द्वितीयः परिच्छेदः
यदि तर्हि निराकारस्य चेतसोऽसत्त्वं तत्त्वत इति संक्लेशव्यवदानव्यवस्था
विलोपः, उपप्लुतो ह्याकारकलापोऽतस्मिंस्तद्ग्रहाद् भ्रान्तिरेव संसारस्तत्प्रभववासना
संघातसमुद्धाते चोपप्लवविगमादनाभासममलं प्रकाशमात्रमवशि79b ष्यमाणं
निर्वाणमिति न क्षतिः । अन्यथा तु,
2546तथा हि सत्त्वैरेव प्रकाशैरविपरीतस्वरूपसंवेदनात् भ्रान्तेरत्यन्तमभावः
स्यात् । ततश्च सर्वसत्त्वाः सदैव मुक्ताः सदैव सम्यक्संबुद्धा भवेयुः । विकल्पिका
बुद्धिर्भ्रान्तिः, स्वप्रतिभासेऽनर्थे अर्थाध्यवसायादिति चेत् ? कथमवसीयमानस्तया
सोऽर्थो न प्रकाशते ? प्रकाश्यमाने वा कथमसौ तस्यां न प्रकाशते ? अथ प्रकाशत
एव, तदा अर्थस्य तादात्म्यप्रसङ्गः । असति चार्थे सा न स्यात् । अभून्मान्धाता,
भविष्यति शङ्खोऽस्त्यात्मा, नित्यः शब्दः इति सर्वात्मना च निश्चयः स्यात् । गौरिति
स्पष्टेन च स्वेन लक्षणेन प्रकाशेत । स्वलक्षणे च संकेतायोगाद् विकल्पिकैव सा बुद्धिर्न
स्यात् ।
तस्मादशेषगोव्यक्तिसाधारणेन गोत्वेन गोबुद्धिरलीकेन साभिलापेन विप्लवात्
प्रख्यातीति तथा प्रकाशनमस्या गवार्थावसाय इत्येष्टव्यम् । एवं ह्येते दोषा न स्युः,
अप्रतिभासमानस्यापि स्वलक्षणस्य भ्रान्त्यावसायात् । यथा चालीकस्य गोत्वस्य
गोबुद्धौ प्रकाशस्तादात्म्यं च, तद्व्यतिरेकाद् वस्तुत्वमनारोपितत्वं वा, तथा नीलादि
प्रकाशे नीलादीनामलीकानां प्रकाशसिद्ध्यैव तादात्म्यसिद्धिः, नानारूपनिष्ठयोरलीकत्वा
नलीकत्वयोरेकत्रापि वस्तुन्यविरोधात् । यदि च वस्तुत्वेऽनारोपितत्वे सा साध्ये
तादात्म्यमात्रं हेतुस्तदा गोत्वादिभिरनेकान्तः । अथानारोपितं तादात्म्यं हेतुस्तदसिद्ध
मिति । अत्राभिधीयते,
मरीचावजले जलग्रहो भ्रम इति लोके, शास्त्रे च स्वप्रतिभासेऽनर्थेऽर्थाध्य
वसायेन प्रवृत्तेर्भ्रान्तमनुमानमित्यादि बहुधाभिधानात् । अतस्मिंस्तद्ग्रहो नाम
भ्रान्तिर्विदिता । तस्या यदि साकारनयेऽनुपपत्तिरलीकाकार एव कथमुपपत्तिरिति
चिन्त्यताम् । ज्ञानं हि केनचिदाकारेण सत्येन वालीकेन वोपजातं नाम, बाह्यारोपस्तु
तदाकारे तत्कृतोऽन्यकृतो वा स्यात्, तत्कृतत्वेन तावत्तत्काल एव व्यापारान्तरमनु
भूयत इति कुतस्तदारोपः ? कालान्तरे च स्वयमेवासन् कस्य व्यापारः स्यात् ?
द्वितीयपक्षे ज्ञानान्तरमपि नाकारोपरागसङ्गिनीमुत्पत्तिमन्तरेण व्यापारान्तरेण
क्वचित् किञ्चित्करं नाम । तदेतदर्वाचीनं प्राचीनज्ञानाकारगोचरीकरणेऽपि न बाह्या
रोपव्यापारमपरं स्पृशति तदाकारलेशानुकारमपहाय, शब्दाकारस्यापि स्वरूपेऽन्तर्गत
त्वात् । यदि च व्यापारान्तरमपि संभवेद् बाह्यारोपाय, नाकारम्, अनुमानेऽपि
साधनमभिदध्यात् । अधिगतये तत्साधनं नारोपायेति चेत्—न, स्वरूपनिर्भासस्य
अनुमाने 80a प्रतिक्षेपादारोप एवासौ । आरोप इति असत्यविषय इति चेत् ?
ननु रूपाधिगतिरेव तर्हि वह्नेरनुमानसिद्धस्य स्यात् । तस्मादारोपोऽवसायोऽभिमानम्
इत्यनर्थान्तरमेतत् । संवादेत राभ्यां तु विशेषः, यतो न विकल्पमात्रं प्रमाणमिति
स्यात् ।
तस्मान्नाकारादन्यो ज्ञानस्य व्यापारः, आरोप्यमानश्चासावर्थो बाह्यस्तत्र बुद्धौ
यदि स्वरूपेण परिस्फुरति सत्यप्रतीतिरेवासौ क आरोपार्थः ? स्फुरणे च द्वितीयाकार
वेदनप्रसङ्गः । तदाकारस्फुरणमेव तस्य स्फुरणमिति चेत्—न, तस्यारोपविषयत्वात् ।
न हि मरीचिविस्फुरणमेव जलस्फुरणम्, तेन सहैकीकरणादिति चेत् ? कोऽयमेकी
करणार्थः ? यद्येकतापत्तौ प्रयोजकत्वम्, तदारोप्याविषययोः कदाचिदेकीभावा
भावादसंभवमेव । न हि शशविषाणे कारणं किञ्चित् । न च पूर्वमनेकमेकतामेतीति
क्षणिकवादिनः साम्प्रतम् । अर्थान्तरोत्पत्तिमात्रं तु स्यात्, न च तदप्युपलब्धिगोचरः
अन्यत्रारोपविषयात् । न च तावताप्यर्थस्य किञ्चिदिति कुतस्तस्यारोपः ? अथैकप्रतीतिः
एकीकरणम् ? तथापि न द्वयोः, आरोप्यानुभवाभावात् । न च द्वयोः प्रतीतिरित्येवा
रोपः, नीलपीतवत्, आरोप्यबोधगन्धाभावाच्चैकत्वेन प्रतीतिरित्यपि निरसनीयम् ।
यदि हि बाह्यं प्रतिभासेत, एकत्वेनानेकत्वेन वा सतासता वा प्रतीतिरिति युक्तम् ।
सर्वाकारतत्स्वरूपतिरस्कारेण सा प्रतीतिरित्येकप्रतीतिरिति चेत् ? तत्स्वरूप
तिरस्कारे तर्हि तदप्रतिभासनमेव । कस्यचिदंशस्य प्रतिभासनादिति चेत्—न, निरंश
389
त्वाद् वस्तुनः सर्वात्मना प्रतिभासोऽप्रतिभासो वेति शास्त्रमेवात्र परमते विस्तरेण ।
अध्यवसायादिति चेत् ? सोऽपि विकल्पापरनामा स्वाकारमन्तरेण वार्तामपि बाह्यस्य
न जानातीति उक्तप्रायम् । अथाभेदेन प्रतीतिः ? अद्यापि पर्युदासपक्षे ऐक्यप्रतीति
रेवोक्ता भवति प्रत्युक्ता च । भेदेन प्रतीतिनिषेधमात्रेऽपि न बाह्यस्य प्रतीतिरुक्तेति
कुतस्तदारोपः ? भेदेन नेति च निरुपयोगम्, अभेदेनैक्येन प्रतीतिव्यवस्थाविरहात्,
आरोपविषयमात्रप्रतीतेश्चापह्नोतुमशक्यत्वात् । तन्मात्रानुवादिना न कश्चिद् विशेष
उक्तो भवति ।
तस्माद् यावच्चिन्त्यते तावदारोप्यस्पर्शाभावन्नारोपो नाम । यथा कथञ्चित्
तत्प्रतिभासपरिभाषया च तदारोपेण भ्रमव्यवस्थायामलीक इव सत्येऽप्याकारे
उपरोधः, न तु तावता तात्त्विकत्वमुक्तं भवति । एवं तर्हि तस्य स्वरूपनिर्भासेऽपि
सुतरां न भ्रम इति कथं भ्रान्तिस्थितिः ? न कथञ्चित्, यदि विचारे आदरः ।
अविचाररमणीयमाबालसिद्धं व्यवहारमुपादाय पुद्गलादिवदा80b रोपमपि व्यवहरामः ।
विचार्यमाणस्तु विशीर्यत एव ॥
तत्र यावदविचारस्तावत् संसारो यावच्च स्वरूपपरिच्छेदनिष्ठा तावन्निर्वाणम् ।
इति न्यायः । कथं तर्हि भवपरिज्ञानम्, कथं वा तत्त्वतोऽसतो भ्रमात् प्रवृत्त्यादिरिति
वक्ष्यामः । यथा तु निराकारवादी तत्त्वतो भ्रमव्यवस्थामुपस्थापयति तथा प्रतीमः
तावत् । तस्यापि तर्हि परारोपरूपा भ्रान्तिर्मा भूत् । अलीकाकारयोग एव भ्रान्तिः ।
तत्क्षेपः क्षेमश्चेति किमयुक्तम् ? प्रथममिदेव तावत् यल्लोकशास्त्रयोरतिक्रमः, रज्जौ हि
जनः सर्पारोपाद् भ्रमं व्यवहरति, न तु ज्ञानं केनचिदाकारेण जनं स्पृशति । स च
सर्पारोपो निरूप्यमाणः कियतीं कोटिमाटीकत इति नोद्यमः, नापि पर्यन्तनयन
शक्तिरितरस्य । तल्लक्षणां तावद् भ्रान्तिमयं व्यवहरतीति सिद्धम् ।
शास्त्रेऽपि स्वप्रतिभासेऽर्थाध्यवसायेन प्रवृत्तिर्भ्रान्तिरुच्यते । न तु स्वप्रति
भासोऽनर्थक इत्येव । तथा दृश्यविकल्पयोरेकीकरणादेरप्ययमेवार्थः । न त्वत्रापि
390
विकल्प्यमलीकमित्येव, किं तु दृश्यारोपादिति । निर्विकल्पेऽपि चन्द्रद्वयमिद्धं दृश्यत
इति विकल्पेन स्वव्यापारस्य तत्रैवारोपादविचारितरमणीयं स्यात् ।
तस्मात् सर्वत्र परारोपादेव भ्रमस्थितिरिति । तदसमाधाय परिभाषान्तरं
नामेति किमप्रयुक्तमतः ? अथायोगादेव परिहार इति क एष दोषः, समर्थनासामर्थ्यस्य
स्वीकृतत्वादिति चेत् ? यद्येवम्,
भ्रमो विचारश्च विरोधकोऽस्य ।
शेषो विशेषोऽभिनिवेशलेशः ॥
स हि सांवृतो भ्रमः सत्यालीकपक्षयोरविशिष्टः केवलमाकारस्यापि मया
अलीकत्वमभ्युपेतमिति तस्यापि पर्यन्ते स्थितिर्माभूदिति भ्रमत्वापादनमभिनिबेशमात्रं
संक्लेशव्यवदानयोरन्यथापि सिद्धेः ।
सर्वथासन्निति पुनः सुन्दरादपि सुन्दरम् ॥
सतोऽपनयने जातु शंका स्यादपि धीमताम् ॥
इत्यन्तरश्लोकौ ॥
तस्मादलीकसंभवो भ्रम इति किमनेन ? तदस्वीकारिणोऽपि परमतानुपगम
मात्रमेतत्, न दृष्टन्यायातिक्रमः । यदप्युच्यते, अयोगात् तत्परिहार इति तदयोग
दर्शिनोऽसत्यप्रकाशो भ्रान्तिरिति कीदृशी योगदृष्टिः ? तथा हि असत्प्रतिभास इति
असदीश्वरादेः ख्यातिः, भासमानो वा आकारोऽसन्, सन् वा कश्चित् न ख्यातीति
विवक्षितम् ? तत्र,
एतेन द्वितीयोऽपि पक्षः प्रतिक्षिप्तो वेदितव्यः । प्रतिभासादेव सत्तासिद्धेर्बाधका
वकाशाभावात् । ननु,
तदप्यसत् । बाध्यस्याप्रतिभासनात्, प्रतिभासिनश्चाबाध्यत्वात् । तथा हि,
स हि रूपमात्रप्रतिभासो रूपरसगन्धस्पर्शसमुदायविशेषतया अध्यवसीयते ।
अतएव केशादौ करपरामर्शोद्यमादिसंभवः । ततो बाधापि तत्सहचरितस्यैव रूपस्य,
न रूपमात्रस्य । तथाविधार्थक्रियार्थी हि सर्वस्तत्साधनस्यैव सिद्धिबाधयोरवधत्ते, न
यस्य कस्यचित् ।
तत्त्वचिन्तका एव तु प्रयोजनान्तरापेक्षया सामान्यादिकमपि परीक्षन्ते । तत्र
यद्रूपमात्रमाभाति ये च सहचारिणश्चत्वारः समुदायरूपतयाध्यवसीयन्ते तदुभयेषाम्
अभेदाभिमानी जनो विवेचनाभावादिदमसदलीकं वेति व्यवहरति । अतस्तदभि
मानादेव यावानत्र विधिः प्रतिषेधो वा सर्वोऽध्यवसितपर्यवसान एव, अन्यारोपेण
तद्रूपस्य प्रच्छादितत्वात् । ततो न तत्त्वतस्तस्य बाधा, शब्दार्थवत् । यस्य च कलापस्य
बाधा न तस्य प्रतिभास इति सिद्धम् ।
ततोऽभिमानमात्रकृता बाधाऽपि प्रतिभासिनो यदि स्यात् तत्त्वमस्तु माभूदिति
न क्षतिः सांवृतमुच्चावचमीदृशमनुभूयत एव जगति । अतएव तत्त्वचिन्तावतारः ।
केवलमुक्तप्रक्रमेण तदस्फुरणे कथं तदवसाय इत्यायातमसत्प्रकाशनम् । तथा अभेदाभि
माने अभेदस्यासतः ख्यातिः, प्रच्छादनमन्यारोपेणेत्यपि नान्यप्रतिभासनं विनेति
स्फारगलमुत्थानं स्यात् । तत्राक्षिणी निमील्य यदि चिन्तयेत् स्वयमात्मानमुपहसेत् ।
तथा ह्यक्तमेतदध्यवसायस्यापि नाकारविशेषोल्लेखमुद्धूयापरः परारोपप्रकारो नाम ।
न चानात्मनः संवेदनम् । न च स्वाकारनिषेधोऽभिमतो जनस्य, शक्यो वा, स्वरूप
निर्भासिनो निषेधविरोधात् । न च तदेवासतामीश्वरादीनां रूपम्, असत्त्वस्यैवाभाव
प्रसङ्गात् । ततो यत् साकारवादे जल्पितं, नित्यादयः सन्त एव स्युरिति तदात्मन
एवापतितम् ।
तस्मात्,
इत्यन्तरश्लोकाः ॥
ततः सर्वथा निरस्तमसत्प्रकाशनमनवधारितार्थव्यवसाये शब्दश्रवणमात्रेण
प्रत्युज्जीवयितुं संरम्भ इति किमपरमुपहासकारणम् ?
तस्मादात्मगोत्वादिशब्दप्रयोगवत् व्यवस्थातद्वीजयोरन्वेषणमात्रं स्वतः परतो
वा आद्रियन्ते सन्त इत्येव साधुः । तदयमत्र परमार्थः, विविधानादिवासनावशात्
प्रबोधकप्रत्ययविशेषापेक्षया विकल्पः केनचिदाकारेणोपजायमान एव बहिर्मुखप्रवृत्त्य
नुकूलमर्थक्रियास्मरणाभिलापादिप्रबन्धमाधत्ते । ततः पुरुषस्यार्थक्रियार्थिनो बहिरर्थानु
रूपाणि प्रवृतिनिवृत्त्यवधीरणानि भवन्ति । पृथग्जनसन्तानज्ञानक्षणानां तादृशो हेतुः
भावस्य नियतत्वात् । अनिश्चितार्थसंबन्धविकल्पकालेऽपि सदसत्तादिनिर्णयादिप्रवृत्ति
प्रसवः ।
तत्र यदुभयथाप्रवृत्ते साधनसामर्थ्यमस्य स्वहेतुबलायातमयमेव प्रवृत्तिविषय
वस्त्वारोपोऽध्यवसायापरनामा, यथा चन्द्रादिज्ञानस्य भ्रान्तस्याभ्रान्तस्य वा तद्दर्श
नावसायजननमेव ग्रहणव्यापारः । स्वचिदपीयमर्थविदेव कार्यतो द्रष्टव्येति न्यायात्,
तथा विकल्पस्याप्यग्निरत्रेत्यादिनाकारेणोत्पद्यमानस्य प्रवृत्त्याक्षेपकत्वमेव बाह्याध्य
वसानम् । यथा च निर्विकल्पस्य चन्द्राद्याकारतैव तथावसायसाधनी, एवमवसायस्य
अपि तादृशाकारतैव विषयान्तरविमुखप्रवृत्तिसाधनी । ततस्तदाकारावभावोऽस्यान
घिगतार्थकारणभावोऽप्यारोपविषयत्वेन पृथगिव व्यवस्थाप्यते, आरोप्यज्ञानं च ।
एवं तर्हि तदेव त्रयमसद्व्यवस्थाप्यते, व्यवस्था च प्रतीतिरिति नासत्प्रतीते
र्मुक्तिरिति चेत् ? सोऽयं प्रवाहेऽङ्गन्यासः । उक्तं हि तदनुरूपप्रवृत्त्याक्षेप एव तदारोपो
न परमप्रतीतिर्नामेति । ततोऽद्यापि त्रयस्यासतोऽध्यवसाय इति तदनुरूपव्यवहारमात्रम्
394
असत्प्रतीतिवादानादराद्यवस्थालक्षणमसदिदमित्याकारं ज्ञानं च फलमिति न कश्चित्
दोषः ।
एवमन्यत्रापीदृशि क्षुद्रोपद्रवेऽभ्यूह्यम् । इयमीदृशी सर्वविकल्पानामतर्स्मिस्तद्
ग्रहरूपा भ्रान्तिरनुभवानुसारिणी । एतदेव दृश्यविकल्प्ययोरेकीकरणं व्यवह्रियते
स्वप्र82a तिभासवेदनमात्रात् परत्र प्रवर्तनशक्तिर्या तदपेक्षा च पररूपेण स्वप्रच्छा
दनस्थितिः । प्रतिभासापेक्षया तु पररूपं स्वरूपेण संव्रियते इत्युच्यते, तस्यैव प्रकाशात् ।
सतोऽपि बाह्यस्य प्रकाशादेव तत्त्वतो निर्विषयत्वम् । आकारस्य चात्मरूपत्वात्,
अनध्यवसायाच्च । अतएव यथाध्यवसायम्, यथा प्रतिभासम्, यथातत्त्वं च त्रिधा
पोहस्थितिः ॥
र्विकल्पे तत्कल्पो भवतु पुनरङ्गः कृत इति ।
रपोहेन
अभावेन बाह्यस्य हि प्रतिभासाभावः । ध्वनिजनितविजातिव्यावृत्तवस्तु
सदृशस्याकारस्य चाध्यवसायाभावो यदि तर्हि न किञ्चिद् वाच्यमिति कस्तत्त्वतः
अपोहार्थ इति चेत् ?
अभिधेयमिति संबन्धः पूर्ववाक्यवत् । अयमर्थः, अपोहो वाच्य इति तत्त्वतो
वाच्यस्यैवापोहनिषेध इत्यर्थः । यथा अभावो भवतीति भावो न भवतीत्यर्थः ।
तस्मात् शब्दविषयः स्वलक्षणमिति सिद्धम् ।
यत्सूत्रम्,
एतावति मूले कियन्तः पल्लवाः प्रादुर्भवन्त्वपोहवादिनां नात्र निर्बन्धः । यतश्च
विकल्पस्य बाह्यनिश्चयनं नाम धर्मो बहिर्मुखप्रवृत्तिहेतुतत्त्वलक्षणो निष्ठितस्तत एव सर्वा
कारनिश्चयोऽपि प्रसज्यमानस्तदनुरूपप्रवृत्त्युपयोगनिष्ठितात्मा स्यात् । न चैकाकारो
ल्लेखिनो विकल्पस्याकारान्तरेण प्रवर्तनशक्तिरनभवविषय इति कुतः शब्दप्रमाणान्तरा
395
पेक्षेति युक्तम् । तत्र निर्विकल्पकं भ्रान्तमपि स्पष्टप्रतिभासवशात् ग्राहकमवस्थाप्यते ।
विकल्पस्तु विमर्शाकारतया स्वयमन्यानपेक्षप्रवर्तकत्वेऽप्यस्पष्टैकव्यावृत्त्युल्लेखादारोपकादि
व्यवहारभाजनम् । सर्वं एव विकल्पो बहिरस्पृशन्नेव सत्यसति बाह्ये प्रवृत्तिप्रयोजकतया
भ्रान्त उच्यते । असति तु तादृग्विकल्पोत्पादनशक्तिगर्भाकारयोगो निर्विकल्पकस्य भ्रम
इति स्थितम् ।
स्वाकारोत्कलिता तु वीक्षितफलस्मृत्यादिमातन्वती ।
वस्त्वारोप इतीरितोऽर्चिषि जलारोपो जलानामिव ॥
इति संग्रहः ॥
एवं च सति यदध्यवसितं बहिःकलापरूपमिति प्रवृत्तियोग्यतां नीतमुक्तक्रमेण
बाध्यं च तस्य न प्रतिभासः । प्रतिभासिनश्चाकारस्य न बाधक इति स्थितम् ॥
न हि तदर्थक्रियायां कश्चिद्विवादः । अर्थक्रियापहितस्य पृष्ठजोऽध्यवसाय एव
न च तस्याः क्षतिः । क्षतिस्तु कलापविशेषसाध्याया एवेति तस्यैवाभावः । तत्कथं
प्रतिभासमानस्य बाधा इष्टेत्युच्यते, व्यापकानुपलम्भापेक्षायां च सर्वं पूर्वमावर्तत
इति ॥
आरब्धम् । तत्र सत्यस्वाकारसंवेदनेऽपि सर्वज्ञानानां व्यवहारप्रसिद्धमनन्तकालबीज
निर्जातव्यवस्थं भ्रमत्वमाश्रित्य न संक्लेशक्षतिः । यथा च बाह्ये सति क्वचिद् भ्रमव्यवस्था,
तथा निर्णये सर्वत्र । केवलं बहिर्मुखप्रवृत्त्यपेक्षया क्रियमाणो नात्मनि कश्चिद् भ्रम
इत्युक्तं भवति ।
एवं शब्दयोजनायां बहिरवसायात् तत्रैव विकल्पकत्वमस्पष्टत्वं च, ज्ञानान्तरा
पेक्षया तस्यैवार्थस्य केवलस्य स्पष्टस्य चावस्थानात् । आत्मरूपे तु तादृशाकारा
396
व्यभिचारात् तस्या बुद्धेः सामग्रीविशेषजन्मनः कुतस्तथाव्यवस्था ? यदाप्यनयैव
अन्याविषयीकृत्य योजयितुमिष्यते शब्देन, तदापि परत्रैव योजना नात्मनीति शास्त्रमत्र
चिन्त्यम् । तस्माद् विकल्पिकैव न स्यादिति स्वापेक्षया सिद्धसाधनम् परत्र तु विकल्पकत्व
मेवाध्यवसायव्यवस्थाबलात् ।
अथ वस्तुस्वरूपनिर्भासबलादेवमुच्यते, तदेतत् साकारपक्षेऽभिधातुमपि महत्
साहसम् । अध्यवसायेन तदाकृष्टेरिति चेत्—न, तस्यान्यथाव्यवस्थापितत्वात् । न हि
तत्स्फुरणेऽवसायो नाम, प्रतिभासस्यैव प्राप्तेः । अतएवाप्रतिभासमानस्यापि स्वलक्षणस्य
भ्रान्त्या तत्रावसायादिति न युक्तम् । अवसायेन तद्वित्तिस्पर्शे प्रतिभासः कोऽपरः ?
अस्पष्टत्वादिति न युक्तम् । तद्रूपवित्तौ तस्यैवासिद्धेः ।
इत्यादि स्मर्यताम् ।
न च तदा भ्रान्तिर्भवितुमर्हति, वस्तुरूपस्येव निर्भासात्, अलीकवित्तेरिति चेत् ?
सैवास्त्वर्थाध्यवसायः कथम् ? सैव स इति चेत्—न, अलीकमिदमिति विदुषो बाह्याध्य
वसायव्यवस्थाभावात् । नालीकविजल्पनमपि तु तत्संवेदनं बाह्याध्यवसाय इति चेत् ?
एवमपि पर्यायतामात्रं स्यात्, नाभिमतार्थव्यक्तिः । बहिःस्वरूपस्पर्शविरहे हि यावदुक्तमली
काकारज्ञानमिति तावदुक्तमवसाय इति । ततो न विशेषः कश्चिदुक्तः । तथा च सति
यथालीकाकारज्ञानं न बाह्यस्येति संबन्धमर्हति, तथावसायो बाह्यस्येति न सम्बन्धी
भवेत् । तद्बोधाभिमानद्वारिका हि षष्ठी तदभावे भवेत् कथम् ॥
ततो यदुच्यते, तदयमभिलापसंसर्गयोग्यः प्रतिभासविशेष एव बुद्धेरर्थाध्यवसाय
इति तन्निरस्तम्, अर्थस्येति सम्बन्धानुपपत्तेः, बोधे च भ्रमाभावात् । अपि चालीकः
प्रतिभास इत्येवावसायोऽस्तु किमभिलापसंसर्गयोग्यविशेषणेन ? निर्विकल्पव्यवच्छेदार्थमिति
चेत् ? यद्येवमनलीकवादेऽपि तद्विशेषणविशिष्टमेव ज्ञानं भ्रमो न सर्वमिति न सर्वथा
संक्लेशविशुद्धिवैधु83a र्यम्, भ्रमभ्रंशेऽपि ज्ञानजातिविशेषस्यैव विश्लेषात् । उभयमतेऽपि
चाभिलापसंसर्गयोगः परापेक्ष इति न क्षतिः । केवलं तदप्रतीतौ तदवसायव्यवस्था दुस्थेति
दोषः । स चावयोः साधारण इति ।
तस्मात् सुदूरमपि धावता प्रतीतिमन्तरेणापि शक्तिविशेषादेव बहिष्ठां वृत्तिम्
आक्षिपंस्तद्ग्रहोपचारादवसायो बाह्यस्येति संबन्धयद्वृत्तिमध्यास्त इत्युपगन्तव्यम् ।
तदा चालीकः सत्यो वा आकार इति न विशेषः । एवं चावसायार्थेऽवसीयमानत्वेन
प्रकाश्यतामासञ्ज्यार्थस्य तादात्म्यमसत्यर्थेऽभावादिकं च यदुक्तम्, तत्सर्वमनुपपन्नम् ।
अदृष्ट्वा बुद्धिरर्थं प्रवर्तयतीति अयमेव विप्लवः । अतएव विकल्पाकारेऽप्यपोहे वाच्ये अर्थस्य
स्पर्शाभावात् क्व सर्वाकारपरिच्छेदप्रसङ्गदोष इत्याह,
इति, एकव्यावृत्त्याकारतया तत्रैव प्रवृत्त्याक्षेपात् । तावता च पुरुषः परितोषलाभात्
नापरं विवेचयति । तन्मात्रस्यालाभे तु विसंवादमाह—यस्य च सतोऽपि न विकल्पबुद्धौ
कस्यचित् प्रकाशः, तस्यासतो नामेति युक्तिदूरमेतत् । न च प्रकाशमानस्यासत्त्वमिति ।
तत् कथं गोत्वदृष्टान्तेन नीलस्यासतः प्रकाशनं, तादात्म्यकल्पनं च । एतेन नानारूप
निष्ठयोरित्याद्यपि निरस्तम् । असत्प्रकाशयोर्विरोधसाधनादेकवस्तुनीति चायुक्तम्,
प्रकाशस्य नीलव्यतिरिक्तस्य वस्तुनोऽभावात् भेदकल्पने च न प्रयोजनम्, द्वयोरेक
निषेधमात्रस्य विवक्षितत्वात् । स चैकत्र प्रतिभासिन्यन्यत्र कल्पिते स्यात्, घट इव
पटत्वस्य, भिन्नप्रतिभासयोरपि वा शशकमशकयोरिव । अभिन्नप्रतिभासयोः पुनरतद्
व्यावृत्तिमात्रव्यवस्थापितभेदयोर्न क्वचिदयं न्यायः सिद्धः ।
वर्णसंस्थानयोरभिन्नप्रतिभासनेऽपि संस्थानमसदिति चेत्—न, व्यतिरिक्तस्यैव
अवयवसंस्थयोगाख्यस्य कल्पितस्य संस्थानस्य तत्रापि निषेधः, परिमण्डलादिव्यवहार
गोचरदशाव्यावृत्तोदयश्चतुरस्रशब्दाभिधेयो वर्णात्मा कथं निषेध्यः ? तथेहापि भिन्नस्य
कल्पितस्यैव निषेधः प्रकाशस्य नीलस्य वा नीलात्मा प्रकाशात्मा वा नीलो न निषेद्धुं
शक्यः, अव्यतिरेकप्रतिभासादेव । ततश्च वस्तुत्वेऽनारोपितत्वे वा साध्ये नीलस्य
भावात् ।
प्रकाशभूतबुद्ध्याकारापेक्षया च न साध्याभावः । न हि गोत्वाकारप्रकाशस्य
केनचिदारोपः तद्व्यतिरिक्तस्यारोपकस्याभावात्, स्वयं च स्वहेतोर्गोत्वाकारस्यैव
प्रकाशस्य निष्पत्तेः । न चात्मनैवात्मन आरोपः, नाप्यन्येनान्यस्यारोपो, नामकरणं
398
तु स्यात् 83b ततश्च प्रकाशात्मकत्वं सर्वत्रानारोपितमेवेति नासिद्धिगन्धः । किं च,
आरोपितं जलादिवदस्फुटमेव भवितुमर्हति । नीलस्य च प्रकाशता स्फुटतरैव वेद्यते ।
न तु भिन्नप्रकाशस्य तु भिन्ननीलत्वस्येव, स्फुटत्वे वा नीलवत् प्रकाशस्य सतः ख्याति
रायातेति ।
एवं यत्र यत्र तर्कागमयोरसदलीकं वा प्रतिभातीति प्रतीतिः भाष्यकारव्या
ख्यानादन्यत्र तत्राध्यवसितापेक्षयैव व्यावहारिकाभिप्रायाद् वा । स हि तदाकृतिकल्पित
बाह्यसाध्यार्थक्रियाभावमात्रादलीकादि व्यवहरति । तदनुवादेन बाह्यनिषेधमात्र
मेतत् । तत्त्वतस्तु सदन्तरमेवासत्, इष्टादन्यतया चालीकमुच्यते । अथापि स्यात् ।
यदा नित्याकारा बुद्धिः, तदानेककालव्यापितयोदयादाकारवन्नित्यं सदेव स्यादित्यपि
यत्किञ्चित् । अनुकारमात्रेण हि तदाकारता, न तु तादात्म्येन, अग्निविकल्पमात्रेण
दाहप्रसङ्गात् । ततो यथा तावद्देशव्यापको वटविटपी पत्रमात्रपिधेयेनापि दर्पणतल
प्रतिबिम्बेनानुकृतः कुतोऽप्याकारभेदात्तथा क्षणिकेनाप्याकारेण नित्यः । अनुभवश्चात्र,
नित्यात्मादिविकल्पनकाले बुद्ध्यन्तरावकाशपरिपन्थिनीं सकलकालव्याप्तिमन्तरेणैव
तदनुकारः ।
अलीकत्वेऽपि हि न तावत्कालव्यापिनैवालीकेन भवितव्यं नित्याकारेण,
अन्यथा तदनुरूपसदसत्ताविचारादिप्रवृत्त्याक्षेपकत्वाभावात् । अतो लेशेन तदनुकारः
कालव्याप्तिं विनापीति युक्तम् । यथा चोर्ध्वदण्डादिप्रतिकृतिर्यदाकदाद्रियते । अध
ऊर्ध्वमध्यभागैरतीतानागतप्रत्युत्पन्नरूपोपलक्षणपरैर्नित्यस्य सर्वावस्थाजन्यमेकस्यामेव
स्यादिति दर्शयितुम्, तथा बुद्धेरपि क्षणमेव तदाकाराया नोदयविरोध इति । तस्मात्
यदसत् तन्न प्रकाशते, अध्यवसितमात्रं तु स्यात् । यथोक्तं प्राक् । यश्च प्रकाशते
स्वात्मनासावसन्निति सिद्धम् । ततश्च नासतः ख्यातिर्नाम भ्रमलक्षणमसंभवात् ।
अत एव सन्न प्रकाशत इति न तृतीयोऽपि प्रकारः, प्रकाशव्याप्तत्वात् सत्तायाः, अप्र
काशस्यासत्तया ग्रस्तेः2554 ।
2555ननु प्रकाशो नाम वस्तुनः साधकं प्रमाणम् । न च प्रमाणनिवृत्तावर्थाभावः ।
अर्थक्रियाशक्तिश्च वस्तुसत्त्वम् । तच्च नाप्रकाशस्यापि विरुध्यत इति चेत् ? सत्यमेतद्
बहिरर्थवादेऽप्रकाशस्यापि तस्याभ्युपगमात् । केशादिप्रतिभासेऽध्यवसितस्यार्थशक्ति
399
वियोगादेवाभावसिद्धेः । सर्वथा बहिरर्थाभावे तु ज्ञानस्य प्रकाशाव्यभिचारात् तावतैव
सत्त्वे किमर्थक्रियया ?
अपि च,
इत्यन्तरश्लोकाः ॥
अथाकारस्य प्रतिभासिनोऽपि शक्तिवियुक्तेः सत्त्वं माभूदित्यमुना मनोरथेन
शक्तिः सत्त्वमुच्यते, तदपि तद्व्यतिरिक्ते प्रमाणाभावात् कीदृशी इष्टसिद्धिः ? न
चाकारस्यार्थकारित्वनिषेधोऽपि शक्यः, उपादेयक्षणस्याध्यवसायस्य तदारब्धप्रबन्धस्य
च सदसदादिनिर्णयरूपस्याद्याप्यनुच्छिद्यमानस्य जन्मनि नियतप्राग्भावित्वस्य दर्शित
त्वात्, अन्यथा न क्वचिदपि हेतुफलभावसिद्धिः स्यात् । व्यतिरिक्तं प्रकाशमात्रं तत्र
हेतुरिति चेत् ?
तथा
तस्मात्,
403
शेषं समानम् । अथवा,
यदाह,
इत्यादि ॥
तथा च,
इत्यादि ॥
आर्यनागार्जुनपादाश्च,
405
एवमन्यदप्यूह्यम् ॥
यत् कल्पितं ग्रहणकर्म च कर्तृ चासत् ।
निष्पन्नमाह परितो युवराजराजः ॥
तस्मान्न मुख्यप्रमाणागमशास्त्रबाधा काचित् साकारनये । नाप्यलीकत्वमाका
राणामर्थसामर्थ्यस्य समर्थितत्वादिति । अस्तु वा अलीकतापि, भ्रमनाममात्रं वा । न तु
तत्त्वतः संक्ले85b शसङ्गतिः, स्वसंवेदनप्रच्युतेरभावात्, परारोपव्यवस्थाविरहात् ।
सर्वदा मुक्ता एव सर्वदेहिन इति दीर्घाभ्यासप्रबन्धप्रतिबन्धः । स्वहेतोर्हि स्वसंवेदन
रूपस्योत्पन्नस्य न परेण शक्तिमताप्यन्यथाकर्तुं शक्यम्, किं पुनरलीकाभिमतेन ?
स्वहेतोरेकीभूयोत्पत्तौ च भवतु तस्य रूपमभिन्नवेदनम् । किमत्र गात्राम्रेडपरि
ग्रहेण ?
अविद्यातस्तथोत्पत्तिप्रतिभासाविति न तत्त्वमिति चेत् ? नैतदपि सारम्,
यतः,
किं च,
स्वसंवित्तौ पुनस्तस्य शतेनापि न बन्धनम् ॥
इत्ययुक्तमतेऽशक्यं स्वाभेदेनापि वेदनम् ॥
न हि स्वहेतोः सकाशात् प्रकाशात्मनो जायमानस्य स्ववित्तिर्विबन्धोपनीतं
जाड्यमस्य युक्तमलीकाकारबलात् । अत एव सोऽलीकः स्वाभेदेन तदात्मानं वेद येद्
407
इत्यपि न शक्यम्, विरोधादेव । स्वविन्मात्रस्य हि निष्पाद्यमानस्य तदन्यथाभावो
विरुद्धः तदतद्वोधस्वभावोत्पत्तौ ॥
कलितमितरानारोपान्न प्रवृत्तिनिवृत्तयः ।
श्रवण86b तनुजाकाराकारस्थितावपि का क्षतिः ॥
ततः सर्वप्राणिनां सर्वदा निर्वृतत्वात् सम्यक्संबुद्धत्वेनापि नोपयोग इति न
कश्चिदुपायाभ्यासमारभेत । तदयमतस्मिंस्तद्ग्रहलक्षणो भ्रमः स्वरूपेण विचारविधुरो
यदि तथा प्रवृत्त्याक्षेपसामर्थ्यव्यवस्थापितो न स्यात्, नालीकमात्रसंभवेऽपि दोष इति
नोक्तोपालम्भपरिहारः ।
अशक्तिः कानलीकस्य पश्य धार्ष्ट्यविजृम्भितम् ॥
विपरीतरतः सोऽयं योगाचारी न तात्त्विकः ॥
तस्मात्, 408
नान्यत्र तद्व्यवसितिश्च विचारचारुः ।
साकृत्यनाकृतिमते द्वितयेऽपि तुल्यः ॥
तत् कथं संवलेशव्यवदानव्यवस्थाभ्रंशभयात् साकारपरिहारेण निराकार
एवात्राभिनिवेशवासिता मतिर्मतिमतामिति ?
यदि तु परामर्शेऽभियोगः,
इति महदन्तरम् । तथा हि, आकारस्य हि वस्तुत्वे तादात्म्यात्तद्योगाद्वा विशेषमनु
भवन्ननुभवस्तथाविधमध्यवसायं प्रसुवीत, सोऽप्यवसायो विषयविशेषाचितां प्रवृत्तिम्
इति न प्रवृत्तिसङ्करः । यदार्थो हि कश्चित् स्वभावभूतविशेषोपयोगात् क्रियाभेदम्
आदधीत नोलपीतवत्, कश्चित् सहकारिविशेषयोगात्, उत्पलोपलपाणिवत् ।
ततस्तादात्म्यसहकारौ वस्तुप्रतिबद्धौ सिद्धौ । आकारस्य चावस्तुत्वे न कश्चिद्विशेषो
जलज्वलनमनसोरिति जलानुभवादपि ज्वलनविकल्पप्रसङ्गः ।
एवं ज्वलनविकल्पात् पानावगाहनार्थिनः प्रवृत्तिः स्यात् । न चाग्निरत्रेति
मन्यमानः पानकामः प्रवर्तते । स्वच्छतया स्फटिकमणिकिरणपरिभविन्यनुभवेऽभूतेन
आकारेण को विशेषः ? न हि स्फटिक एव नीलपीतादिवस्तुसाहायकं विहाय प्रतिपत्ति
क्रियाभेदहेतुः । असतोऽप्याकारस्य प्रतिभासादलोकव्यपदेशभाजः संसर्गाच्छक्तिभेद
इति चेत् ? तदयुक्तम् । यतः,
तस्मादभिन्नरूपमेव वस्तु नभस्तामरसयोगाद्वगाहनादिक्षममकाण्डक्रुद्ध
बन्ध्यासुतसन्निधेर्दाहदायकमित्यपि श्रद्धेयमेवंवादिनः । असत्त्वेऽपि तयोरदृष्टेराकारस्य
तुदृष्टेरस्ति विशेष इति चेत्—न दर्शनेऽपि साहाय्यसमीहाविरोधिनोऽसत्त्वस्यानयनाद्
इत्युक्तेः । न चासतोऽनाधेयातिशयस्य कुतश्चित् कश्चिद् विशेषः 86b न तस्य
409
कुतश्चिद्विशेषो नापि ततः प्रकाशस्य, उपलक्षणमात्रं त्वाकार इत्यपि न संबद्धम्, उप
लक्षकत्वस्यापि वस्तुन्येवोपपत्तेः शिखादिवत् । न च तथोपलक्षितोऽपि प्रकाशः स्वयम्
अविशेषात् क्रियाभेदोपयोगी भवितुमर्हति ।
कर्मसामर्थ्यात् तस्य तादृशी शक्तिरिति चेत्—न, कर्मणो दृष्टसाधनमनपेक्ष्य
शक्तेरदृष्टेः । न चाकारभेदमन्तरेण तादृक्क्रियाभेदो दृष्टः, तथापि तस्य साक्षित्वमात्र
कल्पने पाकादिषु पाचकादेरपि तत्कल्पनाप्रसङ्गः । ततो दुरपह्नवा तत्र शक्तिराकारस्य ।
न च भिन्नानुभवव्यवस्थाबीजं किञ्चित् । ततः प्रकाशत इति प्रकाश आकार एव ।
प्रकाशनं प्रकाश इति तु तद्धर्ममात्रं भेदान्तरप्रतिक्षेपेणेति स्थितिः ॥
स्तस्यां भ्रमस्थितिरदो विरहे कथं स्यात् ।
मारब्धसिद्धिरिति साकृतिवाद एव ॥
एवं तर्हि यावद्वोधस्तावदाकारो यावच्चाकारस्तावद्वहिष्ठा वृत्तिकृता भ्रान्ति
स्थितिरिति न कदाचिद् व्यवदानम्, अलीकत्वे त्वाकाराणां स्वप्रभववासनासमूह
समुद्धातादत्यन्तमत्यये निराभासमाकाशसंकाशं प्रकाशमात्रमवशिष्यत इति व्यवदान
मुच्यते । आकारसत्यतामते तु दुर्लभमेतदिति चेद् ? भवतु किं तादृशा तेन कर्तव्यम् ?
महाप्रारम्भसंभोगकायविलोपलोलुपेनासद्वासनासमुद्धाते हि प्रकृतिवितथः संकल्प एव
मा भूद् बहिः प्रवृत्तिर्वा । यद्वा आकारोऽप्यनिष्टो मा भूत् । चित्ताकारविशेषभाव
नायाः शुभसंभाराभियोगस्य च सामर्थ्यात् अभिमताकारविशेषस्य समुदये कीदृशो
दोषः ? न च कदाचिदाकारे दोषदर्शनात् सर्वदा तन्नियमः, सामग्रीभेदस्यात्यन्तिकस्य
संभवात्, अन्यथालीकसंभवोऽपि सदातनः स्यात् । तस्मात्,
चित्रं चेतः शुभशतसमुल्लासताभ्यासभूम्नः ।
शुद्धाकारप्रकररहितं न त्वनाकारमेव ॥
यदा निराकारतरान्तरङ्गाः ।
वरं च निर्माणदृशो वराकाः ॥
दशावनीनां परमः स लाभः ।
सुखं न चामेध्यविशेषतोऽपि ॥
भावभावि पटुधर्मदेशनम् ।
सर्ववित्तिरपि तत्तदर्थतः ॥
ग्राह्याद्यभावेऽपि तत्तदर्थिनां तत्तदर्थसंवादसंभवात्, सर्वज्ञताव्यवस्थापि सर्व
स्वबुद्ध्याकारविलास इति । अथवा,
समन्तसमयत्रये तदनुकारिसर्वाकृतेः ।
सहैव विविधाकृतिव्यतिकरैकरूपो विभुः ॥
सर्वमिदं स्वरूपमधियन्ति दशावनयः ।
र्गोचरभाग एष इति शेषमशेषमपि ॥
पार्थिव एक एष इति किंकृत एष विधिः ।
ज्ञानशुभोरुभारजनितस्तु महातिशयः ॥
अस्य च चित्राकारराशेः
तथा हि,
स्थित्यागन्तुप्रपञ्चापचयपरिचिताकाशकक्षाप्रभाभूः ।
हेया केनास्तु यस्या यदि परमुचिता व्युत्थितिः कल्पनैव ॥
संक्लेशव्यवदानव्यवस्थापरिच्छेदो
द्वितीयः समाप्तः ।