111b योगाचारदर्शनमेतत्
परिनिष्ठितमिति कोऽयं क्रमः ? नैष दोषः, अस्यापि भगवतैवोक्तस्य नीतनेयविभागकारितया
तद्व्याकृतैरार्यैर्युवराजपर्यन्तैः प्रतिगृहीतस्याचार्यैः प्रसाधितस्योल्लाघश्लाघत्वात् ।
साकारसिद्धिश्चेयमुपक्रान्ता । ननु तथापि परस्परविरोधिद्वयमपि न सत्यम्, तत्रैकहृदयोऽपि
स्वयं दैशिको भगवान् विनेयापेक्षया नेयमप्युपदिशेत्, भूमिलाभिनस्तु दृष्टसत्याः कथमे
कैकपक्षपातिनः एकैकमतदेशनात् ? विशिष्टान्यदेशने हि परानुरोधादेतदिति स्यात् ।
परमगम्भीरश्च मन्त्रनयसमय एते एव स्थिती समाश्रित्य ययोरियान् विरोध इति कथं
हृदयनिर्वृतिः समन्तभद्रत्वेऽपि ? उच्यते,

विरोधः पौरुषेयोऽत्र वस्त्वेकमुभयस्थितौ ।
समारोपापवादान्तमुक्तं हि मुनिशासनम् ॥

अत्र हि चित्रप्रकाशराशौ नाप्रकाशकणस्यारोपः सह्यो, नापि प्रकाशलेश
स्यापवादः,

शल्येन विशताङ्गेन च्छिद्यमानेन वा यथा ।
व्यथारोपापवादाभ्यां तथेह स्फुरदाकृतौ ॥
अपवादो न संवृत्त्या नारोपस्तत्त्वतो यदि ।
न तौ द्वावपि तत्त्वेन यदि किं वा विरुध्यते ॥

तथा सदसल्लक्षणनिर्देशे आर्यस्वामी,
अभूतपरिकल्पोऽस्ति द्वयं तत्र न विद्यते ।
शून्यता विद्यते त्वत्र तस्यामपि स विद्यते ॥
म. वि. १. २
अभूतपरिकल्पस्तु चित्तचैत्तास्त्रिधातुकाः ।
तत्रैव १. ९