहुत्वमहत्त्वप्रचयविशेषेभ्यो महा
भूतेष्वपि दृष्टत्वात् । कृतकत्वमेव विशेष इति न वाच्यम्, कारणसमवायलक्षणस्याभूत
प्रादुर्भावस्य पृथिव्यादिष्वप्यविशिष्टत्वात् । न चैतेभ्योऽन्यः शक्यो विशेषः शक्रेणापि
निरूपयितुम्, यस्य भावाद् घटादय एव कृतबुद्धिहेतवो न पृथिव्यादय इति ॥

वाचस्पतिस्त्वाह2464, इदमत्र निपुणतरं निरूपयतु भवान्, किं बुद्धिमदन्वयव्यति
रेकानुविधानं विशेषः ? उताहो तद्दर्शनम्, यत् पर्वतादिषु नास्तीत्यभिधीयते ? यदि
पूर्वः कल्पः, स बुद्धिमद्धेतुकत्वं तनुभुवनादेरातिष्ठमानैरभ्युपेयत एव । न हि कारणं
237
कार्याननुविहितभावाभावमन्यो वक्तुमर्हत्यह्रीकात् । अथ दर्शनमिति चरमः कल्पः ?
न तर्हि अक्रियादर्शिनः कृतबुद्धिसंभवः । य एव घटोऽनेन बुद्धिमदन्वयव्यतिरेकानु
विधायी दृष्टः, स एव तत्कार्यो, न तु विपणिवर्ती । तज्जातीयस्य तदन्वयव्यतिरेकानु
विधानदर्शनाददृष्टान्वयव्यतिरेकानुविधानमपि तज्जातीयं तथेति चेत् ? हन्तोत्पत्ति
मद्धटादि बुद्धिमदन्वयव्यतिरेकानुविधायीत्यन्यदपि तनुभुवनादि तथा भवन्न दण्डेन
पराणुद्यते । घटजातीयमुत्पत्तिमद्बुद्धिपूर्वकमिति चेत् ? ननु प्रआसादादि तद्धेतुकं
न भवेदघटजातीयत्वात् । 22b अथ यज्जातीयं बुद्धिमदन्वयव्यतिरेकानुविधायि
दृष्टम्, तज्जातीयमेवादृष्टान्वयव्यतिरेकमपि बुद्धिमद्धेतुकम् । तत् किमिदानीं कार्यजातीय
प्रासादादि बुद्धिमद्धेतुकं न दृष्टम्, येनोत्पत्तिमत् तनुभुवनादि तथा न स्यात् । न खलु
तज्जातीयत्वेन कश्चिद् विशेषः ॥

वित्तोकोऽपि, भवतु वा कश्चिदनिरूपितरूपो विशेषः, किं पुनरनेन विशेषं
प्रतिपादयताभिप्रेतम् ? किं कार्यत्वसामान्यस्यासिद्धत्वम्, अथ कार्यविशेषस्य, अथ
कार्यमात्रस्य बुद्धिमत्कर्तृव्यभिचारः, अथ साध्यदृष्टान्तयोर्वैधर्म्यमात्रम् ? किं चातः ?
यदि तावत् कार्यमात्रस्यासिद्धत्वम्, तन्नास्ति, विश्वम्भरादिषु घटादिष्विव कारणव्यापार
जन्मतयोभयसिद्धत्वात् । अथ कार्यविशेषस्य कुम्भादिवर्तिनः पक्षेऽसिद्धिः अभिधोयते, तदा
न काचिदत्र क्षतिः, विशेषस्य हेतुत्वेनानुपादानात् । यदि तु कार्यसामान्यस्य कर्तृव्यभिचारः
प्रतिपादयितुमिष्टः, स न शक्यो विपक्षेऽदर्शनात्, तृणादेश्च पक्षीकृतत्वात् । अथ साध्य
दृष्टान्तयोर्वैधर्म्योद्भावनम्, तन्न, सर्वत्र तस्य सुलभत्वात् ॥

2465अपरस्तु एवं तावद् धूमादेरिव कार्यत्वस्य स्वाभाविकः प्रतिबन्धः प्रतिपादितः ।
इदानीं सौगतमनोऽनुरञ्जनार्थं बाधकान्यपि प्रमाणान्यभिधीयन्ते । न खल्वस्माकं
बाधकप्रमाणदारिद्र्यम् । किं तु नायं न्याय इति ब्रूमहे । तत्र तावदिदमेव बाधकं
प्रमाणम्, सकृदपि पुरुषादनुत्पादो नाम । यथा सौगतानां चित्रभानोरनुमाने यदि
चित्रभानुमन्तरेण कारणान्तरादपि धूमो देशान्तरे कालान्तरे वा जायेत, दृष्टयोरपि
देशकालयोर्न चित्रभानोः सकृदप्यात्मसत्तां लभेत, यस्मान्न तदभावे भवतस्तत्कार्य
नियमो युक्तः, अतिप्रसङ्गात् । ततश्च तादृशस्य सर्वस्यैवातद्धेतुत्वान्न ततः सकृदपि
जायेत । भवति च तस्मान्नातज्जन्यं तादृशमिति विपर्यये बाधकप्रमाणवृत्त्या प्रति

238
बन्धसिद्धिः, तथाऽस्माकमपि यदि किञ्चिद् बुद्धिमदधिष्ठानमन्तरेणान्यतोऽपि कार्यमुप
जायेत, हन्त न तर्हि सकृदपि बुद्धिमतः कुम्भकारादेरुत्पद्येत । भवति च ततस्तज्जन्यम्
इत्येकं बाधकं प्रमाणम् ।

यथा वा सौगतानामपि न धूमोऽन्यस्माद् भवतीति शङ्कनीयम्, अनियतहेतुकत्वेन
निर्हेतुकत्वप्रसङ्गात् । निर्हेतुकस्य च,

नित्यं सत्त्वमसत्त्वं वाऽहेतोरन्यानपेक्षणात् ।
अपेक्षातो हि भावानां कादाचित्कत्वसम्भवः ॥
प्र. वा. ३. ३४

तथास्माकमपीति द्वितीयं बाधकं प्रमाणम् ।

एवं च सति यथा भवतामयं नियमः सिध्यति, स धूमोऽग्न्यन्वयव्यतिरेकानु
विधायी पदार्थविशेषः, स चाग्निर्यस्तस्य जनकः । तद् यद्यसौ शङ्क्यमानो धूमस्तदाग्नि
कार्य एवेति, तथास्माकमपि तत्कार्यं यद् बुद्धिमत्पूर्वकम् । स पुरुषो यस्तत्कारोति ।
तथा यदि चेतनावन्तमधिष्ठातारमन्तरेण 23a क्वचिदपि कार्ये निश्चेतनानां प्रवृत्ति
निवृत्ती स्यातां तदानीं कार्यक्रियाया अविरामप्रसङ्गः । तथा हि यद्यचेतनानां स्वरसतः
प्रवृत्तिस्तदा निरभिप्रायव्यापारतया सर्वदा प्रवृत्तिः स्यात् । न ह्यकस्मात् प्रवृत्तिनाशो
युक्तः । ततश्च कार्यस्याविरामः । अथौदासीन्यम्, तदा कदाचिदपि प्रवृत्तिर्न स्यात्,
विशेषाभावात् । अधिष्ठायकेन तु प्रयत्नवता कदाचित् प्रवत्यन्त इति युक्तं पश्यामः,
नाचेतनेन । तस्येच्छायत्तप्रवृत्तिनिवृत्त्योरयोगादिति तृतीय बाधक प्रमाणम् ।

इह खलु कार्यत्वं कादाचित्ककारणसन्निधिमत्तया व्याप्तम्, कादाचित्ककारण
सन्निधिश्चान्वयव्यतिरेकाभ्यां कर्तृव्यापाराधीनः, यथा तुरोवेमादीनां सन्निधिः ।
विपक्षे च कादाचित्ककारणसन्निधिसत्ता नास्ति । न ह्यचेतनः कारणानि सन्निधापयितुं
शक्नोति, शक्तौ वा घटादावपि कर्तृव्यापारनिवृत्तिप्रसङ्गात् । ततश्च व्यापकानुपलब्ध्या
विपक्षान्निवर्तमानं कार्यत्वं बुद्धिमत्पूर्वकत्वेन व्याप्यत इति प्रतिबन्धसिद्धिरिति चतुर्थं
बाधकं प्रमाणम् ।

तथा देशाद्यनियमप्रसङ्गो बाधकः । तथा हि कार्यत्वं देशकालप्रकृतिनियमेन
व्याप्तं यदि प्रयत्नवन्तमन्तरेण भवेत्, न देशादिनियमेन भवेत् । कर्तुरिच्छया हि
क्वचिद् देशादावन्यदेशादिव्यवच्छेदेन जायेत । तदभावे सर्वत्र देशादौ भवेदिति
239
विपक्षाद् व्यापकानुपलब्ध्या निवर्तमानं कार्यत्वं प्रयत्नवन्नान्तरीयकत्वेन व्याप्यत इति
प्रतिबन्धसिद्धिः पञ्चमं बाधकं प्रमाणमिति ॥

यत् शङ्करः, निरभिप्रायव्यापारेभ्यः सर्वकार्याणां देशादिनियमो न स्यादिति ।
तथा नापि कश्चिद् विशेषः क्षित्यादिहेतूनां प्रासादादिहेतुभ्यो येनामी निरभिप्राय
व्यापाराः सन्तः प्रयत्नवन्निरपेक्षाः प्रतिनियमवता च व्यापारेण तद्वन्तः स्युरिति ॥

2466वाचस्पतिस्तु कणिकायामीश्वरवादमुत्थापयन्नाह, यदि पुनरचेतनानि चेतनान
धिष्ठितानि कार्यं कुर्युः, ततो यत्र क्वचनावस्थितानि जनयेयुरिति न देशकालप्रतिनियत
प्रसवं कार्यमुपलभ्येत । हेतुसमवधानाधीनजन्मतया कार्यं न प्रत्येकं कारणैर्जन्यत
इति चेत् ? सत्यम्, समवधानमेव तु 2467कारणानां कुतः ? कादाचित्कपरिपाकाद्
अदृष्टविशेषादिति चेत् ? 2468नन्वयमप्यचेतनः कथं यथावत्कारणानि सन्निधापयेत् ?
नो खलु यत्र क्वचनावस्थितानि दण्डादीनि विना कुम्भकारप्रयत्नमदृष्टविशेषवशादेव2469
परस्परं सन्निधीयन्ते, सन्निहितानि वा कार्यस्येशते । तस्मात् कारणसमवधानव्याप्त
त्वात् कार्योत्पादस्य, तस्य चोपलब्धिमत्पूर्वकत्वाभावेऽनुपपत्तेर्व्यापकनिवृत्त्या विपक्षात्
कार्योत्पादो निवर्तमान उपलब्धिमत्पूर्वकत्वेन व्याप्यत इति प्रतिबन्धसिद्धिरिति ॥

एवं 23b सति भवतु कर्तृमात्रसिद्धिः, सर्वज्ञता तु कथमस्य, दृष्टान्ते तदन्वय
स्याभावादिति चेत् ?

अत्र त्रिलोचनः, नैतदस्ति । यतो नास्माभिरुपात्तभेदः कर्ता साधयितुमिष्टः,
किं तर्हि ? साध्यसामान्यम् । तस्य च येन विशेषेण सह वास्तवः प्रतिबन्धोऽस्ति
सोऽप्युपादानादिसाक्षात्कारणलक्षणो विशेषः साध्यसामान्ये निश्चेतव्येऽवश्यनिश्चेतव्यः,
तत्त्यागे साध्यसामान्यत्यागप्रसङ्गात् । न च शक्यं त्यक्तुम्, साध्यसामान्यस्य
क्षित्यादिधर्मिव्यापकत्वात् । तत्पुनः क्षित्याद्युपादानं परमाणुचतुष्टयम् सर्वक्षेत्रज्ञ
समवेतसिद्धिरूपाणि कर्माणि । दिक्कालौ चोपकरणम् । सर्वक्षेत्रज्ञलक्षणं च सम्प्रदानम् ।
क्षेत्रज्ञोपभोगलक्षणं च प्रयोजनम् । एतत् सर्वं प्रत्यक्षतः प्रतिपद्यमानः कर्ता प्रत्यक्षी
कृतसकलविश्वविभागः सर्वज्ञः । न चास्योपन्यासपूर्वकोऽन्वयो दृष्टान्ते प्रदर्श्यते,
येनानन्वयादिदोषगणस्यापत्तिः स्यात् ॥

240

स्यादेतत् । महाभूतोत्पत्तेर्द्व्यणुकादिक्रमस्य घटनिष्पत्तेरपि द्व्यणुकादिक्रम
विशेषानुपलब्धेरयं घटं कुर्वन् कुम्भकारो द्व्यणुकमपि करोति । न च तस्योपादानम्
उपकरणं वा कुलालः प्रत्यक्षतः प्रतिपद्यते । तस्मादयमनेकान्तः, यो यस्य कर्ता स
तस्योपादानादि जानातीति ॥

अत्रोच्यते । भवेदनेकान्तो यदि कुलालो द्व्यणुकस्य कर्ता भवेत् । न हि
यावदन्त्यावयविनिष्पत्तेरङ्गं तत् सर्वं कुलालः करोति, दृष्टसामर्थ्यकारणप्रयोक्तृलक्षण
त्वात् कर्तृकत्वस्य । तस्माद् द्व्यणुकमपि महाभूतवत् सन्दिग्धकर्तृकत्वात् साध्यमेव ।
तदेवं यत् साध्यवादिना साधयितुमिष्टमनुमेयसामान्यं तद् दूषणवादिना प्रतिबन्धुं
न शक्यते । यस्तु दूषणवादिना प्रतिबन्धुमिष्टो विशेषः, नासौ साध्यसामान्यवादिना
साधयितुमिष्टः । किं तर्हि ? साध्यसामान्ये निश्चेतव्ये तेन वास्तवप्रतिबन्धस्य विशेषस्य
सिद्धिर्बलाद् भवन्ती नोपेक्ष्यते । एवं साधनायत्तां विशेषसिद्धिमाचार्यो मन्यमानो
यद् दूषणमवादीत्,—यावतीमर्थगतिं साधनं व्याप्नोति तावतीं दूषणमपि । यद्यसौ
विशेषो न साधनेन विषयीकृतः, कथमतस्तत्सिद्धिः ? सिध्यन् वा कथमविषयः ?
विषयश्चेत्, कथं स्वाश्रयां दोषगतिं न स्पृशेदिति, तन्निरस्तम् । यतः साधनवादी
साधनाधीनां यदि विशेषसिद्धिमभ्युपगच्छेत् तदैतत् स्यात् । न च नैयायिकः साधना
यत्तां विशेषसिद्धिमुपजीवति । किं तर्हि ? साध्यसामान्यप्रतिबन्धाकृष्टस्य विशेषस्य
सिद्धिम्, यथा बौद्धः क्षणिकत्वसिद्धौ तेन वास्तवप्रतिबन्धान्नैरात्म्यसिद्धिमुपजीवति ।
न ह्यात्मनि नित्ये विभौ च सति सर्ववस्तुविषयं क्षणिकत्वमनुमातुमीशः ॥

मीमांसकोऽपि दर्शनस्पर्शनाभ्यामेकमवयविनं निश्चिन्वन् निश्चेतव्यानुषङ्गिण
इन्द्रियस्य नानात्वं नियतविषयत्वमिन्द्रियाणां स्वविषयग्रहणलिङ्गत्वं ज्ञातुर्ज्ञानसाध
नत्वं गन्धादिगुणव्यतिरिक्तं 24a च गुणाधिकरणमनियतविषयश्चेतन इत्येता
वतोऽर्थानुपजीवति । तथा साध्यविशेषोऽपि नैयायिकैरुपजीव्यत इति सर्वं समानम्
अन्यत्राभिनिवेशात् । तस्मात् सिद्धं सर्वज्ञत्वमिति ॥

वाचस्पतिस्तु2470, स्यादेतत् । उत्पत्तिमत्त्वमुपादानाद्यभिज्ञकर्तृमात्रव्याप्तं घटादिषु
दृष्टं तन्मात्रमेव पृथिव्यादीनां गमयेत् । नित्यसर्वविषयज्ञानवत्कर्तृपूर्वकत्वं तु कुत
स्त्यम् ? न चैतद् घटादौ दृष्टान्तधर्मिणि दृष्टम् ॥

241

नन्वेवं रूपाद्युपलब्धेः क्रियात्वेन चक्षुरादिसाधनानुमानमपि कथम् ? न हि
च्छिदादयः क्रिया इन्द्रियसाधना दृष्टाः, तासां कुठारादिसाधनत्वात् । अथ दृष्टान्त
धर्मिण्यदृष्टमपि इन्द्रियसाधनत्वं पक्षधर्मताबलात् सिध्यति, रूपाद्युपलब्धिगतं हि
क्रियात्वं तदेव करणं गमयेत्, यत् तदुपलब्धिनिर्वर्तनसमर्थम्, न च कुठारादयः
समर्था इति पक्षधर्मताबलात् कुठारादिविलक्षणमदृष्टचरमपि चक्षुरादि उपस्थापयतीति ।
तदत्रापि समानम् । न ह्यपरिमेयानियतदिग्देशैन्द्रियकातीन्द्रियकत्रसस्थावरादिलक्षण
कार्योत्पादयौगपद्यमसति सर्वविषये ज्ञाने नित्ये वा सेद्धुमर्हति । नो खल्वीदृशं
पारमेश्वरं ज्ञानं कार्यशरीरेन्द्रियादिकार्यं संभवति, शरीराद्युत्पत्तेः प्रागस्याचैतन्येन
तत्प्राक्कालकार्योत्पादाय परमेश्वरान्तरकल्पनाप्रसङ्गात् । एवं च ततः प्राक् ततः प्रागिति
अनेकालौकिककल्पनायां वरमेकमेवालौकिकं बुद्धिनित्यत्वं कल्पितम् । एतेनैव शरीरेन्द्रिय
नित्यत्वकल्पना प्रतिव्यूढा । एतेन यदेके ब्रुवते,

सन्निवेशादिमत्सर्व बुद्धिमद्धेतु यद्यपि ।
प्रसिद्ध्येत् सन्निवेशादेरेककर्तृकता कुतः ॥
विधिबिवेके पृ. २१९

इति, तदपि पराकृतम् । तेषां सिध्येत् सर्वज्ञनिराक्रियामनोरथो यदि पिशितचक्षुषः
परमाणून् क्षेत्रज्ञान् तत्समवेतान् वा कर्माशयान् द्रष्टुमीशते । न चैतदस्ति । तस्मात्
अतीन्द्रियार्थदर्शिनोऽस्मदादिविलक्षणा बहवः कल्पनीयाः । तद् वरमस्त्वेक एव तादृशः
कल्पनालाधवायेति । तदेवं कार्यत्वादेव पक्षधर्मतासहायादेवम्भूतेश्वरसिद्धिरिति
स्थितम् ॥

भवतु वास्मादुपादानाद्यभिज्ञकर्तृमात्रसिद्धिः । पारिशेष्यानुमानात् तु व्यति
रेकिद्वितीयनाम्नो विशेषसिद्धिः । तथा हि तनुभुवनाद्यभिज्ञः कर्ता नानित्यासर्वविषय
बुद्धिमान्, तत्कर्तुस्तदुपादानाद्यनभिज्ञत्वप्रसङ्गात् । न ह्येवंविधस्तदुपादानाद्यभिज्ञो
दृष्टो यथास्मदादिः । तदुपादानाद्यभिज्ञश्चायम् । तस्मात् तथेति । नो खलु परमाणु
भेदान् प्रतिक्षेत्रज्ञसमवायिनश्च कर्माशयभेदानपरिमेयानन्यः शक्तो ज्ञातुमृते तादृशा
दीश्वरादिति ॥

242

वित्तोकस्तु, यथा धूमदर्शनेन पक्षधर्मताबलात् निकुञ्जवर्तित्वं वह्नेर्विशेषोऽव्या
पकोऽपि प्रतीयते तथा कर्तुरपीत्यदोष इति तादृगेव पुरुषविशेष ईश्वरः 24b प्रमाण
सिद्ध इति कथमनीशजगद्वादिनो भगवतः प्रमाणेनाव्याहतशासनत्वमिति ॥

॥ ईश्वरवादाधिकारे पूर्वपक्षसंक्षेपः समाप्तः ॥
  1. परत्र वार्तिकसप्तश्लोकी द्रष्टव्या ।

  2. तुल० ता. टी. ४. १. २१

  3. ता. टी. पृः ९५५.

  4. सतानन्दस्त्विति पत्रप्रान्ते टिप्पनम् ।

  5. न्या० क० पृः २१५-६

  6. कारणानामन्योन्यमिति न्या० क०

  7. न खल्वय० न्या० क०

  8. ०षादेव न्या० क०

  9. ता. टी. पृः ९५४