87b तावता तस्याः स्ववेदनक्षतिः ।
स्वसंविदितैव हि परत्र बाधकमुपस्थापयति, पूर्वपूर्वाहितविशिष्टसंस्कारद्वारेण
नियतपूर्वापरभावबोध एव च हेतुफलबोध इति ।

अत्रोच्यते,

अनात्मसंवित्त्यभिमानकाले
समस्तमेतद् व्यवहारयोग्यम् ।
स्वरूपसंवित्तिपरायणत्वे
क्व भेदपूर्वापरभावयोगः ॥
बहिर्यथा भिन्नधिया ग्रहार्हं
परस्परं तस्य तथा भिदापि ।
तथैव पूर्वापरतापि नोचे
न्न बाह्यमस्त्येव च बाह्यमानः ॥