411
तत्र च निश्चलाप्रतिमभागमुशन्ति वपु
र्गोचरभाग एष इति शेषमशेषमपि ॥
चित्रमनेकमेकमिति किंकृत एष विधिः
पार्थिव एक एष इति किंकृत एष विधिः ।
संवृतिसत्यमेत्य यदि सा स्थितिरेवमियं
ज्ञानशुभोरुभारजनितस्तु महातिशयः ॥

अस्य च चित्राकारराशेः
निरुपद्रवभूतार्थस्वभावस्य विपर्ययैः ।
न बाधा यत्नवत्त्वेऽपि बुद्धेस्तत्पक्षपाततः ॥
प्र. वा. १. २१२-३

तथा हि,
संभाराभ्यासजन्मा निरतिशयरुचेर्गोचरस्वैकवित्ति
स्थित्यागन्तुप्रपञ्चापचयपरिचिताकाशकक्षाप्रभाभूः ।
नानानिर्माणवृन्दैरनुपरतजगत्कृत्यराशिर्दशेयं
हेया केनास्तु यस्या यदि परमुचिता व्युत्थितिः कल्पनैव ॥

इति महापण्डितज्ञानश्रीमित्रविरचितायां साकारसिद्धौ
संक्लेशव्यवदानव्यवस्थापरिच्छेदो
द्वितीयः समाप्तः ।