111a तदभावेन न तुरङ्ग इत्यपि
प्रत्येयम् । कथं तर्हि,

यः प्रतीत्यसमुत्पादः शून्यता सैव ते मता ।
द्र. अ. अ. आ. पृः १५३ प्रः

इत्यादिकं सङ्गंस्यते । अधरस्थित्यपेक्षया तावताङ्गेन शून्यतावतारमभिप्रेत्य तदेतादृशानि
साधनान्यपि क्वचिन्न प्रकृतवादिन्युपयोगभाञ्जि भवन्ति । व्यापकानुपलम्भवद् वा
स्वसंवेदनप्रत्यक्षापोढपौरुषाणि नाङ्गनिरूपणायातमिति स्थितम् । ततो निःस्वभावतया न
कथञ्चिदपि स्वसंवेदनसिद्धिरिति निरस्तम्, तत्साधनप्रमाणानवकाशात्, प्रत्यक्षेण
प्रतिबन्धाद्यभावाच्च, साधनविनाकृतायां सिद्धावतिप्रसङ्गात् । स्वप्रकाशिनि तु
नान्यापेक्षिततथासिद्धिरेव स्वसंवेदनस्थितिः ।

यदप्युच्यते, न चापि जडस्वभावता मध्यमकं वादिनं प्रति कस्यचित् सिद्धा,
येन तद्व्यावृत्तमजडं स्वसंवेदनं स्यादिति । तदपि गात्राभ्रेडमात्रं न त्राणाय । तथा हि,

योगाचारस्य नाज्ञानं नाशून्या मध्यमा विदः ।
तथापि ज्ञानशून्यादिव्यवहारो न बाध्यते ॥