413
बाह्यस्य पूर्वापरता यथैव
तथा धियोऽपि ग्रहणं स्वयं तु ।
स्मृतिश्च संवादवती द्वयेऽपि
किञ्चित्करो नानुभवोऽन्यथा हि ॥
ततोऽनुसन्धानधिया व्यधायि यत्
स्वसिद्धमेवाप्रमयापि तत् किल ।
प्रमावतारे तु पराप्रवेदने
स्फुटं वियच्चित्रणमीदृशी स्थितिः ॥
न कोष्ठशुद्ध्यापि तथोचिता स्थितिः
यतो न जातु प्रतिपत्तिगोचरः ।
कदापि केनापि हि दृष्टमन्यदा
सहेत सन्देहमबाधितं यदि ॥
क्रमोऽपि तस्मादवसाय पद्धतिं
विना न सोऽप्यन्ध इवान्यवेदने ।
ततो बहिर्विप्लत एव न प्रमा
न विप्लुतः स्वात्मनि तत्र न क्रमः ॥
तथा ध्वनेरेव न सिद्धिरित्यसत्
परापरीभूतमपीक्षितं न हि ।
परस्य वित्तिर्न न चात्मनो भ्रमः
भ्रमेऽपि न स्वस्य तथा विवक्षितम् ॥

ननु हेतुफलभावविलोपस्त्वयापि कथं साध्यः, प्रमाणाभावात् ? न हि प्रत्यक्षं
निश्चायकम्, अविकल्पकत्वात् । नापि विकल्पमात्रम्, अतिप्रसङ्गात् । प्रत्यक्षजे
लिङ्गजे वावसायः स्वकारणस्यार्थस्य निश्चायकः प्रतिबन्धादिति चेत् ? प्रमाणसिद्ध
एव तर्हि हेतुफलभावः कथं बाध्यः स्यात् ?

तदयुक्तम् । न ह्येवं प्रमाणसिद्धिरुपपादिता भवति, प्रत्यक्षस्य हेतुफलभाव
ग्रहनिषेधेऽप्रवृत्तिनिषेधाक्षेपात् । परोपगमापेक्षायां न च स्वतन्त्रसिद्धिः, प्रसङ्गस्या
साधनत्वात् । केवलं परस्य प्रतिषेधप्रतिबन्धमात्रमुपसंहरेदयमुपन्यासः ।