१० ॥ अद्वैतबिन्दुप्रकरणम् ॥
इह बहिरर्थाभिनिवेशिनो मनोरथो यद् यथा प्रतीयते तत् तथा सदिति
व्यवस्थाप्यते, यथा कुवलयं नीलरूपतया । विज्ञानाद् व्यतिरिक्तरूपतया च प्रतीयन्ते
घटादय इति स्वभावहेतुः । नात्रासिद्धिः, ग्राहकाङ्गाद् विच्छिन्नेन तर्जनीनिर्देशयोग्येन
पुरोऽवस्थायिना रूपेण घटाद्याकारस्य प्रतिभासाध्यवसायाभ्यां क्रोडीकरणात् । तथा
ह्ययं घटो नायं घट इति प्रतीतिः प्रत्यात्मवेद्या सर्वपुरुषाणामव्युत्पन्नसंकेतानामपि
संज्ञाविशेषोल्लेखविमुखस्तदनुरूप एवान्तर्जन्यः । बालोऽपि सुखसाधनं स्तनमवलोक्य
तदभिमुखे करमुखे प्रहिण्वन् बहिरवसायसचिवमात्मानमातनोति । ततश्च व्यतिरिक्तेन
रूपेण घटाद्याकारस्य प्रतीतिर्नासिद्धिपथप्रस्थायिनी । नापि विरोधिनी साध्येन, सपक्षे
संभवस्य दर्शितत्वात् । विपर्ययव्याप्तस्य च विरुद्धस्य तदसंभवात् ।
अतएव च नासाधारणत्वम्, नापि सन्दिग्धान्वयत्वम्, विपक्षेऽदर्शनाच्च न
साधारणानेकान्तः । न च वक्तव्यं कामलिनः पीतशङ्खप्रतीतावपि न तथैव व्यवस्था
केशोण्डूकप्रतीतौ वा तैमिरिकस्य, अतः साधारणत्वमेवेति, बाधकग्रस्तत्वेन तत्प्रतीतेः
भ्रान्तत्वेन प्रत्यक्षव्यापारविरहात् । प्रस्तुतस्तु बाधकाभावाद्भ्रान्त्यसिद्धेरध्यक्षव्यापार
एव । न च कदाचिदत्रापि स्याद् बाधकमित्यनाश्वासः, सर्वत्र प्रत्यक्षव्यापारोच्छेद
प्रसङ्गात् । तस्मात्,
एवं तर्हि प्रत्यक्षव्यापारे किमनुमानेनेत्यपि न चोद्यम्, व्यवहारसाधनस्य
विवक्षितत्वात् । प्रत्यक्षगोचरे हि विवादसंभवो नानुमानप्रयोज्ये विश्राम्यति । तत्र
यथा प्रत्यक्षेऽपि गवि कुतश्चिदारोपात् मूढस्तद्व्यवहारमप्रवर्तयन् सास्नादिसमुदाया
त्मकत्वेन प्रवर्त्त्यते, अभावव्यवहारं वानुपलब्ध्या, तथा प्रत्यक्षेऽपि ग्राह्यग्राहकयोर्भेद
आगमान्तरानुसारी तथाप्रतीत्या व्यवहार्यत इति न दोषः । स चायं व्यवहारः
तन्मात्रनिबन्धनः 66a सकृत्प्रवर्तनादेव सिद्धः । न हि कुवलयादावपि नीलादि
346
व्यवहारे तथा प्रतिभासाध्यवसायाभ्यामन्यदधिकं वा किञ्चित् निमित्तमस्ति, तन्मात्रतोऽ
प्रवृत्तिप्रसङ्गात् । अर्थक्रियासंवादोऽपि हि प्रथमायां प्रवृत्तौ गवेष्यते । अभ्यासवस्तु
तन्मात्रनिबन्धन एवासौ व्यवहारः । प्रस्तुते तु भेदव्यवहारे सर्वत्र एवानादिकालिकाभ्यास
पाटवभृतो लक्ष्यन्ते । उक्तं हि,
इत्यादि ।
तस्माद् व्यवहारप्रगल्भस्य तथा प्रतीतिमात्रप्रतिबद्धस्तथाव्यवहारः । तस्मिन्
साध्ये तथा प्रतीयमानत्वं तदन्यानपेक्षत्वेन व्याप्यते । यदि च क्वचित् तथा प्रतीतावपि
तथा व्यबहारविरहः स्यात्, तदा तदन्यापेक्षं स्यादिति साध्यस्य तद्व्यवहारयोग्यत्वस्य
अभावे व्यापकविरुद्धोपलब्ध्या अवधूयमानं तथा प्रतीयमानत्वमपेतबाधके विषये
तथा व्यवस्थायोग्यतयैव व्याप्यत इति व्याप्तिसिद्धेः सन्दिग्धविपक्षव्यावृत्तिकत्वमपि
नोपन्यस्तस्य हेतोरन्तिकमुपसर्पतीति सिद्धमध्यक्षविषयस्यापि ज्ञानज्ञेयभेदस्योक्तानुमान
व्यवहार्यत्वमहार्यमिति ।
अत्रोच्यते । किमिदं विज्ञानं नाम यतो भेदेन प्रतीतिः तथा व्यवहारं साधयेत् ?
यदि हि ज्ञायतेऽनेनेति ज्ञानं जानातीति वा उभयथापि ज्ञेयापेक्षं लक्षणमेतत् । न च
बाह्यापलापिनो ज्ञेयं नाम किञ्चिदस्ति सिद्धम्, यतस्तदधिगतिसाधनं ज्ञानं स्यात् । तथा
हि, इदं ज्ञानमिदं ज्ञेयमिति व्यवहारो व्यापारविशेषकृतो वा स्यात् द्वैतवादिनो
जातिनियतो वा ? प्रथमपक्षे ज्ञानस्य वा ज्ञेये ज्ञेयस्य वा ज्ञाने व्यापारः, परस्परं वोभयोः ?
अत्रापि प्रथमपक्षे निर्वर्तको विकारको वेति विकल्पाः ।
तत्र न तावत् ज्ञेये ज्ञानव्यापारो निर्वर्तकः शक्योऽभिधातुम्, अदृश्यविषय
व्यालोपप्रसङ्गात् । न च तथैवाभ्युपगमो युक्तः, तदैव केनचित् दृष्टेः । तज्ज्ञानेन
निर्वर्तनाभ्युपगमे च परोक्षस्यापि स्थितेरनपह्नवः । स च तेन पश्चाद् दृश्यमानः
तज्ज्ञानस्यैव निर्वर्तको जात इति न विषयः स्यात् । स न तस्य दृश्यः तज्ज्ञानजन्यस्त्वन्य
एवेति चेत् ? एकस्थानानुपपत्तिः । अप्रतिघत्वे प्रकाशरूपस्य प्रत्यात्मवेद्यस्य परा
गोचरस्य विज्ञानरूपतैव मुखान्तरेण समर्थिता स्यात् । नीलरूपत्वान्नैवमिति चेत् ?
347
केन पुनर्विज्ञानस्य नीलाकारोत्पत्तिनिषेधः सिद्धः, तत्साधनाय साधनानवधानप्रसङ्गात् ?
तस्मान्न परोक्षमसदेवेति द्वयवादिनो युक्तम् ।
न चायमभ्युपगमोऽप्यस्येति नात्र निर्बन्धः । प्रमाणाभावे प्रमेयाभावमिच्छतोऽपि
हि न परोक्षस्य सर्वथाभाव एवाभिमतः, अपि तु सन्नवश्यं कस्यचित्प्रमाणस्य विषयः स्यात्
स्तोकान्तरेणेति । 66b अन्यथा 2537सत्संप्रयोगे सतीन्द्रियाणां पुरुषस्य बुद्धिजन्मेत्यवाच्यं
स्यात्, ज्ञानात् प्राक् सतो विरहात् । स पुनरभ्युपगमो न न्याय्य इति किमनेन, तन्मात्रस्य
विवक्षितत्वादित्यलं विस्तरेण ।
विकार्यपक्षे तु यस्य ज्ञानस्य यो विकार्योऽर्थः स ग्राह्य इति व्यवस्थायां शोकादिनो
पहताया बुद्धेर्विकार्यमिन्द्रियमपि ग्राह्यं स्यात्, मलिनमुखच्छायादयो वा ? दुःखजनितोऽसौ
विकार इति चेत्—न, उपहताकारसंवेदनादन्यस्य तस्यानुपलब्धेः । निर्लोठितं चैतच्छास्त्र
इत्यलं प्रयासेन । अथ नैतादृशोऽतिशयः प्रमेयस्य ज्ञानात्, किं तर्हि प्रकाशरूपस्योत्पत्तिरिति
चेत् ? अत्रापि पक्षे एकगोचरः सर्वगोचरः स्यात् । तदीयज्ञाननिवृत्तौ तद्रूपनिवृत्तेरन्य
स्याप्यदर्शनप्रसङ्गः ।
अन्यस्यापि तदुपाययोगान्नेवमिति चेत् ? तस्यापि निवृत्तज्ञानस्य तत्प्रकाश
प्रसङ्गः । तज्ज्ञाननिवृत्तौ तद्रूपानिवृत्तावप्येष एव दोषः । न हि कुलालप्रयत्नपारहृताया
मृदस्तमेव प्रति घटीभावः । दहनाद्वा दहनोपधायकमेव प्रति घटस्य गौरभावः । एवं
तर्हि उपकारित्वमपि स्वरूपमस्य सर्वसाधारणं स्यात्, न चैवम् । ततो यथा घटत्वेन
साधारणोऽप्येष नार्थकारिणा रूपेण, तथा प्रकाशरूपेणापि न स्यादिति कोऽयं प्रसङ्गः ?
अथोपकार्यविशेषोपकारितास्य साधारणी ? पुरुषविशेषापेक्षप्रकाशताप्यस्य सर्वसाधारणीति
समानम् ।
न समानम् । उपकारित्वं हि नाम साक्षादुपकारः, प्रवृत्तियोग्यतामात्रं वा
अभिमतं स्यात् ? तत्र योग्यतामात्रं सर्वसाधारणमिति न तत्र विवादः । प्रथमपक्षे
तु उपकारलक्षणकार्यकर्मणि सहकारिभावोऽस्य यथैकत्र तथान्यत्रापि किं न स्यादिति
चोद्यार्थः । न चायं न्यायः, अव्यवधानाद्यपेक्षत्वात् । ततो यत्सन्तानवर्तिनः उपादान
स्योपनिधिः, तत्रैव साहायकमस्येति कथं व्यवहितादौ पुष्टिः ? तथा यदि प्रकाश
इत्यपि कार्यान्तरजननद्वारेण व्यवहार इष्टः स्यात्, तदा स्यादप्येवम् । यथाहुरेके,
348
बुद्धिलक्षणव्यक्तिजनकत्वमेव तस्य व्यक्तत्वमिति । तदा हि यस्यैव बुद्धेरुपादानं समनन्तर
संख्यातं नोपनिपातभागि साधनान्तरं वा, तस्यैव नासौ सहकारदानविरहाद् व्यक्तो युक्तः ।
दूषणान्तरं च तत्रापि वक्ष्यामः ।
न चैवं युज्यते, ज्ञानात् प्रकाशरूपस्यैव विषयस्योत्पत्तिरित्येतस्य पक्षस्य
विचिन्त्यमानत्वात् । कार्यान्तरद्वारेण तु व्यक्तव्यवहारे न ततस्तथोत्पन्न इति प्रकृत
क्षतिः । तथोत्पत्तौ दुर्वारः साधारणत्वप्रसङ्गः । उपकारकत्वमपि हि यावदेव भिन्न
सन्तानवर्ति सुखादिजनकत्वं तावदेव तदपेक्षया 67a साधारणम् । यदा तु सुखादि
रूपत्वमेवाभ्युपगम्येत, तदा कः साधारणत्वनिषेधाय प्रभुः ? ननु तथापि यदेकस्य
सुखं न तदन्यस्येति चेत् ? अर्थस्य धर्मः साधारणत्वमसाधारणत्वं ज्ञानस्य । ततः
तदात्मनियतं सुखादि न परसाधारणमनुग्रहादिरूपत्वेनेति युक्तम् । बाह्यरूपं तु स्वीक्रिय
माणं साधारणमेव तत्कार्यत्वेऽपि ह्यनुग्रहस्य, सुखसंविदुपादेयक्षणान्तररूपत्वात् । तद्वदेव
साधारणत्वमसाधारणत्वं चेति ।
एवं न चैत्रजनितं मैत्रस्य तत्पुत्रत्वं नाम किञ्चिद् गौरत्वमिव यत् साधारणं
स्यात्, अपि तु तज्जनितत्वमेवास्य तत्पुत्रत्वं व्यवह्रियते । स च जननव्यापारश्चैत्रस्य
नान्यसाधारणः । तथा तन्निमित्तोऽपि व्यपदेशः, तज्जनितव्यपदेशवत् । गौरत्वं तु तत्कृतमपि
न तत्कृतमेव गुणान्तरत्वादिति साधारणं युक्तम् । न ह्यसौ पितुरेव गौरः किं तु परस्यापि ।
एवं न ज्ञानकृतत्वमेवार्थस्य व्यक्तत्वं व्यवहिताद्यविशिष्टरूपस्य, किं तु तदतिशायिनः
प्रकाशरूपस्योत्पत्तिरित्यभ्युपगमः । अन्यथा न व्यक्त उक्तो विषयः स्यात् । तथाव्यवहार
मात्रं तु तन्निमित्तं स्यात्, यथा गौरत्वमेव तज्जन्यतामात्रेण व्यवहरतः, सौत्रान्तिकस्य वा
तज्जनकत्वेन । यथा च तस्य जनकज्ञानान्तरस्य विषयताप्रसङ्गः, तथास्यापि जन्यज्ञानस्येति
ज्ञानार्थयोर्हेतुफलभावसमयातिक्रममात्रमतिरिच्यते । साधारणत्वपरिहारस्तूभयोरपि । न
तु व्यक्तिरूपार्थोत्पत्तिनिर्वाह इतोऽस्य सिद्धः ।
इति संग्रहः ।
यथा हि निविडान्धकारपिहितयोरामपक्वघटयोरेकत्र वह्निजनितत्वमेव
व्यक्तत्वमभिदधानो नाक्षयोग्यतां तत्त्वतः समाधातुमीशः, तथायमपि ज्ञानजन्तित्व
349
मेव दृश्यतामिति । यदि तु प्रदीपादिव प्रकाशरूपस्योत्पत्तिर्विज्ञानादपि स्वीक्रियते,
तदा परोक्षघटादस्य विपर्ययः पर्यवस्यति । साधारणदोषस्तु दुस्त्यजः ।
प्रदीपव्यक्तोऽपि तर्हि घटः सर्वस्य प्रकाशः स्यादिति चेत् ? यादृशी प्रदीपकृता
प्रकाशता अनन्धकारावस्था योग्यदेशस्थत्वाद्यपेक्षज्ञानजननयोग्यतारूपा सा साधारणी
एव । ज्ञानकृतैव तु विकल्पस्मृत्यभिलाषादिना प्रवृत्त्यादिसाधनी नियता । सापि
यदि भासुरतेव तस्य निष्पन्ना ख्यायते, हन्त साधारणी प्रवृत्त्यादेस्तत्कालसातादिना
वा साधनी सर्वस्य स्यादित्युक्तप्रायम् । तस्मात्,
ज्ञानात्प्रकाशो न हि बाह्यराशेः ।
प्रसह्य साधारणताप्रसङ्गः ॥
अस्तु तर्हि ज्ञेयस्य ज्ञाने व्यापाराद् ग्राह्यत्वमिति चेत्—न, इन्द्रियस्यापि
प्रसङ्गात् । सरूपजनकस्य वा तत्त्वे समनन्तरप्रत्ययविशेषेण व्यभिचारात् । बाह्यत्वे
सतीति विशेषणस्य च तद्वादिन्येव शोभासंभवादिति नायमपि पक्षः क्षमः । मा भूत्
सारूप्यमर्थादुत्पद्यमानं ज्ञानं तदधिगतिव्यापारेण ग्राहकमित्युभयव्यापारपक्षोऽस्तु ।
तत्रार्थव्यापारान्नाव्यापृतानां ग्रहणं ज्ञानव्यापाराश्रयान्नेन्द्रियस्यापि ।
न हि ज्ञानस्य तत्राधिगतिव्यापार इति चेत् ? नायमपि न्यायः । सा हि
अधिगतिर्विषयस्वरूपा ज्ञानरूपार्थान्तरं ज्ञानान्तरं वा स्यात् ? प्रथमे पक्षे विषयात्मवत्
तस्या अपि सिद्धेर्ज्ञानव्यापारविरहः । तद्वद् वा विषयस्यापि ज्ञानव्यापारापेक्षणे
प्राचीनो दोषः । द्वितीये तु ज्ञानस्यात्मन्येव व्यापार इति व्याहतम्, व्यापार एवाधि
गतिरित्यत्राप्येतदेव दूषणम्, व्यापारतद्वतोरभेदसिद्धेः । एवमेव ज्ञानज्ञेयधर्मत्व
परिकल्पनमपास्तं द्रष्टव्यम् ।
अर्थान्तरत्वे च विषयस्य किमायातम्, यथेन्द्रियस्य ? यतो नीलं दृष्टं नेन्द्रिय
मिति स्यात्, तस्य साधिगतिरिति चेत् ? ज्ञानजन्यायाः किंकृतस्तत्संबन्धः ? तस्यापि
व्यापारादिति चेत् ? एवं तर्हि उभयोरुभयव्यापारसिद्धा साधिगतिरिति परस्परं
ग्राह्यत्वं ग्राहकत्वं वा स्यात् । न चैवमिन्द्रियग्रहणप्रसङ्गपरिहारः । न हि चाक्षुर्व्यापारम्
अन्तरेण रूपेऽधिगतिः ।
अथेन्द्रियस्य ज्ञान एव व्यापारो नाधिगतौ, रूपस्य तु तत्रापीति चेत् ? को
नाम विभागमीदृशं कर्तु समर्थोऽन्यत्र जाड्यात् ? न हि ज्ञानज्ञेयाभ्यां भिन्नमर्थान्तरम्
अधिगमरूपमेव किञ्चिदुपलभ्यते, यत्र यावत् ज्ञानस्यैव व्यापारः परिकल्प्येत, तत्र च
विषयस्याप्यस्ति नेन्द्रिवस्य, कल्याणकामतामात्रमेतत् । अधिगतेरर्थस्य च विषय
विषयीभावलक्षण एव संबन्ध इति चेत् ? ननु स एवायं विषयविषयीभावो व्यापार
विकल्पेन परीक्ष्यते । स च यस्य न ज्ञानज्ञेययोः सिद्धः तस्याधिगमविषययोरपि कथं
सिध्येत् ? अधिगतेर्वा विषयत्वमकस्मादिच्छन् ज्ञानस्य कथं प्रतिक्षिपेत् ? अस्ति
तावदयं व्यवहार इति चेत् ? अस्ति, केवलं किमस्य मूलमिति चिन्त्यते—असंकीर्ण
लक्षणस्वरूपव्यवस्था वा, अनादिवितथविकल्पाभ्यासवासना वेति ।
किमस्या बोजमिति चेत् ? किमनेन ? न हि परेण तदपरिज्ञाने अस्माभिरभि
मतासंकीर्णमनयोर्लक्षणमुपदर्शितं भवति । एतेन ज्ञानान्तरत्वपरिकल्पनमधिगतेरपा
स्तम्, तस्यापि तद्वदेव तद्विष68a यत्वस्यासिद्धेः । अतद्विषयया चाधिगत्या
सोऽर्थो ज्ञात इति महती प्रेक्षा । एतेन ज्ञानव्यापारं वादकाले नार्थं कुर्वती विकुर्वती
वा बुद्धिस्तद्विषयोच्यते, किं तु तदधिगतिमात्रमातन्वतीति कल्पनमपास्तम् । तस्मान्न
व्यापारद्वारेणायं ज्ञानज्ञेयव्यवहार इति स्थितम् ।
नापि जातिनियतः, क्वचित् कदाचित् कस्यचित् केनचित् ज्ञेयतया व्यवस्था
पनात् । न हि निसर्गनियतानां गोत्वादीनामीदृशी व्यवस्था । अद्यापि वावश्यवाच्यो
लक्षणभेदो न च शक्य इति तदभावे तु सत्तामात्रं ज्ञानस्य ज्ञेयस्य वा तत्त्वनिमित्त
मिति सर्वः सर्वार्थबोधः सिध्येत् । न वा कश्चिदपि, विप्रकर्षाभावात् । ननु चास्ति
प्रत्यासत्तिरिन्द्रियाणामर्थैः संयोगसमवायादिलक्षणा, तद्बलादुपजायमानं ज्ञानं तत्तदर्थ
नियतं षोढासन्निकर्षविरहविप्रकृष्टार्थव्यावृत्तं च सिध्यतीति कथमतिप्रसङ्गः ? एतदपि
यत्किञ्चत् । उत्पत्तिनियमो ह्यनेन सिध्येत्, न तु कञ्चित् प्रति ग्राहकत्वनियमो
विज्ञानस्य । तथा हि संयोगादिसन्निकर्षबलादर्थेन ज्ञानं जन्यते न तद्विरहिणा
व्यवहितादिनेति भवतु, कस्य पुनस्तद्ग्राहकमिति न निश्चयः ? येनैव तज्जनितमिति
चेत् ? आत्ममनोऽक्षसंयोगादयोऽपि ग्राह्या इति नातिप्रसङ्गनिवृत्तिः । न हि विषया
भिमतेऽप्यस्य कश्चिदुपयोग इन्द्रियादिषु संभवी, येन ग्रहणविभागः स्यात् ।
परिच्छित्तिजननं व्यापारान्तरं वा अनन्तरमेव चिन्तितम् ।
तत्र तस्यैव प्रकाशनं, तेन नातिप्रसङ्ग इति चेत् ? ग्राह्यग्राहकाभिमतभागयोः
अशक्यापह्नवः प्रकाशोऽस्ति, करणाधिकरणशक्तिनिबन्धनं तु यदि किञ्चिदस्ति, तद्
उच्यताम् । न च सहप्रकाशनमात्रमेव निबन्धनं चन्द्रद्वयस्य, तयोरेव वा परस्परग्रहण
प्रसङ्गः । नीलपीतयोर्वा । एकश्चन्द्रो मृषा, द्वितीयभागो जडः । मनसश्च द्वयोरेकदा
वृत्त्यभावादित्यादि तु बाह्यार्थवादस्थितौ युक्तम् । तदर्थश्चायं विचार इति । यदा तु
भागयोरपि न सहप्रकाशनं ज्ञानस्य ज्ञानान्तरेण सहभुवाननुभवेष्टेः, तदेयमपि
गतिर्नास्ति । यदि तु दुर्नीतसमयानुरोधो न बाधकस्तदान्तःपरिस्फुरत्प्रीतिपरितापाद्या
कारस्तुषारकराद्याकारश्च समसमयमेव वेद्यत इति तदपि निबन्धनमनुचिन्त्यते, न च
क्षमत इति स्थितम् ।
किं च घटेनेन्द्रियसन्निकर्षो नोष्ट्रेणेति तदनुभवादेव निश्चेयम् । तदनुभवत्वं चास्य
तत्सन्निकर्षेणोत्पत्तेरितीतरेतराश्रयदोषः, प्रकारान्तरेण तदनुभवसिद्धौ वा सन्निकर्षोत्तरस्य
वैयर्थ्यात् । अपि च तत्सन्निकर्षेणोत्पत्तेस्तदनुभवत्वे विकल्पमात्रव्यवस्थापितोऽस्पष्टप्रति
भासोऽर्थस्यानुभवः स्यात् न स्पष्टः, मैत्रस्य चैत्रपुत्रत्वतद्गौरत्ववच्चेति दृष्टक्षतिः । तदयं
स्पष्टतया प्रतिभास68b मानोऽर्थाभिमतो भागः कारकान्तरव्यापारचिन्तावैधुर्यात्
प्रीतिपरितापादिवत् स्वयं विदितमेवात्मानमाकलयति ।
योऽपि मन्यते,
इति । तस्यापि,
इत्यन्तरश्लोकाः ॥
एवं सति न विज्ञानं नाम किञ्चित् नियतमस्ति, यतो भेदेन प्रतीयमानत्वं
घटाद्याकारस्य तद्भेदं साधयेदित्यप्रसिद्धविशेषणो हेतुरसिद्धिदोषग्रस्तः । साध्यश्च ततो
भेदव्यवहारो विशेषणासिद्धेरेव न प्रकृतोपयोगं पुष्णाति । विज्ञानरूपत्वेऽपि हि घटस्य यतः
कुतश्चिद्विज्ञानान्तरादपि भेदसिद्धेर्न भेदमात्रसिद्ध्योपयोगः । तस्माद् विशिष्टावधित्वेन
साध्यो भेदो न च तमबधिं स्फुटयितुं शक्त इति व्यर्थ उपन्यासः ।
ननु विज्ञानवादिनोऽपि विज्ञानव्यवहारोऽस्ति । स यथा तथा वा भवन्नस्माकमपि
तदुपाधिसाधने शरणीभविष्यति । लोके च किञ्चिद् विज्ञानमिति प्रतीतमस्ति । तत एव
भेदं वक्ष्यामः । नात्रास्मल्लक्षणेन किञ्चित् ।
न च वस्तुबलप्रवृत्तानुमाने समयानुरोध इति चेत् ?
तन्न प्रतिवादिमतापेक्षया क्षमः ।
र्वेदान्तिकादिः प्रवदत्यभेदम् ।
स्तदा क एष व्यसनाभियोगः ॥
सन्ति हि विज्ञानवादिनोऽपि विचित्रस्थितयः । तथा हि, 354
भिन्नं वा द्वयमात्मवेदनमिदं शीतादि शातादि च ।
च्चित्राकारकमेकमेव यदि वानाकारमेवाथवा ॥
तेषां च बलाबलचिन्तायाः क इदानीमुपयोगो बहिरर्थसाधनाभिनिवेशेन
प्रयुक्तसाधनस्य ? तस्मात् प्रत्यात्मवेद्यत्वादिसिद्धयथोक्तविज्ञानरूपस्य घटाकारस्य
विज्ञानान्तरसंमताद् भेदसाधने न किञ्चित्फलमिति व्यर्थः प्रयासः । ननु न प्रत्यात्म
वेद्यो घटाकारः सर्वसाधारणत्वात्, ततः स्वप्रकाशः सन्नपि साधारणत्वादर्थ एवायं
ततोऽप्यभेदेन प्रतीतिर्व्यवहारसाधनी प्रयुक्तेति चेत्—न, साधारणत्वस्यापि प्रागेव
प्रतिक्षिप्तत्वात् । न हि तत् प्रकाशमानं रूपमविकलकारणादीनां सन्निहितानामिव
व्यवहितानामपि प्रवृत्तिनिवृत्ती अप्रयोज्य स्थातुमर्हतीति निवेदनात् । असाधारणत्वे
तर्हि सन्निहितानामपि न स्यात् । न वै सन्निहितानामपि तदेकमेव रूपम्, किं तु
तादृशम् ।
भेदे तर्हि एकसंप्रतिपत्तिः कथम् ? नैष दोषो भिन्नेऽपि केशादौ तस्या दर्श
नात् । तत्र बाधकदर्शनान्न प्रमेति चेत् ? इहापि व्यवहितस्यापि प्रवृत्त्यादिप्रसङ्गः किं
नोपलभ्यते बाधकः ? तादृशत्वेऽपि प्रवृत्त्यादिरेव हेतुः, केवलं तादृशस्यैव प्रकाशस्य
केषाञ्चित् संभवो नान्येषामिति किमत्र बीजमिति प्रश्ने वासनेति ब्रूमः । केयं वासना ?
तदुपादानशक्तिमात्रं पूर्वपूर्वानादिकालिकविज्ञानपरम्परायातमभिन्नं भिन्नमिव कया
चिदपेक्षया दृश्यं कल्प्यत इति निर्लोठितमन्यत्र । तादृग्बीजपरिणतिसाम्यात् केषाञ्चित्
तादृक् ज्ञानं नान्येषामिति नात्र कश्चिदुपालम्भः, नियतत्वादुपादानोपादेयभावपरम्परायाः,
तैमिरिकद्वयदृश्यकेशादिवत् । तद्वदेव वा प्रतिघत्वादेकदेशा69b वसायोऽपीत्यलं
विस्तरेण ।
बाधातश्चेन्न मितिरधुना किं न बाधोपलब्धिः ।
विज्ञानानां प्रतिघविरहादेकदेशोऽप्यदोषः ॥
इति संग्रहः । 355
तस्मात् सिद्धं प्रत्यात्मवेद्यत्वमपि । तथापि काठिन्यादयो न ज्ञानधर्मा इति
चेत्—न, प्रकाशरूपतया सर्वेषां ज्ञानत्वात् । नीलिमानं च नाम ज्ञानधर्मे सहते न
काठिन्यमिति सुकुमारप्रज्ञः । ननु यदेव नीलमालोकितं तदेव कठिनमनुभूयते, न
चैवं विज्ञाने युज्यत इति चेत् ? बहिरपि भ्रमोपलम्भवतः नीलं हि रूपमात्रं,
कठिनश्च स्पर्शः । न च ताभ्यामन्यः कश्चिदुपलब्धिगोचरः । गुणस्य द्रव्यापारतन्त्र्या
दिति चेत् ? किमिदं गुणतत्त्वम् । यदि पारतन्त्र्यमेव, तदा साध्याविशिष्टो हेतुः ।
अथ व्यावृत्तिभेदेनान्यदेव ततः, तथापि विपर्ययबाधकप्रमाणस्योपपादयितुमशक्य
त्वात् सन्दिग्धविपक्षव्यावृत्तिकत्वम् । यदप्ययं,
इति पठति । तत्रापि,
गुणत्वसिद्धौ च तदाश्रयत्वम् ।
स्वनीतिमात्रं शरणं तदस्य ॥
न तामप्रमाणयता विवादे सोपयोगमित्यलं चर्वितचर्वणेन । अस्तु वा बाह्यो
गुणद्वयाधारः कश्चिदन्यः, सोऽपि यदि प्रकाशस्तदा न ज्ञानेऽनन्तर्भूय स्थातुं शक्तः ।
अप्रकाशत्वे हेतोरसिद्धिस्तदवस्था । नीलकठिनयोश्चैकदाध्यवसायो भ्रान्तिरेव । बाधक
श्चास्य परस्परं ज्ञाने अनन्तर्भाव एव यथोक्तक्रमेण । बीजं च नीलनिर्भासज्ञानस्य
प्रवृत्त्यपेक्षकठिननिर्भासज्ञानबासनाप्रबोधसाधनत्वनियम इति नैवंविधा जम्बुक
विक्रोशा योगाचारकेशरिणमभिद्रवतीति ।
यदप्युक्तं नाहं घट इति प्रतीतिरिति, तत्रापि येषामियमहंप्रतीतिरात्मविषया
तेषां घटादावभवन्तीति आत्मत्वमेव निवर्तयेन्न ज्ञानत्वम् । विज्ञानविषयत्वाश्रयेऽपि
न विज्ञानमात्रे मैत्रस्याहंप्रत्ययः, तस्य चैत्रचित्तेऽपि प्रसङ्गात् । चैत्रस्य तत्रास्त्येव स
इति चेत् ? मैत्रस्यापि किं नेति चिन्तायामन्यसन्तानेऽनभ्यास एवोत्तरीकर्तव्यः । स
चानभ्यासो बहिर्मुखनिर्भासिनि घटाद्याकारेऽपि समस्त्येव । तदियमहंकारव्यावृत्तिः
अन्यथाप्युपपद्यमाना न विज्ञानरूपतोपतापाय प्रभवति ।
अथापि स्याद् यद्विज्ञानं तदवश्यं स्वस्य परस्य वाहंकारस्य गोचरीभवति, न
चैवं घटाकार इति चेत्—न, विषयिणा ज्ञानेन विषयस्य व्याप्त्यसिद्धेः । भिन्नो हि
विषय इष्टो, न कार्यः, कारणं तु स्यात् । न च कारणस्य कार्यसत्तानियम इति विपक्ष
व्यावृत्तिसन्देहादनेकान्तः । तदयमाकारस्य 70a बाह्यतामभिवाह्य बाह्यवादव्यसनिनो
भेदसाधनविधिस्तपनीयमपनीय ग्रन्थिकरणवृत्तान्तमनुहरति । न चोक्तमात्रं साध्यम्,
अपि तु प्रकरणापन्नमिष्टमप्रकाशस्य प्रकाशकव्यापारेण प्रकाशस्य सतो घटादेः
प्रकाशकाद् भिन्नत्वम्, न च तथा सिद्धिरिति साधनवैयर्थ्यादसाधनाङ्गवचनं वादिनो
निग्रहस्थानम् । नैवं वा, तथापि सुप्ततैमिरिकादिप्रतिभासैरनेकान्तं को निवारयति ?
इति चेत् ?
इत्यपि तर्हि वक्तुं शक्यम् ।
बुद्धेरात्मनि भिन्ने वा व्यापारविरहः समः ॥
दीपवद् व्यवहारोऽयमशक्यापह्नवो धियः ॥
इत्यन्तरश्लोकौ ।
तस्माद् यथान्यथाख्यातीति मतिः, तथा,
किं च,
कालभेदे त्वसत्त्वेन प्रथनं कथमन्यथा ॥
चित्तमेव ततः सर्वत्रान्यथा ख्यातुमर्हति ॥
ततोऽन्यथाख्यातिपक्षेऽपि नानेकान्तपरिहारः । कालभेदेऽपि नात्यन्तमसन्नेव,
स्वकाले सत्त्वादिति चेत् ? प्रतिभासकालेऽसतस्तस्य कालान्तरसत्तामात्रं क्वोपयोगि ? यत्र
यस्य स्वसत्तोपधानेनोपयोगो न स तत्र चिरातीतः क्षमः, यथा दग्धं बीजमम्बरं वा, अङ्कुरे
कालिम्नि वा । स्वसत्तोपधानेन चोपपद्यतेऽर्थः प्रतिभास इति विरुद्धोपलब्धिः, यतो
विनष्टस्यापि शक्तिसंभवः । स्वसत्तोपधानेन चोपयोग इति विरुद्धौ धर्मौ । इहातीतमपि
कुशूलस्थं बीजमङ्कुरे परम्परयोपयुज्यते, न तु स्वसत्तोपधानेनेति विशेषणं तदर्थम् ।
प्रतिभासमानश्चार्थः प्रतिभासे स्वसत्तोपधानेनैव उपयुक्तो वक्तव्यः, न परम्परया । प्रतिभासो
हि तस्य धर्मो वा कार्यं वा स्यात् । तत्र धर्मत्वे सहभावः । कार्यत्वे स्वसत्तानन्तर्यनियम
इति न क्षणेनापि व्यवधिस्तद्भावं सहत इति स्वसत्तोपधानेनैव प्रतिभासे अर्थस्योपयोगः
सिद्धः । तदभावाच्चातीतः प्रकाशितुमशक्यः ।
अतीतत्वात् स्वसत्ताया उपधानविधूतितः ॥
स्ववाचैव यतः सत्त्वस्याभावे भानमिच्छति ॥
तदवश्यं बहिरर्थपक्षेऽपि भ्रान्तिज्ञाने 70b दुष्परिहरोऽसत्ख्यातिपक्षः । अस्तु
वान्यथाख्यातिरुभयथापि ज्ञानविवर्त एव सदृशस्तस्य सत्त्वादनिष्टिमात्रेण निवारयितुं न
शक्यते इति व्याप्तेरभावादनेकान्त एव भेदेन प्रतीयमानत्वहेतुर्भेदव्यवहारसिद्धाविति
स्थितम् । ननु भ्रान्तेष्वेवंभावेऽप्यनुभवे किमायातम् ? ततः अभ्रान्तत्वे सतीति
विशेषणस्याभिमतत्वात् नानेकान्त इति चेत्—न, बाधकाधीना हि भ्रान्तिस्थितिः, तस्य
चोक्तेनैव क्रमेणात्रापि सिद्धत्वात् । तथा हि,
तदयं बाह्यत्वलक्षणसाधारणास्वप्रकाशरूपत्वविरुद्धोऽसाधारणस्वप्रकाशतारूपो
धर्म उपलभ्यमानो घटादिषु तद्भावमपाकरोतीति बाधकसामर्थ्यात्तथाप्रतीतिर्भ्रान्तिरेव,
वृत्तमेव चेदं बाधकं प्रमाणं नोत्प्रेक्षामात्रेणेति नातिप्रसङ्गोपालम्भः, यदपि विज्ञानवादी
प्रमाणयति,
तदेतत् परस्योत्तरप्रबन्धानुरोधेनं प्रासङ्गिकं किञ्चिदायातमित्यलं विस्तरेण ।
स्थितमेतत् प्रकाशमानत्वेन विज्ञानमात्रं त्रिभुवनमिति ॥