षष्ठः परिच्छेदः
अथ तथाविधश्लाघास्पदं मध्यमामुपक्रम्य, सम्यग् 111b योगाचारदर्शनमेतत्
परिनिष्ठितमिति कोऽयं क्रमः ? नैष दोषः, अस्यापि भगवतैवोक्तस्य नीतनेयविभागकारितया
तद्व्याकृतैरार्यैर्युवराजपर्यन्तैः प्रतिगृहीतस्याचार्यैः प्रसाधितस्योल्लाघश्लाघत्वात् ।
साकारसिद्धिश्चेयमुपक्रान्ता । ननु तथापि परस्परविरोधिद्वयमपि न सत्यम्, तत्रैकहृदयोऽपि
स्वयं दैशिको भगवान् विनेयापेक्षया नेयमप्युपदिशेत्, भूमिलाभिनस्तु दृष्टसत्याः कथमे
कैकपक्षपातिनः एकैकमतदेशनात् ? विशिष्टान्यदेशने हि परानुरोधादेतदिति स्यात् ।
परमगम्भीरश्च मन्त्रनयसमय एते एव स्थिती समाश्रित्य ययोरियान् विरोध इति कथं
हृदयनिर्वृतिः समन्तभद्रत्वेऽपि ? उच्यते,
अत्र हि चित्रप्रकाशराशौ नाप्रकाशकणस्यारोपः सह्यो, नापि प्रकाशलेश
स्यापवादः,
व्यथारोपापवादाभ्यां तथेह स्फुरदाकृतौ ॥
न तौ द्वावपि तत्त्वेन यदि किं वा विरुध्यते ॥
तथा सदसल्लक्षणनिर्देशे आर्यस्वामी,
इति ब्रुवन् ग्राह्यग्राहकयोरेवारोपनिषेधं प्रति भासमानस्यैवापवादनिषेधमाह । तत्राभूतं
ग्राह्यग्राहकद्वयं परिकल्प्यतेऽनेनास्मिन् वा पृष्ठजविकल्पद्वारेत्यभूतपरिकल्पः । तदेव
विस्तरेण दर्शयन् सभाष्यः सूत्रालंकारः,
यथा मायामन्त्रपरिगृहीतं भ्रान्तिनिमित्तं काष्ठलोष्टादिकं तथाऽभूतपरिकल्पः
परतन्त्रस्वभावे वेदितव्यः । यथा मायाकृतं तस्यां मायायां हस्त्यश्वसुवर्णाद्याकृतिस्तद्
भावेन प्रतिभासिता, तस्मिन्नभूतपरिकल्पे द्वयभ्रान्तिर्ग्राह्यग्राहकत्वेन प्रतिभासिता
परिकल्पितस्वभावाकारता वेदितव्या । अत्र भाष्ये काष्ठलोष्टादिकमिति प्रवीणशिल्पि
रचितहस्त्यादिसंस्थानं चित्रितं च सम्यक्प्रयुक्तम् । लोष्टं मन्त्रादिपरिग्रहात् विकृतेन्द्रिय
ज्ञानधर्मपीताद्याभासपरिकरितम् । आदिशब्दान्मृण्मयपाषाणादिपरिग्रहः । यथा माया
कृतमिति व्याख्येयानुवादः । तस्यां मायायामिति कृत्रिमहस्त्यादौ । उपलक्षणमेतद्
यथो112a क्तलोष्टे च । हस्त्यादीनामाकृतिर्वर्णसंस्थानम् । तद्भावेन हस्त्यादित्वेन,
प्रतिभासिता अध्यवसिता, असतोऽनुभवाभावात् । मरीचिषु जलस्येवाध्यवसानमात्रं
यत् तत्र हस्त्यादीनां तन्मायामात्रकृतमुक्तमित्यर्थः । तथा द्वयभ्रान्तिरिति सम्बन्धः ।
तस्या व्याख्यानम् परिकल्पितस्वभावं ग्राह्यग्राहकमेव, तस्यैवाकार उल्लेखोऽस्याभूत
परिकल्पस्य खण्डद्वयप्रतिभासात् । तस्य भावस्तत्ता । ग्राह्यग्राहकत्वेन प्रतिभासिता
ध्यवसिता । यथा मायादिषु हस्त्याद्यवसायस्तथाऽभूतपरिकल्पे द्वयावसाय इत्येवार्थः ।
तथा च,
यथा तस्मिन् न तद्भावो मायाकृते हस्तित्वाद्यभावः, तथा तस्मिन् परतन्त्रे
परमार्थ इष्यते । परिकल्पितस्य द्वयलक्षणस्याभावः । यथा तस्य मायाकृतस्य हस्त्यादि
भावेनोपलब्धिः, तथा तस्याभूतपरिकल्पस्य संवृतिसत्यवेत्नोपलब्धिः । अत्र मायाकृतं
मायारचितं मन्तव्यम् । हस्त्यादिभावेनोपलब्धिर्ज्ञानमध्यवसाय इत्यर्थः । संवृतिसत्यं
ग्राह्यग्राहकं तद्भावेनोपलब्धिरध्यवसायः । एतेन मूलेन विषयेण विषयिनिर्देश इति
दर्शितम् ।
यथा मायाकृतस्याभावे तस्य तन्निमित्तस्य काष्ठादिकस्य व्यक्तिभूताय उपलभ्यते,
तथाश्रयपरावृत्तौ द्वयभ्रान्त्यभावात् अभूतपरिकल्पस्य भूतार्थ उपलभ्यते । मूलेऽसत्कल्प
इत्यभूतपरिकल्प उक्तो भूतार्थो द्वयविवेकः ।
यथा तन्निमित्ते काष्ठादावभ्रान्तो लोकः कामतश्चरति स्वतन्त्रः, तथाश्रयपरावृत्ताव
विपर्यस्त आर्यः कामचारी भवति स्वतन्त्रः । अत्र च काष्ठादियन्त्रमात्रमेतद् भ्रान्तज्ञाना
कारो वा न हस्ती न वा सुवर्णमिति निश्चयादिति मन्तव्यम् ।
एष श्लोको गतार्थः ।
न भावस्तत्र चाभावो यस्तदाकृतिभावो नासौ न भावः । नाभावो भाव एव च,
यो हस्याद्यभावो नासौ नाभावः । तयोश्च भावाभावयोरविशेषो मायादिषु विधीयते ।
य एव तत्र तदाकृते112b र्भावः, स एव हस्त्याद्यभावः । य एव हस्त्याद्यभावः, स एव
तदाकृतिभावः ।
तथात्राभूतपरिकल्पेऽद्वयाभता चास्ति द्वयभावश्च नास्ति । तस्मादस्तित्वनास्तित्वं
रूपादिषु विधीयते, अभूतपरिकल्पस्वभावेषु । अत्र च द्वयमिवाभातीति द्वयाभस्तस्य
भावोऽन्तर्बहीरूपप्रतिभासी स्वभावः ।
न भावस्तत्र चाभावो या द्वयाभासता । नाभावोभाव एव च या तद्द्वय
भावनास्तिता, भावाभावाविशेषश्च रूपादिषु विधीयते । य एव हि द्वयाभासतया भावः स
एव द्वयस्याभाव इति ।
किमर्थं पुनरिह भावाभावयोरैकान्तिकत्वमविशेषश्चेष्यते, यथाक्रमम् ? समारो
पापवादान्तप्रतिषेधार्थमिष्यते, हीनयानगमनप्रतिषेधार्थं च । अभावस्य ह्यभावत्वं विदित्वा
समारोपणं करोति । भावस्य भावत्वं विदित्वापवादं न करोति । तयोश्चाविशेषं विदित्वा
न भावादुद्विजते । तस्मान्न हीनयानेन निर्याति इत्येवं विस्तरः । तथाभिसमयालङ्कारे
तात्पर्यम्,
इति प्रकरणान्तरवत् कल्पितधर्मनिषेधाभिप्रायेणाभिधाय सामान्यवचनात् प्रकाशनिषेध
शङ्कासङ्कोचार्थमेवाह,
इति । तत्रात इति प्रकाशमानात् चित्रात् संक्लेशकालापेक्षयाऽभूतपरिकल्पशब्दवाच्यात्
स्वसंवेद्यतया न किञ्चिदपनेयम् ।
स किञ्चित् प्रक्षेप्तव्यमप्रकाशं ग्राह्यग्राहकमनाकारमात्मादि वा, किं तु यद्भूतं
तद् भूतेनैव ग्रहीतव्यम्, नाभूतत्वेनेत्यपवादनिषेधः, भूतमेव च भूतत्वेनाधिमोक्तव्यं,
487
नाभूतमिति समारोपनिषेधः । किं तद्भूतमभूतं वेति विशेषनिष्ठां नेतुं मध्यान्तविभागे
सदसल्लक्षणमनुसरन् द्वयमभूतम्, द्वयशून्यताधर्मिणं च भूतमवगच्छत्येककर्तृकत्वात् ।
अत्रापि वा अत इति प्रत्यक्षपरामर्शात् प्रकाशराशेरप्रतिक्षेपार्हत्वाद् भूतत्वमन्यस्य तु
कल्पितमात्रत्वादभूतत्वम्, ततश्च 113a तच्छून्यताया अपि भूतत्वं सूचितमेव । ततो
भूतसाक्षात्कारी विमुच्यते, भूतग्राही वा । श्रुतचिन्ताभ्यामभ्यासक्रमेण विमुच्यत इत्यर्थः ।
समारोपापवादविनिर्मुक्ता च मध्यमा स्थितिः । तदेव च योगाचारदर्शनमिति न वस्तुभेदः ।
न हि प्रतिभास एवारोपः । नापि बाधमर्थामीत्युक्तम् । ये त्वत्रापि प्रतिभासमानमपि
पुद्गलनिराकारवेदनादि ग्राह्यतादि चारोपयन्ति, ये चाप्रतिभासमानमप्यपवदन्ति सर्वतः,
अंशतो वा तदुभयपुरुषाश्रयो विरोधः परस्परप्रतिक्षेपहेतुरनर्थाय । तस्मादयमेव
शून्यतानयः । यथोत्तरतन्त्रम्,
2581तत्र शून्यताविक्षिप्तचित्ता उच्यन्ते । न च यानसंप्रस्थिता बोधिसत्त्वास्तथा
गतगर्भशून्यतानयविप्रलब्धाः । ये भावविनाशाय शून्यताविमोक्षसुखमिच्छन्ति सत एव
धर्मस्योत्तरकालमुच्छेदो विनाशः परिनिर्वाणमिति, ये वा पुनः शून्यतोपलम्भेन शून्यतां
प्रतिसरन्ति, शून्यता नाम रूपादिव्यतिरेकेण कश्चिद्धर्मोऽस्ति यमधिगमिष्यामो भावयिष्याम
इति, तत्र कतमः स तथागतगर्भशून्यतानय उच्यते ?
इत्यादि विस्तरः । तत्र सत एवाकारस्यालीकतामास्थाय पश्चादुच्छेदानुपगमान्न प्रथमो
विप्रलम्भः शून्यतार्थे । नापि द्वितीयः, निराकारवेदनादिवद् व्यतिरिक्तानुगमात्,
नन्वत्र अतस्तथागतधातोर्न किञ्चिदपनेयं, संक्लेशनिमित्तं नात्र किञ्चिदुपनेयं व्यवदान
निमित्तमिति व्याख्यातम् । सत्यम्, किं तु धर्मेण धर्मिनिर्देशात् तथागतधातुशब्देन
शून्यताधर्मा चित्तविवर्तग्राह्य एव ग्राह्यः, कल्पनानिवेशिनि शून्यतामात्रे कस्यचित्
प्रक्षेपादिशंकाविरहात् । ततश्च संक्लेशव्यवदाननिमित्तयोः सदसतोर्निरोधोत्पादप्रति
षेधेन यथोक्तापवादसमारोपनिषेध एव विवक्षितः, यतोऽनन्तरमाह, एवं यद् यत्र
नास्ति तत्तेन शून्यमिति पश्यति । यत् पुनरत्रावशिष्टं भवति, तत्सदिहास्तीति यथाभूतं
488
प्रजानाति, समारोपापवादान्न परिवर्जनादविपरीतशून्यतालक्षणमनेन परिदीपितमिति ।
तन्न प्रकाशरूपनिषेधः । अयमेव च मध्यमार्थः । अथवा,
इत्यनेन,
त्युवाच मध्यान्तविभागशास्त्रे ।
किमत्र पाण्डित्य113b परिश्रमेण ॥
तस्मादियमेव स्थितिर्मध्यमा योगाचारनयश्च वस्तुत इति ॥
एनामेव चाभिसन्धायार्यनागार्जुनपादानामपि,
इति श्लाघा । इतरदिगपक्षेपात् तु,
इत्युक्तम् । प्रायसो बहिरिवार्थशक्त्यैव सत्तां चित्तस्यापि प्रपन्नो जनः । तथा चाद्य यावद्
वार्तिकभाष्यकारयत्नैरपि न प्रबोधमासादयति, प्रत्युतान्याभिप्रायदूषणाभ्यामुपक्रमत
इति । चित्तमात्रमिति सामान्यवचनं प्रायस्त्वसूचनपरम्, न तु सर्वथाऽनिष्ट्यैव,
श्लाघाया निरवकाशत्वप्रसङ्गात् । न चैषां स्वप्नवदनुत्पन्नानिरुद्धप्रतिभासमात्रादन्यत्र
श्लाघासंभवः ।
489
इति वचनाच्च साकारनय एवैषाम्, संभोगकायवर्णनाच्च, अन्यैरिवोपचारादेरवर्णनात् ।
कथं तर्हि,
इत्याद्युक्तम् ? धर्मकायाभिप्रायेण । तथा चानन्तरमेव,
इत्युक्तं प्रसज्यवृत्तिमाश्रित्य । किं च, वन्दे प्रत्यात्मवेद्यं धर्मकायमिति स्वसंवेदनादरेऽपि
विपरीतशङ्केतिधिक् स्वातन्त्र्यम्, स्वसंवेदनस्य चित्राकारप्रतिभास एव विश्रामात् । तच्च
दृढीकृतमिति न धर्मकायाद्यपलापिनां विलापेन किञ्चित् । तस्माद् युवराजरुचितैवार्याणां
मध्यमेति स्थितम् ॥
एतेन यैरपि,
तेषामपि व्यवस्था दुःस्थेति प्रतिपादितम् । तथा हि,
तस्मात् तत्त्वतो ज्ञानमपि न विचारसहम् । संवृत्त्या तु पञ्चापि स्कन्धाः सन्त
इति कुत एकनिषेधोऽन्यस्थापनं चेति न वाच्यमेतत् । किं च, केयं संवृतिर्नाम ? यद्य
विचाररम्याप्रतीतिः, हन्तानन्तत्वात् संवृतेः क्व पञ्चस्कन्धनियमः ? प्रकृतीश्वरषट्
पदार्थादिबुद्धयोऽपि विविधाः सहजाभिसंस्कारिकव्यामोहभाजः पर्यन्ते बालस्यापि
प्राप्यचन्द्रबिम्बादिगोचराः करप्रणिधानाद्यनुमेयास्तत्तद्वस्तुसंवृतिसत्यत्वेन ग्राहयेयुः ।
एवमस्त्विति चेत् ? किमिदानीं निरोधाय मार्गान्वेषणेन, वेदेश्वरादेरपि गवेषणीय
त्वात् ? 114a अथ संवृतावपि क्वचिदेव परितोषलाभान्न सत्ताश्रयणम्, एवं तर्हि
490
यथाविहितलक्षणप्रत्यक्षानुमानरूपैव संवृतिराश्रयणीया । तथा च सत्यवान्तरव्यवस्था
मात्रमेतत् नामरूपमिति ।
केवलं तत्राप्यनुमानमेव बाधकमिति किल तत्रापि न स्थितिः । तथा सति
ज्ञानमेव संवृतिसत्, न रूपम् । तस्मादासंसारस्थायि ज्ञानमेव संवृत्या युक्तम्,
बाधनेऽपि तस्य प्रकाशात्, अन्यस्याप्रकाशात् । सन्तु वा संवृत्या पञ्चापि स्कन्धाः,
स्वयं वा बुद्धेस्तु निवृत्तितः स्यात्, निवर्तनप्रयत्नेन वा ? नाद्यः पक्षः, स्थिरस्वभावत्व
साधनात् चित्तसन्ततेः । निरालम्बा प्रशाम्यतीति चेत् ? ननु शान्तिरनुपद्रव उच्यते
इति कीदृशो दोषः ? नाशो विवक्षित इति चेत् ? तदापि यद्यालम्बनं विषय इदानीमपि
निर्विषयैव तत्त्वतः कथं प्रबन्धेन प्रवर्तते ? संवृत्या तु न कदापि विषयव्यावृत्तिः ।
अथाधारः ? नास्याः किञ्चिदाधारेण, गौरवाभावात् । अथ कारणम् ? तदेदानीमपि
समनन्तरप्रत्ययः कारणं न तदापि विच्छिद्यते, विशेषतोऽशेषजगत्कृपासहायम् । क्लेशाभावान्न
प्रतिसन्धिसक्तिरिति चेत् ? हितसुखेच्छयाशुचिस्थानपातलक्षणः संसार एव मा भूत्,
प्रबन्धमात्रेण तु वृत्तिः केन वार्यते, विशेषेण दयालोः ? तस्मान्न स्वयं निवृत्तिः, प्रयत्नस्तु
द्वयोरेकस्य स्थापने निवर्तने वान्यस्य गुणदोषदर्शिनः स्यात् ।
तत्र जडराशेः कीदृशो गुणो यो न चैतन्यस्य ? कीदृशो वास्य दोषो यो न
जाड्यराशेः ? प्रकृतिभ्रान्तत्वात् चित्तचैत्तानामिति चेत् ? जाड्यराशित्वाद्रूपस्येति
किं नोच्यते ? यदि च तावतैव बहुमानः, लोष्टेष्टकाप्रभृतयो वरं भवद्भ्य इति
किमतःपरं परेण कर्तव्यम् ? किं च केयं भ्रान्तिर्नाम ? न तावदलीकतैव, रूपेऽपि
प्रसङ्गात् । अथालीकत्वेऽपि न रूपे भ्रान्तिव्यवस्था किं तु विज्ञान एव ? एवं तर्हि
परिभाषामात्रमेतत् । स्वसंकेतानुरोधाच्च विभागे त्यागपरिग्रहौ । तथा च सति
रूपेऽपि तथा परिभाष्य त्यागो भवेत् । यदि तु विज्ञानमात्रवादिनो भगवतः प्राति
कूल्येन तस्यैव निरोध इष्टो न रूपस्य, तथापि किं भ्रमत्वपोषणेन ? मा भूज्जडरूपस्य
प्रत्यासत्त्या भ्रान्तिसंभावना ।
विज्ञानस्य विपर्यास उपलब्धो न जडैकरूपस्येति चेत् ? ननु विपर्यासो भ्रम
इत्येक एवार्थः, तस्यैव च स्वरूपनिरूपणमिदमिति क्वेदमुत्तरं संबध्यते ? अथातस्मिन्
491
तद्ग्रहादिर्यथासमयं प्रसिद्धो भ्रमार्थः, तर्हि तद्व्यत्ययेनाभ्रान्तिरपि विज्ञानस्योप
लब्धैव । स्यादेतत्, भ्रमस्तावद्भ्रम एवोभयसिद्धेः । अत्र सोऽपि भ्रम एव मद्विचारेण
इति ? एवं तर्हि सर्व एव भ्रम इति 114b शून्यताज्ञानमपि भ्रमः । ननु न शून्यता
ज्ञानं नाम तत्त्वेनेति चेत् ? तत्त्वतो नास्तीति भवतु, भ्रमस्तु शून्यताज्ञानमिति
कापीयं व्यवस्था । अपि च,
स एव किं भ्रान्तिरथाभ्रमो भवेत् ।
न चेत् स एव भ्रमभाववर्जितः ॥
परमार्थतो न कश्चिद् भ्रमोऽप्यभ्रम इति चेत् ? युक्तमप्येतत् । केवलं संवृतौ
यथा स्कन्धपञ्चकम्, तथा कश्चिद् भ्रमः, कश्चिदभ्रम इत्यवश्योपेयम् । न हि तदापि
नीले नीलबुद्धिर्भ्रमः, श्वेते तु स्यात् । एवं रजतबुद्ध्यादयो द्विधाभिधातव्याः, अन्यथा
न रूपस्कन्धो नाम । संवृत्या च चित्तचैत्तनिरोधो रूपस्कन्धस्थितिरिति विवक्षितम्,
तत्र च भ्रम एव । तस्य तु न सम्यग्बोधः, तदर्थमेव सर्वारम्भात् ।
अथ कदाचिज्ज्ञान एव भ्रमो दृष्टो न रूप इत्युच्यते ? स्कन्धेष्वेव दृष्ट इत्यपि
स्यात् । शास्तृसंमतेषु वा दोषदर्शनं भगवन्तमपि त्याजयेत् । अवान्तरभेदस्तु
साधारणः । प्रकृत्या भ्रान्तिरित्यपि यदि सर्वव्यक्त्यनुयायित्वं विवक्षितं, तदानेनैव
प्रत्युक्तम् । अथ क्वचिद् भ्रान्तिर्भवन्त्यपि विकृतिरेवेत्यर्थः, तथापि कथमयं निश्चयः,
उभयस्यापि दर्शनात् ? तत्रागमस्तावच्चित्तस्य प्रकृतपरिशुद्धत्वम्, आगन्तुकत्वं तु दोषाणा
मसकृदभिधत्ते, अनुभूयते च विपर्यासशङ्कया परिपीड्यमानं मनः, सम्यक्परिज्ञाने
च निर्वृतमिति विभक्तं सर्वज्ञसिद्धौ ।
न च सविकल्पाविकल्पयोरन्यतरापेक्षयेदमभिधातुं शक्यम्, द्वयोर्द्वयदर्शनात् ।
एकत्र तथाभावे वा तस्यैव प्रहाणिरस्तु, भेदाप्रतिपत्तौ वा प्रतिपत्तये शास्त्रान्तरमन्वेष
492
णीयम् । तदयमलक्षः क्षेपः प्रकृतिभ्रान्ताश्चित्तचैत्ता इति । किं च, चित्तचेत्तनिरोधश्च
धर्मकायसाक्षात्क्रिया चेति व्याहतम्, चित्तधर्मत्वात् साक्षात्क्रियायाः । साक्षात्कारोप
चारोऽसाविति चेत् ? कुतः ? गत्यन्तराभावादिति चेत् ? तत्र साक्षात्कारिचित्त
स्थितिरेवास्तु, किं निवर्तनयत्नेनेति कथं गत्यन्तराभावः ? तदेतन्नेत्रमुत्पाट्य दर्शन
कौतुकविनोदनं न प्रेक्षावतां क्षमते ।
लोष्टादयो वा धर्मकायसाक्षात्कारिणः, तेषां प्रभावातिशयाभावादिति चेत् ?
न खलु तावता धर्मकायसाक्षात्क्रिया किं त्वधिगमविशेषेण, अन्यथा मन्त्रादीनामपि
साम्याद् बुद्धत्वं च । यद्येवम्, अभावातिशयसंभवे साक्षात्क्रियया किं कर्तव्यम्,
मण्यादिवत् ? यद्येवं 115a लक्षणानुव्यञ्जनैरपि किं कर्तव्यम् ? सामर्थ्यविशेषस्य
मणिमन्त्रादिवदन्यथापि संभवादिति न धर्मकायो नापि संभोगकाय इति परिशुद्धा
बुद्धस्थितिः । अथवा रूपवदधिगमस्यापि प्रभावफलातिशयदर्शनाद्रूपमेव निवर्त्यमस्तु,
स्थाप्यं वा, द्वयमपि कस्यचित् केनचिदर्थसिद्धेः ।
सर्वसामर्थ्यस्य रूप एवारोपयितुं शक्यत्वादिति चेत् ? विज्ञान एव शक्यत्वाद्
विपर्ययोऽस्तु, नेति कोशपानं प्रमाणम् । तथाप्येकस्य स्थापने कदाचिच्चित्तभागस्यैव
स्यात्, इति न रूपस्यैव स्थितिः । रूपसामर्थ्याच्च ज्ञानसामर्थ्यस्यैव महत्त्वदर्शनात्
तत्रैव भरन्यास उचितः । कथमन्यथा विज्ञानमात्रं जगदिति नेयम् ? तस्मात् पञ्च
स्कन्धकसंवृतिपक्षेऽपि न चित्तचैत्तनिरोधः साधुः । न च सैव संवृतिः सर्वशून्यता
पक्षेऽपि ।
तस्मात् साकारचित्तस्यैव स्थितिः स्वसंवेदनसिद्धश्च धर्मकाय इति ॥
यद्येवं स्वसंवेदनस्य वस्तुविषयत्वात् कथं प्रज्ञप्तिसत् शून्यताभिधानं धर्ममात्रं
धर्मकायो भगवतः । ततः,
कस्तर्हि उत्तरतन्त्रे2588 क्लेशोपचयापचयात्यन्तापचयात् स एवायं धर्मकायः सत्त्व
धातुर्बोधिसत्त्वो बुद्ध इति चोच्यते इति दर्शितः ? यस्तत्रैव,
इत्येन धर्मधातुरित्युक्तः, स एव च प्रकृतो न तन्निष्यन्दभूतगम्भीरविचित्रनयदेशनाख्यः ।
कस्तर्हि धर्मधातुरपि ? एतदर्थमधीष्व मध्यान्तविभागमेव । यः,
इत्युक्तः, तादृक्संमोहापोहाय । तथा शून्यतापि धर्ममात्रमित्यत्रापि यदि विप्रतिपत्तिः,
इत्याद्यनेकप्रकारमनुसरत्115b तत्रैव तत्परिहारेण निराकारवस्तु किञ्चिद्
धर्मकायशब्दवाच्यमिति स्वातन्त्र्यमेतत् । ननु धर्ममात्रं संवृतिसत्, कथं स्ववेदन
विषयः ?
इत्यादि क्वचिद् विधिरूपः परामर्शः ? उच्यते,
यदा तावत् पर्युदासः, यथोक्तम्—य एव हि द्वयाभासतया भावः स एव
द्वयाभाव इति, तदा न स्वसंवेदनेन ग्रहाभावशंका ।
इत्यादि प्रसज्यपक्षेऽपि धर्मिसंवेदनस्य न द्वयाभावविकल्पोत्पादनादन्यद् द्वयाभाव
संवेदनमिति । तदर्थ प्रदेशे घटस्य तादात्म्यतदाधारतानिषेधप्रस्तावः शास्त्रे चिन्तनीयः ।
उभयथापि तदेवैकं वस्तुरूपमापद्यत इति प्रसज्यप्रतिषेधेन पर्युदासेन वा व्यवहार इति
मात्रं निर्बन्धः । यथा वा भावमात्रापेक्षयैकान्तिकभेदाभेदनिषेधेऽपि दिगम्बरमता
वतारः टीकाकारेण निषिद्धः, तथा विकल्पप्रतिभासिनि विधिरूपेऽपि निषेध्यः तस्यापि
नित्यादिरूपस्यावस्तुत्वात्, यदर्था चेयं व्यवस्था, तथोक्तं प्राक् । यथा वा स एव
धर्मकाय इति । न चान्यथा समलामलसर्वत्रगादिचिन्तायाः कश्चिदुपयोगः ।
निष्यन्दाग्रार्थे टीका च, धर्मधातुप्रभावितत्वाद् बुद्धवचनस्येति प्रस्तुत्य, सर्वाकार
परिशुद्धस्य धर्मकायाख्यस्य धर्मधातोराधिपत्येन प्रवृत्तत्वादिति । तस्मात् प्रज्ञप्तिसन्
धर्मकाय इति न सचेतसस्त्रासविषयः, तथैव युक्त्यागमाभ्यां समर्पणात् । अथवा
यत्र निष्ठा निषेधस्य, विधिरूपस्य तु यदवसायोऽपि तद् धर्मिरूपापेक्षया वस्तुसन्नेव
भगवान् धर्मकाय इति त्यज्यतां त्रासः । यथा हि प्रदेशे घटाभावः सत्य इति केवलः
प्रदेश इत्यर्थनिष्ठा, तथा द्वयाभावोऽत्रेति द्वयेन द्वयत्वेन वा रहितं ज्ञानरूपमित्यर्थः ।
एतदेवाभिसन्धाय द्विधापोहः, तस्य च वस्तुरूपे निष्ठा । धर्मिग्राहि च धर्मे प्रमाणम्
इति निर्णयः शास्त्रे । तेन धर्मधर्मिणोः, 495
वस्तुतस्तु बुद्धधर्मयोस्तादात्म्यमेव । एतेन यः सभाष्यः सूत्रालङ्कारः,
सूक्ष्मो दुर्ज्ञानतया, तेन साभोगिकेन कायेन संबद्ध इति । तत्र तादात्म्यमेव
वास्तवः संबन्धो बोद्धव्यः । यदि तर्हि संभोगबुद्धताहेतुरिति वचनात्तदुत्पत्तिरेवास्त्विति
चेत्—न, मध्यान्तविभागे 116a आर्यधर्महेतुत्वाद् धर्मधातुरार्यधर्माणां तदालम्बन
प्रभवत्वादिति वचनेन तदामुखीकरणस्य तत्र प्रभावात् तथा व्यवहार इत्यस्यार्थस्य
स्फुटीकृतत्वात् । तथा शून्यतास्वभावप्रस्तावे टीका, शून्यताभावनायाः प्रयोजनं गति
द्वयप्राप्तिमारभ्य यावद् बुद्धधर्मप्राप्तिः, स्वपरात्मनो रूपधर्मकायसम्पत्प्रकर्षः शून्यता
भावनादेवेत्येवमन्यदपि । पूर्वावस्थापेक्षया वा तदङ्गस्य तत्राधिपत्यव्यवस्था, यथा
विक्रमोऽस्य सर्वार्थसाधकः, क्षणिकता चेति । न चाकारमन्तरेण क्वचिदर्थक्रियोप
लम्भः । समस्तशुक्लेतरधर्मोत्पत्तौ तस्यैव सामर्थ्यदृष्टेः । तत्त्वामुखीकरणस्य शुक्लधर्म
जन्मनि सहकारित्वम् । तत एव निराकारात् सर्वसंभव इति चेत् ? नात्रागम इति
दर्शितम्, नापि युक्तिः काचित् । अपि च,
समक्षवृत्ति श्रयतेऽन्यकारितम् ।
यतोऽविपश्यन् सदसन्निरीक्षते ॥
कृञः कर्तृकर्मविवक्षायां णिच् । अन्यकारितमन्यक्रियामित्यर्थः । आकार
लेशो वरं हेतुफलभावं सन्तं न विपश्यति । अन्यविषयमसन्तमीक्षते । नन्वय
मात्मवादाधिकारेण सूत्रालङ्कारश्लोकः । किमतोऽप्यन्य आत्मवादो नाम ? नित्य
विभुतयोरनङ्गीकारन्नेति चेत्—न, चित्रत्वादात्मवादिनाम् । यतः,
किं च, पृथक्स्वरूपनिर्भासाभावेऽर्थक्रियायां क्वचिदुपयोगाननुभवाद् भवान्
नैव क्षणिकतामस्य स्वीकुर्यात् । तदयं निष्कलात्मवत् ज्ञानमात्रार्थकरणेऽप्ययोग्यम्
इत्यादेर्विषयः । यदा तु नित्यविभुतयोरपि धर्मकायस्य प्रतिपादनमागमे, तदा
किमुत्तरम् ? न च प्रवाहनित्यता, प्रकृतिनित्यताया एव निर्देशात् । तथा च तत्रैव,
इति । अत्र च भाष्यम्, प्रकृतिनित्यता स्वाभाविकस्य, स्वभावेनैव नित्यत्वात् ।
अश्रंसने सांभोगिकस्य, धर्मसंभोगाविच्छेदात् । प्रबन्धेन नैर्माणिकस्य, अन्तर्द्धाप्य
पुनःपुनर्निर्माणसंदर्शनादिति । विभुता चोक्तैव यथोत्तरतन्त्रम्,
अनेन किं दर्शयति ?
इति । रूपगतेष्वित्यत्र मृद्रजतसुवर्णभाजनेष्विति भाष्यम् । गतशब्दश्च प्रकारार्थो
116b वेदितव्यः । हरतेर्गतताच्छील्य इत्यत्र पतञ्जलिः2589 गतविधप्रकारा एकार्था
इति । गतताच्छील्य इति रूढिः । निर्विकल्पतयेतीत्थंभूते तृतीया । चित्तस्य प्रकृति
वैमनस्यमेव धातुस्तथता । तस्मान्नित्यव्यापित्वं मुख्यमेवोक्तम् । ततो यदि द्रव्यमेव
धर्मकायः, कथमात्मवादपरिहारः ?
अत्रापि हीनमध्यविशिष्टेष्विति धर्मिनिर्देशः । नापि व्यापित्वाभावादनात्म
वादो दिगम्बरवत्, न चात्मवादत्वेऽपि निर्बन्धः,
इति दोषस्य तद्वदेवापरिहारसिद्धेरिति । सत्त्वेऽपि च श्रद्धेयस्याकारभागस्तावत् सत्य इति
दुर्वारः । सत्ताप्रज्ञप्तिमात्रमेतत्, श्रद्धेयमेव तु वस्तुसत् । अत एवालीकः संभोगात्मा न
भिन्न एव तदाश्रयप्रकाशत्वाच्च नासंबद्ध एवेत्यपेतागमयुक्तिकं काव्यमात्रम् एतत् । स च
बुद्धनामार्थोऽलीको यस्यासौ धर्मकायः सत्य इति साध्वी स्थितिः ।
अपि च, एवमाश्रितमात्रत्वेनोपसर्जनं, बुद्धः प्रभुस्तु धर्मकाय इति धर्मस्य बुद्ध
इत्याञ्जसो निर्देशः स्यात् । अथोभयं बुद्धः, तदापि प्रत्येकं समुदायो वेति विकल्पे, एको
बुद्धस्तदंशो वालीको भ्रान्तश्च इत्यपि साधु, भ्रान्तिबुद्धयोर्विरोधात् । कथं च सोऽलीकः
संभोगात्मनि निर्माणहेतुरिष्टः ? यदाह सूत्रालङ्कारः,
इति । अत्र भाष्यम्, संभोगः स्वार्थसम्पत्तिलक्षणकायः । नैर्माणिकः परार्थसम्पत्तिलक्षणः ।
सेयं परार्थसम्पत्तिर्यथाक्रमं प्रतिष्ठिता स्वाभाविके च सांभोगिके चेति । एवं च सति फलं
धर्मकायस्य, हेतुश्च निर्माणस्य परार्थसम्पत्तेः । स्वार्थसम्पत्तिश्चासावसती च ख्यातीति
विप्लवः सर्वः । तदयं संभोगे स्वार्थसम्पत्तिवादोऽलीकताप्रतिज्ञानम् आकारेषु विधुरयति ।
एतेन श्रद्धेयस्यैव बुद्धत्वे सत्यत्वेऽपि वा संभोगः कार्यार्थमाद्रियत इति कल्पनमपास्तम् ।
तेन फलस्याणोरप्यभावात्, कलङ्करूपत्वात् च,
दास्थीयते कार्यमपेक्ष्य भूयः ।
शून्यः स्थवीयान् कथमाद्रियेत ॥
कर्मवशात् तदुदय इति न युक्तम् । एकान्तत्याज्यस्य हि हेतुः कर्मैव नारम्भम्
अर्हति, पातकान्तरवत् । कर्मापराधाद् भ्रान्तिस्तथागतस्येत्यपि सुभाषितम् । तदस्य
सर्वथोपरम एवायातः । किं च बोधिसत्त्वाभिधानैः,
आकारोपगमे मुख्यं गजस्नानमिदं भवेत् ॥
स्वीकारः पुनराकारे निकारः कोऽपर117a स्ततः ॥
इत्यन्तरश्लोकौ । 498
यदर्थलालसतया च तद्वारणं, तत्र कः शक्तिप्रतिरोधः श्रद्धेयस्य ?
तस्मान्निराकारवादिनां केवलविमलानन्तव्योमनिभाशेषशक्तिमति रूपं साध्यमिति
दर्शनान्तरमस्तु किमन्यानुषङ्गेण ? आर्यमैत्रेयनायकनयातिक्रमे हि कीदृशी बौद्धतत्त्व
स्थितिः ? संक्षेपतः स हि,
संवेद्यवेदकमिति द्वयमेव मिथ्या ।
संभोगमन्यहितहेतुनिजार्थलक्ष्मीम् ॥
न च क्वचिल्लक्षणानुव्यञ्जनादिप्रस्तावे तत्त्वतो न बुद्धरूपमिदमौपचारिकं वेति
दर्शितम् । धर्मकायप्राधान्येन बुद्धव्यवहारप्रस्तावेऽपि नासत्त्वमेव प्रतिपादितमुपचारो वा,
लक्षणादिकं चक्रवर्तिनोऽपीति दर्शनात् । सूत्रालङ्कारेऽपि,
इत्यत्र भाष्यम्, चित्रग्रहणं चक्रवर्त्यादिलक्षणेभ्यो विशेषणार्थमिति दृढीकरणमेव ।
तदतिक्रमे च यदपीदं लिखितं, भगवांस्तु प्रहीणज्ञेयावरणत्वादसंभवद्भ्रान्तिरा
दर्शनज्ञानरूपः सकलज्ञेयबिम्बोदयात् प्रतिक्षणमेकज्ञानचक्रात्मा । अत एव चक्रचिह्नः ।
सर्वज्ञेयप्रतिबिम्बसंवेदनमेवास्य सर्वज्ञेयसंबोधः । अत एव सर्वधर्मस्वरूपावबोधादति
शयेन बुद्धिरस्यास्तीति बुद्ध उच्यत इति । ततः स्वपरमेव लुप्तम्, आकारस्यैव च
भ्रान्तिव्यवस्थानात्, क्व प्रशस्तबुद्धियोगः क्व वा ज्ञेयावरणप्रहाणिरिति । अलीकमलीकमेव
वेत्तीति अतस्मिंस्तद्ग्रहभ्रान्तिवादप्रसङ्गः ।
न मन्त्रनीतिर्न च पारमीनयः ।
मनोज्ञता स्वर्गुणरत्नभूषणा ॥
इत्यन्तरश्लोकः । 499
अथेष्यत एव संभोगकायः, अलीकत्वेऽपि तत्तदर्थसमर्थश्च । सामर्थ्येऽपि वा
विशुद्धत्वादेव तदुपसंहारेण धर्मकायसाक्षात्क्रियालक्षणं नभोनिभमवस्थान्तरमिति
न दोषः ? न, एवमप्यश्रंसननित्यतातिक्रमापरिहारात् । धर्मकायविरहितश्चैवं जगदर्थ
कारी भगवानित्यायातम् । तच्च विरुध्यते, यदाह उत्तरतन्त्रम्,
इति । जातकादीनि निर्वाणपर्यन्तानि दर्शयतीति विस्तरेण संबन्धः । पुनश्च,
इत्यादि पुनर्विस्तरेण । अथ प्रकृतिपरिशुद्ध्यपेक्षया धर्मकायाविचलनमुच्यते, तदा
सर्वस्यैव प्राणिनस्तुल्यमेतदिति कोऽतिशयो भगवत एवमुक्तो भवति प्रबन्धेन ?
तस्माद् वैमल्यविशुद्ध्यपेक्षयैवायं विशेषः, केवलं धर्मकायसाक्षात्क्रियाकाले न जग
दर्थकरणमाभोगाद्यपेक्षमतः समाधिव्युत्थाने तदिति शंकानिवृत्त्यर्थः प्रयत्नः, तथा
चानाभोगानिर्माणैरिति चोक्तम् । एवं च देहत्यागेनात्मवादिनां तत्त्वाधिगमप्रवाद
निषेधसिद्धिः ।
अथापि पुनः पुनः समाधिव्युत्थानाभ्यामपि चलनं विवक्षितं, तथापि किमनेन
परिश्रमेण ? ननु,
संभोगकायं च ततोऽर्थसिद्धौ ।
र्मद्गोरिव स्वास्थ्यमृषेः कदा स्यात् ॥
न चैवमक्षुण्णविधानः परार्थः । नापि शाश्वती शुद्धिरित्यास्तां तावदेतत् ।
मा भूत् तुन्दिवृत्तान्तस्मृतिः । यच्चोक्तम्, धर्म एव बुद्ध इति, तत्र कल्पितस्यापि
भेदस्याभावाद् भिन्नप्रवृत्तिनिमित्तत्वेऽपि पर्यायत्वात् जिनमुनीन्द्रादिवत्, कुतः
कायान्तरव्यवस्था ? किं च पर्यायत्वविरोधिधर्मजिनयोस्तद्वाक्यम्,
इत्यादि । न हि बुद्धादविचलन् सुगत इति युक्तम्, बुद्धत्वादिति तु युक्तमेव । एकस्य
च प्रज्ञप्तिस्थितिमाह, तच्च वाक्यम्, यथा ब्रह्मा ब्राह्म्यादविचलन् पदादिति निदर्शनात् ।
तत्र हि ब्रह्मैव परमार्थसन् । तत्पदं तु प्रज्ञप्तिसदेव, न हि तद् वस्त्वन्तरं किञ्चन,
आश्रयोपकरणात्मभावविशेषे पदप्रज्ञप्तेः ।
यदाप्युपाधिविशेषापेक्षं स्वरूपमेवाचार्यपदवत् पदशब्दवाच्यम्, तदापि
धर्मिणः पृथगिव कल्पनया निर्दिश्यमानं प्रज्ञप्तिसदेव, तथात्रापि मुनिधर्मकायशब्द
वाच्ययोरेकस्य प्रज्ञप्तिसत्त्वमायातम्,
इति स्ववचनव्याघातः । किं चैवं मुनिरित्यपि निराकार एव स्यात्, ततश्च धर्मकायाद्
अविचलन्निति संभोग एव प्रज्ञप्तिसन् धर्मकायशब्दवाच्यः स्यादिति विपर्ययः । तस्य
द्वयशून्यता धर्मकाय इति चेत् ? तदापि कथं संभोगस्य जन्मोच्यते ? तावतैवार्थपरि
समाप्तेरित्यापादितम् ।
अथ विभागोऽस्तु काचित्कार्यकोटिः, संभोगस्य काचिन्निराकारस्येति चेत् ?
विभागेन त्वसहः क्रियाभावो व्यवस्थायाः, द्वयोरपि समानप्रौढितया ब्रह्मतत्पददृष्टान्ता
नुपपत्तेः, प्रकरणेष्वपि तथा प्रतिपादनाभावाच्च संभोगे 118a तु यथा धर्मकायो
हेतुरुक्तः, तथा दर्शितमेव । अस्तु वा संभोगेऽन्यत्र वा कार्यग्रामे कियत्यपि निराकारस्य
व्यापारः, संभोगस्य तु सिद्ध एव । ततश्चानलीकमुभयं भवेदिति परं संबन्धनीयम्,
तत् कथं संभोगस्यालीकता लोकोत्तरनिराभासज्ञानसिद्धिर्वा समुद्घुष्यते ? बाधकाद्
अलीकत्वमिति चेत् ?
प्रतिभासार्थक्रिययोरविच्छेदेन । एतेनोपसर्जनतापि प्रागुक्ता प्रत्युक्ता । किं च,
द्वयोरपि सामर्थ्यस्थितौ यदा द्वयशून्यतामेव धर्मधातुं धर्मकायापरनामिकामिच्छेत्,
युवराजानुरोधाद् वा यथा दर्शितं प्राक्, संप्रत्येव ब्रह्मपददृष्टान्ताद् वा, तदा
श्रद्धेय एव निर्माणस्य पृथक्त्वात् । सा च द्वयशून्यता संभोगस्यैव संबन्धाभि
धानात्, तस्यैव धर्मसंभोगाविच्छेदप्रतिपादनाच्च । न हि स्वसंवेदनादन्या संभुक्तिः ।
सूत्रालङ्कारेऽपि,
क्वचिज् जन्मान्तर्धि क्वचिदपि च चित्राञ्जनवराम् ।
न्न च स्थानात्तस्माद्विचलति स सर्व च कुरुते ॥
इति । स्थानादनाश्रवाद् धातोरिति भाष्यम् । स चानास्रवो धातुर्धर्मकाय इति ।
तत्साक्षात्कारस्थिरता चाविचलनार्थ इति स एवार्थः । अथवा,
इति निराकारसाकारकल्पितादिस्वभावत्रयाच्चतुर्थश्च स्वभावः प्रसक्तः, अभूतपरि
कल्पाख्यविचित्रचित्तचक्राद् भिन्नत्वात् । तदेव चित्तमभूतपरिकल्पो वेति चेत्—न,
अस्यार्थस्योपायकारैरप्यनुद्भेदितत्वात् । न चाप्रकाशं चित्तमचित्तं वा प्रकाशमानमिति ।
उक्तं च प्राक्, रूपादिष्वभूतपरिकल्पस्वभावेष्विति । तथाकल्पितविकल्पितधर्मता
रूपादिप्रस्तावो मध्यान्तविभागेऽनुसर्तव्यः । व्याख्यानमन्यथेति चेत् ? भवतु न तु
न्यायाक्षरानुरोधीति उच्यते । किं च, एवमप्याकारराशिरेव पृथक्स्वभावोऽलीकाख्यः
स्यात् । कल्पितेऽन्तर्भवतीति चेत् ? क्व कस्य कल्पना ? निराकारे आकारस्येति चेत् ?
अप्रतिभासिनि प्रतिभासमानं कल्पितमारोपितं वेति कार्यदृष्टिः, प्रकाशे त्वप्रकाशम्
आकारेऽनाकारमारोपितमन्यवदिति तस्यैव कल्पितेऽन्तर्भावः । तस्मात्,
इति 118b प्रकरणार्थः । ततो यदि प्रवचनप्रकीर्णार्थसंकलनमेव युवराजनीतिः, तदा
प्रकरणान्तरसंगतिरीदृशी ।
विवृतयस्तु भवन्तु यथारुचि ॥
तस्मान्न निराकारवादवार्तापि । ननूत्तरतन्त्रे अनुत्तरं बुद्धगुणमारभ्य श्लोकः2591,
तदाश्रिता संवृतिकायता च ।
देतच्चतुःषष्टिगुणप्रभेदम् ॥
इति । तत्र च स्वार्थपरार्थौ धर्मसंभोगकायावनूद्य परमार्थकायता संवृतिकायता च
यथाक्रमं विहिते, विसंयोगविपाकफलत्वे च । तत्र संभोगकायस्य सांवृतत्वप्रतिपादनम्
अनाकारं परमार्थमुपस्थापयतीति कथमुच्यते निराकारवार्तापि नास्तीति ? तथा च
तत्रैव विवृतिः,
इति । तदेतत् हितकामतामात्रप्रयुक्तं व्याख्यानमात्रम्, अपास्तं च प्राक् धर्मकायस्य
द्रव्यधर्मरूपतानिरूपणे । कथं च बुद्धगुणमारब्धो वक्तुं नाथः परार्थसाधनमसाधारणं
निर्माणकायमनभिधाय निर्वृणीत ? कथं वा तत्रैव,
503
इत्यनेन निर्माणस्य सांवृतत्वं व्यक्तमुक्तं विस्मृत्य धर्मकायादप्यायस्थानीकृतान्महा
धर्माधिपत्येन चक्रवर्तितुलयोत्कर्षिते संभोगकाये योजयेत् ? यदार्यनागार्जुनपादा
अपि,
इति । तदयं श्लोकार्थः । स्वार्थपरार्थौ धर्मसंभोगावनूद्य परमार्थकायव्यवहार एव
विधीयते, परमज्ञानविषयत्वात् परमसाध्यत्वाच्च तयोः । एवं परमार्थसंगृहीतकामद्वयम्
अभिधाय तृतीयमाह, तदाश्रिता संवृतिकायता-चेति । प्रतिबिम्बोपमत्वेन निर्माणस्य
सांवृतत्वप्रतिपादनात् । आश्रितत्वं च संभोगे साक्षात्, धर्मकाये पारम्पर्येणेति प्रति
पादितं प्राक् । विवृतावपि परमार्थशब्दाभिधेयकायद्वयमादिममनूद्यात्मसम्पत्त्यधिष्ठानत्वं
विहितम् । तत्र,
तस्याः संभोगकायोऽधिष्ठानमाश्रय 119a इति व्यक्तम् । धर्मकायस्तु तदाश्रयो
दर्शित एव । तृतीयं पश्चार्द्धेनाह, तत्र बिम्बोपमत्वेन लोकप्रसिद्ध्या सांवृतं पदं मूले ।
विवृतौ तु तत्त्वतो बुद्ध इति संकेतमात्रं निर्माणे । न त्वसौ बुद्ध एवेति सांकेतिकः शब्दः ।
पौरुषफलं चास्य बाह्ययोगिसाधारणमतिप्रतीतमिति न पृथक् कथ्यते । स्वरूपेण तु
त्रयोऽप्यसाधारणगुणा इत्यारब्धम् ॥
अथैवमपि परमार्थशब्दः शून्यतायां निवेशितः, कथं संभोगेऽपि व्याख्यायते ?
नैवमन्यार्थत्वात् । परमज्ञानविषयत्वेन हि शून्यता परमार्थः परमप्रयोजनत्वाच्च संभोगः
स्वार्थसम्पत्तयः । तथा च, स्वार्थशब्द एव संभोगे दर्शितः पुनरधुना धर्मकायेऽभि
504
धीयते, स्वार्थोऽर्थोऽस्मादिति कृत्वा । ततश्चार्थभेदान्न दोषः । ननु धर्मकायोऽपि साध्य
उच्यते, ततश्च स्वोऽर्थ इति न क्षतिः । सत्यं, किं तु व्यवस्थामात्रमेतत्, न तु संभोग
वन्निर्वर्त्यतया साध्यत्वमस्येति सिद्धोऽर्थभेदः । तथा च परार्थतापि निर्माणे साक्षात् ।
संभोगे तु तद्द्वारेणेत्यागमे । केवलो वा परमार्थशब्दः शून्यतापर्यायः कृतः, परमार्थकाय
इति तु धर्मधर्मिणोः प्रमाणसिद्धिनिबन्धनोऽभिधीयते इति न विरोधः । कियद् वा शक्यं
निर्बन्धुमेवंविधश्रद्धाविलसितेषु इत्यास्तां तावत् । स्थितमेतत्, न निराकारवादवार्तापीति ।
कथं तर्हि आचार्यदिग्नागपादाः पिण्डार्थे,
इति । अत्रायमर्थः, सर्वो मतावारूढ आकारो ज्ञेयतया कल्पितः । तस्य ज्ञेयतया कल्पितस्य
निषेध इति ग्राह्यत्वनिषेध इत्यर्थः । यथा,
इत्यत्राचार्यस्थिरमतिः, अर्थाभावाद् विज्ञातृत्वेन विज्ञानमसत्, न त्वर्थसत्त्वात्मविज्ञप्तिप्रति
भासतया । तदसत्त्वे हि सर्वथा अभावप्रसङ्गः, तद्व्यतिरेकेण विज्ञानस्वभावानभिधानात् ।
तद्वयतिरिक्तस्वभावत्वे वा कथं तद्विज्ञानं, कथं वा परस्परतो भिद्यत इति ? अत्र तर्हि
किं कर्तव्यम् ?
इति ।
यातु । अत्रापि तु भवत एव भ्रान्तिः, पूर्वापरापरामर्शात् । तथा हि,
इत्यत्र त्वयापि किं कर्तव्यम्, यदि प्रकाशस्यापि निषेधः क्वचिदिष्टः ? तस्मादविद्या
शब्देन विकल्प एवाभिधीयते, तया निर्मितं दर्शितमसदेव रूपं बाह्यमित्यर्थः । रूप
शून्यतयोर्हि 119b भेदाभेदनिषेधप्रस्तावे उक्तमेतदिति न दोषः । तदयं ख्यातिरध्य
वसायार्थः ।
न हि मायाहस्तिनि हस्ती भात्येव किं त्ववसीयते । तथाभ्युपगमे रजतादयोऽपि
प्रतिभान्तीति द्वैविध्यविलोपः । अतश्चैवम्,
इत्यक्षुण्णपारमितानयार्थानुगमात् । न चात्र परतन्त्रस्याप्याकारोऽसन् प्रकाशमात्रं तु
सदित्युक्तम्, येन पारमितानयादियता भेद इति स्यात् । न च स्वाभिमतं स्फुटीकृत्य
तदर्थोऽप्येवं द्रष्टव्य इत्यतिदेशः कृतः । नापि साध्ये विशेषप्रदर्शनमस्ति येन तथा
उन्नीयेत ।
साध्येति ग्राह्यग्राहकमात्रशून्यतायाः प्रतिपादनात् । अन्यथा निराभासत्वमेव वाच्यं स्यात् ।
न च स एवाकारो ग्राह्यं ग्राहकं भवितुमर्हति तल्लक्षणायोगादिति कल्पितमेव तत्त्वं भिन्नं
वा ग्राह्यादि । संभोगकायश्च लौकिक औपचारिको वेति विशेषेण निर्देश्येत, भगवत्याः
पिण्डार्थस्यारब्धत्वात्, अन्यत्र चैवमनुक्तेः । वार्तिकं चादर्श एषां किमतः परम् ? तत्
किमात्मनोऽशुचिना लेपनं परस्य ? स्वयमेव वा,
क्वचिच्च रूपं न गुणा विशेषतः ।
गुणाश्च रूपं च भवन्तमाश्रिताः ॥
इति विशेषाभिव्यक्तेरित्यलं बहुना । न चास्माकं यावत्संभवं ग्रन्थकाराशयसमर्थनयत्नः ।
एकवंशसंमतास्त्वेत इति । तथा हि,
आचार्यो वसुबन्धुरुद्घुरमतिस्तस्याज्ञयादिद्युतत् ।
स्तस्मिन् वार्तिकभाष्यकारकृतिनोरद्यानवद्या स्थितिः ॥
आर्यनागार्जुनपादानां तु भिन्नवंशत्वेऽपि साधारणैव साध्यतत्त्वस्थितिरिति
दर्शितम्, अबाध्यस्वसंवेदनस्वीकारात् । तदेवम्,
संविद्रूपमरूपमम्बरनिभं न भ्रान्तमन्ये पुनः ।
केचित् त्वेनमलीकताविरहितं यद्भाति तद् गृह्यताम् ॥
तस्मात् संभोगधर्मस्यैव धर्मकायस्य स्वसंवेदनसिद्धेः किमप120a रेण ?
स हि भवन्नपि भेदाद्भिन्नवेदनः कथं तस्य स्वभावः स्यात्, एकदेशत्वेऽपि आरूप्यधातु
सत्त्ववत् ?
ननु आदर्शादिज्ञानचतुष्टयस्वभावो भगवान् पारमितानय एव वर्णितः । तत्
कथं प्रस्तुतेऽपि विमतिरिति चेत् ? तत्रापि चित्राद्वैतस्थित्यैव निर्वाहः । निराकारे हि
तावत् परस्परं भेद एव दुर्लभः । यदाह, कथं वा परस्परतो भिद्यत इति । भेदेऽपि
परस्परासंवेदने स एव दोषः । चित्राद्वैतस्वीकारे च किमपरेण ? अथ चित्राद्वैतमपि
नोक्तमिति चेत्—न, साकारज्ञानवादितया तदाक्षेपात्, साधनवत् । न हि वार्तिक
प्रमेयराशिरपि तत्साधनैकप्रबणस्तत्रोक्तः । तस्मात् तद्वदेव तदुक्त्यैव यावती तस्य निष्ठा
साप्याक्षिप्तैव । प्रदीपेन वा प्रदीपान्वेषण एषः । एक एव भगवान् चतुर्ज्ञानस्वभाव
इति प्रस्तौति च चित्राद्वैतं च गवेषत इति । एवं चित्रलक्षणाद्युक्तयोऽपि वाच्याः ।
अतएव यदप्युक्तं सूत्रालङ्कारे, त एव विकल्पा न पुनर्द्वयाभासाः प्रवर्तन्त इत्येवं
व्यवदानं पर्येषितव्यमिति तत्रापि द्वयाभासा इति द्वयावसायिन इत्येवार्थः विकल्प
शब्दश्च नाभूतपरिकल्पार्थः, किं तु कल्पनार्थः । अतएव बहुवचनम् । युक्तं चैतत् । न
हि ग्राह्यग्राहकादृते द्वयशब्दस्य क्वचिदन्योऽर्थ उक्तः । न च तयोः साक्षात् ख्यातिः,
किं त्ववसाय एव, मायाहस्तिनि हस्तिवत् । अन्यथा च यदैव सर्वाकारक्षयस्तदैव
व्यवदानमिति कथं संभोगः स्वार्थसंपत्तिरिति सर्वव्यवस्थाविलोपः । आकाराना
कारयोरसत्यसत्यताप्रतिपादनाभावाच्च कथं तत्परिहारः ? अतएवोन्नीयतामिति चेत्—
न, अन्यदर्थत्वात् । तथा प्रतिपादने तु नान्यार्थकल्पना । तथा च तत्रैव,
इत्यत्र भाष्यम्, मनोजन्यमात्रानर्थान् विदित्वा तदाभासे चित्तमात्रे व्यवस्थानमियं
बोधिसत्त्वस्य निर्वेधभागीयावस्था । ततः परेण धर्मधातोः प्रत्यक्षतागमनम्, यो
द्वयलक्षणेन विमुक्तो ग्राह्यग्राहकलक्षणेन । इयं दर्शनमार्गावस्थेति । न चात्र निर्वेध
भागीयावस्थापि, तस्याकारस्य दर्शनमार्गावस्थायां भ्रंश उक्तः । नापि क्वचिद् भावना
मार्गे, ग्राह्यग्राहकलक्षणक्षयस्तु सर्वत्र । तस्माद् ग्राह्यग्राहकसंगृहीतप्रपञ्चकल्पना न
पुनर्भवन्तीति व्यवदानपर्येषणार्थः ।
ननु भावनामार्गसंगृहीतायां सप्तम्यां भूमौ साभोगमनाभोगम्, अष्टम्यां निमित्त
वर्जनमुक्तम्, निमित्तं चाकार एव, किमियं नागलोक120b भाषा, आचार्यमुष्टिर्वा ?
अथाकारो भ्रान्तिनिमित्तं प्रपञ्चनिर्मितमुच्यते भ्रान्त्यवलम्बनत्वात् ? नान्वास्तां
तावदाकारो बाह्यस्यापि सतो न भ्रान्तिहेतुतानियमः वासनामात्रानुबद्धत्वात् तस्याः ।
यद्यपि च सादृश्यमपि स्थिरभ्रान्तेः साधनमुक्तम्, तथाप्यनार्यस्येति वासनाविशेष
एवावशिष्यते । यदि च कदाचिद् भ्रान्तिसंवासात् परिहारः, निराकारस्यैव प्रथममस्तु ।
यदेव वा किञ्चिद् भ्रान्तिनिमित्तमुपपादयितुं शक्यमनाकारदर्शनादिवत् तदेव निवर्त्यं
निमित्तशब्दाभिधेयमिति कथमस्यां भणितावाश्वासः ? स्वयमेव च परिकल्पितेषु
धर्मेषु कार्यकारणाभावो निषिध्यते, तेषामलीकत्वादित्युच्यते । अलीकसंमतस्य चाकारस्य
भ्रान्तौ शक्तिरिति सुव्यवस्थम् । तदालम्बनविकल्पद्वारेण तस्य शक्तिरुच्यत इति
चेत् ? विकल्प एव हेयोऽस्तु । स चाकारः स्वयमेव भ्रमो भवतामिति किं निमित्त
508
वचनेन ? प्रबन्धापेक्षया च सर्वहेयानां निमित्तशब्देनैव चोदनप्रसङ्गः । निरालम्बनस्य
च भ्रान्तालम्बनत्वं, न तावत् तत्त्वतः । संवृत्त्या च भवदपि न हेयताहेतुरिति किमनेन
पूतिकुष्माण्डस्थानीयेन ?
तस्मात् प्रसिद्ध एव भेदव्यवहारहेतुर्विप्रयुक्तसंस्कारो वस्तुधर्मसंमतो निमित्त
शब्देन गृह्यतां यदुद्ग्रहः संज्ञोच्यते हेयश्च, भिन्नस्य तस्याभावात् । यदि तर्हि तस्यापि
स्वालम्बनविकल्पद्वारेणैव भेदव्यवहारकारणत्वमेष्टव्यम्, ततो विकल्प एव हेयः ।
सत्यं, तदेव तस्य हानं स्वयं स्फुरणाभावादाकारवत् । यदि चाकारपरिहारः, तदा अत
एवास्यां भूमावुपायपारमितातिरिक्ततरा भवति, यतः सर्वनिमित्तान्यनिमित्तत्वेन
प्रतिविध्यति, तत्कृतं च व्यवहारं न विरोधयतीति न व्याख्यानविरोधः । तत्कृतो हि
व्यवहारो भेदव्यवहार एव भाष्यटीकाभ्यां दर्शितः । स चाकारविरहिणो मनोरथस्या
प्यविषयः । न च तदैवाकारपरिभवे भगवतामादर्शज्ञानसंभवः । लौकिकं तदिति
स्वकपोलविलसितम्, आर्यराजस्मृतेरभावात् । कथं तर्हि सूत्रालंकारे, आदर्शज्ञान
निर्देश एव सर्वज्ञेयेष्वसंमूढं, न च तेष्वामुखं सदेत्यत्र भाष्यम्, न च तेष्वामुखमना
कारत्वाद् इति । नायं दोषः, वस्तुज्ञानप्रकाराणामाकारा इति लक्षणमित्यभिप्रायेणो
क्तत्वात् । तद्ग्रहणप्रकाराभावान्नामुखमुच्यते ज्ञेयप्रतिबिम्बोदयेऽपीत्यर्थः । एतच्चा
दर्शज्ञानत्वादेव सुव्यक्तम् । तथा चानन्तरमेव,
इत्यत्र 121a भाष्यम्, संभोगबुद्धश्च तत्, ज्ञानप्रतिबिम्बोदयाच्च तदादर्शज्ञान
मित्युच्यत इति । तस्मादर्थसत्त्वप्रतिभासस्यानाकारत्वादित्यत्राप्यग्राहकत्वादिति युक्तं
विभक्तमाचार्यस्थिरमतिना । तथा चार्यवसुबन्धुपादैः स्वयमनाभासशब्दस्याप्यन्यत्र
निर्विषयार्थत्वं व्याख्यातमिति दर्शितमेव ॥
कथं पुनर्ज्ञेयाभावे ज्ञेयप्रतिबिम्बोदय एव ? उच्यते, यथा यथा पूर्वं बाह्यतो
विज्ञानमात्रतो वा विश्वमभिनिविश्य महाकरुणया परार्थसंपादनाभिप्रायस्य प्रति
परमाणुप्रतिक्षणसर्वाकारसर्ववेदनप्रणिधिः, तथा तथैव ज्ञानोदयः । तत्र च बहिरर्था
भावेऽपि चित्तसन्ततिविवर्तभेदेन भिन्नभिन्ना आकारास्तावत् सन्ति, तदाकारोत्पत्ति
संवेदनमेव तत्संवेदनम् । न च बाह्ये जडेऽप्येष प्रसङ्गः, प्रकाशस्यैव सत्ताप्रसाधनात् ।
ततः सन्तानान्तरमितरस्याप्रकाशमपि स्वप्रकाशं सदेव । जडस्य तु नैवं, जडत्वप्रच्युति
509
प्रसङ्गात् । युक्तमेतत्, केवलं सन्तानान्तरस्य सत्तायामेव क आश्वासः ? ननु तदर्थमेव
सन्तानान्तरसिद्धिः, इह पुनरप्रकृतमेतत् ॥
ननु गम्भीरस्तत्राशयो नास्माकमवधारणसहः, तत्प्रतिबिम्बसंवेदनं च सार्वज्ञ्यं
प्रकृतमेव । प्रणिधानं हि परचित्ताकारापेक्षं, तद् यदि परस्तथा भवतु मा वा, मया तु
एवंरूपेण एवंपरिवारभाजनोपकरणेन भाव्यमिति नियतरूपभावनादेव तदाकारोदयः । तदेव
च सर्ववेदनं, तदा न क्षतिः । यदा तु परस्य प्रश्नाकारोदयस्तदा हन्त प्रतिविसर्जनाकारः
स्यामिति प्रणिधिरेव साधनम्, तदा तदीयसत्तायामेव तथा युज्यते । एवमपि प्रणिधेस्तावन्न
क्षतिरधिमोक्षसंभवात् । सति च सन्तानान्तरे तथा सेत्स्यति, असत्यपि स्वरूपाधारोप
करणसंपत्तिरेव शुभसञ्चयसचिवस्य भविष्यतीति न साध्यक्षतिः । त एव च स्वाकारा
ज्ञेयारोपाज्ञेयप्रतिबिम्बशब्दवाच्या इति ॥
प्रणिधिरपि कथमनिश्चये ? परोपदेशात् सत्त्वाधिमोक्षाद् बाधकाभावाच्च ।
न च कश्चिद् दोषः । इयमेव वा स्वार्थसामग्रीति । अत्र च चित्राद्वैतवादितया
भाष्यकारमते बुद्धबोधिसत्त्वादिप्रतिक्षेपात् क्व परोपदेश इति निराकारपक्षपातेन
द्वेषविषधरायितं केषाश्चित् । तत्रायं मन्त्रपाठः,
तथा हि, युवराजप्रभृतिभिः साकारवादितया आक्षिप्त उक्तश्च साक्षात् ।
वार्तिककारेण च 121b साधितोऽयं चित्राद्वैतवादः । तद्भाष्यकारश्च दूष्यते । सोऽयं
चौरापराधेन माण्डव्यनिग्रहः । अथवा,
एवं हि वदता न तत्त्वं न संवृतिर्न स्वपक्षो न परपक्षश्चालोचितः । तथा हि,
न्यक्कारः कोऽपरोऽस्मान्ननु भवतु ततो दुर्लभः संशयोऽपि ।
नाशंसा संशयोऽपि स्वविदि कथमिदं विद्धि धान्ध्यं विधूय ॥
न हि निराकारमित्येव पुरुषकारः कश्चिदस्य येन परवेदनमुपनयेत्, स्थितिहानि
प्रसङ्गात् । नापि तद्वाद्यपज्ञमुपादानाभेदोऽप्यत्र संभवी । शेषं समानम् ।
किं नार्थ्यते निश्चय एव तस्याः ।
चित्राद्वयं तत्त्वत एव गीतम् ॥
विचित्रं च चित्राद्वैतमादर्शितम् । तत्र चेकोपाधिरन्यत्र वचनादिविज्ञप्त्या
अनुमीयमानमन्यचेतः किमङ्ग साकारवादविद्वेषादङ्गमाकर्षेत् ? एकोपाधि तु संवृताव
सदेव । संवृत्तौ चानुमानमन्वेषसे ? अथवा,
र्बाह्येऽसावलसापि नापरधियः सत्त्वं विना प्राणिति ।
प्रत्यक्षस्य पदं स्ववेदनतनोर्मानं किमन्यत् ततः ॥
इति न्यायः । न तदा परोपदेशापेक्षा, यदापेक्षा तदानुमानमनिवारितम् । तन्निवारण
मेवाद्वयसाक्षात्क्रियोच्यते । तदपि न दूरमस्माकम् । आकाशीभाव एव हि भवतोऽति
रिच्यते, न च तेनानुमानमन्यद् वा । तस्माद् गम्भीर एवायं विषयः तदनिश्चयेऽपि
सत्ताधिमोक्षे यथाशक्तिपरीक्षिताप्तोपदेशेन प्रवर्तमानो व्यवहारः कथं परिहर्तुं शक्यः ?
मध्यमानयेऽप्ययमेव न्यायः, सांवृतत्वादात्मपरतादेः । न च तत्र परोऽपि संवृतौ प्रतिभाति
तावदिति शक्यम्, तदाप्यनुमानैकशरणत्वात् । न च मध्यमाधीमात्रवादयोर्भेदस्तत्त्वत
इत्युपपादितमेतत् । अपि च,
अपूर्वोऽयं शून्यतावाद इति चेत् ? युवराजेनैकेन दर्शितेऽवान्तरप्रमाणपुरुष
संवादोऽप्यतिरिच्यते, किमन्यसाहायकेन ? उक्तं च चन्द्रप्रदीपे,
511
न च प्रजानन्ति यथा निरात्मकाः ।
क्रोधाभिभूताः परुषं वदन्ति ॥
इति । तस्माद्विचारः शरणमिति सोऽपि यथाकथञ्चित् कृत एव ॥
कथं तर्हि स्थितिचतुष्ट122a यव्यवस्थेति चेत्— उच्यते । नानयोर्बाह्यवादवद्
द्रव्यत एव भेदः, किं त्वभिन्न एव वस्तुनि प्रतिपाद्ये विधिनिषेधद्वारव्यवहारः कृतः ।
स च विनेयभेदात् । द्विविधो हि संक्षेपाद् विनेयजनः, आरोपचरितोऽपवादचरितश्च,
तत्रापवादचरिताशयवशात् प्रतिभासमात्रपर्यन्तसत्तोल्लेखिनी विधिमुखेन भगवतो
देशना, तावता विज्ञाननयप्रसिद्धिः । आरोपचरितं तु प्रति सर्वधर्मशून्यतादेशना
प्रतिषेधमुखेन मध्यमास्थितिरित्युच्यते । सर्वारोपव्यवच्छेदेऽपि हि चित्रप्रतिभास
मात्रमिदमिदानीमशक्यापह्नवमिति स्वयमाक्षेपात् । उच्छेदचरितस्यापि विज्ञाने सत्तां
गृह्णतो प्रतिभासमात्ररूपैवास्यापि सत्तेत्येकसिद्धान्तनिष्ठा, साधर्म्यवैधर्म्यवाक्यवत् ।
आरोपचरितस्य प्रायशः संभवापेक्षया तन्मुखदेशनाविस्तरः । तथा हि,
स्फुरति यदिह न्यस्तं किञ्चित्तदेव सुदुःसहम् ।
श्चिरमिव यथा भावस्यात्मा तलेन तलं गतः ॥
अतएव विकल्पितविशेषणमनपेक्ष्य सर्वमेव नास्तीत्यपि साधु समारोपशीलं
प्रति । स ह्यलस इव गाढप्रेरितो भित्तौ स्थास्यतीति भावः । तदनयोरेकवंशतया तत्त्वतो
बान्धवत्वादमूलकः कलहः । यथा,
न चात्र प्रमेयभेदः, अन्यत्र सच्छब्दप्रयोगाप्रयोगाभिमानात् । न चेच्छाचरितस्य
शब्दस्य प्रयोगेऽप्रयोगे वोपचयापचयाविति कलहवारणमपि सुकरम् । ये तु प्रतिभास
मानमप्यपवदन्ति, चित्राकारमप्रकाशं प्रकाशसंज्ञितमतिरिक्तमारोपयन्ति, अर्थशक्त्या
दिकं वा साध्यमपूर्वम्, तेऽर्थशक्तिमात्रकल्पकेभ्योऽपि विज्ञानवादिभ्यो दूरमपक्रान्त
512
त्वात् न बन्धुत्वभाजः । कलहश्चैकपर्यवसान इति । तस्माद् वस्तुतो मध्यमायोगाचार
योरप्यद्वैतमेव । नापि स्थितिचतुष्टयव्यवस्थादौःस्थ्यम्, सर्वत्राविरोधाच्च समन्तभद्रत्वे
अपि नानिर्वृतिः ॥
यत् तूक्तम्, नोचेत् नित्यमिदमद्वयमेवेति । छेकोक्तिरियं निराकारनिरसनपरा,
इतरमाध्यमिकापेक्षया वा । तत्त्वतस्तु,
रेकेन न द्वितयमद्वितयं न ताभ्याम् ।
को भाष्यकारमतमध्यमयोर्विशेषः ॥
तेषां प्रकाशवपुषोऽपि निषेध एव ।
मार्गोऽयमात्मविदि साहसभारसारः ॥
भाष्यकारस्य च प्रतिराज122b स्थानीयस्योत्थापनम्, परप्रसिद्ध्या वा ।
नायकस्तु वार्तिककार एवात्र युवराजनीतिप्रसाधनपदे संप्रतीत्यभिव्यक्तमेतत् । किं
च भूयः,
मुल्लंघते स्वरुचिमाह यदाकृतीनाम् ।
रीतिस्ततो नयनिधेरपि सैव सिद्धा ॥
शास्तुर्मूर्त इव प्रभावमहिमाचायः स्तुतिस्तस्य का ।
धन्यानां परमार्थसम्पदि मुदे दुर्गाधमेयाम्बुधिः ॥
आरब्धं शिशुनापि चापलबलाच्छ्रुत्वापि भीतिर्यतः ।
सिन्धोरस्य गुणः स वेपितवियद्वेलावलीमालिनः ॥
प्राप्योद्भेदमिदं पदं प्रति शिशुक्रीडानुकारेऽपि यत् ।
ज्ञानश्रीवशितोपनीतपरमानन्दैककन्दाङ्कुरः ॥
कृतिर्महापण्डितज्ञानश्रीमित्रपादानामिति ॥